Lord Śiva Saves the Universe by Drinking Poison
Text 1
श्रीशुक उवाच
ते नागराजमामन्त्र्य फलभागेन वासुकिम् ।
परिवीय गिरौ तस्मिन् नेत्रमब्धिं मुदान्विता: ।
आरेभिरे सुरा यत्ता अमृतार्थे कुरूद्वह ॥ १ ॥
Text 2
हरि: पुरस्ताज्जगृहे पूर्वं देवास्ततोऽभवन् ॥ २ ॥
Text 3
तन्नैच्छन् दैत्यपतयो महापुरुषचेष्टितम् ।
न गृह्णीमो वयं पुच्छमहेरङ्गममङ्गलम् ।
स्वाध्यायश्रुतसम्पन्ना: प्रख्याता जन्मकर्मभि: ॥ ३ ॥
Text 4
इति तूष्णीं स्थितान्दैत्यान् विलोक्य पुरुषोत्तम: ।
स्मयमानो विसृज्याग्रं पुच्छं जग्राह सामर: ॥ ४ ॥
Text 5
कृतस्थानविभागास्त एवं कश्यपनन्दना: ।
ममन्थु: परमं यत्ता अमृतार्थं पयोनिधिम् ॥ ५ ॥
Text 6
मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यपोऽविशत् ।
ध्रियमाणोऽपि बलिभिर्गौरवात् पाण्डुनन्दन ॥ ६ ॥
Text 7
ते सुनिर्विण्णमनस: परिम्लानमुखश्रिय: ।
आसन् स्वपौरुषे नष्टे दैवेनातिबलीयसा ॥ ७ ॥
Text 8
विलोक्य विघ्नेशविधिं तदेश्वरो
दुरन्तवीर्योऽवितथाभिसन्धि: ।
कृत्वा वपु: कच्छपमद्भुतं महत्
प्रविश्य तोयं गिरिमुज्जहार ॥ ८ ॥
Text 9
तमुत्थितं वीक्ष्य कुलाचलं पुन:
समुद्यता निर्मथितुं सुरासुरा: ।
दधार पृष्ठेन स लक्षयोजन-
प्रस्तारिणा द्वीप इवापरो महान् ॥ ९ ॥
Text 10
सुरासुरेन्द्रैर्भुजवीर्यवेपितं
परिभ्रमन्तं गिरिमङ्ग पृष्ठत: ।
बिभ्रत् तदावर्तनमादिकच्छपो
मेनेऽङ्गकण्डूयनमप्रमेय: ॥ १० ॥
Text 11
तथासुरानाविशदासुरेण
रूपेण तेषां बलवीर्यमीरयन् ।
उद्दीपयन् देवगणांश्च विष्णु-
र्दैवेन नागेन्द्रमबोधरूप: ॥ ११ ॥
Text 12
उपर्यगेन्द्रं गिरिराडिवान्य
आक्रम्य हस्तेन सहस्रबाहु: ।
तस्थौ दिवि ब्रह्मभवेन्द्रमुख्यै-
रभिष्टुवद्भि: सुमनोऽभिवृष्ट: ॥ १२ ॥
Text 13
उपर्यधश्चात्मनि गोत्रनेत्रयो:
परेण ते प्राविशता समेधिता: ।
ममन्थुरब्धिं तरसा मदोत्कटा
महाद्रिणा क्षोभितनक्रचक्रम् ॥ १३ ॥
Text 14
अहीन्द्रसाहस्रकठोरदृङ्मुख-
श्वासाग्निधूमाहतवर्चसोऽसुरा: ।
पौलोमकालेयबलील्वलादयो
दवाग्निदग्धा: सरला इवाभवन् ॥ १४ ॥
Text 15
देवांश्च तच्छ्वासशिखाहतप्रभान्
धूम्राम्बरस्रग्वरकञ्चुकाननान् ।
समभ्यवर्षन्भगवद्वशा घना
ववु: समुद्रोर्म्युपगूढवायव: ॥ १५ ॥
Text 16
मथ्यमानात् तथा सिन्धोर्देवासुरवरूथपै: ।
यदा सुधा न जायेत निर्ममन्थाजित: स्वयम् ॥ १६ ॥
Text 17
मेघश्याम: कनकपरिधि: कर्णविद्योतविद्यु-
न्मूर्ध्नि भ्राजद्विलुलितकच: स्रग्धरो रक्तनेत्र: ।
जैत्रैर्दोर्भिर्जगदभयदैर्दन्दशूकं गृहीत्वा
मथ्नन् मथ्ना प्रतिगिरिरिवाशोभताथो धृताद्रि: ॥ १७ ॥
Text 18
निर्मथ्यमानादुदधेरभूद्विषं
महोल्बणं हालहलाह्वमग्रत: ।
सम्भ्रान्तमीनोन्मकराहिकच्छपात्
तिमिद्विपग्राहतिमिङ्गिलाकुलात् ॥ १८ ॥
Text 19
तदुग्रवेगं दिशि दिश्युपर्यधो
विसर्पदुत्सर्पदसह्यमप्रति ।
भीता: प्रजा दुद्रुवुरङ्ग सेश्वरा
अरक्ष्यमाणा: शरणं सदाशिवम् ॥ १९ ॥
Text 20
विलोक्य तं देववरं त्रिलोक्या
भवाय देव्याभिमतं मुनीनाम् ।
आसीनमद्रावपवर्गहेतो-
स्तपो जुषाणं स्तुतिभि: प्रणेमु: ॥ २० ॥
Text 21
श्रीप्रजापतय ऊचु:
देवदेव महादेव भूतात्मन् भूतभावन ।
त्राहि न: शरणापन्नांस्त्रैलोक्यदहनाद् विषात् ॥ २१ ॥
Text 22
त्वमेक: सर्वजगत ईश्वरो बन्धमोक्षयो: ।
तं त्वामर्चन्ति कुशला: प्रपन्नार्तिहरं गुरुम् ॥ २२ ॥
Text 23
गुणमय्या स्वशक्त्यास्य सर्गस्थित्यप्ययान्विभो ।
धत्से यदा स्वदृग् भूमन्ब्रह्मविष्णुशिवाभिधाम् ॥ २३ ॥
Text 24
त्वं ब्रह्म परमं गुह्यं सदसद्भावभावनम् ।
नानाशक्तिभिराभातस्त्वमात्मा जगदीश्वर: ॥ २४ ॥
Text 25
त्वं शब्दयोनिर्जगदादिरात्मा
प्राणेन्द्रियद्रव्यगुण: स्वभाव: ।
काल: क्रतु: सत्यमृतं च धर्म-
स्त्वय्यक्षरं यत् त्रिवृदामनन्ति ॥ २५ ॥
Text 26
अग्निर्मुखं तेऽखिलदेवतात्मा
क्षितिं विदुर्लोकभवाङ्घ्रिपङ्कजम् ।
कालं गतिं तेऽखिलदेवतात्मनो
दिशश्च कर्णौ रसनं जलेशम् ॥ २६ ॥
Text 27
नाभिर्नभस्ते श्वसनं नभस्वान्
सूर्यश्च चक्षूंषि जलं स्म रेत: ।
परावरात्माश्रयणं तवात्मा
सोमो मनो द्यौर्भगवन् शिरस्ते ॥ २७ ॥
Text 28
कुक्षि: समुद्रा गिरयोऽस्थिसङ्घा
रोमाणि सर्वौषधिवीरुधस्ते ।
छन्दांसि साक्षात् तव सप्त धातव-
स्त्रयीमयात्मन् हृदयं सर्वधर्म: ॥ २८ ॥
Text 29
मुखानि पञ्चोपनिषदस्तवेश
यैस्त्रिंशदष्टोत्तरमन्त्रवर्ग: ।
यत् तच्छिवाख्यं परमात्मतत्त्वं
देव स्वयंज्योतिरवस्थितिस्ते ॥ २९ ॥
Text 30
छाया त्वधर्मोर्मिषु यैर्विसर्गो
नेत्रत्रयं सत्त्वरजस्तमांसि ।
साङ्ख्यात्मन: शास्त्रकृतस्तवेक्षा
छन्दोमयो देव ऋषि: पुराण: ॥ ३० ॥
Text 31
न ते गिरित्राखिललोकपाल-
विरिञ्चवैकुण्ठसुरेन्द्रगम्यम् ।
ज्योति: परं यत्र रजस्तमश्च
सत्त्वं न यद् ब्रह्म निरस्तभेदम् ॥ ३१ ॥
Text 32
कामाध्वरत्रिपुरकालगराद्यनेक-
भूतद्रुह: क्षपयत: स्तुतये न तत् ते ।
यस्त्वन्तकाल इदमात्मकृतं स्वनेत्र-
वह्निस्फुलिङ्गशिखया भसितं न वेद ॥ ३२ ॥
Text 33
ये त्वात्मरामगुरुभिर्हृदि चिन्तिताङ्घ्रि-
द्वन्द्वं चरन्तमुमया तपसाभितप्तम् ।
कत्थन्त उग्रपरुषं निरतं श्मशाने
ते नूनमूतिमविदंस्तव हातलज्जा: ॥ ३३ ॥
Text 34
तत् तस्य ते सदसतो: परत: परस्य
नाञ्ज: स्वरूपगमने प्रभवन्ति भूम्न: ।
ब्रह्मादय: किमुत संस्तवने वयं तु
तत्सर्गसर्गविषया अपि शक्तिमात्रम् ॥ ३४ ॥
Text 35
एतत् परं प्रपश्यामो न परं ते महेश्वर ।
मृडनाय हि लोकस्य व्यक्तिस्तेऽव्यक्तकर्मण: ॥ ३५ ॥
Text 36
श्रीशुक उवाच
तद्वीक्ष्य व्यसनं तासां कृपया भृशपीडित: ।
सर्वभूतसुहृद् देव इदमाह सतीं प्रियाम् ॥ ३६ ॥
Text 37
श्रीशिव उवाच
अहो बत भवान्येतत् प्रजानां पश्य वैशसम् ।
क्षीरोदमथनोद्भूतात् कालकूटादुपस्थितम् ॥ ३७ ॥
Text 38
आसां प्राणपरीप्सूनां विधेयमभयं हि मे ।
एतावान्हि प्रभोरर्थो यद् दीनपरिपालनम् ॥ ३८ ॥
Text 39
प्राणै: स्वै: प्राणिन: पान्ति साधव: क्षणभङ्गुरै: ।
बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया ॥ ३९ ॥
Text 40
पुंस: कृपयतो भद्रे सर्वात्मा प्रीयते हरि: ।
प्रीते हरौ भगवति प्रीयेऽहं सचराचर: ।
तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे ॥ ४० ॥
Text 41
श्रीशुक उवाच
एवमामन्त्र्य भगवान्भवानीं विश्वभावन: ।
तद् विषं जग्धुमारेभे प्रभावज्ञान्वमोदत ॥ ४१ ॥
Text 42
तत: करतलीकृत्य व्यापि हालाहलं विषम् ।
अभक्षयन्महादेव: कृपया भूतभावन: ॥ ४२ ॥
Text 43
तस्यापि दर्शयामास स्ववीर्यं जलकल्मष: ।
यच्चकार गले नीलं तच्च साधोर्विभूषणम् ॥ ४३ ॥
Text 44
तप्यन्ते लोकतापेन साधव: प्रायशो जना: ।
परमाराधनं तद्धि पुरुषस्याखिलात्मन: ॥ ४४ ॥
Text 45
निशम्य कर्म तच्छम्भोर्देवदेवस्य मीढुष: ।
प्रजा दाक्षायणी ब्रह्मा वैकुण्ठश्च शशंसिरे ॥ ४५ ॥
Text 46
प्रस्कन्नं पिबत: पाणेर्यत् किञ्चिज्जगृहु: स्म तत् ।
वृश्चिकाहिविषौषध्यो दन्दशूकाश्च येऽपरे ॥ ४६ ॥






