Mail ID: contact@vedavarsity.com

Contact: +91 9634998911

Google search engineGoogle search engine
Home Blog Page 89

Srimad Bhagavatam | Canto 3 | Chapter 6 | Verses

0

Creation of the Universal Form

Text 1

ऋषिरुवाच
इति तासां स्वशक्तीनां सतीनामसमेत्य स: ।
प्रसुप्तलोकतन्त्राणां निशाम्य गतिमीश्वर: ॥ १ ॥

Text 2

कालसंज्ञां तदा देवीं बिभ्रच्छक्तिमुरुक्रम: ।
त्रयोविंशतितत्त्वानां गणं युगपदाविशत् ॥ २ ॥

Text 3

सोऽनुप्रविष्टो भगवांश्चेष्टारूपेण तं गणम् ।
भिन्नं संयोजयमास सुप्तं कर्म प्रबोधयन् ॥ ३ ॥

Text 4

प्रबुद्धकर्मा दैवेन त्रयोविंशतिको गण: ।
प्रेरितोऽजनयत्स्वाभिर्मात्राभिरधिपूरुषम् ॥ ४ ॥

Text 5

परेण विशता स्वस्मिन्मात्रया विश्वसृग्गण: ।
चुक्षोभान्योन्यमासाद्य यस्मिन्लोकाश्चराचरा: ॥ ५ ॥

Text 6

हिरण्मय: स पुरुष: सहस्रपरिवत्सरान् ।
आण्डकोश उवासाप्सु सर्वसत्त्वोपबृंहित: ॥ ६ ॥

Text 7

स वै विश्वसृजां गर्भो देवकर्मात्मशक्तिमान् ।
विबभाजात्मनात्मानमेकधा दशधा त्रिधा ॥ ७ ॥

Text 8

एष ह्यशेषसत्त्वानामात्मांश: परमात्मन: ।
आद्योऽवतारो यत्रासौ भूतग्रामो विभाव्यते ॥ ८ ॥

Text 9

साध्यात्म: साधिदैवश्च साधिभूत इति त्रिधा ।
विराट् प्राणो दशविध एकधा हृदयेन च ॥ ९ ॥

Text 10

स्मरन् विश्वसृजामीशो विज्ञापितमधोक्षज: ।
विराजमतपत्स्वेन तेजसैषां विवृत्तये ॥ १० ॥

Text 11

अथ तस्याभितप्तस्य कतिधायतनानि ह ।
निरभिद्यन्त देवानां तानि मे गदत: श‍ृणु ॥ ११ ॥

Text 12

तस्याग्निरास्यं निर्भिन्नं लोकपालोऽविशत्पदम् ।
वाचा स्वांशेन वक्तव्यं ययासौ प्रतिपद्यते ॥ १२ ॥

Text 13

निर्भिन्नं तालु वरुणो लोकपालोऽविशद्धरे: ।
जिह्वयांशेन च रसं ययासौ प्रतिपद्यते ॥ १३ ॥

Text 14

निर्भिन्ने अश्विनौ नासे विष्णोराविशतां पदम् ।
घ्राणेनांशेन गन्धस्य प्रतिपत्तिर्यतो भवेत् ॥ १४ ॥

Text 15

निर्भिन्ने अक्षिणी त्वष्टा लोकपालोऽविशद्विभो: ।
चक्षुषांशेन रूपाणां प्रतिपत्तिर्यतो भवेत् ॥ १५ ॥

Text 16

निर्भिन्नान्यस्य चर्माणि लोकपालोऽनिलोऽविशत् ।
प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते ॥ १६ ॥

Text 17

कर्णावस्य विनिर्भिन्नौ धिष्ण्यं स्वं विविशुर्दिश: ।
श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते ॥ १७ ॥

Text 18

त्वचमस्य विनिर्भिन्नां विविशुर्धिष्ण्यमोषधी: ।
अंशेन रोमभि: कण्डूं यैरसौ प्रतिपद्यते ॥ १८ ॥

Text 19

मेढ्रं तस्य विनिर्भिन्नं स्वधिष्ण्यं क उपाविशत् ।
रेतसांशेन येनासावानन्दं प्रतिपद्यते ॥ १९ ॥

Text 20

गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत् ।
पायुनांशेन येनासौ विसर्गं प्रतिपद्यते ॥ २० ॥

Text 21

हस्तावस्य विनिर्भिन्नाविन्द्र: स्वर्पतिराविशत् ।
वार्तयांशेन पुरुषो यया वृत्तिं प्रपद्यते ॥ २१ ॥

Text 22

पादावस्य विनिर्भिन्नौ लोकेशो विष्णुराविशत् ।
गत्या स्वांशेन पुरुषो यया प्राप्यं प्रपद्यते ॥ २२ ॥

Text 23

बुद्धिं चास्य विनिर्भिन्नां वागीशो धिष्ण्यमाविशत् ।
बोधेनांशेन बोद्धव्यम् प्रतिपत्तिर्यतो भवेत् ॥ २३ ॥

Text 24

हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यमाविशत् ।
मनसांशेन येनासौ विक्रियां प्रतिपद्यते ॥ २४ ॥

Text 25

आत्मानं चास्य निर्भिन्नमभिमानोऽविशत्पदम् ।
कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते ॥ २५ ॥

Text 26

सत्त्वं चास्य विनिर्भिन्नं महान्धिष्ण्यमुपाविशत् ।
चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते ॥ २६ ॥

Text 27

शीर्ष्णोऽस्य द्यौर्धरा पद्‍भ्यां खं नाभेरुदपद्यत ।
गुणानां वृत्तयो येषु प्रतीयन्ते सुरादय: ॥ २७ ॥

Text 28

आत्यन्तिकेन सत्त्वेन दिवं देवा: प्रपेदिरे ।
धरां रज:स्वभावेन पणयो ये च ताननु ॥ २८ ॥

Text 29

तार्तीयेन स्वभावेन भगवन्नाभिमाश्रिता: ।
उभयोरन्तरं व्योम ये रुद्रपार्षदां गणा: ॥ २९ ॥

Text 30

मुखतोऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह ।
यस्तून्मुखत्वाद्वर्णानां मुख्योऽभूद्ब्राह्मणो गुरु: ॥ ३० ॥

Text 31

बाहुभ्योऽवर्तत क्षत्रं क्षत्रियस्तदनुव्रत: ।
यो जातस्त्रायते वर्णान् पौरुष: कण्टकक्षतात् ॥ ३१ ॥

Text 32

विशोऽवर्तन्त तस्योर्वोर्लोकवृत्तिकरीर्विभो: ।
वैश्यस्तदुद्भवो वार्तां नृणां य: समवर्तयत् ॥ ३२ ॥

Text 33

पद्‍भ्यां भगवतो जज्ञे शुश्रूषा धर्मसिद्धये ।
तस्यां जात: पुरा शूद्रो यद्‌वृत्त्या तुष्यते हरि: ॥ ३३ ॥

Text 34

एते वर्णा: स्वधर्मेण यजन्ति स्वगुरुं हरिम् ।
श्रद्धयात्मविशुद्ध्यर्थं यज्जाता: सह वृत्तिभि: ॥ ३४ ॥

Text 35

एतत्क्षत्तर्भगवतो दैवकर्मात्मरूपिण: ।
क: श्रद्दध्यादुपाकर्तुं योगमायाबलोदयम् ॥ ३५ ॥

Text 36

तथापि कीर्तयाम्यङ्ग यथामति यथाश्रुतम् ।
कीर्तिं हरे: स्वां सत्कर्तुं गिरमन्याभिधासतीम् ॥ ३६ ॥

Text 37

एकान्तलाभं वचसो नु पुंसां
सुश्लोकमौलेर्गुणवादमाहु: ।
श्रुतेश्च विद्वद्‍‌भिरुपाकृतायां
कथासुधायामुपसम्प्रयोगम् ॥ ३७ ॥

Text 38

आत्मनोऽवसितो वत्स महिमा कविनादिना ।
संवत्सरसहस्रान्ते धिया योगविपक्‍कया ॥ ३८ ॥

Text 39

अतो भगवतो माया मायिनामपि मोहिनी ।
यत्स्वयं चात्मवर्त्मात्मा न वेद किमुतापरे ॥ ३९ ॥

Text 40

यतोऽप्राप्य न्यवर्तन्त वाचश्च मनसा सह ।
अहं चान्य इमे देवास्तस्मै भगवते नम: ॥ ४० ॥

Srimad Bhagavatam | Canto 3 | Chapter 5 | Verses

0

Vidura’s Talks with Maitreya

Text 1

श्री शुक उवाच
द्वारि द्युनद्या ऋषभ: कुरूणां
मैत्रेयमासीनमगाधबोधम् ।
क्षत्तोपसृत्याच्युतभावसिद्ध:
पप्रच्छ सौशील्यगुणाभितृप्त: ॥ १ ॥

Text 2

विदुर उवाच
सुखाय कर्माणि करोति लोको
न तै: सुखं वान्यदुपारमं वा ।
विन्देत भूयस्तत एव दु:खं
यदत्र युक्तं भगवान् वदेन्न: ॥ २ ॥

Text 3

जनस्य कृष्णाद्विमुखस्य दैवा-
दधर्मशीलस्य सुदु:खितस्य ।
अनुग्रहायेह चरन्ति नूनं
भूतानि भव्यानि जनार्दनस्य ॥ ३ ॥

Text 4

तत्साधुवर्यादिश वर्त्म शं न:
संराधितो भगवान् येन पुंसाम् ।
हृदि स्थितो यच्छति भक्तिपूते
ज्ञानं सतत्त्वाधिगमं पुराणम् ॥ ४ ॥

Text 5

करोति कर्माणि कृतावतारो
यान्यात्मतन्त्रो भगवांस्त्र्यधीश: ।
यथा ससर्जाग्र इदं निरीह:
संस्थाप्य वृत्तिं जगतो विधत्ते ॥ ५ ॥

Text 6

यथा पुन: स्वे ख इदं निवेश्य
शेते गुहायां स निवृत्तवृत्ति: ।
योगेश्वराधीश्वर एक एत-
दनुप्रविष्टो बहुधा यथासीत् ॥ ६ ॥

Text 7

क्रीडन् विधत्ते द्विजगोसुराणां
क्षेमाय कर्माण्यवतारभेदै: ।
मनो न तृप्यत्यपि श‍ृण्वतां न:
सुश्लोकमौलेश्चरितामृतानि ॥ ७ ॥

Text 8

यैस्तत्त्वभेदैरधिलोकनाथो
लोकानलोकान् सह लोकपालान् ।
अचीक्लृपद्यत्र हि सर्वसत्त्व-
निकायभेदोऽधिकृत: प्रतीत: ॥ ८ ॥

Text 9

येन प्रजानामुत आत्मकर्म-
रूपाभिधानां य भिदां व्यधत्त ।
नारायणो विश्वसृगात्मयोनि-
रेतच्च नो वर्णय विप्रवर्य ॥ ९ ॥

Text 10

परावरेषां भगवन् व्रतानि
श्रुतानि मे व्यासमुखादभीक्ष्णम् ।
अतृप्नुम क्षुल्लसुखावहानां
तेषामृते कृष्णकथामृतौघात् ॥ १० ॥

Text 11

कस्तृप्नुयात्तीर्थपदोऽभिधानात्
सत्रेषु व: सूरिभिरीड्यमानात् ।
य: कर्णनाडीं पुरुषस्य यातो
भवप्रदां गेहरतिं छिनत्ति ॥ ११ ॥

Text 12

मुनिर्विवक्षुर्भगवद्गुणानां
सखापि ते भारतमाह कृष्ण: ।
यस्मिन्नृणां ग्राम्यसुखानुवादै-
र्मतिर्गृहीता नु हरे: कथायाम् ॥ १२ ॥

Text 13

सा श्रद्दधानस्य विवर्धमाना
विरक्तिमन्यत्र करोति पुंस: ।
हरे: पदानुस्मृतिनिर्वृतस्य
समस्तदु:खाप्ययमाशु धत्ते ॥ १३ ॥

Text 14

ताञ्छोच्यशोच्यानविदोऽनुशोचे
हरे: कथायां विमुखानघेन ।
क्षिणोति देवोऽनिमिषस्तु येषा-
मायुर्वृथावादगतिस्मृतीनाम् ॥ १४ ॥

Text 15

तदस्य कौषारव शर्मदातु-
र्हरे: कथामेव कथासु सारम् ।
उद्‍धृत्य पुष्पेभ्य इवार्तबन्धो
शिवाय न: कीर्तय तीर्थकीर्ते: ॥ १५ ॥

Text 16

स विश्वजन्मस्थितिसंयमार्थे
कृतावतार: प्रगृहीतशक्ति: ।
चकार कर्माण्यतिपूरुषाणि
यानीश्वर: कीर्तय तानि मह्यम् ॥ १६ ॥

Text 17

श्री शुक उवाच
स एवं भगवान् पृष्ट: क्षत्‍त्रा कौषारवो मुनि: ।
पुंसां नि:श्रेयसार्थेन तमाह बहुमानयन् ॥ १७ ॥

Text 18

मैत्रेय उवाच
साधु पृष्टं त्वया साधो लोकान् साध्वनुगृह्णता ।
कीर्तिं वितन्वता लोके आत्मनोऽधोक्षजात्मन: ॥ १८ ॥

Text 19

नैतच्चित्रं त्वयि क्षत्तर्बादरायणवीर्यजे ।
गृहीतोऽनन्यभावेन यत्त्वया हरिरीश्वर: ॥ १९ ॥

Text 20

माण्डव्यशापाद्भगवान् प्रजासंयमनो यम: ।
भ्रातु: क्षेत्रे भुजिष्यायां जात: सत्यवतीसुतात् ॥ २० ॥

Text 21

भवान् भगवतो नित्यं सम्मत: सानुगस्य ह ।
यस्य ज्ञानोपदेशाय मादिशद्भगवान् व्रजन् ॥ २१ ॥

Text 22

अथ ते भगवल्लीला योगमायोरुबृंहिता: ।
विश्वस्थित्युद्भवान्तार्था वर्णयाम्यनुपूर्वश: ॥ २२ ॥

Text 23

भगवानेक आसेदमग्र आत्मात्मनां विभु: ।
आत्मेच्छानुगतावात्मा नानामत्युपलक्षण: ॥ २३ ॥

Text 24

स वा एष तदा द्रष्टा नापश्यद् द‍ृश्यमेकराट् ।
मेनेऽसन्तमिवात्मानं सुप्तशक्तिरसुप्तद‍ृक् ॥ २४ ॥

Text 25

सा वा एतस्य संद्रष्टु: शक्ति: सदसदात्मिका ।
माया नाम महाभाग ययेदं निर्ममे विभु: ॥ २५ ॥

Text 26

कालवृत्त्या तु मायायां गुणमय्यामधोक्षज: ।
पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान् ॥ २६ ॥

Text 27

ततोऽभवन् महत्तत्त्वमव्यक्तात्कालचोदितात् ।
विज्ञानात्मात्मदेहस्थं विश्वं व्यञ्जंस्तमोनुद: ॥ २७ ॥

Text 28

सोऽप्यंशगुणकालात्मा भगवद्‍दृष्टिगोचर: ।
आत्मानं व्यकरोदात्मा विश्वस्यास्य सिसृक्षया ॥ २८ ॥

Text 29

महत्तत्त्वाद्विकुर्वाणादहंतत्त्वं व्यजायत ।
कार्यकारणकर्त्रात्मा भूतेन्द्रियमनोमय: ।
वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ॥ २९ ॥

Text 30

अहंतत्त्वाद्विकुर्वाणान्मनो वैकारिकादभूत् ।
वैकारिकाश्च ये देवा अर्थाभिव्यञ्जनं यत: ॥ ३० ॥

Text 31

तैजसानीन्द्रियाण्येव ज्ञानकर्ममयानि च ॥ ३१ ॥

Text 32

तामसो भूतसूक्ष्मादिर्यत: खं लिङ्गमात्मन: ॥ ३२ ॥

Text 33

कालमायांशयोगेन भगवद्वीक्षितं नभ: ।
नभसोऽनुसृतं स्पर्शं विकुर्वन्निर्ममेऽनिलम् ॥ ३३ ॥

Text 34

अनिलोऽपि विकुर्वाणो नभसोरुबलान्वित: ।
ससर्ज रूपतन्मात्रं ज्योतिर्लोकस्य लोचनम् ॥ ३४ ॥

Text 35

अनिलेनान्वितं ज्योतिर्विकुर्वत्परवीक्षितम् ।
आधत्ताम्भो रसमयं कालमायांशयोगत: ॥ ३५ ॥

Text 36

ज्योतिषाम्भोऽनुसंसृष्टं विकुर्वद्ब्रह्मवीक्षितम् ।
महीं गन्धगुणामाधात्कालमायांशयोगत: ॥ ३६ ॥

Text 37

भूतानां नभ आदीनां यद्यद्भव्यावरावरम् ।
तेषां परानुसंसर्गाद्यथासंख्यं गुणान् विदु: ॥ ३७ ॥

Text 38

एते देवा: कला विष्णो: कालमायांशलिङ्गिन: ।
नानात्वात्स्वक्रियानीशा: प्रोचु: प्राञ्जलयो विभुम् ॥ ३८ ॥

Text 39

देवा ऊचु:
नमाम ते देव पदारविन्दं
प्रपन्नतापोपशमातपत्रम् ।
यन्मूलकेता यतयोऽञ्जसोरु-
संसारदु:खं बहिरुत्क्षिपन्ति ॥ ३९ ॥

Text 40

धातर्यदस्मिन् भव ईश जीवा-
स्तापत्रयेणाभिहता न शर्म ।
आत्मन्लभन्ते भगवंस्तवाङ्‌घ्रि-
च्छायां सविद्यामत आश्रयेम ॥ ४० ॥

Text 41

मार्गन्ति यत्ते मुखपद्मनीडै-
श्छन्द:सुपर्णैऋर्षयो विविक्ते ।
यस्याघमर्षोदसरिद्वराया:
पदं पदं तीर्थपद: प्रपन्ना: ॥ ४१ ॥

Text 42

यच्छ्रद्धया श्रुतवत्या य भक्त्या
संमृज्यमाने हृदयेऽवधाय ।
ज्ञानेन वैराग्यबलेन धीरा
व्रजेम तत्तेऽङ्‌घ्रिसरोजपीठम् ॥ ४२ ॥

Text 43

विश्वस्य जन्मस्थितिसंयमार्थे
कृतावतारस्य पदाम्बुजं ते ।
व्रजेम सर्वे शरणं यदीश
स्मृतं प्रयच्छत्यभयं स्वपुंसाम् ॥ ४३ ॥

Text 44

यत्सानुबन्धेऽसति देहगेहे
ममाहमित्यूढदुराग्रहाणाम् ।
पुंसां सुदूरं वसतोऽपि पुर्यां
भजेम तत्ते भगवन् पदाब्जम् ॥ ४४ ॥

Text 45

तान् वै ह्यसद्‌वृत्तिभिरक्षिभिर्ये
पराहृतान्तर्मनस: परेश ।
अथो न पश्यन्त्युरुगाय नूनं
ये ते पदन्यासविलासलक्ष्या: ॥ ४५ ॥

Text 46

पानेन ते देव कथासुधाया:
प्रवृद्धभक्त्या विशदाशया ये ।
वैराग्यसारं प्रतिलभ्य बोधं
यथाञ्जसान्वीयुरकुण्ठधिष्ण्यम् ॥ ४६ ॥

Text 47

तथापरे चात्मसमाधियोग-
बलेन जित्वा प्रकृतिं बलिष्ठाम् ।
त्वामेव धीरा: पुरुषं विशन्ति
तेषां श्रम: स्यान्न तु सेवया ते ॥ ४७ ॥

Text 48

तत्ते वयं लोकसिसृक्षयाद्य
त्वयानुसृष्टास्त्रिभिरात्मभि: स्म ।
सर्वे वियुक्ता: स्वविहारतन्त्रं
न शक्नुमस्तत्प्रतिहर्तवे ते ॥ ४८ ॥

Text 49

यावद्बलिं तेऽज हराम काले
यथा वयं चान्नमदाम यत्र ।
यथोभयेषां त इमे हि लोका
बलिं हरन्तोऽन्नमदन्त्यनूहा: ॥ ४९ ॥

Text 50

त्वं न: सुराणामसि सान्वयानां
कूटस्थ आद्य: पुरुष: पुराण: ।
त्वं देव शक्त्यां गुणकर्मयोनौ
रेतस्त्वजायां कविमादधेऽज: ॥ ५० ॥

Text 51

ततो वयं मत्प्रमुखा यदर्थे
बभूविमात्मन् करवाम किं ते ।
त्वं न: स्वचक्षु: परिदेहि शक्त्या
देव क्रियार्थे यदनुग्रहाणाम् ॥ ५१ ॥

Srimad Bhagavatam | Canto 3 | Chapter 4 | Verses

0

Vidura Approaches Maitreya

Text 1

उद्धव उवाच
अथ ते तदनुज्ञाता भुक्त्वा पीत्वा च वारुणीम् ।
तया विभ्रंशितज्ञाना दुरुक्तैर्मर्म पस्पृश: ॥ १ ॥

Text 2

तेषां मैरेयदोषेण विषमीकृतचेतसाम् ।
निम्‍लोचति रवावासीद्वेणूनामिव मर्दनम् ॥ २ ॥

Text 3

भगवान् स्वात्ममायाया गतिं तामवलोक्य स: ।
सरस्वतीमुपस्पृश्य वृक्षमूलमुपाविशत् ॥ ३ ॥

Text 4

अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह ।
बदरीं त्वं प्रयाहीति स्वकुलं संजिहीर्षुणा ॥ ४ ॥

Text 5

तथापि तदभिप्रेतं जानन्नहमरिन्दम ।
पृष्ठतोऽन्वगमं भर्तु: पादविश्लेषणाक्षम: ॥ ५ ॥

Text 6

अद्राक्षमेकमासीनं विचिन्वन् दयितं पतिम् ।
श्रीनिकेतं सरस्वत्यां कृतकेतमकेतनम् ॥ ६ ॥

Text 7

श्यामावदातं विरजं प्रशान्तारुणलोचनम् ।
दोर्भिश्चतुर्भिर्विदितं पीतकौशाम्बरेण च ॥ ७ ॥

Text 8

वाम ऊरावधिश्रित्य दक्षिणाङ्‌घ्रि सरोरुहम् ।
अपाश्रितार्भकाश्वत्थमकृशं त्यक्तपिप्पलम् ॥ ८ ॥

Text 9

तस्मिन्महाभागवतो द्वैपायनसुहृत्सखा ।
लोकाननुचरन् सिद्ध आससाद यद‍ृच्छया ॥ ९ ॥

Text 10

तस्यानुरक्तस्य मुनेर्मुकुन्द:
प्रमोदभावानतकन्धरस्य ।
आश‍ृण्वतो मामनुरागहास-
समीक्षया विश्रमयन्नुवाच ॥ १० ॥

Text 11

श्री भगवानुवाच
वेदाहमन्तर्मनसीप्सितं ते
ददामि यत्तद् दुरवापमन्यै: ।
सत्रे पुरा विश्वसृजां वसूनां
मत्सिद्धिकामेन वसो त्वयेष्ट: ॥ ११ ॥

Text 12

स एष साधो चरमो भवाना-
मासादितस्ते मदनुग्रहो यत् ।
यन्मां नृलोकान् रह उत्सृजन्तं
दिष्टय‍ा दद‍ृश्वान् विशदानुवृत्त्या ॥ १२ ॥

Text 13

पुरा मया प्रोक्तमजाय नाभ्ये
पद्मे निषण्णाय ममादिसर्गे ।
ज्ञानं परं मन्महिमावभासं
यत्सूरयो भागवतं वदन्ति ॥ १३ ॥

Text 14

इत्याद‍ृतोक्त: परमस्य पुंस:
प्रतिक्षणानुग्रहभाजनोऽहम् ।
स्‍नेहोत्थरोमा स्खलिताक्षरस्तं
मुञ्चञ्छुच: प्राञ्जलिराबभाषे ॥ १४ ॥

Text 15

को न्वीश ते पादसरोजभाजां
सुदुर्लभोऽर्थेषु चतुर्ष्वपीह ।
तथापि नाहं प्रवृणोमि भूमन्
भवत्पदाम्भोजनिषेवणोत्सुक: ॥ १५ ॥

Text 16

कर्माण्यनीहस्य भवोऽभवस्य ते
दुर्गाश्रयोऽथारिभयात्पलायनम् ।
कालात्मनो यत्प्रमदायुताश्रम:
स्वात्मन्रते: खिद्यति धीर्विदामिह ॥ १६ ॥

Text 17

मन्त्रेषु मां वा उपहूय यत्त्व-
मकुण्ठिताखण्डसदात्मबोध: ।
पृच्छे: प्रभो मुग्ध इवाप्रमत्त-
स्तन्नो मनो मोहयतीव देव ॥ १७ ॥

Text 18

ज्ञानं परं स्वात्मरह:प्रकाशं
प्रोवाच कस्मै भगवान् समग्रम् ।
अपि क्षमं नो ग्रहणाय भर्त-
र्वदाञ्जसा यद् वृजिनं तरेम ॥ १८ ॥

Text 19

इत्यावेदितहार्दाय मह्यं स भगवान् पर: ।
आदिदेशारविन्दाक्ष आत्मन: परमां स्थितिम् ॥ १९ ॥

Text 20

स एवमाराधितपादतीर्था-
दधीततत्त्वात्मविबोधमार्ग:
प्रणम्य पादौ परिवृत्य देव-
मिहागतोऽहं विरहातुरात्मा ॥ २० ॥

Text 21

सोऽहं तद्दर्शनाह्लादवियोगार्तियुत: प्रभो ।
गमिष्ये दयितं तस्य बदर्याश्रममण्डलम् ॥ २१ ॥

Text 22

यत्र नारायणो देवो नरश्च भगवानृषि: ।
मृदु तीव्रं तपो दीर्घं तेपाते लोकभावनौ ॥ २२ ॥

Text 23

श्री शुक उवाच
इत्युद्धवादुपाकर्ण्य सुहृदां दु:सहं वधम् ।
ज्ञानेनाशमयत्क्षत्ता शोकमुत्पतितं बुध: ॥ २३ ॥

Text 24

स तं महाभागवतं व्रजन्तं कौरवर्षभ: ।
विश्रम्भादभ्यधत्तेदं मुख्यं कृष्णपरिग्रहे ॥ २४ ॥

Text 25

विदुर उवाच
ज्ञानं परं स्वात्मरह:प्रकाशं
यदाह योगेश्वर ईश्वरस्ते ।
वक्तुं भवान्नोऽर्हति यद्धि विष्णो-
र्भृत्या: स्वभृत्यार्थकृतश्चरन्ति ॥ २५ ॥

Text 26

उद्धव उवाच
ननु ते तत्त्वसंराध्य ऋषि: कौषारवोऽन्तिके ।
साक्षाद्भगवतादिष्टो मर्त्यलोकं जिहासता ॥ २६ ॥

Text 27

श्री शुक उवाच
इति सह विदुरेण विश्वमूर्ते-
र्गुणकथया सुधयाप्लावितोरुताप: ।
क्षणमिव पुलिने यमस्वसुस्तां
समुषित औपगविर्निशां ततोऽगात् ॥ २७ ॥

Text 28

राजोवाच
निधनमुपगतेषु वृष्णिभोजे-
ष्वधिरथयूथपयूथपेषु मुख्य: ।
स तु कथमवशिष्ट उद्धवो यद्धरि-
रपि तत्यज आकृतिं त्र्यधीश: ॥ २८ ॥

Text 29

श्री शुक उवाच
ब्रह्मशापापदेशेन कालेनामोघवाञ्छित: ।
संहृत्य स्वकुलं स्फीतं त्यक्ष्यन्देहमचिन्तयत् ॥ २९ ॥

Text 30

अस्माल्लोकादुपरते मयि ज्ञानं मदाश्रयम् ।
अर्हत्युद्धव एवाद्धा सम्प्रत्यात्मवतां वर: ॥ ३० ॥

Text 31

नोद्धवोऽण्वपि मन्न्यूनो यद्गुणैर्नार्दित: प्रभु: ।
अतो मद्वयुनं लोकं ग्राहयन्निह तिष्ठतु ॥ ३१ ॥

Text 32

एवं त्रिलोकगुरुणा सन्दिष्ट: शब्दयोनिना ।
बदर्याश्रममासाद्य हरिमीजे समाधिना ॥ ३२ ॥

Text 33

विदुरोऽप्युद्धवाच्छ्रुत्वा कृष्णस्य परमात्मन: ।
क्रीडयोपात्तदेहस्य कर्माणि श्लाघितानि च ॥ ३३ ॥

Text 34

देहन्यासं च तस्यैवं धीराणां धैर्यवर्धनम् ।
अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम् ॥ ३४ ॥

Text 35

आत्मानं च कुरुश्रेष्ठ कृष्णेन मनसेक्षितम् ।
ध्यायन् गते भागवते रुरोद प्रेमविह्वल: ॥ ३५ ॥

Text 36

कालिन्द्या: कतिभि: सिद्ध अहोभिर्भरतर्षभ ।
प्रापद्यत स्व:सरितं यत्र मित्रासुतो मुनि: ॥ ३६ ॥

Srimad Bhagavatam | Canto 3 | Chapter 3 | Verses

0

The Lord’s Pastimes Out of Vṛndāvana

Text 1

उद्धव उवाच
तत: स आगत्य पुरं स्वपित्रो-
श्चिकीर्षया शं बलदेवसंयुत: ।
निपात्य तुङ्गाद्रिपुयूथनाथं
हतं व्यकर्षद् व्यसुमोजसोर्व्याम् ॥ १ ॥

Text 2

सान्दीपने: सकृत्प्रोक्तं ब्रह्माधीत्य सविस्तरम् ।
तस्मै प्रादाद्वरं पुत्रं मृतं पञ्चजनोदरात् ॥ २ ॥

Text 3

समाहुता भीष्मककन्यया ये
श्रिय: सवर्णेन बुभूषयैषाम् ।
गान्धर्ववृत्त्या मिषतां स्वभागं
जह्रे पदं मूर्ध्नि दधत्सुपर्ण: ॥ ३ ॥

Text 4

ककुद्मिनोऽविद्धनसो दमित्वा
स्वयंवरे नाग्नजितीमुवाह ।
तद्भग्नमानानपि गृध्यतोऽज्ञा-
ञ्जघ्नेऽक्षत: शस्त्रभृत: स्वशस्त्रै: ॥ ४ ॥

Text 5

प्रियं प्रभुर्ग्राम्य इव प्रियाया
विधित्सुरार्च्छद् द्युतरुं यदर्थे ।
वज्र्याद्रवत्तं सगणो रुषान्ध:
क्रीडामृगो नूनमयं वधूनाम् ॥ ५ ॥

Text 6

सुतं मृधे खं वपुषा ग्रसन्तं
दृष्ट्वा सुनाभोन्मथितं धरित्र्या ।
आमन्त्रितस्तत्तनयाय शेषं
दत्त्वा तदन्त:पुरमाविवेश ॥ ६ ॥

Text 7

तत्राहृतास्ता नरदेवकन्या:
कुजेन दृष्ट्वा हरिमार्तबन्धुम् ।
उत्थाय सद्यो जगृहु: प्रहर्ष-
व्रीडानुरागप्रहितावलोकै: ॥ ७ ॥

Text 8

आसां मुहूर्त एकस्मिन्नानागारेषु योषिताम् ।
सविधं जगृहे पाणीननुरूप: स्वमायया ॥ ८ ॥

Text 9

तास्वपत्यान्यजनयदात्मतुल्यानि सर्वत: ।
एकैकस्यां दश दश प्रकृतेर्विबुभूषया ॥ ९ ॥

Text 10

कालमागधशाल्वादीननीकै रुन्धत: पुरम् ।
अजीघनत्स्वयं दिव्यं स्वपुंसां तेज आदिशत् ॥ १० ॥

Text 11

शम्बरं द्विविदं बाणं मुरं बल्वलमेव च ।
अन्यांश्च दन्तवक्रादीनवधीत्कांश्च घातयत् ॥ ११ ॥

Text 12

अथ ते भ्रातृपुत्राणां पक्षयो: पतितान्नृपान् ।
चचाल भू: कुरुक्षेत्रं येषामापततां बलै: ॥ १२ ॥

Text 13

सकर्णदु:शासनसौबलानां
कुमन्त्रपाकेन हतश्रियायुषम् ।
सुयोधनं सानुचरं शयानं
भग्नोरुमूर्व्यां न ननन्द पश्यन् ॥ १३ ॥

Text 14

कियान् भुवोऽयं क्षपितोरुभारो
यद्‌द्रोणभीष्मार्जुनभीममूलै: ।
अष्टादशाक्षौहिणिको मदंशै-
रास्ते बलं दुर्विषहं यदूनाम् ॥ १४ ॥

Text 15

मिथो यदैषां भविता विवादो
मध्वामदाताम्रविलोचनानाम् ।
नैषां वधोपाय इयानतोऽन्यो
मय्युद्यतेऽन्तर्दधते स्वयं स्म ॥ १५ ॥

Text 16

एवं सञ्चिन्त्य भगवान् स्वराज्ये स्थाप्य धर्मजम् ।
नन्दयामास सुहृद: साधूनां वर्त्म दर्शयन् ॥ १६ ॥

Text 17

उत्तरायां धृत: पूरोर्वंश: साध्वभिमन्युना ।
स वै द्रौण्यस्त्रसंप्लुष्ट: पुनर्भगवता धृत: ॥ १७ ॥

Text 18

अयाजयद्धर्मसुतमश्वमेधैस्त्रिभिर्विभु: ।
सोऽपि क्ष्मामनुजै रक्षन् रेमे कृष्णमनुव्रत: ॥ १८ ॥

Text 19

भगवानपि विश्वात्मा लोकवेदपथानुग: ।
कामान् सिषेवे द्वार्वत्यामसक्त: सांख्यमास्थित: ॥ १९ ॥

Text 20

स्‍निग्धस्मितावलोकेन वाचा पीयूषकल्पया ।
चरित्रेणानवद्येन श्रीनिकेतेन चात्मना ॥ २० ॥

Text 21

इमं लोकममुं चैव रमयन् सुतरां यदून् ।
रेमे क्षणदया दत्तक्षणस्त्रीक्षणसौहृद: ॥ २१ ॥

Text 22

तस्यैवं रममाणस्य संवत्सरगणान् बहून् ।
गृहमेधेषु योगेषु विराग: समजायत ॥ २२ ॥

Text 23

दैवाधीनेषु कामेषु दैवाधीन: स्वयं पुमान् ।
को विश्रम्भेत योगेन योगेश्वरमनुव्रत: ॥ २३ ॥

Text 24

पुर्यां कदाचित्क्रीडद्‍‌भिर्यदुभोजकुमारकै: ।
कोपिता मुनय: शेपुर्भगवन्मतकोविदा: ॥ २४ ॥

Text 25

तत: कतिपयैर्मासैर्वृष्णिभोजान्धकादय: ।
ययु: प्रभासं संहृष्टा रथैर्देवविमोहिता: ॥ २५ ॥

Text 26

तत्र स्‍नात्वा पितृन्देवानृषींश्चैव तदम्भसा ।
तर्पयित्वाथ विप्रेभ्यो गावो बहुगुणा ददु: ॥ २६ ॥

Text 27

हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान् ।
यानं रथानिभान् कन्या धरां वृत्तिकरीमपि ॥ २७ ॥

Text 28

अन्नं चोरुरसं तेभ्यो दत्त्वा भगवदर्पणम् ।
गोविप्रार्थासव: शूरा: प्रणेमुर्भुवि मूर्धभि: ॥ २८ ॥

Srimad Bhagavatam | Canto 3 | Chapter 2 | Verses

0

Remembrance of Lord Kṛṣṇa

Text 1

श्री शुक उवाच
इति भागवत: पृष्ट: क्षत्‍त्रा वार्तां प्रियाश्रयाम् ।
प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात्स्मारितेश्वर: ॥ १ ॥

Text 2

य: पञ्चहायनो मात्रा प्रातराशाय याचित: ।
तन्नैच्छद्रचयन् यस्य सपर्यां बाललीलया ॥ २ ॥

Text 3

स कथं सेवया तस्य कालेन जरसं गत: ।
पृष्टो वार्तां प्रतिब्रूयाद्भर्तु: पादावनुस्मरन् ॥ ३ ॥

Text 4

स मुहूर्तमभूत्तूष्णीं कृष्णाङ्‌घ्रि सुधया भृशम् ।
तीव्रेण भक्तियोगेन निमग्न: साधु निर्वृत: ॥ ४ ॥

Text 5

पुलकोद्‍‌भिन्नसर्वाङ्गो मुञ्चन्मीलद्‍दृशा शुच: ।
पूर्णार्थो लक्षितस्तेन स्‍नेहप्रसरसंप्लुत: ॥ ५ ॥

Text 6

शनकैर्भगवल्लोकान्नृलोकं पुनरागत: ।
विमृज्य नेत्रे विदुरं प्रीत्याहोद्धव उत्स्मयन् ॥ ६ ॥

Text 7

उद्धव उवाच
कृष्णद्युमणिनिम्‍लोचे गीर्णेष्वजगरेण ह ।
किं
नु न: कुशलं ब्रूयां गतश्रीषु गृहेष्वहम् ॥ ७ ॥

Text 8

दुर्भगो बत लोकोऽयं यदवो नितरामपि ।
ये संवसन्तो न विदुर्हरिं मीना इवोडुपम् ॥ ८ ॥

Text 9

इङ्गितज्ञा: पुरुप्रौढा एकारामाश्च सात्वता: ।
सात्वतामृषभं सर्वे भूतावासममंसत ॥ ९ ॥

Text 10

देवस्य मायया स्पृष्टा ये चान्यदसदाश्रिता: ।
भ्राम्यते धीर्न तद्वाक्यैरात्मन्युप्तात्मनो हरौ ॥ १० ॥

Text 11

प्रदर्श्यातप्ततपसामवितृप्तद‍ृशां नृणाम् ।
आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम् ॥ ११ ॥

Text 12

यन्मर्त्यलीलौपयिकं स्वयोग-
मायाबलं दर्शयता गृहीतम् ।
विस्मापनं स्वस्य च सौभगर्द्धे:
परं पदं भूषणभूषणाङ्गम् ॥ १२ ॥

Text 13

यद्धर्मसूनोर्बत राजसूये
निरीक्ष्य द‍ृक्स्वस्त्ययनं त्रिलोक: ।
कार्त्स्‍न्येन चाद्येह गतं विधातु-
रर्वाक्सृतौ कौशलमित्यमन्यत ॥ १३ ॥

Text 14

यस्यानुरागप्लुतहासरास-
लीलावलोकप्रतिलब्धमाना: ।
व्रजस्त्रियो द‍ृग्भिरनुप्रवृत्त-
धियोऽवतस्थु: किल कृत्यशेषा: ॥ १४ ॥

Text 15

स्वशान्तरूपेष्वितरै: स्वरूपै-
रभ्यर्द्यमानेष्वनुकम्पितात्मा ।
परावरेशो महदंशयुक्तो
ह्यजोऽपि जातो भगवान् यथाग्नि: ॥ १५ ॥

Text 16

मां खेदयत्येतदजस्य जन्म-
विडम्बनं यद्वसुदेवगेहे ।
व्रजे च वासोऽरिभयादिव स्वयं
पुराद् व्यवात्सीद्यदनन्तवीर्य: ॥ १६ ॥

Text 17

दुनोति चेत: स्मरतो ममैतद्
यदाह पादावभिवन्द्य पित्रो: ।
ताताम्ब कंसादुरुशङ्कितानां
प्रसीदतं नोऽकृतनिष्कृतीनाम् ॥ १७ ॥

Text 18

को वा अमुष्याङ्‌घ्रि सरोजरेणुं
विस्मर्तुमीशीत पुमान् विजिघ्रन् ।
यो विस्फुरद्भ्रूविटपेन भूमे-
र्भारं कृतान्तेन तिरश्चकार ॥ १८ ॥

Text 19

द‍ृष्टा भवद्‍‌भिर्ननु राजसूये
चैद्यस्य कृष्णं द्विषतोऽपि सिद्धि: ।
यां योगिन: संस्पृहयन्ति सम्यग्
योगेन कस्तद्विरहं सहेत ॥ १९ ॥

Text 20

तथैव चान्ये नरलोकवीरा
य आहवे कृष्णमुखारविन्दम् ।
नेत्रै: पिबन्तो नयनाभिरामं
पार्थास्त्रपूत: पदमापुरस्य ॥ २० ॥

Text 21

स्वयं त्वसाम्यातिशयस्त्र्यधीश:
स्वाराज्यलक्ष्म्याप्तसमस्तकाम: ।
बलिं हरद्‍‌भिश्चिरलोकपालै:
किरीटकोट्येडितपादपीठ: ॥ २१ ॥

Text 22

तत्तस्य कैङ्कर्यमलं भृतान्नो
विग्लापयत्यङ्ग यदुग्रसेनम् ।
तिष्ठन्निषण्णं परमेष्ठिधिष्ण्ये
न्यबोधयद्देव निधारयेति ॥ २२ ॥

Text 23

अहो बकी यं स्तनकालकूटं
जिघांसयापाययदप्यसाध्वी ।
लेभे गतिं धात्र्युचितां ततोऽन्यं
कं वा दयालुं शरणं व्रजेम ॥ २३ ॥

Text 24

मन्येऽसुरान् भागवतांस्त्र्यधीशे
संरम्भमार्गाभिनिविष्टचित्तान् ।
ये संयुगेऽचक्षत तार्क्ष्यपुत्र-
मंसे सुनाभायुधमापतन्तम् ॥ २४ ॥

Text 25

वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने ।
चिकीर्षुर्भगवानस्या: शमजेनाभियाचित: ॥ २५ ॥

Text 26

ततो नन्दव्रजमित: पित्रा कंसाद्विबिभ्यता ।
एकादश समास्तत्र गूढार्चि: सबलोऽवसत् ॥ २६ ॥

Text 27

परीतो वत्सपैर्वत्सांश्चारयन् व्यहरद्विभु: ।
यमुनोपवने कूजद्‌द्विजसंकुलिताङ्‌घ्रिपे ॥ २७ ॥

Text 28

कौमारीं दर्शयंश्चेष्टां प्रेक्षणीयां व्रजौकसाम् ।
रुदन्निव हसन्मुग्धबालसिंहावलोकन: ॥ २८ ॥

Text 29

स एव गोधनं लक्ष्म्या निकेतं सितगोवृषम् ।
चारयन्ननुगान् गोपान् रणद्वेणुररीरमत् ॥ २९ ॥

Text 30

प्रयुक्तान् भोजराजेन मायिन: कामरूपिण: ।
लीलया व्यनुदत्तांस्तान् बाल: क्रीडनकानिव ॥ ३० ॥

Text 31

विपन्नान् विषपानेन निगृह्य भुजगाधिपम् ।
उत्थाप्यापाययद्गावस्तत्तोयं प्रकृतिस्थितम् ॥ ३१ ॥

Text 32

अयाजयद्गोसवेन गोपराजं द्विजोत्तमै: ।
वित्तस्य चोरुभारस्य चिकीर्षन् सद्वय‍यं विभु: ॥ ३२ ॥

Text 33

वर्षतीन्द्रे व्रज: कोपाद्भग्नमानेऽतिविह्वल: ।
गोत्रलीलातपत्रेण त्रातो भद्रानुगृह्णता ॥ ३३ ॥

Text 34

शरच्छशिकरैर्मृष्टं मानयन् रजनीमुखम् ।
गायन् कलपदं रेमे स्त्रीणां मण्डलमण्डन: ॥ ३४ ॥

Srimad Bhagavatam | Canto 3 | Chapter 1 | Verses

0

Questions by Vidura

Text 1

श्रीशुक उवाच
एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल ।
क्षत्‍त्रा
वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् ॥ १ ॥

Text 2

यद्वा अयं मन्त्रकृद्वो भगवानखिलेश्वर: ।
पौरवेन्द्रगृहं
हित्वा प्रविवेशात्मसात्कृतम् ॥ २ ॥

Text 3

राजोवाच
कुत्र क्षत्तुर्भगवता मैत्रेयेणास सङ्गम: ।
कदा
वा सह संवाद एतद्वर्णय न: प्रभो ॥ ३ ॥

Text 4

न ह्यल्पार्थोदयस्तस्य विदुरस्यामलात्मन: ।
तस्मिन् वरीयसि प्रश्न: साधुवादोपबृंहित: ॥ ४ ॥

Text 5

सूत उवाच
स एवमृषिवर्योऽयं पृष्टो राज्ञा परीक्षिता ।
प्रत्याह तं सुबहुवित्प्रीतात्मा श्रूयतामिति ॥ ५ ॥

Text 6

श्रीशुक उवाच
यदा तु राजा स्वसुतानसाधून्
पुष्णन्नधर्मेण विनष्टद‍ृष्टि: ।
भ्रातुर्यविष्ठस्य सुतान् विबन्धून्
प्रवेश्य लाक्षाभवने ददाह ॥ ६ ॥

Text 7

यदा सभायां कुरुदेवदेव्या:
केशाभिमर्शं सुतकर्म गर्ह्यम् ।
न वारयामास नृप: स्‍नुषाया:
स्वास्रैर्हरन्त्या: कुचकुङ्कुमानि ॥ ७ ॥

Text 8

द्यूते त्वधर्मेण जितस्य साधो:
सत्यावलम्बस्य वनं गतस्य ।
न याचतोऽदात्समयेन दायं
तमोजुषाणो यदजातशत्रो: ॥ ८ ॥

Text 9

यदा च पार्थप्रहित: सभायां
जगद्गुरुर्यानि जगाद कृष्ण: ।
न तानि पुंसाममृतायनानि
राजोरु मेने क्षतपुण्यलेश: ॥ ९ ॥

Text 10

यदोपहूतो भवनं प्रविष्टो
मन्त्राय पृष्ट: किल पूर्वजेन ।
अथाह तन्मन्त्रद‍ृशां वरीयान्
यन्मन्त्रिणो वैदुरिकं वदन्ति ॥ १० ॥

Text 11

अजातशत्रो: प्रतियच्छ दायं
तितिक्षतो दुर्विषहं तवाग: ।
सहानुजो यत्र वृकोदराहि:
श्वसन् रुषा यत्त्वमलं बिभेषि ॥ ११ ॥

Text 12

पार्थांस्तु देवो भगवान्मुकुन्दो
गृहीतवान् सक्षितिदेवदेव: ।
आस्ते स्वपुर्यां यदुदेवदेवो
विनिर्जिताशेषनृदेवदेव: ॥ १२ ॥

Text 13

स एष दोष: पुरुषद्विडास्ते
गृहान् प्रविष्टो यमपत्यमत्या ।
पुष्णासि कृष्णाद्विमुखो गतश्री-
स्त्यजाश्वशैवं कुलकौशलाय ॥ १३ ॥

Text 14

इत्यूचिवांस्तत्र सुयोधनेन
प्रवृद्धकोपस्फुरिताधरेण ।
असत्कृत: सत्स्पृहणीयशील:
क्षत्ता सकर्णानुजसौबलेन ॥ १४ ॥

Text 15

क एनमत्रोपजुहाव जिह्मं
दास्या: सुतं यद्बलिनैव पुष्ट: ।
तस्मिन् प्रतीप: परकृत्य आस्ते
निर्वास्यतामाशु पुराच्छ्‌वसान: ॥ १५ ॥

Text 16

स्वयं धनुर्द्वारि निधाय मायां
र्भ्रातु: पुरो मर्मसु ताडितोऽपि ।
स इत्थमत्युल्बणकर्णबाणै-
र्गतव्यथोऽयादुरु मानयान: ॥ १६ ॥

Text 17

स निर्गत: कौरवपुण्यलब्धो
गजाह्वयात्तीर्थपद: पदानि ।
अन्वाक्रमत्पुण्यचिकीर्षयोर्व्यां
अधिष्ठितो यानि सहस्रमूर्ति: ॥ १७ ॥

Text 18

पुरेषु पुण्योपवनाद्रिकुञ्जे-
ष्वपङ्कतोयेषु सरित्सर:सु ।
अनन्तलिङ्गै: समलङ्कृतेषु
चचार तीर्थायतनेष्वनन्य: ॥ १८ ॥

Text 19

गां पर्यटन्मेध्यविविक्तवृत्ति:
सदाप्लुतोऽध:शयनोऽवधूत: ।
अलक्षित: स्वैरवधूतवेषो
व्रतानि चेरे हरितोषणानि ॥ १९ ॥

Text 20

इत्थं व्रजन् भारतमेव वर्षं
कालेन यावद्‍गतवान् प्रभासम् ।
तावच्छशास क्षितिमेकचक्रा-
मेकातपत्रामजितेन पार्थ: ॥ २० ॥

Text 21

तत्राथ शुश्राव सुहृद्विनष्टिं
वनं यथा वेणुजवह्निसंश्रयम् ।
संस्पर्धया दग्धमथानुशोचन्
सरस्वतीं प्रत्यगियाय तूष्णीम् ॥ २१ ॥

Text 22

तस्यां त्रितस्योशनसो मनोश्च
पृथोरथाग्नेरसितस्य वायो: ।
तीर्थं सुदासस्य गवां गुहस्य
यच्छ्राद्धदेवस्य स आसिषेवे ॥ २२ ॥

Text 23

अन्यानि चेह द्विजदेवदेवै:
कृतानि नानायतनानि विष्णो: ।
प्रत्यङ्गमुख्याङ्कितमन्दिराणि
यद्दर्शनात्कृष्णमनुस्मरन्ति ॥ २३ ॥

Text 24

ततस्त्वतिव्रज्य सुराष्ट्रमृद्धं
सौवीरमत्स्यान् कुरुजाङ्गलांश्च ।
कालेन तावद्यमुनामुपेत्य
तत्रोद्धवं भागवतं ददर्श ॥ २४ ॥

Text 25

स वासुदेवानुचरं प्रशान्तं
बृहस्पते: प्राक् तनयं प्रतीतम् ।
आलिङ्ग्‍य गाढं प्रणयेन भद्रं
स्वानामपृच्छद्भगवत्प्रजानाम् ॥ २५ ॥

Text 26

कच्चित्पुराणौ पुरुषौ स्वनाभ्य-
पाद्मानुवृत्त्येह किलावतीर्णौ ।
आसात उर्व्या: कुशलं विधाय
कृतक्षणौ कुशलं शूरगेहे ॥ २६ ॥

Text 27

कच्चित्कुरूणां परम: सुहृन्नो
भाम: स आस्ते सुखमङ्ग शौरि: ।
यो वै स्वसृणां पितृवद्ददाति
वरान् वदान्यो वरतर्पणेन ॥ २७ ॥

Text 28

कच्चिद्वरूथाधिपतिर्यदूनां
प्रद्युम्न आस्ते सुखमङ्ग वीर: ।
यं रुक्‍मिणी भगवतोऽभिलेभे
आराध्य विप्रान् स्मरमादिसर्गे ॥ २८ ॥

Text 29

कच्चित्सुखं सात्वतवृष्णिभोज-
दाशार्हकाणामधिप: स आस्ते ।
यमभ्यषिञ्चच्छतपत्रनेत्रो
नृपासनाशां परिहृत्य दूरात् ॥ २९ ॥

Text 30

कच्चिद्धरे: सौम्य सुत: सद‍ृक्ष
आस्तेऽग्रणी रथिनां साधु साम्ब: ।
असूत यं जाम्बवती व्रताढ्या
देवं गुहं योऽम्बिकया धृतोऽग्रे ॥ ३० ॥

Text 31

क्षेमं स कच्चिद्युयुधान आस्ते
य: फाल्गुनाल्लब्धधनूरहस्य: ।
लेभेऽञ्जसाधोक्षजसेवयैव
गतिं तदीयां यतिभिर्दुरापाम् ॥ ३१ ॥

Text 32

कच्चिद् बुध: स्वस्त्यनमीव आस्ते
श्वफल्कपुत्रो भगवत्प्रपन्न: ।
य: कृष्णपादाङ्कितमार्गपांसु-
ष्वचेष्टत प्रेमविभिन्नधैर्य: ॥ ३२ ॥

Text 33

कच्चिच्छिवं देवकभोजपुत्र्या
विष्णुप्रजाया इव देवमातु: ।
या वै स्वगर्भेण दधार देवं
त्रयी यथा यज्ञवितानमर्थम् ॥ ३३ ॥

Text 34

अपिस्विदास्ते भगवान् सुखं वो
य: सात्वतां कामदुघोऽनिरुद्ध: ।
यमामनन्ति स्म हि शब्दयोनिं
मनोमयं सत्त्वतुरीयतत्त्वम् ॥ ३४ ॥

Text 35

अपिस्विदन्ये च निजात्मदैव-
मनन्यवृत्त्या समनुव्रता ये ।
हृदीकसत्यात्मजचारुदेष्ण-
गदादय: स्वस्ति चरन्ति सौम्य ॥ ३५ ॥

Text 36

अपि स्वदोर्भ्यां विजयाच्युताभ्यां
धर्मेण धर्म: परिपाति सेतुम् ।
दुर्योधनोऽतप्यत यत्सभायां
साम्राज्यलक्ष्म्या विजयानुवृत्त्या ॥ ३६ ॥

Text 37

किं वा कृताघेष्वघमत्यमर्षी
भीमोऽहिवद्दीर्घतमं व्यमुञ्चत् ।
यस्याङ्‌घ्रि पातं रणभूर्न सेहे
मार्गं गदायाश्चरतो विचित्रम् ॥ ३७ ॥

Text 38

कच्चिद्यशोधा रथयूथपानां
गाण्डीवधन्वोपरतारिरास्ते ।
अलक्षितो यच्छरकूटगूढो
मायाकिरातो गिरिशस्तुतोष ॥ ३८ ॥

Text 39

यमावुतस्वित्तनयौ पृथाया:
पार्थैर्वृतौ पक्ष्मभिरक्षिणीव ।
रेमात उद्दाय मृधे स्वरिक्थं
परात्सुपर्णाविव वज्रिवक्त्रात् ॥ ३९ ॥

Text 40

अहो पृथापि ध्रियतेऽर्भकार्थे
राजर्षिवर्येण विनापि तेन ।
यस्त्वेकवीरोऽधिरथो विजिग्ये
धनुर्द्वितीय: ककुभश्चतस्र: ॥ ४० ॥

Text 41

सौम्यानुशोचे तमध:पतन्तं
भ्रात्रे परेताय विदुद्रुहे य: ।
निर्यापितो येन सुहृत्स्वपुर्या
अहं स्वपुत्रान् समनुव्रतेन ॥ ४१ ॥

Text 42

सोऽहं हरेर्मर्त्यविडम्बनेन
द‍ृशो नृणां चालयतो विधातु: ।
नान्योपलक्ष्य: पदवीं प्रसादा-
च्चरामि पश्यन् गतविस्मयोऽत्र ॥ ४२ ॥

Text 43

नूनं नृपाणां त्रिमदोत्पथानां
महीं मुहुश्चालयतां चमूभि: ।
वधात्प्रपन्नार्तिजिहीर्षयेशो-
ऽप्युपैक्षताघं भगवान् कुरूणाम् ॥ ४३ ॥

Text 44

अजस्य जन्मोत्पथनाशनाय
कर्माण्यकर्तुर्ग्रहणाय पुंसाम् ।
नन्वन्यथा कोऽर्हति देहयोगं
परो गुणानामुत कर्मतन्त्रम् ॥ ४४ ॥

Text 45

तस्य प्रपन्नाखिललोकपाना-
मवस्थितानामनुशासने स्वे ।
अर्थाय जातस्य यदुष्वजस्य
वार्तां सखे कीर्तय तीर्थकीर्ते: ॥ ४५ ॥

Srimad Bhagavatam | Canto 2 | Chapter 10 | Verses

0

Bhāgavatam Is the Answer to All Questions

Text 1

श्रीशुक उवाच
अत्र सर्गो विसर्गश्च स्थानं पोषणमूतय: ।
मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रय: ॥ १ ॥

Text 2

दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणम् ।
वर्णयन्ति महात्मान: श्रुतेनार्थेन चाञ्जसा ॥ २ ॥

Text 3

भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृत: ।
ब्रह्मणो गुणवैषम्याद्विसर्ग: पौरुष: स्मृत: ॥ ३ ॥

Text 4

स्थितिर्वैकुण्ठविजय: पोषणं तदनुग्रह: ।
मन्वन्तराणि सद्धर्म ऊतय: कर्मवासना: ॥ ४ ॥

Text 5

अवतारानुचरितं हरेश्चास्यानुवर्तिनाम् ।
पुंसामीशकथा: प्रोक्ता नानाख्यानोपबृंहिता: ॥ ५ ॥

Text 6

निरोधोऽस्यानुशयनमात्मन: सह शक्तिभि: ।
मुक्तिर्हित्वान्यथारूपं स्वरूपेण व्यवस्थिति: ॥ ६ ॥

Text 7

आभासश्च निरोधश्च यतोऽस्त्यध्यवसीयते ।
स आश्रय: परं ब्रह्म परमात्मेति शब्द्यते ॥ ७ ॥

Text 8

योऽध्यात्मिकोऽयं पुरुष: सोऽसावेवाधिदैविक: ।
यस्तत्रोभयविच्छेद: पुरुषो ह्याधिभौतिक: ॥ ८ ॥

Text 9

एकमेकतराभावे यदा नोपलभामहे ।
त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रय: ॥ ९ ॥

Text 10

पुरुषोऽण्डं विनिर्भिद्य यदासौ स विनिर्गत: ।
आत्मनोऽयनमन्विच्छन्नपोऽस्राक्षीच्छुचि: शुची: ॥ १० ॥

Text 11

तास्ववात्सीत् स्वसृष्टासु सहस्रंपरिवत्सरान् ।
तेन नारायणो नाम यदाप: पुरुषोद्भवा: ॥ ११ ॥

Text 12

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
यदनुग्रहत: सन्ति न सन्ति यदुपेक्षया ॥ १२ ॥

Text 13

एको नानात्वमन्विच्छन् योगतल्पात् समुत्थित: ।
वीर्यं हिरण्मयं देवो मायया व्यसृजत् त्रिधा ॥ १३ ॥

Text 14

अधिदैवमथाध्यात्ममधिभूतमिति प्रभु: ।
अथैकं पौरुषं वीर्यं त्रिधाभिद्यत तच्छृणु ॥ १४ ॥

Text 15

अन्त:शरीर आकाशात् पुरुषस्य विचेष्टत: ।
ओज: सहो बलं जज्ञे तत: प्राणो महानसु: ॥ १५ ॥

Text 16

अनुप्राणन्ति यं प्राणा: प्राणन्तं सर्वजन्तुषु ।
अपानन्तमपानन्ति नरदेवमिवानुगा: ॥ १६ ॥

Text 17

प्राणेनाक्षिपता क्षुत् तृडन्तरा जायते विभो: ।
पिपासतो जक्षतश्च प्राङ्‍मुखं निरभिद्यत ॥ १७ ॥

Text 18

मुखतस्तालु निर्भिन्नं जिह्वा तत्रोपजायते ।
ततो नानारसो जज्ञे जिह्वया योऽधिगम्यते ॥ १८ ॥

Text 19

विवक्षोर्मुखतो भूम्नो वह्निर्वाग् व्याहृतं तयो: ।
जले चैतस्य सुचिरं निरोध: समजायत ॥ १९ ॥

Text 20

नासिके निरभिद्येतां दोधूयति नभस्वति ।
तत्र वायुर्गन्धवहो घ्राणो नसि जिघृक्षत: ॥ २० ॥

Text 21

यदात्मनि निरालोकमात्मानं च दिद‍ृक्षत: ।
निर्भिन्ने ह्यक्षिणी तस्य ज्योतिश्चक्षुर्गुणग्रह: ॥ २१ ॥

Text 22

बोध्यमानस्य ऋषिभिरात्मनस्तज्जिघृक्षत: ।
कर्णौ च निरभिद्येतां दिश: श्रोत्रं गुणग्रह: ॥ २२ ॥

Text 23

वस्तुनो मृदुकाठिन्यलघुगुर्वोष्णशीतताम् ।
जिघृक्षतस्त्वङ् निर्भिन्ना तस्यां रोममहीरुहा: ।
तत्र चान्तर्बहिर्वातस्त्वचा लब्धगुणो वृत: ॥ २३ ॥

Text 24

हस्तौ रुरुहतुस्तस्य नानाकर्मचिकीर्षया ।
तयोस्तु बलवानिन्द्र आदानमुभयाश्रयम् ॥ २४ ॥

Text 25

गतिं जिगीषत: पादौ रुरुहातेऽभिकामिकाम् ।
पद्‍भ्यां यज्ञ: स्वयं हव्यं कर्मभि: क्रियते नृभि: ॥ २५ ॥

Text 26

निरभिद्यत शिश्नो वै प्रजानन्दामृतार्थिन: ।
उपस्थ आसीत् कामानां प्रियं तदुभयाश्रयम् ॥ २६ ॥

Text 27

उत्सिसृक्षोर्धातुमलं निरभिद्यत वै गुदम् ।
तत: पायुस्ततो मित्र उत्सर्ग उभयाश्रय: ॥ २७ ॥

Text 28

आसिसृप्सो: पुर: पुर्या नाभिद्वारमपानत: ।
तत्रापानस्ततो मृत्यु: पृथक्त्वमुभयाश्रयम् ॥ २८ ॥

Text 29

आदित्सोरन्नपानानामासन् कुक्ष्यन्त्रनाडय: ।
नद्य: समुद्राश्च तयोस्तुष्टि: पुष्टिस्तदाश्रये ॥ २९ ॥

Text 30

निदिध्यासोरात्ममायां हृदयं निरभिद्यत ।
ततो मनश्चन्द्र इति सङ्कल्प: काम एव च ॥ ३० ॥

Text 31

त्वक्‍चर्ममांसरुधिरमेदोमज्जास्थिधातव: ।
भूम्यप्तेजोमया: सप्त प्राणो व्योमाम्बुवायुभि: ॥ ३१ ॥

Text 32

गुणात्मकानीन्द्रियाणि भूतादिप्रभवा गुणा: ।
मन: सर्वविकारात्मा बुद्धिर्विज्ञानरूपिणी ॥ ३२ ॥

Text 33

एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया ।
मह्यादिभिश्चावरणैरष्टभिर्बहिरावृतम् ॥ ३३ ॥

Text 34

अत: परं सूक्ष्मतममव्यक्तं निर्विशेषणम् ।
अनादिमध्यनिधनं नित्यं वाङ्‍मनस: परम् ॥ ३४ ॥

Text 35

अमुनी भगवद्रूपे मया ते ह्यनुवर्णिते ।
उभे अपि न गृह्णन्ति मायासृष्टे विपश्चित: ॥ ३५ ॥

Text 36

स वाच्यवाचकतया भगवान् ब्रह्मरूपधृक् ।
नामरूपक्रिया धत्ते सकर्माकर्मक: पर: ॥ ३६ ॥

Texts 37-40

प्रजापतीन्मनून् देवानृषीन् पितृगणान् पृथक् ।
सिद्धचारणगन्धर्वान् विद्याध्रासुरगुह्यकान् ॥ ३७ ॥
किन्नराप्सरसो नागान् सर्पान् किम्पुरुषान्नरान् ।
मातृ रक्ष:पिशाचांश्च प्रेतभूतविनायकान् ॥ ३८ ॥
कूष्माण्डोन्मादवेतालान् यातुधानान् ग्रहानपि ।
खगान्मृगान् पशून् वृक्षान् गिरीन्नृप सरीसृपान् ॥ ३९ ॥
द्विविधाश्चतुर्विधा येऽन्ये जलस्थलनभौकस: ।
कुशलाकुशला मिश्रा: कर्मणां गतयस्त्विमा: ॥ ४० ॥

Text 41

सत्त्वं रजस्तम इति तिस्र: सुरनृनारका: ।
तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा ।
यदैकैकतरोऽन्याभ्यां स्वभाव उपहन्यते ॥ ४१ ॥

Text 42

स एवेदं जगद्धाता भगवान् धर्मरूपधृक् ।
पुष्णाति स्थापयन् विश्वं तिर्यङ्‍नरसुरादिभि: ॥ ४२ ॥

Text 43

तत: कालाग्निरुद्रात्मा यत्सृष्टमिदमात्मन: ।
संनियच्छति तत् काले घनानीकमिवानिल: ॥ ४३ ॥

Text 44

इत्थंभावेन कथितो भगवान् भगवत्तम: ।
नेत्थंभावेन हि परं द्रष्टुमर्हन्ति सूरय: ॥ ४४ ॥

Text 45

नास्य कर्मणि जन्मादौ परस्यानुविधीयते ।
कर्तृत्वप्रतिषेधार्थं माययारोपितं हि तत् ॥ ४५ ॥

Text 46

अयं तु ब्रह्मण: कल्प: सविकल्प उदाहृत: ।
विधि: साधारणो यत्र सर्गा: प्राकृतवैकृता: ॥ ४६ ॥

Text 47

परिमाणं च कालस्य कल्पलक्षणविग्रहम् ।
यथा पुरस्ताद्व्याख्यास्ये पाद्मं कल्पमथो श‍ृणु ॥ ४७ ॥

Text 48

शौनक उवाच
यदाह नो भवान् सूत क्षत्ता भागवतोत्तम: ।
चचार तीर्थानि भुवस्त्यक्त्वा बन्धून् सुदुस्त्यजान् ॥ ४८ ॥

Texts 49-50

क्षत्तु: कौशारवेस्तस्य संवादोऽध्यात्मसंश्रित: ।
यद्वा स भगवांस्तस्मै पृष्टस्तत्त्वमुवाच ह ॥ ४९ ॥
ब्रूहि नस्तदिदं सौम्य विदुरस्य विचेष्टितम् ।
बन्धुत्यागनिमित्तं च यथैवागतवान् पुन: ॥ ५० ॥

Text 51

सूत उवाच
राज्ञा परीक्षिता पृष्टो यदवोचन्महामुनि: ।
तद्वोऽभिधास्ये श‍ृणुत राज्ञ: प्रश्नानुसारत: ॥ ५१ ॥
यच्च व्रजन्त्यनिमिषामृषभानुवृत्त्या
दूरेयमा ह्युपरि न: स्पृहणीयशीला: ।
भर्तुर्मिथ: सुयशस: कथनानुराग-
वैक्लव्यबाष्पकलया पुलकीकृताङ्गा: ॥

Srimad Bhagavatam | Canto 2 | Chapter 9 | Verses

0

Answers by Citing the Lord’s Version

Text 1

श्रीशुक उवाच
आत्ममायामृते राजन् परस्यानुभवात्मन: ।
न घटेतार्थसम्बन्ध: स्वप्नद्रष्टुरिवाञ्जसा ॥ १ ॥

Text 2

बहुरूप इवाभाति मायया बहुरूपया ।
रममाणो गुणेष्वस्या ममाहमिति मन्यते ॥ २ ॥

Text 3

यर्हि वाव महिम्नि स्वे परस्मिन् कालमाययो: ।
रमेत गतसम्मोहस्त्यक्त्वोदास्ते तदोभयम् ॥ ३ ॥

Text 4

आत्मतत्त्वविशुद्ध्यर्थं यदाह भगवानृतम् ।
ब्रह्मणे दर्शयन् रूपमव्यलीकव्रताद‍ृत: ॥ ४ ॥

Text 5

स आदिदेवो जगतां परो गुरु:
स्वधिष्ण्यमास्थाय सिसृक्षयैक्षत ।
तां नाध्यगच्छद् द‍ृशमत्र सम्मतां
प्रपञ्चनिर्माणविधिर्यया भवेत् ॥ ५ ॥

Text 6

स चिन्तयन् द्वय‍क्षरमेकदाम्भ-
स्युपाश‍ृणोद् द्विर्गदितं वचो विभु: ।
स्पर्शेषु यत्षोडशमेकविंशं
निष्किञ्चनानां नृप यद् धनं विदु: ॥ ६ ॥

Text 7

निशम्य तद्वक्तृदिद‍ृक्षया दिशो
विलोक्य तत्रान्यदपश्यमान: ।
स्वधिष्ण्यमास्थाय विमृश्य तद्धितं
तपस्युपादिष्ट इवादधे मन: ॥ ७ ॥

Text 8

दिव्यं सहस्राब्दममोघदर्शनो
जितानिलात्मा विजितोभयेन्द्रिय: ।
अतप्यत स्माखिललोकतापनं
तपस्तपीयांस्तपतां समाहित: ॥ ८ ॥

Text 9

तस्मै स्वलोकं भगवान् सभाजित:
सन्दर्शयामास परं न यत्परम् ।
व्यपेतसंक्लेशविमोहसाध्वसं
स्वद‍ृष्टवद्भिर्पुरुषैरभिष्टुतम् ॥ ९ ॥

Text 10

प्रवर्तते यत्र रजस्तमस्तयो:
सत्त्वं च मिश्रं न च कालविक्रम: ।
न यत्र माया किमुतापरे हरे-
रनुव्रता यत्र सुरासुरार्चिता: ॥ १० ॥

Text 11

श्यामावदाता: शतपत्रलोचना:
पिशङ्गवस्त्रा: सुरुच: सुपेशस: ।
सर्वे चतुर्बाहव उन्मिषन्मणि-
प्रवेकनिष्काभरणा: सुवर्चस: ॥ ११ ॥

Text 12

प्रवालवैदूर्यमृणालवर्चस: ।
परिस्फुरत्कुण्डलमौलिमालिन: ॥ १२ ॥

Text 13

भ्राजिष्णुभिर्य: परितो विराजते
लसद्विमानावलिभिर्महात्मनाम् ।
विद्योतमान: प्रमदोत्तमाद्युभि:
सविद्युदभ्रावलिभिर्यथा नभ: ॥ १३ ॥

Text 14

श्रीर्यत्र रूपिण्युरुगायपादयो:
करोति मानं बहुधा विभूतिभि: ।
प्रेङ्खं श्रिता या कुसुमाकरानुगै-
र्विगीयमाना प्रियकर्म गायती ॥ १४ ॥

Text 15

ददर्श तत्राखिलसात्वतां पतिं
श्रिय: पतिं यज्ञपतिं जगत्पतिम् ।
सुनन्दनन्दप्रबलार्हणादिभि:
स्वपार्षदाग्रै: परिसेवितं विभुम् ॥ १५ ॥

Text 16

भृत्यप्रसादाभिमुखं द‍ृगासवं
प्रसन्नहासारुणलोचनाननम् ।
किरीटिनं कुण्डलिनं चतुर्भुजं
पीतांशुकं वक्षसि लक्षितं श्रिया ॥ १६ ॥

Text 17

अध्यर्हणीयासनमास्थितं परं
वृतं चतु:षोडशपञ्चशक्तिभि: ।
युक्तं भगै: स्वैरितरत्र चाध्रुवै:
स्व एव धामन् रममाणमीश्वरम् ॥ १७ ॥

Text 18

तद्दर्शनाह्लादपरिप्लुतान्तरो
हृष्यत्तनु: प्रेमभराश्रुलोचन: ।
ननाम पादाम्बुजमस्य विश्वसृग्
यत् पारमहंस्येन पथाधिगम्यते ॥ १८ ॥

Text 19

तं प्रीयमाणं समुपस्थितं कविं
प्रजाविसर्गे निजशासनार्हणम् ।
बभाष ईषत्स्मितशोचिषा गिरा
प्रिय: प्रियं प्रीतमना: करे स्पृशन् ॥ १९ ॥

Text 20

श्रीभगवानुवाच
त्वयाहं तोषित: सम्यग् वेदगर्भ सिसृक्षया ।
चिरं भृतेन तपसा दुस्तोष: कूटयोगिनाम् ॥ २० ॥

Text 21

वरं वरय भद्रं ते वरेशं माभिवाञ्छितम् ।
ब्रह्मञ्छ्रेय:परिश्राम: पुंसां मद्दर्शनावधि: ॥ २१ ॥

Text 22

मनीषितानुभावोऽयं मम लोकावलोकनम् ।
यदुपश्रुत्य रहसि चकर्थ परमं तप: ॥ २२ ॥

Text 23

प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते ।
तपो मे हृदयं साक्षादात्माहं तपसोऽनघ ॥ २३ ॥

Text 24

सृजामि तपसैवेदं ग्रसामि तपसा पुन: ।
बिभर्मि तपसा विश्वं वीर्यं मे दुश्चरं तप: ॥ २४ ॥

Text 25

ब्रह्मोवाच
भगवन् सर्वभूतानामध्यक्षोऽवस्थितो गुहाम् ।
वेद ह्यप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम् ॥ २५ ॥

Text 26

तथापि नाथमानस्य नाथ नाथय नाथितम् ।
परावरे यथा रूपे जानीयां ते त्वरूपिण: ॥ २६ ॥

Text 27

यथात्ममायायोगेन नानाशक्त्युपबृंहितम् ।
विलुम्पन् विसृजन् गृह्णन् बिभ्रदात्मानमात्मना ॥ २७ ॥

Text 28

क्रीडस्यमोघसङ्कल्प ऊर्णनाभिर्यथोर्णुते ।
तथा तद्विषयां धेहि मनीषां मयि माधव ॥ २८ ॥

Text 29

भगवच्छिक्षितमहं करवाणि ह्यतन्द्रित: ।
नेहमान: प्रजासर्गं बध्येयं यदनुग्रहात् ॥ २९ ॥

Text 30

यावत् सखा सख्युरिवेश ते कृत:
प्रजाविसर्गे विभजामि भो जनम् ।
अविक्लवस्ते परिकर्मणि स्थितो
मा मे समुन्नद्धमदोऽजमानिन: ॥ ३० ॥

Text 31

श्रीभगवानुवाच
ज्ञानं परमगुह्यं मे यद् विज्ञानसमन्वितम् ।
सरहस्यं तदङ्गं च गृहाण गदितं मया ॥ ३१ ॥

Text 32

यावानहं यथाभावो यद्रूपगुणकर्मक: ।
तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात् ॥ ३२ ॥

Text 33

अहमेवासमेवाग्रे नान्यद् यत् सदसत् परम् ।
पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥ ३३ ॥

Text 34

ऋतेऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि ।
तद्विद्यादात्मनो मायां यथाभासो यथा तम: ॥ ३४ ॥

Text 35

यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु ।
प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥ ३५ ॥

Text 36

एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मन: ।
अन्वयव्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा ॥ ३६ ॥

Text 37

एतन्मतं समातिष्ठ परमेण समाधिना ।
भवान् कल्पविकल्पेषु न विमुह्यति कर्हिचित् ॥ ३७ ॥

Text 38

श्रीशुक उवाच
सम्प्रदिश्यैवमजनो जनानां परमेष्ठिनम् ।
पश्यतस्तस्य तद् रूपमात्मनो न्यरुणद्धरि: ॥ ३८ ॥

Text 39

अन्तर्हितेन्द्रियार्थाय हरये विहिताञ्जलि: ।
सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत् ॥ ३९ ॥

Text 40

प्रजापतिर्धर्मपतिरेकदा नियमान् यमान् ।
भद्रं प्रजानामन्विच्छन्नातिष्ठत् स्वार्थकाम्यया ॥ ४० ॥

Text 41

तं नारद: प्रियतमो रिक्थादानामनुव्रत: ।
शुश्रूषमाण: शीलेन प्रश्रयेण दमेन च ॥ ४१ ॥

Text 42

मायां विविदिषन् विष्णोर्मायेशस्य महामुनि: ।
महाभागवतो राजन् पितरं पर्यतोषयत् ॥ ४२ ॥

Text 43

तुष्टं निशाम्य पितरं लोकानां प्रपितामहम् ।
देवर्षि: परिपप्रच्छ भवान् यन्मानुपृच्छति ॥ ४३ ॥

Text 44

तस्मा इदं भागवतं पुराणं दशलक्षणम् ।
प्रोक्तं भगवता प्राह प्रीत: पुत्राय भूतकृत् ॥ ४४ ॥

Text 45

नारद: प्राह मुनये सरस्वत्यास्तटे नृप ।
ध्यायते ब्रह्म परमं व्यासायामिततेजसे ॥ ४५ ॥

Text 46

यदुताहं त्वया पृष्टो वैराजात् पुरुषादिदम् ।
यथासीत्तदुपाख्यास्ते प्रश्नानन्यांश्च कृत्‍स्‍नश: ॥ ४६ ॥

Srimad Bhagavatam | Canto 2 | Chapter 8 | Verses

0

Questions by King Parīkṣit

Text 1

राजोवाच
ब्रह्मणा चोदितो ब्रह्मन् गुणाख्यानेऽगुणस्य च ।
यस्मै यस्मै यथा प्राह नारदो देवदर्शन: ॥ १ ॥

Text 2

एतद् वेदितुमिच्छामि तत्त्वं तत्त्वविदां वर ।
हरेरद्भुतवीर्यस्य कथा लोकसुमङ्गला: ॥ २ ॥

Text 3

कथयस्व महाभाग यथाहमखिलात्मनि ।
कृष्णे निवेश्य नि:सङ्गं मनस्त्यक्ष्ये कलेवरम् ॥ ३ ॥

Text 4

श‍ृण्वत: श्रद्धया नित्यं गृणतश्च स्वचेष्टितम् ।
कालेन नातिदीर्घेण भगवान् विशते हृदि ॥ ४ ॥

Text 5

प्रविष्ट: कर्णरन्ध्रेण स्वानां भावसरोरुहम् ।
धुनोति शमलं कृष्ण: सलिलस्य यथा शरत् ॥ ५ ॥

Text 6

धौतात्मा पुरुष: कृष्णपादमूलं न मुञ्चति ।
मुक्त सर्वपरिक्लेश: पान्थ: स्वशरणं यथा ॥ ६ ॥

Text 7

यदधातुमतो ब्रह्मन् देहारम्भोऽस्य धातुभि: ।
यद‍ृच्छया हेतुना वा भवन्तो जानते यथा ॥ ७ ॥

Text 8

Text 9

अज: सृजति भूतानि भूतात्मा यदनुग्रहात् ।
दद‍ृशे येन तद्रूपं नाभिपद्मसमुद्भव: ॥ ९ ॥

Text 10

स चापि यत्र पुरुषो विश्वस्थित्युद्भवाप्यय: ।
मुक्त्वात्ममायां मायेश: शेते सर्वगुहाशय: ॥ १० ॥

Text 11

पुरुषावयवैर्लोका: सपाला: पूर्वकल्पिता: ।
लोकैरमुष्यावयवा: सपालैरिति शुश्रुम ॥ ११ ॥

Text 12

यावान् कल्पोविकल्पो वा यथा कालोऽनुमीयते ।
भूतभव्यभवच्छब्द आयुर्मानं च यत् सत: ॥ १२ ॥

Text 13

कालस्यानुगतिर्या तु लक्ष्यतेऽण्वी बृहत्यपि ।
यावत्य: कर्मगतयो याद‍ृशीर्द्विजसत्तम ॥ १३ ॥

Text 14

यस्मिन् कर्मसमावायो यथा येनोपगृह्यते ।
गुणानां गुणिनां चैव परिणाममभीप्सताम् ॥ १४ ॥

Text 15

भूपातालककुब्व्योमग्रहनक्षत्रभूभृताम् ।
सरित्समुद्रद्वीपानां सम्भवश्चैतदोकसाम् ॥ १५ ॥

Text 16

प्रमाणमण्डकोशस्य बाह्याभ्यन्तरभेदत: ।
महतां चानुचरितं वर्णाश्रमविनिश्चय: ॥ १६ ॥

Text 17

युगानि युगमानं च धर्मो यश्च युगे युगे ।
अवतारानुचरितं यदाश्चर्यतमं हरे: ॥ १७ ॥

Text 18

नृणां साधारणो धर्म: सविशेषश्च याद‍ृश: ।
श्रेणीनां राजर्षीणां च धर्म: कृच्छ्रेषु जीवताम् ॥ १८ ॥

Text 19

तत्त्वानां परिसंख्यानं लक्षणं हेतुलक्षणम् ।
पुरुषाराधनविधिर्योगस्याध्यात्मिकस्य च ॥ १९ ॥

Text 20

योगेश्वरैश्वर्यगतिर्लिङ्गभङ्गस्तु योगिनाम् ।
वेदोपवेदधर्माणामितिहासपुराणयो: ॥ २० ॥

Text 21

सम्प्लव: सर्वभूतानां विक्रम: प्रतिसंक्रम: ।
इष्टापूर्तस्य काम्यानां त्रिवर्गस्य च यो विधि: ॥ २१ ॥

Text 22

यो वानुशायिनां सर्ग: पाषण्डस्य च सम्भव: ।
आत्मनो बन्धमोक्षौ च व्यवस्थानं स्वरूपत: ॥ २२ ॥

Text 23

यथात्मतन्त्रो भगवान् विक्रीडत्यात्ममायया ।
विसृज्य वा यथा मायामुदास्ते साक्षिवद् विभु: ॥ २३ ॥

Text 24

सर्वमेतच्च भगवन् पृच्छतो मेऽनुपूर्वश: ।
तत्त्वतोऽर्हस्युदाहर्तुं प्रपन्नाय महामुने ॥ २४ ॥

Text 25

अत्र प्रमाणं हि भवान् परमेष्ठी यथात्मभू: ।
अपरे चानुतिष्ठन्ति पूर्वेषां पूर्वजै: कृतम् ॥ २५ ॥

Text 26

न मेऽसव: परायन्ति ब्रह्मन्ननशनादमी ।
पिबतोऽच्युतपीयूषम् तद्वाक्याब्धिविनि:सृतम् ॥ २६ ॥

Text 27

सूत उवाच
स उपामन्त्रितो राज्ञा कथायामिति सत्पते: ।
ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि ॥ २७ ॥

Text 28

प्राह भागवतं नाम पुराणं ब्रह्मसम्मितम् ।
ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते ॥ २८ ॥

Text 29

यद् यत् परीक्षिद‍ृषभ: पाण्डूनामनुपृच्छति ।
आनुपूर्व्येण तत्सर्वमाख्यातुमुपचक्रमे ॥ २९ ॥

Srimad Bhagavatam | Canto 2 | Chapter 7 | Verses

0

Scheduled Incarnations with Specific Functions

Text 1

ब्रह्मोवाच
यत्रोद्यत: क्षितितलोद्धरणाय बिभ्रत्
क्रौडीं तनुं सकलयज्ञमयीमनन्त: ।
अन्तर्महार्णव उपागतमादिदैत्यं
तं दंष्ट्रयाद्रिमिव वज्रधरो ददार ॥ १ ॥

Text 2

जातो रुचेरजनयत् सुयमान् सुयज्ञ
आकूतिसूनुरमरानथ दक्षिणायाम् ।
लोकत्रयस्य महतीमहरद् यदार्तिं
स्वायम्भुवेन मनुना हरिरित्यनूक्त: ॥ २ ॥

Text 3

जज्ञे च कर्दमगृहे द्विज देवहूत्यां
स्त्रीभि: समं नवभिरात्मगतिं स्वमात्रे ।
ऊचे ययात्मशमलं गुणसङ्गपङ्क-
मस्मिन् विधूय कपिलस्य गतिं प्रपेदे ॥ ३ ॥

Text 4

अत्रेरपत्यमभिकाङ्‍क्षत आह तुष्टो
दत्तो मयाहमिति यद् भगवान् स दत्त: ।
यत्पादपङ्कजपरागपवित्रदेहा
योगर्द्धिमापुरुभयीं यदुहैहयाद्या: ॥ ४ ॥

Text 5

तप्तं तपो विविधलोकसिसृक्षया मे
आदौ सनात् स्वतपस: स चतु:सनोऽभूत् ।
प्राक्कल्पसम्प्लवविनष्टमिहात्मतत्त्वं
सम्यग् जगाद मुनयो यदचक्षतात्मन् ॥ ५ ॥

Text 6

धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां
नारायणो नर इति स्वतप:प्रभाव: ।
दृष्ट्वात्मनो भगवतो नियमावलोपं
देव्यस्त्वनङ्गपृतना घटितुं न शेकु: ॥ ६ ॥

Text 7

कामं दहन्ति कृतिनो ननु रोषद‍ृष्टय‍ा
रोषं दहन्तमुत ते न दहन्त्यसह्यम् ।
सोऽयं यदन्तरमलं प्रविशन् बिभेति
काम: कथं नु पुनरस्य मन: श्रयेत ॥ ७ ॥

Text 8

विद्ध: सपत्‍न्‍युदितपत्रिभिरन्ति राज्ञो
बालोऽपि सन्नुपगतस्तपसे वनानि ।
तस्मा अदाद् ध्रुवगतिं गृणते प्रसन्नो
दिव्या: स्तुवन्ति मुनयो यदुपर्यधस्तात् ॥ ८ ॥

Text 9

यद्वेनमुत्पथगतं द्विजवाक्यवज्र-
निष्प्लुष्टपौरुषभगं निरये पतन्तम् ।
त्रात्वार्थितो जगति पुत्रपदं च लेभे
दुग्धा वसूनि वसुधा सकलानि येन ॥ ९ ॥

Text 10

नाभेरसावृषभ आस सुदेविसूनु-
र्यो वै चचार समद‍ृग् जडयोगचर्याम् ।
यत्पारमहंस्यमृषय: पदमामनन्ति
स्वस्थ: प्रशान्तकरण: परिमुक्तसङ्ग: ॥ १० ॥

Text 11

सत्रे ममास भगवान् हयशीरषाथो
साक्षात् स यज्ञपुरुषस्तपनीयवर्ण: ।
छन्दोमयो मखमयोऽखिलदेवतात्मा
वाचो बभूवुरुशती: श्वसतोऽस्य नस्त: ॥ ११ ॥

Text 12

मत्स्यो युगान्तसमये मनुनोपलब्ध:
क्षोणीमयो निखिलजीवनिकायकेत: ।
विस्रंसितानुरुभये सलिले मुखान्मे
आदाय तत्र विजहार ह वेदमार्गान् ॥ १२ ॥

Text 13

क्षीरोदधावमरदानवयूथपाना-
मुन्मथ्नताममृतलब्धय आदिदेव: ।
पृष्ठेन कच्छपवपुर्विदधार गोत्रं
निद्राक्षणोऽद्रिपरिवर्तकषाणकण्डू: ॥ १३ ॥

Text 14

त्रैपिष्टपोरुभयहा स नृसिंहरूपं
कृत्वा भ्रमद्भ्रुकुटिदंष्ट्रकरालवक्त्रम् ।
दैत्येन्द्रमाशु गदयाभिपतन्तमारा-
दूरौ निपात्य विददार नखै: स्फुरन्तम् ॥ १४ ॥

Text 15

अन्त:सरस्युरुबलेन पदे गृहीतो
ग्राहेण यूथपतिरम्बुजहस्त आर्त: ।
आहेदमादिपुरुषाखिललोकनाथ
तीर्थश्रव: श्रवणमङ्गलनामधेय ॥ १५ ॥

Text 16

श्रुत्वा हरिस्तमरणार्थिनमप्रमेय-
श्चक्रायुध: पतगराजभुजाधिरूढ: ।
चक्रेण नक्रवदनं विनिपाट्य तस्मा-
द्धस्ते प्रगृह्य भगवान् कृपयोज्जहार ॥ १६ ॥

Text 17

ज्यायान् गुणैरवरजोऽप्यदिते: सुतानां
लोकान् विचक्रम इमान् यदथाधियज्ञ: ।
क्ष्मां वामनेन जगृहे त्रिपदच्छलेन
याच्ञामृते पथि चरन् प्रभुभिर्न चाल्य: ॥ १७ ॥

Text 18

नार्थो बलेरयमुरुक्रमपादशौच-
माप: शिखाधृतवतो विबुधाधिपत्यम् ।
यो वै प्रतिश्रुतमृते न चिकीर्षदन्य-
दात्मानमङ्ग मनसा हरयेऽभिमेने ॥ १८ ॥

Text 19

तुभ्यं च नारद भृशं भगवान् विवृद्ध-
भावेन साधुपरितुष्ट उवाच योगम् ।
ज्ञानं च भागवतमात्मसतत्त्वदीपं
यद्वासुदेवशरणा विदुरञ्जसैव ॥ १९ ॥

Text 20

चक्रं च दिक्ष्वविहतं दशसु स्वतेजो
मन्वन्तरेषु मनुवंशधरो बिभर्ति ।
दुष्टेषु राजसु दमं व्यदधात् स्वकीर्तिं
सत्ये त्रिपृष्ठ उशतीं प्रथयंश्चरित्रै: ॥ २० ॥

Text 21

धन्वन्तरिश्च भगवान् स्वयमेव कीर्ति-
र्नाम्ना नृणां पुरुरुजां रुज आशु हन्ति ।
यज्ञे च भागममृतायुरवावरुन्ध
आयुष्यवेदमनुशास्त्यवतीर्य लोके ॥ २१ ॥

Text 22

क्षत्रं क्षयाय विधिनोपभृतं महात्मा
ब्रह्मध्रुगुज्झितपथं नरकार्तिलिप्सु ।
उद्धन्त्यसाववनिकण्टकमुग्रवीर्य-
स्त्रि:सप्तकृत्व उरुधारपरश्वधेन ॥ २२ ॥

Text 23

अस्मत्प्रसादसुमुख: कलया कलेश
इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे ।
तिष्ठन् वनं सदयितानुज आविवेश
यस्मिन् विरुध्य दशकन्धर आर्तिमार्च्छत् ॥ २३ ॥

Text 24

यस्मा अदादुदधिरूढभयाङ्गवेपो
मार्गं सपद्यरिपुरं हरवद् दिधक्षो: ।
दूरे सुहृन्मथितरोषसुशोणद‍ृष्टय‍ा
तातप्यमानमकरोरगनक्रचक्र: ॥ २४ ॥

Text 25

वक्ष:स्थलस्पर्शरुग्नमहेन्द्रवाह-
दन्तैर्विडम्बितककुब्जुष ऊढहासम् ।
सद्योऽसुभि: सह विनेष्यति दारहर्तु-
र्विस्फूर्जितैर्धनुष उच्चरतोऽधिसैन्ये ॥ २५ ॥

Text 26

भूमे: सुरेतरवरूथविमर्दिताया:
क्लेशव्ययाय कलया सितकृष्णकेश: ।
जात: करिष्यति जनानुपलक्ष्यमार्ग:
कर्माणि चात्ममहिमोपनिबन्धनानि ॥ २६ ॥

Text 27

तोकेन जीवहरणं यदुलूकिकाया-
स्त्रैमासिकस्य च पदा शकटोऽपवृत्त: ।
यद् रिङ्गतान्तरगतेन दिविस्पृशोर्वा
उन्मूलनं त्वितरथार्जुनयोर्न भाव्यम् ॥ २७ ॥

Text 28

यद् वै व्रजे व्रजपशून् विषतोयपीतान्
पालांस्त्वजीवयदनुग्रहद‍ृष्टिवृष्टय‍ा ।
तच्छुद्धयेऽतिविषवीर्यविलोलजिह्व-
मुच्चाटयिष्यदुरगं विहरन् ह्रदिन्याम् ॥ २८ ॥

Text 29

तत् कर्म दिव्यमिव यन्निशि नि:शयानं
दावाग्निना शुचिवने परिदह्यमाने ।
उन्नेष्यति व्रजमतोऽवसितान्तकालं
नेत्रे पिधाप्य सबलोऽनधिगम्यवीर्य: ॥ २९ ॥

Text 30

गृह्णीत यद् यदुपबन्धममुष्य माता
शुल्बं सुतस्य न तु तत् तदमुष्य माति ।
यज्जृम्भतोऽस्य वदने भुवनानि गोपी
संवीक्ष्य शङ्कितमना: प्रतिबोधितासीत् ॥ ३० ॥

Text 31

नन्दं च मोक्ष्यति भयाद् वरुणस्य पाशाद्
गोपान् बिलेषु पिहितान् मयसूनुना च ।
अह्न्यापृतं निशि शयानमतिश्रमेण
लोकं विकुण्ठमुपनेष्यति गोकुलं स्म ॥ ३१ ॥

Text 32

गोपैर्मखे प्रतिहते व्रजविप्लवाय
देवेऽभिवर्षति पशून् कृपया रिरक्षु: ।
धर्तोच्छिलीन्ध्रमिव सप्तदिनानि सप्त-
वर्षो महीध्रमनघैककरे सलीलम् ॥ ३२ ॥

Text 33

क्रीडन् वने निशि निशाकररश्मिगौर्यां
रासोन्मुख: कलपदायतमूर्च्छितेन ।
उद्दीपितस्मररुजां व्रजभृद्वधूनां
हर्तुर्हरिष्यति शिरो धनदानुगस्य ॥ ३३ ॥

Texts 34-35

ये च प्रलम्बखरदर्दुरकेश्यरिष्ट-
मल्लेभकंसयवना: कपिपौण्ड्रकाद्या: ।
अन्ये च शाल्वकुजबल्वलदन्तवक्र-
सप्तोक्षशम्बरविदूरथरुक्‍मिमुख्या: ॥ ३४ ॥
ये वा मृधे समितिशालिन आत्तचापा:
काम्बोजमत्स्यकुरुसृञ्जयकैकयाद्या: ।
यास्यन्त्यदर्शनमलं बलपार्थभीम-
व्याजाह्वयेन हरिणा निलयं तदीयम् ॥ ३५ ॥

Text 36

कालेन मीलितधियामवमृश्य नृणां
स्तोकायुषां स्वनिगमो बत दूरपार: ।
आविर्हितस्त्वनुयुगं स हि सत्यवत्यां
वेदद्रुमं विटपशो विभजिष्यति स्म ॥ ३६ ॥

Text 37

देवद्विषां निगमवर्त्मनि निष्ठितानां
पूर्भिर्मयेन विहिताभिरद‍ृश्यतूर्भि: ।
लोकान् घ्नतां मतिविमोहमतिप्रलोभं
वेषं विधाय बहु भाष्यत औपधर्म्यम् ॥ ३७ ॥

Text 38

यर्ह्यालयेष्वपि सतां न हरे: कथा: स्यु:
पाषण्डिनो द्विजजना वृषला नृदेवा: ।
स्वाहा स्वधा वषडिति स्म गिरो न यत्र
शास्ता भविष्यति कलेर्भगवान् युगान्ते ॥ ३८ ॥

Text 39

सर्गे तपोऽहमृषयो नव ये प्रजेशा:
स्थानेऽथ धर्ममखमन्वमरावनीशा: ।
अन्ते त्वधर्महरमन्युवशासुराद्या
मायाविभूतय इमा: पुरुशक्तिभाज: ॥ ३९ ॥

Text 40

विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह
य: पार्थिवान्यपि कविर्विममे रजांसि ।
चस्कम्भ य: स्वरहसास्खलता त्रिपृष्ठं
यस्मात् त्रिसाम्यसदनादुरुकम्पयानम् ॥ ४० ॥

Text 41

नान्तं विदाम्यहममी मुनयोऽग्रजास्ते
मायाबलस्य पुरुषस्य कुतोऽवरा ये ।
गायन् गुणान् दशशतानन आदिदेव:
शेषोऽधुनापि समवस्यति नास्य पारम् ॥ ४१ ॥

Text 42

येषां स एष भगवान् दययेदनन्त:
सर्वात्मनाश्रितपदो यदि निर्व्यलीकम् ।
ते दुस्तरामतितरन्ति च देवमायां
नैषां ममाहमिति धी: श्वश‍ृगालभक्ष्ये ॥ ४२ ॥

Texts 43-45

वेदाहमङ्ग परमस्य हि योगमायां
यूयं भवश्च भगवानथ दैत्यवर्य: ।
पत्नी मनो: स च मनुश्च तदात्मजाश्च
प्राचीनबर्हिर्ऋभुरङ्ग उत ध्रुवश्च ॥ ४३ ॥
इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि-
रघ्वम्बरीषसगरा गयनाहुषाद्या: ।
मान्धात्रलर्कशतधन्वनुरन्तिदेवा
देवव्रतो बलिरमूर्त्तरयो दिलीप: ॥ ४४ ॥
सौभर्युतङ्कशिबिदेवलपिप्पलाद-
सारस्वतोद्धवपराशरभूरिषेणा: ।
येऽन्ये विभीषणहनूमदुपेन्द्रदत्त-
पार्थार्ष्टिषेणविदुरश्रुतदेववर्या: ॥ ४५ ॥

Text 46

ते वै विदन्त्यतितरन्ति च देवमायां
स्त्रीशूद्रहूणशबरा अपि पापजीवा: ।
यद्यद्भुतक्रमपरायणशीलशिक्षा-
स्तिर्यग्जना अपि किमु श्रुतधारणा ये ॥ ४६ ॥

Text 47

शश्वत् प्रशान्तमभयं प्रतिबोधमात्रं
शुद्धं समं सदसत: परमात्मतत्त्वम् ।
शब्दो न यत्र पुरुकारकवान् क्रियार्थो
माया परैत्यभिमुखे च विलज्जमाना
तद् वै पदं भगवत: परमस्य पुंसो
ब्रह्मेति यद् विदुरजस्रसुखं विशोकम् ॥ ४७ ॥

Text 48

सध्‌रयङ् नियम्य यतयो यमकर्तहेतिं ।
जह्यु: स्वराडिव निपानखनित्रमिन्द्र: ॥ ४८ ॥

Text 49

स श्रेयसामपि विभुर्भगवान् यतोऽस्य
भावस्वभावविहितस्य सत: प्रसिद्धि: ।
देहे स्वधातुविगमेऽनुविशीर्यमाणे
व्योमेव तत्र पुरुषो न विशीर्यतेऽज: ॥ ४९ ॥

Text 50

सोऽयं तेऽभिहितस्तात भगवान् विश्वभावन: ।
समासेन हरेर्नान्यदन्यस्मात् सदसच्च यत् ॥ ५० ॥

Text 51

इदं भागवतं नाम यन्मे भगवतोदितम् ।
संग्रहोऽयं विभूतीनां त्वमेतद् विपुलीकुरु ॥ ५१ ॥

Text 52

यथा हरौ भगवति नृणां भक्तिर्भविष्यति ।
सर्वात्मन्यखिलाधारे इति सङ्कल्प्य वर्णय ॥ ५२ ॥

Text 53

मायां वर्णयतोऽमुष्य ईश्वरस्यानुमोदत: ।
श‍ृण्वत: श्रद्धया नित्यं माययात्मा न मुह्यति ॥ ५३ ॥

Stay Connected

16,985FansLike
12,500FollowersFollow
61,453SubscribersSubscribe