Srimad Bhagavatam | Canto 8 | Chapter 9 | Verses

0
4

The Lord Incarnates as Mohinī-Mūrti

Text 1

श्रीशुक उवाच
तेऽन्योन्यतोऽसुरा: पात्रं हरन्तस्त्यक्तसौहृदा: ।
क्षिपन्तो दस्युधर्माण आयान्तीं दद‍ृशु: स्त्रियम् ॥ १ ॥

Text 2

अहो रूपमहो धाम अहो अस्या नवं वय: ।
इति ते तामभिद्रुत्य पप्रच्छुर्जातहृच्छया: ॥ २ ॥

Text 3

का त्वं कञ्जपलाशाक्षि कुतो वा किं चिकीर्षसि ।
कस्यासि वद वामोरु मथ्नतीव मनांसि न: ॥ ३ ॥

Text 4

न वयं त्वामरैर्दैत्यै: सिद्धगन्धर्वचारणै: ।
नास्पृष्टपूर्वां जानीमो लोकेशैश्च कुतो नृभि: ॥ ४ ॥

Text 5

नूनं त्वं विधिना सुभ्रू: प्रेषितासि शरीरिणाम् ।
सर्वेन्द्रियमन:प्रीतिं विधातुं सघृणेन किम् ॥ ५ ॥

Text 6

सा त्वं न: स्पर्धमानानामेकवस्तुनि मानिनि ।
ज्ञातीनां बद्धवैराणां शं विधत्स्व सुमध्यमे ॥ ६ ॥

Text 7

वयं कश्यपदायादा भ्रातर: कृतपौरुषा: ।
विभजस्व यथान्यायं नैव भेदो यथा भवेत् ॥ ७ ॥

Text 8

इत्युपामन्त्रितो दैत्यैर्मायायोषिद्वपुर्हरि: ।
प्रहस्य रुचिरापाङ्गैर्निरीक्षन्निदमब्रवीत् ॥ ८ ॥

Text 9

श्रीभगवानुवाच
कथं कश्यपदायादा: पुंश्चल्यां मयि सङ्गता: ।
विश्वासं पण्डितो जातु कामिनीषु न याति हि ॥ ९ ॥

Text 10

सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विष: ।
सख्यान्याहुरनित्यानि नूत्नं नूत्नं विचिन्वताम् ॥ १० ॥

Text 11

श्रीशुक उवाच
इति ते क्ष्वेलितैस्तस्या आश्वस्तमनसोऽसुरा: ।
जहसुर्भावगम्भीरं ददुश्चामृतभाजनम् ॥ ११ ॥

Text 12

ततो गृहीत्वामृतभाजनं हरि-
र्बभाष ईषत्स्मितशोभया गिरा ।
यद्यभ्युपेतं क्‍व च साध्वसाधु वा
कृतं मया वो विभजे सुधामिमाम् ॥ १२ ॥

Text 13

इत्यभिव्याहृतं तस्या आकर्ण्यासुरपुङ्गवा: ।
अप्रमाणविदस्तस्यास्तत् तथेत्यन्वमंसत ॥ १३ ॥

Texts 14-15

अथोपोष्य कृतस्‍नाना हुत्वा च हविषानलम् ।
दत्त्वा गोविप्रभूतेभ्य: कृतस्वस्त्ययना द्विजै: ॥ १४ ॥
यथोपजोषं वासांसि परिधायाहतानि ते ।
कुशेषु प्राविशन्सर्वे प्रागग्रेष्वभिभूषिता: ॥ १५ ॥

Texts 16-17

प्राङ्‌मुखेषूपविष्टेषु सुरेषु दितिजेषु च ।
धूपामोदितशालायां जुष्टायां माल्यदीपकै: ॥ १६ ॥
तस्यां नरेन्द्र करभोरुरुशद्दुकूल-
श्रोणीतटालसगतिर्मदविह्वलाक्षी ।
सा कूजती कनकनूपुरशिञ्जितेन
कुम्भस्तनी कलसपाणिरथाविवेश ॥ १७ ॥

Text 18

तां श्रीसखीं कनककुण्डलचारुकर्ण-
नासाकपोलवदनां परदेवताख्याम् ।
संवीक्ष्य सम्मुमुहुरुत्स्मितवीक्षणेन
देवासुरा विगलितस्तनपट्टिकान्ताम् ॥ १८ ॥

Text 19

असुराणां सुधादानं सर्पाणामिव दुर्नयम् ।
मत्वा जातिनृशंसानां न तां व्यभजदच्युत: ॥ १९ ॥

Text 20

कल्पयित्वा पृथक् पङ्क्तीरुभयेषां जगत्पति: ।
तांश्चोपवेशयामास स्वेषु स्वेषु च पङ्क्तिषु ॥ २० ॥

Text 21

दैत्यान्गृहीतकलसो वञ्चयन्नुपसञ्चरै: ।
दूरस्थान् पाययामास जरामृत्युहरां सुधाम् ॥ २१ ॥

Text 22

ते पालयन्त: समयमसुरा: स्वकृतं नृप ।
तूष्णीमासन्कृतस्‍नेहा: स्त्रीविवादजुगुप्सया ॥ २२ ॥

Text 23

तस्यां कृतातिप्रणया: प्रणयापायकातरा: ।
बहुमानेन चाबद्धा नोचु: किञ्चन विप्रियम् ॥ २३ ॥

Text 24

देवलिङ्गप्रतिच्छन्न: स्वर्भानुर्देवसंसदि ।
प्रविष्ट: सोममपिबच्चन्द्रार्काभ्यां च सूचित: ॥ २४ ॥

Text 25

चक्रेण क्षुरधारेण जहार पिबत: शिर: ।
हरिस्तस्य कबन्धस्तु सुधयाप्लावितोऽपतत् ॥ २५ ॥

Text 26

शिरस्त्वमरतां नीतमजो ग्रहमचीक्लृपत् ।
यस्तु पर्वणि चन्द्रार्कावभिधावति वैरधी: ॥ २६ ॥

Text 27

पीतप्रायेऽमृते देवैर्भगवान् लोकभावन: ।
पश्यतामसुरेन्द्राणां स्वं रूपं जगृहे हरि: ॥ २७ ॥

Text 28

एवं सुरासुरगणा: समदेशकाल-
हेत्वर्थकर्ममतयोऽपि फले विकल्पा: ।
तत्रामृतं सुरगणा: फलमञ्जसापु-
र्यत्पादपङ्कजरज:श्रयणान्न दैत्या: ॥ २८ ॥

Text 29

यद् युज्यतेऽसुवसुकर्ममनोवचोभि-
र्देहात्मजादिषु नृभिस्तदसत् पृथक्त्वात् ।
तैरेव सद् भवति यत् क्रियतेऽपृथक्त्वात्
सर्वस्य तद् भवति मूलनिषेचनं यत् ॥ २९ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here