The Battle Between the Demigods and the Demons
Text 1
श्रीशुक उवाच
इति दानवदैतेया नाविन्दन्नमृतं नृप ।
युक्ता: कर्मणि यत्ताश्च वासुदेवपराङ्मुखा: ॥ १ ॥
Text 2
साधयित्वामृतं राजन्पाययित्वा स्वकान्सुरान् ।
पश्यतां सर्वभूतानां ययौ गरुडवाहन: ॥ २ ॥
Text 3
सपत्नानां परामृद्धिं दृष्ट्वा ते दितिनन्दना: ।
अमृष्यमाणा उत्पेतुर्देवान्प्रत्युद्यतायुधा: ॥ ३ ॥
Text 4
तत: सुरगणा: सर्वे सुधया पीतयैधिता: ।
प्रतिसंयुयुधु: शस्त्रैर्नारायणपदाश्रया: ॥ ४ ॥
Text 5
तत्र दैवासुरो नाम रण: परमदारुण: ।
रोधस्युदन्वतो राजंस्तुमुलो रोमहर्षण: ॥ ५ ॥
Text 6
तत्रान्योन्यं सपत्नास्ते संरब्धमनसो रणे ।
समासाद्यासिभिर्बाणैर्निजघ्नुर्विविधायुधै: ॥ ६ ॥
Text 7
शङ्खतूर्यमृदङ्गानां भेरीडमरिणां महान् ।
हस्त्यश्वरथपत्तीनां नदतां निस्वनोऽभवत् ॥ ७ ॥
Text 8
रथिनो रथिभिस्तत्र पत्तिभि: सह पत्तय: ।
हया हयैरिभाश्चेभै: समसज्जन्त संयुगे ॥ ८ ॥
Text 9
उष्ट्रै: केचिदिभै: केचिदपरे युयुधु: खरै: ।
केचिद्गौरमुखैरृक्षैर्द्वीपिभिर्हरिभिर्भटा: ॥ ९ ॥
Texts 10-12
गृध्रै: कङ्कैर्बकैरन्ये श्येनभासैस्तिमिङ्गिलै: ।
शरभैर्महिषै: खड्गैर्गोवृषैर्गवयारुणै: ॥ १० ॥
शिवाभिराखुभि: केचित् कृकलासै: शशैर्नरै: ।
बस्तैरेके कृष्णसारैर्हंसैरन्ये च सूकरै: ॥ ११ ॥
अन्ये जलस्थलखगै: सत्त्वैर्विकृतविग्रहै: ।
सेनयोरुभयो राजन्विविशुस्तेऽग्रतोऽग्रत: ॥ १२ ॥
Texts 13-15
चित्रध्वजपटै राजन्नातपत्रै: सितामलै: ।
महाधनैर्वज्रदण्डैर्व्यजनैर्बार्हचामरै: ॥ १३ ॥
वातोद्धूतोत्तरोष्णीषैरर्चिर्भिर्वर्मभूषणै: ।
स्फुरद्भिर्विशदै: शस्त्रै: सुतरां सूर्यरश्मिभि: ॥ १४ ॥
देवदानववीराणां ध्वजिन्यौ पाण्डुनन्दन ।
रेजतुर्वीरमालाभिर्यादसामिव सागरौ ॥ १५ ॥
Texts 16-18
वैरोचनो बलि: सङ्ख्ये सोऽसुराणां चमूपति: ।
यानं वैहायसं नाम कामगं मयनिर्मितम् ॥ १६ ॥
सर्वसाङ्ग्रामिकोपेतं सर्वाश्चर्यमयं प्रभो ।
अप्रतर्क्यमनिर्देश्यं दृश्यमानमदर्शनम् ॥ १७ ॥
आस्थितस्तद् विमानाग्र्यं सर्वानीकाधिपैर्वृत: ।
बालव्यजनछत्राग्र्यै रेजे चन्द्र इवोदये ॥ १८ ॥
Texts 19-24
तस्यासन्सर्वतो यानैर्यूथानां पतयोऽसुरा: ।
नमुचि: शम्बरो बाणो विप्रचित्तिरयोमुख: ॥ १९ ॥
द्विमूर्धा कालनाभोऽथ प्रहेतिर्हेतिरिल्वल: ।
शकुनिर्भूतसन्तापो वज्रदंष्ट्रो विरोचन: ॥ २० ॥
हयग्रीव: शङ्कुशिरा: कपिलो मेघदुन्दुभि: ।
तारकश्चक्रदृक् शुम्भो निशुम्भो जम्भ उत्कल: ॥ २१ ॥
अरिष्टोऽरिष्टनेमिश्च मयश्च त्रिपुराधिप: ।
अन्ये पौलोमकालेया निवातकवचादय: ॥ २२ ॥
अलब्धभागा: सोमस्य केवलं क्लेशभागिन: ।
सर्व एते रणमुखे बहुशो निर्जितामरा: ॥ २३ ॥
सिंहनादान्विमुञ्चन्त: शङ्खान्दध्मुर्महारवान् ।
दृष्ट्वा सपत्नानुत्सिक्तान्बलभित् कुपितो भृशम् ॥ २४ ॥
Text 25
ऐरावतं दिक्करिणमारूढ: शुशुभे स्वराट् ।
यथा स्रवत्प्रस्रवणमुदयाद्रिमहर्पति: ॥ २५ ॥
Text 26
तस्यासन्सर्वतो देवा नानावाहध्वजायुधा: ।
लोकपाला: सहगणैर्वाय्वग्निवरुणादय: ॥ २६ ॥
Text 27
तेऽन्योन्यमभिसंसृत्य क्षिपन्तो मर्मभिर्मिथ: ।
आह्वयन्तो विशन्तोऽग्रे युयुधुर्द्वन्द्वयोधिन: ॥ २७ ॥
Text 28
युयोध बलिरिन्द्रेण तारकेण गुहोऽस्यत ।
वरुणो हेतिनायुध्यन्मित्रो राजन्प्रहेतिना ॥ २८ ॥
Text 29
यमस्तु कालनाभेन विश्वकर्मा मयेन वै ।
शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचन: ॥ २९ ॥
Texts 30-31
अपराजितेन नमुचिरश्विनौ वृषपर्वणा ।
सूर्यो बलिसुतैर्देवो बाणज्येष्ठै: शतेन च ॥ ३० ॥
राहुणा च तथा सोम: पुलोम्ना युयुधेऽनिल: ।
निशुम्भशुम्भयोर्देवी भद्रकाली तरस्विनी ॥ ३१ ॥
Texts 32-34
वृषाकपिस्तु जम्भेन महिषेण विभावसु: ।
इल्वल: सह वातापिर्ब्रह्मपुत्रैररिन्दम ॥ ३२ ॥
कामदेवेन दुर्मर्ष उत्कलो मातृभि: सह ।
बृहस्पतिश्चोशनसा नरकेण शनैश्चर: ॥ ३३ ॥
मरुतो निवातकवचै: कालेयैर्वसवोऽमरा: ।
विश्वेदेवास्तु पौलोमै रुद्रा: क्रोधवशै: सह ॥ ३४ ॥
Text 35
त एवमाजावसुरा: सुरेन्द्रा
द्वन्द्वेन संहत्य च युध्यमाना: ।
अन्योन्यमासाद्य निजघ्नुरोजसा
जिगीषवस्तीक्ष्णशरासितोमरै: ॥ ३५ ॥
Text 36
भुशुण्डिभिश्चक्रगदर्ष्टिपट्टिशै:
शक्त्युल्मुकै: प्रासपरश्वधैरपि ।
निस्त्रिंशभल्लै: परिघै: समुद्गरै:
सभिन्दिपालैश्च शिरांसि चिच्छिदु: ॥ ३६ ॥
Text 37
गजास्तुरङ्गा: सरथा: पदातय:
सारोहवाहा विविधा विखण्डिता: ।
निकृत्तबाहूरुशिरोधराङ्घ्रय-
श्छिन्नध्वजेष्वासतनुत्रभूषणा: ॥ ३७ ॥
Text 38
तेषां पदाघातरथाङ्गचूर्णिता-
दायोधनादुल्बण उत्थितस्तदा ।
रेणुर्दिश: खं द्युमणिं च छादयन्
न्यवर्ततासृक् स्रुतिभि: परिप्लुतात् ॥ ३८ ॥
Text 39
शिरोभिरुद्धूतकिरीटकुण्डलै:
संरम्भदृग्भि: परिदष्टदच्छदै: ।
महाभुजै: साभरणै: सहायुधै:
सा प्रास्तृता भू: करभोरुभिर्बभौ ॥ ३९ ॥
Text 40
कबन्धास्तत्र चोत्पेतु: पतितस्वशिरोऽक्षिभि: ।
उद्यतायुधदोर्दण्डैराधावन्तो भटान् मृधे ॥ ४० ॥
Text 41
बलिर्महेन्द्रं दशभिस्त्रिभिरैरावतं शरै: ।
चतुर्भिश्चतुरो वाहानेकेनारोहमार्च्छयत् ॥ ४१ ॥
Text 42
स तानापतत: शक्रस्तावद्भि: शीघ्रविक्रम: ।
चिच्छेद निशितैर्भल्लैरसम्प्राप्तान्हसन्निव ॥ ४२ ॥
Text 43
तस्य कर्मोत्तमं वीक्ष्य दुर्मर्ष: शक्तिमाददे ।
तां ज्वलन्तीं महोल्काभां हस्तस्थामच्छिनद्धरि: ॥ ४३ ॥
Text 44
तत: शूलं तत: प्रासं ततस्तोमरमृष्टय: ।
यद् यच्छस्त्रं समादद्यात्सर्वं तदच्छिनद् विभु: ॥ ४४ ॥
Text 45
ससर्जाथासुरीं मायामन्तर्धानगतोऽसुर: ।
तत: प्रादुरभूच्छैल: सुरानीकोपरि प्रभो ॥ ४५ ॥
Text 46
ततो निपेतुस्तरवो दह्यमाना दवाग्निना ।
शिला: सटङ्कशिखराश्चूर्णयन्त्यो द्विषद्बलम् ॥ ४६ ॥
Text 47
महोरगा: समुत्पेतुर्दन्दशूका: सवृश्चिका: ।
सिंहव्याघ्रवराहाश्च मर्दयन्तो महागजा: ॥ ४७ ॥
Text 48
यातुधान्यश्च शतश: शूलहस्ता विवासस: ।
छिन्धि भिन्धीति वादिन्यस्तथा रक्षोगणा: प्रभो ॥ ४८ ॥
Text 49
ततो महाघना व्योम्नि गम्भीरपरुषस्वना: ।
अङ्गारान्मुमुचुर्वातैराहता: स्तनयित्नव: ॥ ४९ ॥
Text 50
सृष्टो दैत्येन सुमहान्वह्नि: श्वसनसारथि: ।
सांवर्तक इवात्युग्रो विबुधध्वजिनीमधाक् ॥ ५० ॥
Text 51
तत: समुद्र उद्वेल: सर्वत: प्रत्यदृश्यत ।
प्रचण्डवातैरुद्धूततरङ्गावर्तभीषण: ॥ ५१ ॥
Text 52
एवं दैत्यैर्महामायैरलक्ष्यगतिभीरणे ।
सृज्यमानासु मायासु विषेदु: सुरसैनिका: ॥ ५२ ॥
Text 53
न तत्प्रतिविधिं यत्र विदुरिन्द्रादयो नृप ।
ध्यात: प्रादुरभूत् तत्र भगवान्विश्वभावन: ॥ ५३ ॥
Text 54
तत: सुपर्णांसकृताङ्घ्रिपल्लव:
पिशङ्गवासा नवकञ्जलोचन: ।
अदृश्यताष्टायुधबाहुरुल्लस-
च्छ्रीकौस्तुभानर्घ्यकिरीटकुण्डल: ॥ ५४ ॥
Text 55
तस्मिन्प्रविष्टेऽसुरकूटकर्मजा
माया विनेशुर्महिना महीयस: ।
स्वप्नो यथा हि प्रतिबोध आगते
हरिस्मृति: सर्वविपद्विमोक्षणम् ॥ ५५ ॥
Text 56
दृष्ट्वा मृधे गरुडवाहमिभारिवाह
आविध्य शूलमहिनोदथ कालनेमि: ।
तल्लीलया गरुडमूर्ध्नि पतद् गृहीत्वा
तेनाहनन्नृप सवाहमरिं त्र्यधीश: ॥ ५६ ॥
Text 57
माली सुमाल्यतिबलौ युधि पेततुर्य
च्चक्रेण कृत्तशिरसावथ माल्यवांस्तम् ।
आहत्य तिग्मगदयाहनदण्डजेन्द्र
तावच्छिरोऽच्छिनदरेर्नदतोऽरिणाद्य: ॥ ५७ ॥






