Srimad Bhagavatam | Canto 8 | Chapter 6 | Verses

0
3

The Demigods and Demons Declare a Truce

Text 1

श्रीशुक उवाच
एवं स्तुत: सुरगणैर्भगवान् हरिरीश्वर: ।
तेषामाविरभूद् राजन्सहस्रार्कोदयद्युति: ॥ १ ॥

Text 2

Texts 3-7

विरिञ्चो भगवान्‍द‍ृष्ट्वा सह शर्वेण तां तनुम् ।
स्वच्छां मरकतश्यामां कञ्जगर्भारुणेक्षणाम् ॥ ३ ॥
तप्तहेमावदातेन लसत्कौशेयवाससा ।
प्रसन्नचारुसर्वाङ्गीं सुमुखीं सुन्दरभ्रुवम् ॥ ४ ॥
महामणिकिरीटेन केयूराभ्यां च भूषिताम् ।
कर्णाभरणनिर्भातकपोलश्रीमुखाम्बुजाम् ॥ ५ ॥
काञ्चीकलापवलयहारनूपुरशोभिताम् ।
कौस्तुभाभरणां लक्ष्मीं बिभ्रतीं वनमालिनीम् ॥ ६ ॥
सुदर्शनादिभि: स्वास्त्रैर्मूर्तिमद्भ‍िरुपासिताम् ।
तुष्टाव देवप्रवर: सशर्व: पुरुषं परम् ।
सर्वामरगणै: साकं सर्वाङ्गैरवनिं गतै: ॥ ७ ॥

Text 8

श्रीब्रह्मोवाच
अजातजन्मस्थितिसंयमाया-
गुणाय निर्वाणसुखार्णवाय ।
अणोरणिम्नेऽपरिगण्यधाम्ने

Text 9

रूपं तवैतत् पुरुषर्षभेज्यं
श्रेयोऽर्थिभिर्वैदिकतान्त्रिकेण ।
योगेन धात: सह नस्त्रिलोकान्
पश्याम्यमुष्मिन्नु ह विश्वमूर्तौ ॥ ९ ॥

Text 10

त्वय्यग्र आसीत् त्वयि मध्य आसीत्
त्वय्यन्त आसीदिदमात्मतन्त्रे ।
त्वमादिरन्तो जगतोऽस्य मध्यं
घटस्य मृत्स्‍नेव पर: परस्मात् ॥ १० ॥

Text 11

त्वं माययात्माश्रयया स्वयेदं
निर्माय विश्वं तदनुप्रविष्ट: ।
पश्यन्ति युक्ता मनसा मनीषिणो
गुणव्यवायेऽप्यगुणं विपश्चित: ॥ ११ ॥

Text 12

यथाग्निमेधस्यमृतं च गोषु
भुव्यन्नमम्बूद्यमने च वृत्तिम् ।
योगैर्मनुष्या अधियन्ति हि त्वां
गुणेषु बुद्ध्या कवयो वदन्ति ॥ १२ ॥

Text 13

तं त्वां वयं नाथ समुज्जिहानं
सरोजनाभातिचिरेप्सितार्थम् ।
द‍ृष्ट्वा गता निर्वृतमद्य सर्वे
गजा दवार्ता इव गाङ्गमम्भ: ॥ १३ ॥

Text 14

स त्वं विधत्स्वाखिललोकपाला
वयं यदर्थास्तव पादमूलम् ।
समागतास्ते बहिरन्तरात्मन्
किं वान्यविज्ञाप्यमशेषसाक्षिण: ॥ १४ ॥

Text 15

अहं गिरित्रश्च सुरादयो ये
दक्षादयोऽग्नेरिव केतवस्ते ।
किं वा विदामेश पृथग्विभाता
विधत्स्व शं नो द्विजदेवमन्त्रम् ॥ १५ ॥

Text 16

श्रीशुक उवाच
एवं विरिञ्चादिभिरीडितस्तद्
विज्ञाय तेषां हृदयं यथैव ।
जगाद जीमूतगभीरया गिरा
बद्धाञ्जलीन्संवृतसर्वकारकान् ॥ १६ ॥

Text 17

एक एवेश्वरस्तस्मिन्सुरकार्ये सुरेश्वर: ।
विहर्तुकामस्तानाह समुद्रोन्मथनादिभि: ॥ १७ ॥

Text 18

श्रीभगवानुवाच
हन्त ब्रह्मन्नहो शम्भो हे देवा मम भाषितम् ।
श‍ृणुतावहिता: सर्वे श्रेयो व: स्याद् यथा सुरा: ॥ १८ ॥

Text 19

यात दानवदैतेयैस्तावत् सन्धिर्विधीयताम् ।
कालेनानुगृहीतैस्तैर्यावद् वो भव आत्मन: ॥ १९ ॥

Text 20

अरयोऽपि हि सन्धेया: सति कार्यार्थगौरवे ।
अहिमूषिकवद् देवा ह्यर्थस्य पदवीं गतै: ॥ २० ॥

Text 21

अमृतोत्पादने यत्न: क्रियतामविलम्बितम् ।
यस्य पीतस्य वै जन्तुर्मृत्युग्रस्तोऽमरो भवेत् ॥ २१ ॥

Texts 22-23

क्षिप्‍त्वा क्षीरोदधौ सर्वा वीरुत्तृणलतौषधी: ।
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥ २२ ॥
सहायेन मया देवा निर्मन्थध्वमतन्द्रिता: ।
क्लेशभाजो भविष्यन्ति दैत्या यूयं फलग्रहा: ॥ २३ ॥

Text 24

यूयं तदनुमोदध्वं यदिच्छन्त्यसुरा: सुरा: ।
न संरम्भेण सिध्यन्ति सर्वार्था: सान्‍त्वया यथा ॥ २४ ॥

Text 25

न भेतव्यं कालकूटाद् विषाज्जलधिसम्भवात् ।
लोभ: कार्यो न वो जातु रोष: कामस्तु वस्तुषु ॥ २५ ॥

Text 26

श्रीशुक उवाच
इति देवान्समादिश्य भगवान् पुरुषोत्तम: ।
तेषामन्तर्दधे राजन्स्वच्छन्दगतिरीश्वर: ॥ २६ ॥

Text 27

अथ तस्मै भगवते नमस्कृत्य पितामह: ।
भवश्च जग्मतु: स्वं स्वं धामोपेयुर्बलिं सुरा: ॥ २७ ॥

Text 28

द‍ृष्ट्वारीनप्यसंयत्ताञ्जातक्षोभान्स्वनायकान् ।
न्यषेधद् दैत्यराट् श्लोक्य: सन्धिविग्रहकालवित् ॥ २८ ॥

Text 29

ते वैरोचनिमासीनं गुप्तं चासुरयूथपै: ।
श्रिया परमया जुष्टं जिताशेषमुपागमन् ॥ २९ ॥

Text 30

महेन्द्र: श्लक्ष्णया वाचा सान्‍त्वयित्वा महामति: ।
अभ्यभाषत तत् सर्वं शिक्षितं पुरुषोत्तमात् ॥ ३० ॥

Text 31

तत्त्वरोचत दैत्यस्य तत्रान्ये येऽसुराधिपा: ।
शम्बरोऽरिष्टनेमिश्च ये च त्रिपुरवासिन: ॥ ३१ ॥

Text 32

ततो देवासुरा: कृत्वा संविदं कृतसौहृदा: ।
उद्यमं परमं चक्रुरमृतार्थे परन्तप ॥ ३२ ॥

Text 33

ततस्ते मन्दरगिरिमोजसोत्पाट्य दुर्मदा: ।
नदन्त उदधिं निन्यु: शक्ता: परिघबाहव: ॥ ३३ ॥

Text 34

दूरभारोद्वहश्रान्ता: शक्रवैरोचनादय: ।
अपारयन्तस्तं वोढुं विवशा विजहु: पथि ॥ ३४ ॥

Text 35

निपतन्स गिरिस्तत्र बहूनमरदानवान् ।
चूर्णयामास महता भारेण कनकाचल: ॥ ३५ ॥

Text 36

तांस्तथा भग्नमनसो भग्नबाहूरुकन्धरान् ।
विज्ञाय भगवांस्तत्र बभूव गरुडध्वज: ॥ ३६ ॥

Text 37

गिरिपातविनिष्पिष्टान्विलोक्यामरदानवान् ।
ईक्षया जीवयामास निर्जरान् निर्व्रणान् यथा ॥ ३७ ॥

Text 38

गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया ।
आरुह्य प्रययावब्धिं सुरासुरगणैर्वृत: ॥ ३८ ॥

Text 39

अवरोप्य गिरिं स्कन्धात् सुपर्ण: पततां वर: ।
ययौ जलान्त उत्सृज्य हरिणा स विसर्जित: ॥ ३९ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here