King Indra Annihilates the Demons
Text 1
श्रीशुक उवाच
अथो सुरा: प्रत्युपलब्धचेतस:
परस्य पुंस: परयानुकम्पया ।
जघ्नुर्भृशं शक्रसमीरणादय-
स्तांस्तान्रणे यैरभिसंहता: पुरा ॥ १ ॥
Text 2
वैरोचनाय संरब्धो भगवान्पाकशासन: ।
उदयच्छद् यदा वज्रं प्रजा हा हेति चुक्रुशु: ॥ २ ॥
Text 3
वज्रपाणिस्तमाहेदं तिरस्कृत्य पुर:स्थितम् ।
मनस्विनं सुसम्पन्नं विचरन्तं महामृधे ॥ ३ ॥
Text 4
नटवन्मूढ मायाभिर्मायेशान् नो जिगीषसि ।
जित्वा बालान् निबद्धाक्षान् नटो हरति तद्धनम् ॥ ४ ॥
Text 5
आरुरुक्षन्ति मायाभिरुत्सिसृप्सन्ति ये दिवम् ।
तान्दस्यून्विधुनोम्यज्ञान्पूर्वस्माच्च पदादध: ॥ ५ ॥
Text 6
सोऽहं दुर्मायिनस्तेऽद्य वज्रेण शतपर्वणा ।
शिरो हरिष्ये मन्दात्मन्घटस्व ज्ञातिभि: सह ॥ ६ ॥
Text 7
श्रीबलिरुवाच
सङ्ग्रामे वर्तमानानां कालचोदितकर्मणाम् ।
कीर्तिर्जयोऽजयो मृत्यु: सर्वेषां स्युरनुक्रमात् ॥ ७ ॥
Text 8
तदिदं कालरशनं जगत् पश्यन्ति सूरय: ।
न हृष्यन्ति न शोचन्ति तत्र यूयमपण्डिता: ॥ ८ ॥
Text 9
न वयं मन्यमानानामात्मानं तत्र साधनम् ।
गिरो व: साधुशोच्यानां गृह्णीमो मर्मताडना: ॥ ९ ॥
Text 10
श्रीशुक उवाच
इत्याक्षिप्य विभुं वीरो नाराचैर्वीरमर्दन: ।
आकर्णपूर्णैरहनदाक्षेपैराहतं पुन: ॥ १० ॥
Text 11
एवं निराकृतो देवो वैरिणा तथ्यवादिना ।
नामृष्यत् तदधिक्षेपं तोत्राहत इव द्विप: ॥ ११ ॥
Text 12
प्राहरत् कुलिशं तस्मा अमोघं परमर्दन: ।
सयानो न्यपतद् भूमौ छिन्नपक्ष इवाचल: ॥ १२ ॥
Text 13
सखायं पतितं दृष्ट्वा जम्भो बलिसख: सुहृत् ।
अभ्ययात् सौहृदं सख्युर्हतस्यापि समाचरन् ॥ १३ ॥
Text 14
स सिंहवाह आसाद्य गदामुद्यम्य रंहसा ।
जत्रावताडयच्छक्रं गजं च सुमहाबल: ॥ १४ ॥
Text 15
गदाप्रहारव्यथितो भृशं विह्वलितो गज: ।
जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ ॥ १५ ॥
Text 16
ततो रथो मातलिना हरिभिर्दशशतैर्वृत: । आनीतो द्विपमुत्सृज्य रथमारुरुहे विभु: ॥ १६ ॥
Text 17
तस्य तत् पूजयन् कर्म यन्तुर्दानवसत्तम: ।
शूलेन ज्वलता तं तु स्मयमानोऽहनन्मृधे ॥ १७ ॥
Text 18
सेहे रुजं सुदुर्मर्षां सत्त्वमालम्ब्य मातलि: ।
इन्द्रो जम्भस्य सङ्क्रुद्धो वज्रेणापाहरच्छिर: ॥ १८ ॥
Text 19
जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदादृषे: ।
नमुचिश्च बल: पाकस्तत्रापेतुस्त्वरान्विता: ॥ १९ ॥
Text 20
वचोभि: परुषैरिन्द्रमर्दयन्तोऽस्य मर्मसु ।
शरैरवाकिरन् मेघा धाराभिरिव पर्वतम् ॥ २० ॥
Text 21
हरीन्दशशतान्याजौ हर्यश्वस्य बल: शरै: ।
तावद्भिरर्दयामास युगपल्लघुहस्तवान् ॥ २१ ॥
Text 22
शताभ्यां मातलिं पाको रथं सावयवं पृथक् ।
सकृत्सन्धानमोक्षेण तदद्भुतमभूद् रणे ॥ २२ ॥
Text 23
नमुचि: पञ्चदशभि: स्वर्णपुङ्खैर्महेषुभि: ।
आहत्य व्यनदत्सङ्ख्ये सतोय इव तोयद: ॥ २३ ॥
Text 24
सर्वत: शरकूटेन शक्रं सरथसारथिम् ।
छादयामासुरसुरा: प्रावृट्सूर्यमिवाम्बुदा: ॥ २४ ॥
Text 25
अलक्षयन्तस्तमतीव विह्वला
विचुक्रुशुर्देवगणा: सहानुगा: ।
अनायका: शत्रुबलेन निर्जिता
वणिक्पथा भिन्ननवो यथार्णवे ॥ २५ ॥
Text 26
ततस्तुराषाडिषुबद्धपञ्जराद्
विनिर्गत: साश्वरथध्वजाग्रणी: ।
बभौ दिश: खं पृथिवीं च रोचयन्
स्वतेजसा सूर्य इव क्षपात्यये ॥ २६ ॥
Text 27
निरीक्ष्य पृतनां देव: परैरभ्यर्दितां रणे ।
उदयच्छद् रिपुं हन्तुं वज्रं वज्रधरो रुषा ॥ २७ ॥
Text 28
स तेनैवाष्टधारेण शिरसी बलपाकयो: ।
ज्ञातीनां पश्यतां राजञ्जहार जनयन्भयम् ॥ २८ ॥
Text 29
नमुचिस्तद्वधं दृष्ट्वा शोकामर्षरुषान्वित: ।
जिघांसुरिन्द्रं नृपते चकार परमोद्यमम् ॥ २९ ॥
Text 30
अश्मसारमयं शूलं घण्टावद्धेमभूषणम् ।
प्रगृह्याभ्यद्रवत् क्रुद्धो हतोऽसीति वितर्जयन् ।
प्राहिणोद् देवराजाय निनदन् मृगराडिव ॥ ३० ॥
Text 31
तदापतद् गगनतले महाजवंविचिच्छिदे हरिरिषुभि: सहस्रधा । तमाहनन्नृप कुलिशेन कन्धरेरुषान्वितस्त्रिदशपति: शिरो हरन् ॥ ३१ ॥
Text 32
न तस्य हि त्वचमपि वज्र ऊर्जितो
बिभेद य: सुरपतिनौजसेरित: ।
तदद्भुतं परमतिवीर्यवृत्रभित्
तिरस्कृतो नमुचिशिरोधरत्वचा ॥ ३२ ॥
Text 33
तस्मादिन्द्रोऽबिभेच्छत्रोर्वज्र: प्रतिहतो यत: ।
किमिदं दैवयोगेन भूतं लोकविमोहनम् ॥ ३३ ॥
Text 34
येन मे पूर्वमद्रीणां पक्षच्छेद: प्रजात्यये ।
कृतो निविशतां भारै: पतत्त्रै: पततां भुवि ॥ ३४ ॥
Text 35
तप:सारमयं त्वाष्ट्रं वृत्रो येन विपाटित: ।
अन्ये चापि बलोपेता: सर्वास्त्रैरक्षतत्वच: ॥ ३५ ॥
Text 36
सोऽयं प्रतिहतो वज्रो मया मुक्तोऽसुरेऽल्पके ।
नाहं तदाददे दण्डं ब्रह्मतेजोऽप्यकारणम् ॥ ३६ ॥
Text 37
इति शक्रं विषीदन्तमाह वागशरीरिणी ।
नायं शुष्कैरथो नार्द्रैर्वधमर्हति दानव: ॥ ३७ ॥
Text 38
मयास्मै यद् वरो दत्तो मृत्युर्नैवार्द्रशुष्कयो: ।
अतोऽन्यश्चिन्तनीयस्ते उपायो मघवन् रिपो: ॥ ३८ ॥
Text 39
तां दैवीं गिरमाकर्ण्य मघवान्सुसमाहित: ।
ध्यायन् फेनमथापश्यदुपायमुभयात्मकम् ॥ ३९ ॥
Text 40
न शुष्केण न चार्द्रेण जहार नमुचे: शिर: ।
तं तुष्टुवुर्मुनिगणा माल्यैश्चावाकिरन्विभुम् ॥ ४० ॥
Text 41
गन्धर्वमुख्यौ जगतुर्विश्वावसुपरावसू ।
देवदुन्दुभयो नेदुर्नर्तक्यो ननृतुर्मुदा ॥ ४१ ॥
Text 42
अन्येऽप्येवं प्रतिद्वन्द्वान्वाय्वग्निवरुणादय: ।
सूदयामासुरसुरान् मृगान्केसरिणो यथा ॥ ४२ ॥
Text 43
ब्रह्मणा प्रेषितो देवान्देवर्षिर्नारदो नृप ।
वारयामास विबुधान्दृष्ट्वा दानवसङ्क्षयम् ॥ ४३ ॥
Text 44
श्रीनारद उवाच
भवद्भिरमृतं प्राप्तं नारायणभुजाश्रयै: ।
श्रिया समेधिता: सर्व उपारमत विग्रहात् ॥ ४४ ॥
Text 45
श्रीशुक उवाच
संयम्य मन्युसंरम्भं मानयन्तो मुनेर्वच: ।
उपगीयमानानुचरैर्ययु: सर्वे त्रिविष्टपम् ॥ ४५ ॥
Text 46
येऽवशिष्टा रणे तस्मिन् नारदानुमतेन ते ।
बलिं विपन्नमादाय अस्तं गिरिमुपागमन् ॥ ४६ ॥
Text 47
तत्राविनष्टावयवान् विद्यमानशिरोधरान् ।
उशना जीवयामास संजीवन्या स्वविद्यया ॥ ४७ ॥
Text 48
बलिश्चोशनसा स्पृष्ट: प्रत्यापन्नेन्द्रियस्मृति: ।
पराजितोऽपि नाखिद्यल्लोकतत्त्वविचक्षण: ॥ ४८ ॥






