Srimad Bhagavatam | Canto 8 | Chapter 12 | Verses

0
5

The Mohinī-mūrti Incarnation Bewilders Lord Śiva

Texts 1-2

श्रीबादरायणिरुवाच
वृषध्वजो निशम्येदं योषिद्रूपेण दानवान् । मोहयित्वा सुरगणान्हरि: सोममपाययत् ॥ १ ॥ वृषमारुह्य गिरिश: सर्वभूतगणैर्वृत: । सह देव्या ययौ द्रष्टुं यत्रास्ते मधुसूदन: ॥ २ ॥

Text 3

सभाजितो भगवता सादरं सोमया भव: ।
सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन्हरिम् ॥ ३ ॥

Text 4

श्रीमहादेव उवाच
देवदेव जगद्वय‍ापिञ्जगदीश जगन्मय ।
सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वर: ॥ ४ ॥

Text 5

आद्यन्तावस्य यन्मध्यमिदमन्यदहं बहि: । यतोऽव्ययस्य नैतानि तत् सत्यं ब्रह्म चिद्‌भवान् ॥ ५ ॥

Text 6

तवैव चरणाम्भोजं श्रेयस्कामा निराशिष: ।
विसृज्योभयत: सङ्गं मुनय: समुपासते ॥ ६ ॥

Text 7

त्वं ब्रह्म पूर्णममृतं विगुणं विशोक-
मानन्दमात्रमविकारमनन्यदन्यत् ।
विश्वस्य हेतुरुदयस्थितिसंयमाना-
मात्मेश्वरश्च तदपेक्षतयानपेक्ष: ॥ ७ ॥

Text 8

एकस्त्वमेव सदसद्‌द्वयमद्वयं च
स्वर्णं कृताकृतमिवेह न वस्तुभेद: ।
अज्ञानतस्त्वयि जनैर्विहितो विकल्पो
यस्माद् गुणव्यतिकरो निरुपाधिकस्य ॥ ८ ॥

Text 9

त्वां ब्रह्म केचिदवयन्त्युत धर्ममेकेएके परं सदसतो: पुरुषं परेशम् । अन्येऽवयन्ति नवशक्तियुतं परं त्वांकेचिन्महापुरुषमव्ययमात्मतन्त्रम् ॥ ९ ॥

Text 10

नाहं परायुर्ऋषयो न मरीचिमुख्याजानन्ति यद्विरचितं खलु सत्त्वसर्गा: । यन्मायया मुषितचेतस ईश दैत्य-मर्त्यादय: किमुत शश्वदभद्रवृत्ता: ॥ १० ॥

Text 11

स त्वं समीहितमद: स्थितिजन्मनाशंभूतेहितं च जगतो भवबन्धमोक्षौ । वायुर्यथा विशति खं च चराचराख्यंसर्वं तदात्मकतयावगमोऽवरुन्‍त्से ॥ ११ ॥

Text 12

अवतारा मया द‍ृष्टा रममाणस्य ते गुणै: । सोऽहं तद्‌द्रष्टुमिच्छामि यत् ते योषिद्वपुर्धृतम् ॥ १२ ॥

Text 13

येन सम्मोहिता दैत्या: पायिताश्चामृतं सुरा: । तद् दिद‍ृक्षव आयाता: परं कौतूहलं हि न: ॥ १३ ॥

Text 14

श्रीशुक उवाच
एवमभ्यर्थितो विष्णुर्भगवान् शूलपाणिना । प्रहस्य भावगम्भीरं गिरिशं प्रत्यभाषत ॥ १४ ॥

Text 15

श्रीभगवानुवाच
कौतूहलाय दैत्यानां योषिद्वेषो मया धृत: । पश्यता सुरकार्याणि गते पीयूषभाजने ॥ १५ ॥

Text 16

तत्तेऽहं दर्शयिष्यामि दिद‍ृक्षो: सुरसत्तम । कामिनां बहु मन्तव्यं सङ्कल्पप्रभवोदयम् ॥ १६ ॥

Text 17

श्रीशुक उवाच
इति ब्रुवाणो भगवांस्तत्रैवान्तरधीयत । सर्वतश्चारयंश्चक्षुर्भव आस्ते सहोमया ॥ १७ ॥

Text 18

ततो ददर्शोपवने वरस्त्रियंविचित्रपुष्पारुणपल्ल‍वद्रुमे । विक्रीडतीं कन्दुकलीलया लसद्-दुकूलपर्यस्तनितम्बमेखलाम् ॥ १८ ॥

Text 19

आवर्तनोद्वर्तनकम्पितस्तन-प्रकृष्टहारोरुभरै: पदे पदे । प्रभज्यमानामिव मध्यतश्चलत्-पदप्रवालं नयतीं ततस्तत: ॥ १९ ॥

Text 20

दिक्षु भ्रमत्कन्दुकचापलैर्भृशंप्रोद्विग्नतारायतलोललोचनाम् । स्वकर्णविभ्राजितकुण्डलोल्ल‍सत्-कपोलनीलालकमण्डिताननाम् ॥ २० ॥

Text 21

श्लथद् दुकूलं कबरीं च विच्युतांसन्नह्यतीं वामकरेण वल्गुना । विनिघ्नतीमन्यकरेण कन्दुकंविमोहयन्तीं जगदात्ममायया ॥ २१ ॥

Text 22

तां वीक्ष्य देव इति कन्दुकलीलयेषद्-व्रीडास्फुटस्मितविसृष्टकटाक्षमुष्ट: । स्त्रीप्रेक्षणप्रतिसमीक्षणविह्वलात्मानात्मानमन्तिक उमां स्वगणांश्च वेद ॥ २२ ॥

Text 23

तस्या: कराग्रात् स तु कन्दुको यदागतो विदूरं तमनुव्रजत्स्त्रिया: । वास: ससूत्रं लघु मारुतोऽहरद्भवस्य देवस्य किलानुपश्यत: ॥ २३ ॥

Text 24

एवं तां रुचिरापाङ्गीं दर्शनीयां मनोरमाम् । द‍ृष्ट्वा तस्यां मनश्चक्रे विषज्जन्त्यां भव: किल ॥ २४ ॥

Text 25

तयापहृतविज्ञानस्तत्कृतस्मरविह्वल: । भवान्या अपि पश्यन्त्या गतह्रीस्तत्पदं ययौ ॥ २५ ॥

Text 26

सा तमायान्तमालोक्य विवस्त्रा व्रीडिता भृशम् । निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत ॥ २६ ॥

Text 27

तामन्वगच्छद् भगवान् भव: प्रमुषितेन्द्रिय: । कामस्य च वशं नीत: करेणुमिव यूथप: ॥ २७ ॥

Text 28

सोऽनुव्रज्यातिवेगेन गृहीत्वानिच्छतीं स्त्रियम् । केशबन्ध उपानीय बाहुभ्यां परिषस्वजे ॥ २८ ॥

Texts 29-30

सोपगूढा भगवता करिणा करिणी यथा । इतस्तत: प्रसर्पन्ती विप्रकीर्णशिरोरुहा ॥ २९ ॥ आत्मानं मोचयित्वाङ्ग सुरर्षभभुजान्तरात् । प्राद्रवत्सा पृथुश्रोणी माया देवविनिर्मिता ॥ ३० ॥

Text 31

तस्यासौ पदवीं रुद्रो विष्णोरद्भ‍ुतकर्मण: । प्रत्यपद्यत कामेन वैरिणेव विनिर्जित: ॥ ३१ ॥

Text 32

तस्यानुधावतो रेतश्चस्कन्दामोघरेतस: । शुष्मिणो यूथपस्येव वासितामनुधावत: ॥ ३२ ॥

Text 33

यत्र यत्रापतन्मह्यां रेतस्तस्य महात्मन: । तानि रूप्यस्य हेम्नश्च क्षेत्राण्यासन्महीपते ॥ ३३ ॥

Text 34

सरित्सर:सु शैलेषु वनेषूपवनेषु च । यत्र क्‍व चासन्नृषयस्तत्र सन्निहितो हर: ॥ ३४ ॥

Text 35

स्कन्ने रेतसि सोऽपश्यदात्मानं देवमायया । जडीकृतं नृपश्रेष्ठ सन्न्यवर्तत कश्मलात् ॥ ३५ ॥

Text 36

अथावगतमाहात्म्य आत्मनो जगदात्मन: । अपरिज्ञेयवीर्यस्य न मेने तदुहाद्भ‍ुतम् ॥ ३६ ॥

Text 37

तमविक्लवमव्रीडमालक्ष्य मधुसूदन: । उवाच परमप्रीतो बिभ्रत्स्वां पौरुषीं तनुम् ॥ ३७ ॥

Text 38

श्रीभगवानुवाच
दिष्टय‍ा त्वं विबुधश्रेष्ठ स्वां निष्ठामात्मना स्थित: । यन्मे स्त्रीरूपया स्वैरं मोहितोऽप्यङ्ग मायया ॥ ३८ ॥

Text 39

को नु मेऽतितरेन्मायां विषक्तस्त्वद‍ृते पुमान् । तांस्तान्विसृजतीं भावान्दुस्तरामकृतात्मभि: ॥ ३९ ॥

Text 40

सेयं गुणमयी माया न त्वामभिभविष्यति । मया समेता कालेन कालरूपेण भागश: ॥ ४० ॥

Text 41

श्रीशुक उवाच
एवं भगवता राजन् श्रीवत्साङ्केन सत्कृत: । आमन्‍त्र्य तं परिक्रम्य सगण: स्वालयं ययौ ॥ ४१ ॥

Text 42

आत्मांशभूतां तां मायां भवानीं भगवान्भव: । सम्मतामृषिमुख्यानां प्रीत्याचष्टाथ भारत ॥ ४२ ॥

Text 43

अयि व्यपश्यस्त्वमजस्य मायांपरस्य पुंस: परदेवताया: । अहं कलानामृषभोऽपि मुह्येययावशोऽन्ये किमुतास्वतन्त्रा: ॥ ४३ ॥

Text 44

यं मामपृच्छस्त्वमुपेत्य योगात्समासहस्रान्त उपारतं वै । स एष साक्षात् पुरुष: पुराणोन यत्र कालो विशते न वेद: ॥ ४४ ॥

Text 45

श्रीशुक उवाच
इति तेऽभिहितस्तात विक्रम: शार्ङ्गधन्वन: । सिन्धोर्निर्मथने येन धृत: पृष्ठे महाचल: ॥ ४५ ॥

Text 46

एतन्मुहु: कीर्तयतोऽनुश‍ृण्वतो
न रिष्यते जातु समुद्यम: क्‍वचित् ।
यदुत्तमश्लोकगुणानुवर्णनं
समस्तसंसारपरिश्रमापहम् ॥ ४६ ॥

Text 47

असदविषयमङ्‍‍घ्रिं भावगम्यं प्रपन्ना-
नमृतममरवर्यानाशयत् सिन्धुमथ्यम् ।
कपटयुवतिवेषो मोहयन्य: सुरारीं-
स्तमहमुपसृतानां कामपूरं नतोऽस्मि ॥ ४७ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here