Mail ID: contact@vedavarsity.com

Contact: +91 9634998911

Google search engineGoogle search engine
Home Blog Page 88

Srimad Bhagavatam | Canto 3 | Chapter 17 | Verses

0

Victory of Hiraṇyākṣa Over All the Directions of the Universe

Text 1

मैत्रेय उवाच
निशम्यात्मभुवा गीतं कारणं शङ्कयोज्झिता: ।
तत: सर्वे न्यवर्तन्त त्रिदिवाय दिवौकस: ॥ १ ॥

Text 2

दितिस्तु भर्तुरादेशादपत्यपरिशङ्किनी ।
पूर्णे
वर्षशते साध्वी पुत्रौ प्रसुषुवे यमौ ॥ २ ॥

Text 3

उत्पाता बहवस्तत्र निपेतुर्जायमानयो: ।
दिवि
भुव्यन्तरिक्षे च लोकस्योरुभयावहा: ॥ ३ ॥

Text 4

सहाचला भुवश्चेलुर्दिश: सर्वा:
प्रजज्वलु: ।
सोल्काश्चाशनय: पेतु: केतवश्चार्तिहेतव: ॥ ४ ॥

Text 5

ववौ वायु: सुदु:स्पर्श: फूत्कारानीरयन्मुहु: ।
उन्मूलयन्नगपतीन्वात्यानीको रजोध्वज: ॥ ५ ॥

Text 6

उद्धसत्तडिदम्भोदघटया नष्टभागणे ।
व्योम्नि प्रविष्टतमसा न स्म व्याद‍ृश्यते पदम् ॥ ६ ॥

Text 7

चुक्रोश विमना वार्धिरुदूर्मि: क्षुभितोदर: ।
सोदपानाश्च सरितश्चुक्षुभु: शुष्कपङ्कजा: ॥ ७ ॥

Text 8

मुहु: परिधयोऽभूवन् सराह्वो: शशिसूर्ययो: ।
निर्घाता रथनिर्ह्रादा विवरेभ्य: प्रजज्ञिरे ॥ ८ ॥

Text 9

अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्बणम् ।
सृगालोलूकटङ्कारै: प्रणेदुरशिवं शिवा: ॥ ९ ॥

Text 10

सङ्गीतवद्रोदनवदुन्नमय्य शिरोधराम् ।
व्यमुञ्चन् विविधा वाचो ग्रामसिंहास्ततस्तत: ॥ १० ॥

Text 11

खराश्च कर्कशै: क्षत्त: खुरैर्घ्नन्तो धरातलम् ।
खार्काररभसा मत्ता: पर्यधावन् वरूथश: ॥ ११ ॥

Text 12

रुदन्तो रासभत्रस्ता नीडादुदपतन् खगा: ।
घोषेऽरण्ये च पशव: शकृन्मूत्रमकुर्वत ॥ १२ ॥

Text 13

गावोऽत्रसन्नसृग्दोहास्तोयदा: पूयवर्षिण: ।
व्यरुदन्देवलिङ्गानि द्रुमा: पेतुर्विनानिलम् ॥ १३ ॥

Text 14

ग्रहान् पुण्यतमानन्ये भगणांश्चापि दीपिता: ।
अतिचेरुर्वक्रगत्या युयुधुश्च परस्परम् ॥ १४ ॥

Text 15

दृष्ट्वान्यांश्च महोत्पातानतत्तत्त्वविद: प्रजा: ।
ब्रह्मपुत्रानृते भीता मेनिरे विश्‍वसम्प्लवम् ॥ १५ ॥

Text 16

तावादिदैत्यौ सहसा व्यज्यमानात्मपौरुषौ ।
ववृधातेऽश्मसारेण कायेनाद्रिपती इव ॥ १६ ॥

Text 17

दिविस्पृशौ हेमकिरीटकोटिभि-
र्निरुद्धकाष्ठौ स्फुरदङ्गदाभुजौ ।
गां कम्पयन्तौ चरणै: पदे पदे
कट्या सुकाञ्‍च्यार्कमतीत्य तस्थतु: ॥ १७ ॥

Text 18

प्रजापतिर्नाम तयोरकार्षीद्
य: प्राक् स्वदेहाद्यमयोरजायत ।
तं वै हिरण्यकशिपुं विदु: प्रजा
यं तं हिरण्याक्षमसूत साग्रत: ॥ १८ ॥

Text 19

चक्रे हिरण्यकशिपुर्दोर्भ्यां ब्रह्मवरेण च ।
वशे सपालाँल्लोकांस्त्रीनकुतोमृत्युरुद्धत: ॥ १९ ॥

Text 20

हिरण्याक्षोऽनुजस्तस्य प्रिय: प्रीतिकृदन्वहम् ।
गदापाणिर्दिवं यातो युयुत्सुर्मृगयन् रणम् ॥ २० ॥

Text 21

तं वीक्ष्य दु:सहजवं रणत्काञ्चननूपुरम् ।
वैजयन्त्या स्रजा जुष्टमंसन्यस्तमहागदम् ॥ २१ ॥

Text 22

मनोवीर्यवरोत्सिक्तमसृण्यमकुतोभयम् ।
भीता निलिल्यिरे देवास्तार्क्ष्यत्रस्ता इवाहय: ॥ २२ ॥

Text 23

स वै तिरोहितान् दृष्ट्वा महसा स्वेन दैत्यराट् ।
सेन्द्रान्देवगणान् क्षीबानपश्यन् व्यनदद् भृशम् ॥ २३ ॥

Text 24

ततो निवृत्त: क्रीडिष्यन् गम्भीरं भीमनिस्वनम् ।
विजगाहे महासत्त्वो वार्धिं मत्त इव द्विप: ॥ २४ ॥

Text 25

तस्मिन् प्रविष्टे वरुणस्य सैनिका
यादोगणा: सन्नधिय: ससाध्वसा: ।
अहन्यमाना अपि तस्य वर्चसा
प्रधर्षिता दूरतरं प्रदुद्रुवु: ॥ २५ ॥

Text 26

स वर्षपूगानुदधौ महाबल-
श्चरन्महोर्मीञ्‍छ्वसनेरितान्मुहु: ।
मौर्व्याभिजघ्ने गदया विभावरी-
मासेदिवांस्तात पुरीं प्रचेतस: ॥ २६ ॥

Text 27

तत्रोपलभ्यासुरलोकपालकं
यादोगणानामृषभं प्रचेतसम् ।
स्मयन् प्रलब्धुं प्रणिपत्य नीचव-
ज्जगाद मे देह्यधिराज संयुगम ॥ २७ ॥

Text 28

त्वं लोकपालोऽधिपतिर्बृहच्छ्रवा
वीर्यापहो दुर्मदवीरमानिनाम् ।
विजित्य लोकेऽखिलदैत्यदानवान्
यद्राजसूयेन पुरायजत्प्रभो ॥ २८ ॥

Text 29

स एवमुत्सिक्तमदेन विद्विषा
द‍ृढं प्रलब्धो भगवानपां पति: ।
रोषं समुत्थं शमयन् स्वया धिया
व्यवोचदङ्गोपशमं गता वयम् ॥ २९ ॥

Text 30

पश्यामि नान्यं पुरुषात्पुरातनाद्
य: संयुगे त्वां रणमार्गकोविदम् ।
आराधयिष्यत्यसुरर्षभेहि तं
मनस्विनो यं गृणते भवाद‍ृशा: ॥ ३० ॥

Text 31

तं वीरमारादभिपद्य विस्मय:
शयिष्यसे वीरशये श्वभिर्वृत: ।
यस्त्वद्विधानामसतां प्रशान्तये
रूपाणि धत्ते सदनुग्रहेच्छया ॥ ३१ ॥

Srimad Bhagavatam | Canto 3 | Chapter 16 | Verses

0

The Two Doorkeepers of Vaikuṇṭha, Jaya and Vijaya, Cursed by the Sages

Text 1

ब्रह्मोवाच
इति तद् गृणतां तेषां मुनीनां योगधर्मिणाम् ।
प्रतिनन्द्य जगादेदं विकुण्ठनिलयो विभु: ॥ १ ॥

Text 2

श्रीभगवानुवाच
एतौ तौ पार्षदौ मह्यं जयो विजय एव च ।
कदर्थीकृत्य मां यद्वो बह्वक्रातामतिक्रमम् ॥ २ ॥

Text 3

यस्त्वेतयोर्धृतो दण्डो भवद्‍‌भिर्मामनुव्रतै: ।
स एवानुमतोऽस्माभिर्मुनयो देवहेलनात् ॥ ३ ॥

Text 4

तद्व: प्रसादयाम्यद्य ब्रह्म दैवं परं हि मे ।
तद्धीत्यात्मकृतं मन्ये यत्स्वपुम्भिरसत्कृता: ॥ ४ ॥

Text 5

यन्नामानि च गृह्णाति लोको भृत्ये कृतागसि ।
सोऽसाधुवादस्तत्कीर्तिं हन्ति त्वचमिवामय: ॥ ५ ॥

Text 6

यस्यामृतामलयश:श्रवणावगाह:
सद्य: पुनाति जगदाश्वपचाद्विकुण्ठ: ।
सोऽहं भवद्भय उपलब्धसुतीर्थकीर्ति-
श्छिन्द्यां स्वबाहुमपि व: प्रतिकूलवृत्तिम् ॥ ६ ॥

Text 7

यत्सेवया चरणपद्मपवित्ररेणुं
सद्य:क्षताखिलमलं प्रतिलब्धशीलम् ।
न श्रीर्विरक्तमपि मां विजहाति यस्या:
प्रेक्षालवार्थ इतरे नियमान् वहन्ति ॥ ७ ॥

Text 8

नाहं तथाद्मि यजमानहविर्विताने
श्‍च्योतद्‍घृतप्लुतमदन् हुतभुङ्‍मुखेन ।
यद्ब्राह्मणस्य मुखतश्चरतोऽनुघासं
तुष्टस्य मय्यवहितैर्निजकर्मपाकै: ॥ ८ ॥

Text 9

येषां बिभर्म्यहमखण्डविकुण्ठयोग-
मायाविभूतिरमलाङ्‌घ्रि रज: किरीटै: ।
विप्रांस्तु को न विषहेत यदर्हणाम्भ:
सद्य: पुनाति सहचन्द्रललामलोकान् ॥ ९ ॥

Text 10

ये मे तनूर्द्विजवरान्दुहतीर्मदीया
भूतान्यलब्धशरणानि च भेदबुद्ध्या ।
द्रक्ष्यन्त्यघक्षतद‍ृशो ह्यहिमन्यवस्तान्
गृध्रा रुषा मम कुषन्त्यधिदण्डनेतु: ॥ १० ॥

Text 11

ये ब्राह्मणान्मयि धिया क्षिपतोऽर्चयन्त-
स्तुष्यद्‍धृद: स्मितसुधोक्षितपद्मवक्त्रा: ।
वाण्यानुरागकलयात्मजवद् गृणन्त:
सम्बोधयन्त्यहमिवाहमुपाहृतस्तै: ॥ ११ ॥

Text 12

तन्मे स्वभर्तुरवसायमलक्षमाणौ
युष्मद्वय‍‌तिक्रमगतिं प्रतिपद्य सद्य: ।
भूयो ममान्तिकमितां तदनुग्रहो मे
यत्कल्पतामचिरतो भृतयोर्विवास: ॥ १२ ॥

Text 13

बह्मोवाच
अथ तस्योशतीं देवीमृषिकुल्यां सरस्वतीम् ।
नास्वाद्य मन्युदष्टानां तेषामात्माप्यतृप्यत ॥ १३ ॥

Text 14

सतीं व्यादाय श‍ृण्वन्तो लघ्वीं गुर्वर्थगह्वराम् ।
विगाह्यागाधगम्भीरां न विदुस्तच्चिकीर्षितम् ॥ १४ ॥

Text 15

ते योगमाययारब्धपारमेष्ठ्यमहोदयम् ।
प्रोचु: प्राञ्जलयो विप्रा: प्रहृष्टा: क्षुभितत्वच: ॥ १५ ॥

Text 16

ऋषय ऊचु:
न वयं भगवन् विद्मस्तव देव चिकीर्षितम् ।
कृतो मेऽनुग्रहश्चेति यदध्यक्ष: प्रभाषसे ॥ १६ ॥

Text 17

ब्रह्मण्यस्य परं दैवं ब्राह्मणा: किल ते प्रभो ।
विप्राणां देवदेवानां भगवानात्मदैवतम् ॥ १७ ॥

Text 18

त्वत्त: सनातनो धर्मो रक्ष्यते तनुभिस्तव ।
धर्मस्य परमो गुह्यो निर्विकारो भवान्मत: ॥ १८ ॥

Text 19

तरन्ति ह्यञ्जसा मृत्युं निवृत्ता यदनुग्रहात् ।
योगिन: स भवान् किंस्विदनुगृह्येत यत्परै: ॥ १९ ॥

Text 20

यं वै विभूतिरुपयात्यनुवेलमन्यै-
रर्थार्थिभि: स्वशिरसा धृतपादरेणु: ।
धन्यार्पिताङ्‌घ्रितुलसीनवदामधाम्नो
लोकं मधुव्रतपतेरिव कामयाना ॥ २० ॥

Text 21

यस्तां विविक्तचरितैरनुवर्तमानां
नात्याद्रियत्परमभागवतप्रसङ्ग: ।
स त्वं द्विजानुपथपुण्यरज: पुनीत:
श्रीवत्सलक्ष्म किमगा भगभाजनस्त्वम् ॥ २१ ॥

Text 22

धर्मस्य ते भगवतस्त्रियुग त्रिभि: स्वै:
पद्‍‌भिश्चराचरमिदं द्विजदेवतार्थम् ।
नूनं भृतं तदभिघाति रजस्तमश्च
सत्त्वेन नो वरदया तनुवा निरस्य ॥ २२ ॥

Text 23

न त्वं द्विजोत्तमकुलं यदिहात्मगोपं
गोप्ता वृष: स्वर्हणेन ससूनृतेन ।
तर्ह्येव नङ्‌क्ष्यति शिवस्तव देव पन्था
लोकोऽग्रहीष्यद‍ृषभस्य हितत्प्रमाणम् ॥ २३ ॥

Text 24

तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सो:
क्षेमं जनाय निजशक्तिभिरुद्‍धृतारे: ।
नैतावता त्र्यधिपतेर्बत विश्वभर्तु-
स्तेज: क्षतं त्ववनतस्य स ते विनोद: ॥ २४ ॥

Text 25

यं वानयोर्दममधीश भवान् विधत्ते
वृत्तिं नु वा तदनुमन्महि निर्व्यलीकम् ।
अस्मासु वा य उचितो ध्रियतां स दण्डो
येऽनागसौ वयमयुङ्‌क्ष्महि किल्बिषेण ॥ २५ ॥

Text 26

श्रीभगवानुवाच
एतौ सुरेतरगतिं प्रतिपद्य सद्य:
संरम्भसम्भृतसमाध्यनुबद्धयोगौ ।
भूय: सकाशमुपयास्यत आशु यो व:
शापो मयैव निमितस्तदवेत विप्रा: ॥ २६ ॥

Text 27

ब्रह्मोवाच
अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम् ।
वैकुण्ठं तदधिष्ठानं विकुण्ठं च स्वयंप्रभम् ॥ २७ ॥

Text 28

भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च ।
प्रतिजग्मु: प्रमुदिता: शंसन्तो वैष्णवीं श्रियम् ॥ २८ ॥

Text 29

भगवाननुगावाह यातं मा भैष्टमस्तु शम् ।
ब्रह्मतेज: समर्थोऽपि हन्तुं नेच्छे मतं तु मे ॥ २९ ॥

Text 30

एतत्पुरैव निर्दिष्टं रमया क्रुद्धया यदा ।
पुरापवारिता द्वारि विशन्ती मय्युपारते ॥ ३० ॥

Text 31

मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम् ।
प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुन: ॥ ३१ ॥

Text 32

द्वा:स्थावादिश्य भगवान् विमानश्रेणिभूषणम् ।
सर्वातिशयया लक्ष्म्या जुष्टं स्वं धिष्ण्यमाविशत् ॥ ३२ ॥

Text 33

तौ तु गीर्वाणऋषभौ दुस्तराद्धरिलोकत: ।
हतश्रियौ ब्रह्मशापादभूतां विगतस्मयौ ॥ ३३ ॥

Text 34

तदा विकुण्ठधिषणात्तयोर्निपतमानयो: ।
हाहाकारो महानासीद्विमानाग्र्येषु पुत्रका: ॥ ३४ ॥

Text 35

तावेव ह्यधुना प्राप्तौ पार्षदप्रवरौ हरे: ।
दितेर्जठरनिर्विष्टं काश्यपं तेज उल्बणम् ॥ ३५ ॥

Text 36

तयोरसुरयोरद्य तेजसा यमयोर्हि व: ।
आक्षिप्तं तेज एतर्हि भगवांस्तद्विधित्सति ॥ ३६ ॥

Text 37

विश्वस्य य: स्थितिलयोद्भवहेतुराद्यो
योगेश्वरैरपि दुरत्यययोगमाय: ।
क्षेमं विधास्यति स नो भगवांस्त्र्यधीश-
स्तत्रास्मदीयविमृशेन कियानिहार्थ: ॥ ३७ ॥

Srimad Bhagavatam | Canto 3 | Chapter 15 | Verses

0

Description of the Kingdom of God

Text 1

मैत्रेय उवाच
प्रजापत्यं तु तत्तेज: परतेजोहनं दिति: ।
दधार वर्षाणि शतं शङ्कमाना सुरार्दनात् ॥ १ ॥

Text 2

लोके तेनाहतालोके लोकपाला हतौजस: ।
न्यवेदयन् विश्वसृजे ध्वान्तव्यतिकरं दिशाम् ॥ २ ॥

Text 3

देवा ऊचु:
तम एतद्विभो वेत्थ संविग्ना यद्वयं भृशम् ।
न ह्यव्यक्तं भगवत: कालेनास्पृष्टवर्त्मन: ॥ ३ ॥

Text 4

देवदेव जगद्धातर्लोकनाथशिखामणे ।
परेषामपरेषां त्वं भूतानामसि भाववित् ॥ ४ ॥

Text 5

नमो विज्ञानवीर्याय माययेदमुपेयुषे ।
गृहीतगुणभेदाय नमस्तेऽव्यक्तयोनये ॥ ५ ॥

Text 6

ये त्वानन्येन भावेन भावयन्त्यात्मभावनम् ।
आत्मनि प्रोतभुवनं परं सदसदात्मकम् ॥ ६ ॥

Text 7

तेषां सुपक्‍वयोगानां जितश्वासेन्द्रियात्मनाम् ।
लब्धयुष्मत्प्रसादानां न कुतश्चित्पराभव: ॥ ७ ॥

Text 8

यस्य वाचा प्रजा: सर्वा गावस्तन्त्येव यन्त्रिता: ।
हरन्ति बलिमायत्तास्तस्मै मुख्याय ते नम: ॥ ८ ॥

Text 9

स त्वं विधत्स्व शं भूमंस्तमसा लुप्तकर्मणाम् ।
अदभ्रदयया द‍ृष्टय‍ा आपन्नानर्हसीक्षितुम् ॥ ९ ॥

Text 10

एष देव दितेर्गर्भ ओज: काश्यपमर्पितम् ।
दिशस्तिमिरयन् सर्वा वर्धतेऽग्निरिवैधसि ॥ १० ॥

Text 11

मैत्रेय उवाच
स प्रहस्य महाबाहो भगवान् शब्दगोचर: ।
प्रत्याचष्टात्मभूर्देवान् प्रीणन् रुचिरया गिरा ॥ ११ ॥

Text 12

ब्रह्मोवाच
मानसा मे सुता युष्मत्पूर्वजा: सनकादय: ।
चेरुर्विहायसा लोकाल्लोकेषु विगतस्पृहा: ॥ १२ ॥

Text 13

त एकदा भगवतो वैकुण्ठस्यामलात्मन: ।
ययुर्वैकुण्ठनिलयं सर्वलोकनमस्कृतम् ॥ १३ ॥

Text 14

वसन्ति यत्र पुरुषा: सर्वे वैकुण्ठमूर्तय: ।
येऽनिमित्तनिमित्तेन धर्मेणाराधयन् हरिम् ॥ १४ ॥

Text 15

यत्र चाद्य: पुमानास्ते भगवान् शब्दगोचर: ।
सत्त्वं विष्टभ्य विरजं स्वानां नो मृडयन् वृष: ॥ १५ ॥

Text 16

यत्र नै:श्रेयसं नाम वनं कामदुघैर्द्रुमै: ।
सर्वर्तुश्रीभिर्विभ्राजत्कैवल्यमिव मूर्तिमत् ॥ १६ ॥

Text 17

वैमानिका: सललनाश्चरितानि शश्वद्
गायन्ति यत्र शमलक्षपणानि भर्तु: ।
अन्तर्जलेऽनुविकसन्मधुमाधवीनां
गन्धेन खण्डितधियोऽप्यनिलं क्षिपन्त: ॥ १७ ॥

Text 18

पारावतान्यभृतसारसचक्रवाक-
दात्यूहहंसशुकतित्तिरिबर्हिणां य: ।
कोलाहलो विरमतेऽचिरमात्रमुच्चै
र्भृङ्गाधिपे हरिकथामिव गायमाने ॥ १८ ॥

Text 19

मन्दारकुन्दकुरबोत्पलचम्पकार्ण-
पुन्नागनागबकुलाम्बुजपारिजाता: ।
गन्धेऽर्चिते तुलसिकाभरणेन तस्या
यस्मिंस्तप: सुमनसो बहु मानयन्ति ॥ १९ ॥

Text 20

यत्संकुलं हरिपदानतिमात्रद‍ृष्टै-
र्वैदूर्यमारकतहेममयैर्विमानै: ।
येषां बृहत्कटितटा: स्मितशोभिमुख्य:
कृष्णात्मनां न रज आदधुरुत्स्मयाद्यै: ॥ २० ॥

Text 21

श्री रूपिणी क्‍वणयती चरणारविन्दं
लीलाम्बुजेन हरिसद्मनि मुक्तदोषा ।
संलक्ष्यते स्फटिककुड्य उपेतहेम्नि
सम्मार्जतीव यदनुग्रहणेऽन्ययत्न: ॥ २१ ॥

Text 22

वापीषु विद्रुमतटास्वमलामृताप्सु
प्रेष्यान्विता निजवने तुलसीभिरीशम् ।
अभ्यर्चती स्वलकमुन्नसमीक्ष्य वक्त्र-
मुच्छेषितं भगवतेत्यमताङ्ग यच्छ्री: ॥ २२ ॥

Text 23

यन्न व्रजन्त्यघभिदो रचनानुवादा-
च्छृण्वन्ति येऽन्यविषया: कुकथा मतिघ्नी: ।
यास्तु श्रुता हतभगैर्नृभिरात्तसारा-
स्तांस्तान् क्षिपन्त्यशरणेषु तम:सु हन्त ॥ २३ ॥

Text 24

येऽभ्यर्थितामपि च तो नृगतिं प्रपन्ना
ज्ञानं च तत्त्वविषयं सहधर्मं यत्र ।
नाराधनं भगवतो वितरन्त्यमुष्य
सम्मोहिता विततया बत मायया ते ॥ २४ ॥

Text 25

यच्च व्रजन्त्यनिमिषामृषभानुवृत्त्या
दूरेयमा ह्युपरि न: स्पृहणीयशीला: ।
भर्तुर्मिथ: सुयशस: कथनानुराग-
वैक्लव्यबाष्पकलया पुलकीकृताङ्गा: ॥ २५ ॥

Text 26

तद्विश्वगुर्वधिकृतं भुवनैकवन्द्यं
दिव्यं विचित्रविबुधाग्र्यविमानशोचि: ।
आपु: परां मुदमपूर्वमुपेत्य योग-
मायाबलेन मुनयस्तदथो विकुण्ठम् ॥ २६ ॥

Text 27

तस्मिन्नतीत्य मुनय: षडसज्जमाना:
कक्षा: समानवयसावथ सप्तमायाम् ।
देवावचक्षत गृहीतगदौ परार्ध्य-
केयूरकुण्डलकिरीटविटङ्कवेषौ ॥ २७ ॥

Text 28

मत्तद्विरेफवनमालिकया निवीतौ
विन्यस्तयासितचतुष्टयबाहुमध्ये ।
वक्त्रं भ्रुवा कुटिलया स्फुटनिर्गमाभ्यां
रक्तेक्षणेन च मनाग्रभसं दधानौ ॥ २८ ॥

Text 29

द्वार्येतयोर्निविविशुर्मिषतोरपृष्ट्वा
पूर्वा यथा पुरटवज्रकपाटिका या: ।
सर्वत्र तेऽविषमया मुनय: स्वद‍ृष्टय‍ा
ये सञ्चरन्त्यविहता विगताभिशङ्का: ॥ २९ ॥

Text 30

तान् वीक्ष्य वातारशनांश्चतुर: कुमारान्
वृद्धान्दशार्धवयसो विदितात्मतत्त्वान् ।
वेत्रेण चास्खलयतामतदर्हणांस्तौ
तेजो विहस्य भगवत्प्रतिकूलशीलौ ॥ ३० ॥

Text 31

ताभ्यां मिषत्स्वनिमिषेषु निषिध्यमाना:
स्वर्हत्तमा ह्यपि हरे: प्रतिहारपाभ्याम् ।
ऊचु: सुहृत्तमदिद‍ृक्षितभङ्ग ईष-
त्कामानुजेन सहसा त उपप्लुताक्षा: ॥ ३१ ॥

Text 32

मुनय ऊचु:
को वामिहैत्य भगवत्परिचर्ययोच्चै-
स्तद्धर्मिणां निवसतां विषम: स्वभाव: ।
तस्मिन् प्रशान्तपुरुषे गतविग्रहे वां
को वात्मवत्कुहकयो: परिशङ्कनीय: ॥ ३२ ॥

Text 33

न ह्यन्तरं भगवतीह समस्तकुक्षा-
वात्मानमात्मनि नभो नभसीव धीरा: ।
पश्यन्ति यत्र युवयो: सुरलिङ्गिनो: किं
व्युत्पादितं ह्युदरभेदि भयं यतोऽस्य ॥ ३३ ॥

Text 34

तद्वाममुष्य परमस्य विकुण्ठभर्तु:
कर्तुं प्रकृष्टमिह धीमहि मन्दधीभ्याम् ।
लोकानितो व्रजतमन्तरभावद‍ृष्टय‍ा
पापीयसस्त्रय इमे रिपवोऽस्य यत्र ॥ ३४ ॥

Text 35

तेषामितीरितमुभाववधार्य घोरं
तं ब्रह्मदण्डमनिवारणमस्त्रपूगै: ।
सद्यो हरेरनुचरावुरु बिभ्यतस्तत्-
पादग्रहावपततामतिकातरेण ॥ ३५ ॥

Text 36

भूयादघोनि भगवद्‍‌भिरकारि दण्डो
यो नौ हरेत सुरहेलनमप्यशेषम् ।
मा वोऽनुतापकलया भगवत्स्मृतिघ्नो
मोहो भवेदिह तु नौ व्रजतोरधोऽध: ॥ ३६ ॥

Text 37

एवं तदैव भगवानरविन्दनाभ:
स्वानां विबुध्य सदतिक्रममार्यहृद्य: ।
तस्मिन् ययौ परमहंसमहामुनीना-
मन्वेषणीयचरणौ चलयन् सहश्री: ॥ ३७ ॥

Text 38

तं त्वागतं प्रतिहृतौपयिकं स्वपुम्भि-
स्तेऽचक्षताक्षविषयं स्वसमाधिभाग्यम् ।
हंसश्रियोर्व्यजनयो: शिववायुलोल-
च्छुभ्रातपत्रशशिकेसरशीकराम्बुम् ॥ ३८ ॥

Text 39

कृत्‍स्‍नप्रसादसुमुखं स्पृहणीयधाम
स्‍नेहावलोककलया हृदि संस्पृशन्तम् ।
श्यामे पृथावुरसि शोभितया श्रिया स्व-
श्चूडामणिं सुभगयन्तमिवात्मधिष्ण्यम् ॥ ३९ ॥

Text 40

पीतांशुके पृथुनितम्बिनि विस्फुरन्त्या
काञ्‍च्यालिभिर्विरुतया वनमालया च ।
वल्गुप्रकोष्ठवलयं विनतासुतांसे
विन्यस्तहस्तमितरेण धुनानमब्जम् ॥ ४० ॥

Text 41

विद्युत्क्षिपन्मकरकुण्डलमण्डनार्ह-
गण्डस्थलोन्नसमुखं मणिमत्किरीटम् ।
दोर्दण्डषण्डविवरे हरता परार्ध्य-
हारेण कन्धरगतेन च कौस्तुभेन ॥ ४१ ॥

Text 42

अत्रोपसृष्टमिति चोत्स्मितमिन्दिराया:
स्वानां धिया विरचितं बहुसौष्ठवाढ्यम् ।
मह्यं भवस्य भवतां च भजन्तमङ्गं
नेमुर्निरीक्ष्य नवितृप्तद‍ृशो मुदा कै: ॥ ४२ ॥

Text 43

तस्यारविन्दनयनस्य पदारविन्द-
किञ्जल्कमिश्रतुलसीमकरन्दवायु: ।
अन्तर्गत: स्वविवरेण चकार तेषां
सङ्‌क्षोभमक्षरजुषामपि चित्ततन्वो: ॥ ४३ ॥

Text 44

ते वा अमुष्य वदनासितपद्मकोश-
मुद्वीक्ष्य सुन्दरतराधरकुन्दहासम् ।
लब्धाशिष: पुनरवेक्ष्य तदीयमङ्‌घ्रि-
द्वन्द्वं नखारुणमणिश्रयणं निदध्यु: ॥ ४४ ॥

Text 45

पुंसां गतिं मृगयतामिह योगमार्गै-
र्ध्यानास्पदं बहु मतं नयनाभिरामम् ।
पौंस्‍नं वपुर्दर्शयानमनन्यसिद्धै-
रौत्पत्तिकै: समगृणन् युतमष्टभोगै: ॥ ४५ ॥

Text 46

कुमारा ऊचु:
योऽन्तर्हितो हृदि गतोऽपि दुरात्मनां त्वं
सोऽद्यैव नो नयनमूलमनन्त राद्ध: ।
यर्ह्येव कर्णविवरेण गुहां गतो न:
पित्रानुवर्णितरहा भवदुद्भवेन ॥ ४६ ॥

Text 47

तं त्वां विदाम भगवन् परमात्मतत्त्वं
सत्त्वेन सम्प्रति रतिं रचयन्तमेषाम् ।
यत्तेऽनुतापविदितैर्दृढभक्तियोगै-
रुद्ग्रन्थयो हृदि विदुर्मुनयो विरागा: ॥ ४७ ॥

Text 48

नात्यन्तिकं विगणयन्त्यपि ते प्रसादं
किम्वन्यदर्पितभयं भ्रुव उन्नयैस्ते ।
येऽङ्ग त्वदङ्‌घ्रि शरणा भवत: कथाया:
कीर्तन्यतीर्थयशस: कुशला रसज्ञा: ॥ ४८ ॥

Text 49

कामं भव: स्ववृजिनैर्निरयेषु न: स्ता-
च्चेतोऽलिवद्यदि नु ते पदयो रमेत ।
वाचश्च नस्तुलसिवद्यदि तेऽङ्‌घ्रि शोभा:
पूर्येत ते गुणगणैर्यदि कर्णरन्ध्र: ॥ ४९ ॥

Text 50

प्रादुश्चकर्थ यदिदं पुरुहूत रूपं
तेनेश निर्वृतिमवापुरलं द‍ृशो न: ।
तस्मा इदं भगवते नम इद्विधेम
योऽनात्मनां दुरुदयो भगवान् प्रतीत: ॥ ५० ॥

Srimad Bhagavatam | Canto 3 | Chapter 14 | Verses

0

Pregnancy of Diti in the Evening

Text 1

श्रीशुक उवाच
निशम्य कौषारविणोपवर्णितां
हरे: कथां कारणसूकरात्मन: ।
पुन: स पप्रच्छ तमुद्यताञ्जलि-
र्न चातितृप्तो विदुरो धृतव्रत: ॥ १ ॥

Text 2

विदुर उवाच
तेनैव तु मुनिश्रेष्ठ हरिणा यज्ञमूर्तिना ।
आदिदैत्यो हिरण्याक्षो हत इत्यनुशुश्रुम ॥ २ ॥

Text 3

तस्य चोद्धरत: क्षौणीं स्वदंष्ट्राग्रेण लीलया ।
दैत्यराजस्य च ब्रह्मन् कस्माद्धेतोरभून्मृध: ॥ ३ ॥

Text 4

श्रद्दधानाय भक्ताय ब्रूहि तज्जन्मविस्तरम् ।
ऋषे न तृप्यति मन: परं कौतूहलं हि मे ॥ ४ ॥

Text 5

मैत्रेय उवाच
साधु वीर त्वया पृष्टमवतारकथां हरे: ।
यत्त्वं पृच्छसि मर्त्यानां मृत्युपाशविशातनीम् ॥ ५ ॥

Text 6

ययोत्तानपद: पुत्रो मुनिना गीतयार्भक: ।
मृत्यो: कृत्वैव मूर्ध्‍न्यङ्‌घ्रि मारुरोह हरे: पदम् ॥ ६ ॥

Text 7

अथात्रापीतिहासोऽयं श्रुतो मे वर्णित: पुरा ।
ब्रह्मणा देवदेवेन देवानामनुपृच्छताम् ॥ ७ ॥

Text 8

दितिर्दाक्षायणी क्षत्तर्मारीचं कश्यपं पतिम् ।
अपत्यकामा चकमे सन्ध्यायां हृच्छयार्दिता ॥ ८ ॥

Text 9

इष्ट्वाग्निजिह्वं पयसा पुरुषं यजुषां पतिम् ।
निम्‍लोचत्यर्क आसीनमग्‍न्यगारे समाहितम् ॥ ९ ॥

Text 10

दितिरुवाच
एष मां त्वत्कृते विद्वन् काम आत्तशरासन: ।
दुनोति दीनां विक्रम्य रम्भामिव मतङ्गज: ॥ १० ॥

Text 11

तद्भवान्दह्यमानायां सपत्नीनां समृद्धिभि: ।
प्रजावतीनां भद्रं ते मय्यायुङ्क्तामनुग्रहम् ॥ ११ ॥

Text 12

भर्तर्याप्तोरुमानानां लोकानाविशते यश: ।
पतिर्भवद्विधो यासां प्रजया ननु जायते ॥ १२ ॥

Text 13

पुरा पिता नो भगवान्दक्षो दुहितृवत्सल: ।
कं वृणीत वरं वत्सा इत्यपृच्छत न: पृथक् ॥ १३ ॥

Text 14

स विदित्वात्मजानां नो भावं सन्तानभावन: ।
त्रयोदशाददात्तासां यास्ते शीलमनुव्रता: ॥ १४ ॥

Text 15

अथ मे कुरु कल्याणं कामं कमललोचन ।
आर्तोपसर्पणं भूमन्नमोघं हि महीयसि ॥ १५ ॥

Text 16

इति तां वीर मारीच: कृपणां बहुभाषिणीम् ।
प्रत्याहानुनयन् वाचा प्रवृद्धानङ्गकश्मलाम् ॥ १६ ॥

Text 17

एष तेऽहं विधास्यामि प्रियं भीरु यदिच्छसि ।
तस्या: कामं न क: कुर्यात्सिद्धिस्त्रैवर्गिक यत: ॥ १७ ॥

Text 18

सर्वाश्रमानुपादाय स्वाश्रमेण कलत्रवान् ।
व्यसनार्णवमत्येति जलयानैर्यथार्णवम् ॥ १८ ॥

Text 19

यामाहुरात्मनो ह्यर्धं श्रेयस्कामस्य मानिनि ।
यस्यां स्वधुरमध्यस्य पुमांश्चरति विज्वर: ॥ १९ ॥

Text 20

यामाश्रित्येन्द्रियारातीन्दुर्जयानितराश्रमै: ।
वयं जयेम हेलाभिर्दस्यून्दुर्गपतिर्यथा ॥ २० ॥

Text 21

न वयं प्रभवस्तां त्वामनुकर्तुं गृहेश्वरि ।
अप्यायुषा वा कार्त्स्‍न्येन ये चान्ये गुणगृध्नव: ॥ २१ ॥

Text 22

अथापि काममेतं ते प्रजात्यै करवाण्यलम् ।
यथा मां नातिरोचन्ति मुहूर्तं प्रतिपालय ॥ २२ ॥

Text 23

एषा घोरतमा वेला घोराणां घोरदर्शना ।
चरन्ति यस्यां भूतानि भूतेशानुचराणि ह ॥ २३ ॥

Text 24

एतस्यां साध्वि सन्ध्यायां भगवान् भूतभावन: ।
परीतो भूतपर्षद्‍‌भिर्वृषेणाटति भूतराट् ॥ २४ ॥

Text 25

श्मशानचक्रानिलधूलिधूम्र-
विकीर्णविद्योतजटाकलाप: ।
भस्मावगुण्ठामलरुक्‍मदेहो
देवस्त्रिभि: पश्यति देवरस्ते ॥ २५ ॥

Text 26

न यस्य लोके स्वजन: परो वा
नात्याद‍ृतो नोत कश्चिद्विगर्ह्य: ।
वयं व्रतैर्यच्चरणापविद्धा-
माशास्महेऽजां बत भुक्तभोगाम् ॥ २६ ॥

Text 27

यस्यानवद्याचरितं मनीषिणो
गृणन्त्यविद्यापटलं बिभित्सव: ।
निरस्तसाम्यातिशयोऽपि यत्स्वयं
पिशाचचर्यामचरद्‍गति: सताम् ॥ २७ ॥

Text 28

हसन्ति यस्याचरितं हि दुर्भगा:
स्वात्मन्-रतस्याविदुष: समीहितम् ।
यैर्वस्त्रमाल्याभरणानुलेपनै:
श्वभोजनं स्वात्मतयोपलालितम् ॥ २८ ॥

Text 29

ब्रह्मादयो यत्कृतसेतुपाला
यत्कारणं विश्वमिदं च माया ।
आज्ञाकरी यस्य पिशाचचर्या
अहो विभूम्नश्चरितं विडम्बनम् ॥ २९ ॥

Text 30

मैत्रेय उवाच
सैवं संविदिते भर्त्रा मन्मथोन्मथितेन्द्रिया ।
जग्राह वासो ब्रह्मर्षेर्वृषलीव गतत्रपा ॥ ३० ॥

Text 31

स विदित्वाथ भार्यायास्तं निर्बन्धं विकर्मणि ।
नत्वा दिष्टाय रहसि तयाथोपविवेश हि ॥ ३१ ॥

Text 32

अथोपस्पृश्य सलिलं प्राणानायम्य वाग्यत: ।
ध्यायञ्जजाप विरजं ब्रह्म ज्योति: सनातनम् ॥ ३२ ॥

Text 33

दितिस्तु व्रीडिता तेन कर्मावद्येन भारत ।
उपसङ्गम्य विप्रर्षिमधोमुख्यभ्यभाषत ॥ ३३ ॥

Text 34

दितिरुवाच
न मे गर्भमिमं ब्रह्मन् भूतानामृषभोऽवधीत् ।
रुद्र: पतिर्हि भूतानां यस्याकरवमंहसम् ॥ ३४ ॥

Text 35

नमो रुद्राय महते देवायोग्राय मीढुषे ।
शिवाय न्यस्तदण्डाय धृतदण्डाय मन्यवे ॥ ३५ ॥

Text 36

स न: प्रसीदतां भामो भगवानुर्वनुग्रह: ।
व्याधस्याप्यनुकम्प्यानां स्त्रीणां देव: सतीपति: ॥ ३६ ॥

Text 37

मैत्रेय उवाच
स्वसर्गस्याशिषं लोक्यामाशासानां प्रवेपतीम् ।
निवृत्तसन्ध्यानियमो भार्यामाह प्रजापति: ॥ ३७ ॥

Text 38

कश्यप उवाच
अप्रायत्यादात्मनस्ते दोषान्मौहूर्तिकादुत ।
मन्निदेशातिचारेण देवानां चातिहेलनात् ॥ ३८ ॥

Text 39

भविष्यतस्तवाभद्रावभद्रे जाठराधमौ ।
लोकान् सपालांस्त्रींश्चण्डि मुहुराक्रन्दयिष्यत: ॥ ३९ ॥

Text 40

प्राणिनां हन्यमानानां दीनानामकृतागसाम् ।
स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु ॥ ४० ॥

Text 41

तदा विश्वेश्वर: क्रुद्धो भगवाल्लोकभावन: ।
हनिष्यत्यवतीर्यासौ यथाद्रीन् शतपर्वधृक् ॥ ४१ ॥

Text 42

दितिरुवाच
वधं भगवता साक्षात्सुनाभोदारबाहुना ।
आशासे पुत्रयोर्मह्यं मा क्रुद्धाद्ब्राह्मणाद्प्रभो ॥ ४२ ॥

Text 43

न ब्रह्मदण्डदग्धस्य न भूतभयदस्य च ।
नारकाश्चानुगृह्णन्ति यां यां योनिमसौ गत: ॥ ४३ ॥

Texts 44-45

कश्यप उवाच
कृतशोकानुतापेन सद्य: प्रत्यवमर्शनात् ।
भगवत्युरुमानाच्च भवे मय्यपि चादरात् ॥ ४४ ॥
पुत्रस्यैव च पुत्राणां भवितैक: सतां मत: ।
गास्यन्ति यद्यश: शुद्धं भगवद्यशसा समम् ॥ ४५ ॥

Text 46

योगैर्हेमेव दुर्वर्णं भावयिष्यन्ति साधव: ।
निर्वैरादिभिरात्मानं यच्छीलमनुवर्तितुम् ॥ ४६ ॥

Text 47

यत्प्रसादादिदं विश्वं प्रसीदति यदात्मकम् ।
स स्वद‍ृग्भगवान् यस्य तोष्यतेऽनन्यया द‍ृशा ॥ ४७ ॥

Text 48

स वै महाभागवतो महात्मा
महानुभावो महतां महिष्ठ: ।
प्रवृद्धभक्त्या ह्यनुभाविताशये
निवेश्य वैकुण्ठमिमं विहास्यति ॥ ४८ ॥

Text 49

अलम्पट: शीलधरो गुणाकरो
हृष्ट: परर्द्ध्या व्यथितो दु:खितेषु ।
अभूतशत्रुर्जगत: शोकहर्ता
नैदाघिकं तापमिवोडुराज: ॥ ४९ ॥

Text 50

अन्तर्बहिश्चामलमब्जनेत्रं
स्वपूरुषेच्छानुगृहीतरूपम् ।
पौत्रस्तव श्रीललनाललामं
द्रष्टा स्फुरत्कुण्डलमण्डिताननम् ॥ ५० ॥

Text 51

मैत्रेय उवाच
श्रुत्वा भागवतं पौत्रममोदत दितिर्भृशम् ।
पुत्रयोश्च वधं कृष्णाद्विदित्वासीन्महामना: ॥ ५१ ॥

Srimad Bhagavatam | Canto 3 | Chapter 13 | Verses

0

The Appearance of Lord Varāha

Text 1

श्रीशुक उवाच
निशम्य वाचं वदतो मुने: पुण्यतमां नृप ।
भूय: पप्रच्छ कौरव्यो वासुदेवकथाद‍ृत: ॥ १ ॥

Text 2

विदुर उवाच
स वै स्वायम्भुव: सम्राट् प्रिय: पुत्र: स्वयम्भुव: ।
प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने ॥ २ ॥

Text 3

चरितं तस्य राजर्षेरादिराजस्य सत्तम ।
ब्रूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्यसौ ॥ ३ ॥

Text 4

श्रुतस्य पुंसां सुचिरश्रमस्य
नन्वञ्जसा सूरिभिरीडितोऽर्थ: ।
तत्तद्गुणानुश्रवणं मुकुन्द-
पादारविन्द हृदयेषु येषाम् ॥ ४ ॥

Text 5

श्रीशुक उवाच
इति ब्रुवाणं विदुरं विनीतं
सहस्रशीर्ष्णश्चरणोपधानम् ।
प्रहृष्टरोमा भगवत्कथायां
प्रणीयमानो मुनिरभ्यचष्ट ॥ ५ ॥

Text 6

मैत्रेय उवाच
यदा स्वभार्यया सार्धं जात: स्वायम्भुवो मनु: ।
प्राञ्जलि: प्रणतश्चेदं वेदगर्भमभाषत ॥ ६ ॥

Text 7

त्वमेक: सर्वभूतानां जन्मकृद् वृत्तिद: पिता ।
तथापि न: प्रजानां ते शुश्रूषा केन वा भवेत् ॥ ७ ॥

Text 8

तद्विधेहि नमस्तुभ्यं कर्मस्वीड्यात्मशक्तिषु ।
यत्कृत्वेह यशो विष्वगमुत्र च भवेद्‍गति: ॥ ८ ॥

Text 9

ब्रह्मोवाच
प्रीतस्तुभ्यमहं तात स्वस्ति स्ताद्वां क्षितीश्वर ।
यन्निर्व्यलीकेन हृदा शाधि मेत्यात्मनार्पितम् ॥ ९ ॥

Text 10

एतावत्यात्मजैर्वीर कार्या ह्यपचितिर्गुरौ ।
शक्त्याप्रमत्तैर्गृह्येत सादरं गतमत्सरै: ॥ १० ॥

Text 11

स त्वमस्यामपत्यानि सद‍ृशान्यात्मनो गुणै: ।
उत्पाद्य शास धर्मेण गां यज्ञै: पुरुषं यज ॥ ११ ॥

Text 12

स त्वमस्यामपत्यानि सद‍ृशान्यात्मनो गुणै: ।
उत्पाद्य शास धर्मेण गां यज्ञै: पुरुषं यज ॥ ११ ॥

Text 13

येषां न तुष्टो भगवान् यज्ञलिङ्गो जनार्दन: ।
तेषां श्रमो ह्यपार्थाय यदात्मा नाद‍ृत: स्वयम् ॥ १३ ॥

Text 14

मनुरुवाच
आदेशेऽहं भगवतो वर्तेयामीवसूदन ।
स्थानं त्विहानुजानीहि प्रजानां मम च प्रभो ॥ १४ ॥

Text 15

यदोक: सर्वभूतानां मही मग्ना महाम्भसि ।
अस्या उद्धरणे यत्नो देव देव्या विधीयताम् ॥ १५ ॥

Text 16

मैत्रेय उवाच
परमेष्ठी त्वपां मध्ये तथा सन्नामवेक्ष्य गाम् ।
कथमेनां समुन्नेष्य इति दध्यौ धिया चिरम् ॥ १६ ॥

Text 17

सृजतो मे क्षितिर्वार्भि:प्लाव्यमाना रसां गता ।
अथात्र किमनुष्ठेयमस्माभि: सर्गयोजितै: ।
यस्याहं हृदयादासं स ईशो विदधातु मे ॥ १७ ॥

Text 18

इत्यभिध्यायतो नासाविवरात्सहसानघ ।
वराहतोको निरगादङ्गुष्ठपरिमाणक: ॥ १८ ॥

Text 19

तस्याभिपश्यत: खस्थ: क्षणेन किल भारत ।
गजमात्र: प्रववृधे तदद्भुतमभून्महत् ॥ १९ ॥

Text 20

मरीचिप्रमुखैर्विप्रै: कुमारैर्मनुना सह ।
हृष्ट्वा तत्सौकरं रूपं तर्कयामास चित्रधा ॥ २० ॥

Text 21

किमेतत्सूकरव्याजं सत्त्वं दिव्यमवस्थितम् ।
अहो बताश्चर्यमिदं नासाया मे विनि:सृतम् ॥ २१ ॥

Text 22

द‍ृष्टोऽङ्गुष्ठशिरोमात्र: क्षणाद्‍गण्डशिलासम: ।
अपि स्विद्भगवानेष यज्ञो मे खेदयन्मन: ॥ २२ ॥

Text 23

इति मीमांसतस्तस्य ब्रह्मण: सह सूनुभि: ।
भगवान् यज्ञपुरुषो जगर्जागेन्द्रसन्निभ: ॥ २३ ॥

Text 24

ब्रह्माणं हर्षयामास हरिस्तांश्च द्विजोत्तमान् ।
स्वगर्जितेन ककुभ: प्रतिस्वनयता विभु: ॥ २४ ॥

Text 25

निशम्य ते घर्घरितं स्वखेद-
क्षयिष्णु मायामयसूकरस्य ।
जनस्तप:सत्यनिवासिनस्ते
त्रिभि: पवित्रैर्मुनयोऽगृणन् स्म ॥ २५ ॥

Text 26

तेषां सतां वेदवितानमूर्ति-
र्ब्रह्मावधार्यात्मगुणानुवादम् ।
विनद्य भूयो विबुधोदयाय
गजेन्द्रलीलो जलमाविवेश ॥ २६ ॥

Text 27

उत्क्षिप्तवाल: खचर: कठोर:
सटा विधुन्वन् खररोमशत्वक् ।
खुराहताभ्र: सितदंष्ट्र ईक्षा-
ज्योतिर्बभासे भगवान्महीध्र: ॥ २७ ॥

Text 28

घ्राणेन पृथ्व्या: पदवीं विजिघ्रन्
क्रोडापदेश: स्वयमध्वराङ्ग: ।
करालदंष्ट्रोऽप्यकरालद‍ृग्भ्या-
मुद्वीक्ष्य विप्रान् गृणतोऽविशत्कम् ॥ २८ ॥

Text 29

स वज्रकूटाङ्गनिपातवेग-
विशीर्णकुक्षि: स्तनयन्नुदन्वान् ।
उत्सृष्टदीर्घोर्मिभुजैरिवार्त-
श्चुक्रोश यज्ञेश्वर पाहि मेति ॥ २९ ॥

Text 30

खुरै: क्षुरप्रैर्दरयंस्तदाप
उत्पारपारं त्रिपरू रसायाम् ।
ददर्श गां तत्र सुषुप्सुरग्रे
यां जीवधानीं स्वयमभ्यधत्त ॥ ३० ॥

Text 31

स्वदंष्ट्रयोद्‍धृत्य महीं निमग्नां
स उत्थित: संरुरुचे रसाया: ।
तत्रापि दैत्यं गदयापतन्तं
सुनाभसन्दीपिततीव्रमन्यु: ॥ ३१ ॥

Text 32

जघान रुन्धानमसह्यविक्रमं
स लीलयेभं मृगराडिवाम्भसि ।
तद्रक्तपङ्काङ्कितगण्डतुण्डो
यथा गजेन्द्रो जगतीं विभिन्दन् ॥ ३२ ॥

Text 33

तमालनीलं सितदन्तकोट्या
क्ष्मामुत्क्षिपन्तं गजलीलयाङ्ग ।
प्रज्ञाय बद्धाञ्जलयोऽनुवाकै-
र्विरिञ्चिमुख्या उपतस्थुरीशम् ॥ ३३ ॥

Text 34

ऋषय ऊचु:
जितं जितं तेऽजित यज्ञभावन
त्रयीं तनुं स्वां परिधुन्वते नम: ।
यद्रोमगर्ेषु निलिल्युरद्धय-
स्तस्मै नम: कारणसूकराय ते ॥ ३४ ॥

Text 35

रूपं तवैतन्ननु दुष्कृतात्मनां
दुर्दर्शनं देव यदध्वरात्मकम् ।
छन्दांसि यस्य त्वचि बर्हिरोम-
स्वाज्यं द‍ृशि त्वङ्‌घ्रि षु चातुर्होत्रम् ॥ ३५ ॥

Text 36

स्रक्तुण्ड आसीत्स्रुव ईश नासयो-
रिडोदरे चमसा: कर्णरन्ध्रे ।
प्राशित्रमास्ये ग्रसने ग्रहास्तु ते
यच्चर्वणं ते भगवन्नग्निहोत्रम् ॥ ३६ ॥

Text 37

दीक्षानुजन्मोपसद: शिरोधरं
त्वं प्रायणीयोदयनीयदंष्ट्र: ।
जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतो:
सत्यावसथ्यं चितयोऽसवो हि ते ॥ ३७ ॥

Text 38

सोमस्तु रेत: सवनान्यवस्थिति:
संस्थाविभेदास्तव देव धातव: ।
सत्राणि सर्वाणि शरीरसन्धि-
स्त्वं सर्वयज्ञक्रतुरिष्टिबन्धन: ॥ ३८ ॥

Text 39

नमो नमस्तेऽखिलमन्त्रदेवता-
द्रव्याय सर्वक्रतवे क्रियात्मने ।
वैराग्यभक्त्यात्मजयानुभावित-
ज्ञानाय विद्यागुरवे नमो नम: ॥ ३९ ॥

Text 40

दंष्ट्राग्रकोट्या भगवंस्त्वया धृता
विराजते भूधर भू: सभूधरा ।
यथा वनान्नि:सरतो दता धृता
मतङ्गजेन्द्रस्य सपत्रपद्मिनी ॥ ४० ॥

Text 41

त्रयीमयं रूपमिदं च सौकरं
भूमण्डलेनाथ दता धृतेन ते ।
चकास्ति श‍ृङ्गोढघनेन भूयसा
कुलाचलेन्द्रस्य यथैव विभ्रम: ॥ ४१ ॥

Text 42

संस्थापयैनां जगतां सतस्थुषां
लोकाय पत्नीमसि मातरं पिता ।
विधेम चास्यै नमसा सह त्वया
यस्यां स्वतेजोऽग्निमिवारणावधा: ॥ ४२ ॥

Text 43

क: श्रद्दधीतान्यतमस्तव प्रभो
रसां गताया भुव उद्विबर्हणम् ।
न विस्मयोऽसौ त्वयि विश्वविस्मये
यो माययेदं ससृजेऽतिविस्मयम् ॥ ४३ ॥

Text 44

विधुन्वता वेदमयं निजं वपु-
र्जनस्तप:सत्यनिवासिनो वयम् ।
सटाशिखोद्धूतशिवाम्बुबिन्दुभि-
र्विमृज्यमाना भृशमीश पाविता: ॥ ४४ ॥

Text 45

स वै बत भ्रष्टमतिस्तवैषते
य: कर्मणां पारमपारकर्मण: ।
यद्योगमायागुणयोगमोहितं
विश्वं समस्तं भगवन् विधेहि शम् ॥ ४५ ॥

Text 46

मैत्रेय उवाच
इत्युपस्थीयमानोऽसौ मुनिभिर्ब्रह्मवादिभि: ।
सलिले स्वखुराक्रान्त उपाधत्तावितावनिम् ॥ ४६ ॥

Text 47

स इत्थं भगवानुर्वीं विष्वक्सेन: प्रजापति: ।
रसाया लीलयोन्नीतामप्सु न्यस्य ययौ हरि: ॥ ४७ ॥

Text 48

य एवमेतां हरिमेधसो हरे: ।
कथां सुभद्रां कथनीयमायिन: ।
श‍ृण्वीत भक्त्या श्रवयेत वोशतीं
जनार्दनोऽस्याशु हृदि प्रसीदति ॥ ४८ ॥

Text 49

तस्मिन् प्रसन्ने सकलाशिषां प्रभौ
किं दुर्लभं ताभिरलं लवात्मभि: ।
अनन्यद‍ृष्टय‍ा भजतां गुहाशय:
स्वयं विधत्ते स्वगतिं पर: पराम् ॥ ४९ ॥

Text 50

को नाम लोके पुरुषार्थसारवित्
पुराकथानां भगवत्कथासुधाम् ।
आपीय कर्णाञ्जलिभिर्भवापहा-
महो विरज्येत विना नरेतरम् ॥ ५० ॥

Srimad Bhagavatam | Canto 3 | Chapter 12 | Verses

0

Creation of the Kumāras and Others

Text 1

मैत्रेय उवाच
इति ते वर्णित: क्षत्त: कालाख्य: परमात्मन: ।
महिमा वेदगर्भोऽथ यथास्राक्षीन्निबोध मे ॥ १ ॥

Text 2

ससर्जाग्रेऽन्धतामिस्रमथ तामिस्रमादिकृत् ।
महामोहं च मोहं च तमश्चाज्ञानवृत्तय: ॥ २ ॥

Text 3

दृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्वमन्यत ।
भगवद्ध्यानपूतेन मनसान्यां ततोऽसृजत् ॥ ३ ॥

Text 4

सनकं च सनन्दं च सनातनमथात्मभू: ।
सनत्कुमारं च मुनीन्निष्क्रियानूर्ध्वरेतस: ॥ ४ ॥

Text 5

तान् बभाषे स्वभू: पुत्रान् प्रजा: सृजत पुत्रका: ।
तन्नैच्छन्मोक्षधर्माणो वासुदेवपरायणा: ॥ ५ ॥

Text 6

सोऽवध्यात: सुतैरेवं प्रत्याख्यातानुशासनै: ।
क्रोधं दुर्विषहं जातं नियन्तुमुपचक्रमे ॥ ६ ॥

Text 7

धिया निगृह्यमाणोऽपि भ्रुवोर्मध्यात्प्रजापते: ।
सद्योऽजायत तन्मन्यु: कुमारो नीललोहित: ॥ ७ ॥

Text 8

स वै रुरोद देवानां पूर्वजो भगवान् भव: ।
नामानि कुरु मे धात: स्थानानि च जगद्गुरो ॥ ८ ॥

Text 9

इति तस्य वच: पाद्मो भगवान् परिपालयन् ।
अभ्यधाद्भद्रया वाचा मा रोदीस्तत्करोमि ते ॥ ९ ॥

Text 10

यदरोदी: सुरश्रेष्ठ सोद्वेग इव बालक: ।
ततस्त्वामभिधास्यन्ति नाम्ना रुद्र इति प्रजा: ॥ १० ॥

Text 11

हृदिन्द्रियाण्यसुर्व्योम वायुरग्निर्जलं मही ।
सूर्यश्चन्द्रस्तपश्चैव स्थानान्यग्रे कृतानि ते ॥ ११ ॥

Text 12

मन्युर्मनुर्महिनसो महाञ्छिव ऋतध्वज: ।
उग्ररेता भव: कालो वामदेवो धृतव्रत: ॥ १२ ॥

Text 13

धीर्धृतिरसलोमा च नियुत्सर्पिरिलाम्बिका ।
इरावती स्वधा दीक्षा रुद्राण्यो रुद्र ते स्त्रिय: ॥ १३ ॥

Text 14

गृहाणैतानि नामानि स्थानानि च सयोषण: ।
एभि: सृज प्रजा बह्वी: प्रजानामसि यत्पति: ॥ १४ ॥

Text 15

इत्यादिष्ट: स्वगुरुणा भगवान्नीललोहित: ।
सत्त्वाकृतिस्वभावेन ससर्जात्मसमा: प्रजा: ॥ १५ ॥

Text 16

रुद्राणां रुद्रसृष्टानां समन्ताद् ग्रसतां जगत् ।
निशाम्यासंख्यशो यूथान् प्रजापतिरशङ्कत ॥ १६ ॥

Text 17

अलं प्रजाभि: सृष्टाभिरीद‍ृशीभि: सुरोत्तम ।
मया सह दहन्तीभिर्दिशश्चक्षुर्भिरुल्बणै: ॥ १७ ॥

Text 18

तप आतिष्ठ भद्रं ते सर्वभूतसुखावहम् ।
तपसैव यथापूर्व स्रष्टा विश्वमिदं भवान् ॥ १८ ॥

Text 19

तपसैव परं ज्योतिर्भगवन्तमधोक्षजम् ।
सर्वभूतगुहावासमञ्जसा विन्दते पुमान् ॥ १९ ॥

Text 20

मैत्रेय उवाच
एवमात्मभुवादिष्ट: परिक्रम्य गिरां पतिम् ।
बाढमित्यमुमामन्‍त्र्य विवेश तपसे वनम् ॥ २० ॥

Text 21

अथाभिध्यायत: सर्गं दश पुत्रा: प्रजज्ञिरे ।
भगवच्छक्तियुक्तस्य लोकसन्तानहेतव: ॥ २१ ॥

Text 22

मरीचिरत्र्याङ्गिरसौ पुलस्त्य: पुलह: क्रतु: ।
भृगुर्वसिष्ठो दक्षश्च दशमस्तत्र नारद: ॥ २२ ॥

Text 23

उत्सङ्गान्नारदो जज्ञे दक्षोऽङ्गुष्ठात्स्वयम्भुव: ।
प्राणाद्वसिष्ठ: सञ्जातो भृगुस्त्वचि करात्क्रतु: ॥ २३ ॥

Text 24

पुलहो नाभितो जज्ञे पुलस्त्य: कर्णयोऋर्षि: ।
अङ्गिरा मुखतोऽक्ष्णोऽत्रिर्मरीचिर्मनसोऽभवत् ॥ २४ ॥

Text 25

धर्म: स्तनाद्दक्षिणतो यत्र नारायण: स्वयम् ।
अधर्म पृष्ठतो यस्मान्मृत्युर्लोकभयङ्कर: ॥ २५ ॥

Text 26

हृदि कामो भ्रुव: क्रोधो लोभश्चाधरदच्छदात् ।
आस्याद्वाक्सिन्धवो मेढ्रान्निऋर्ति: पायोरघाश्रय: ॥ २६ ॥

Text 27

छायाया: कर्दमो जज्ञे देवहूत्या: पति: प्रभु: ।
मनसो देहतश्चेदं जज्ञे विश्वकृतो जगत् ॥ २७ ॥

Text 28

वाचं दुहितरं तन्वीं स्वयम्भूर्हरतीं मन: ।
अकामां चकमे क्षत्त: सकाम इति न: श्रुतम् ॥ २८ ॥

Text 29

तमधर्मे कृतमतिं विलोक्य पितरं सुता: ।
मरीचिमुख्या मुनयो विश्रम्भात्प्रत्यबोधयन् ॥ २९ ॥

Text 30

नैतत्पूर्वै: कृतं त्वद्ये न करिष्यन्ति चापरे ।
यस्त्वं दुहितरं गच्छेरनिगृह्याङ्गजं प्रभु: ॥ ३० ॥

Text 31

तेजीयसामपि ह्येतन्न सुश्लोक्यं जगद्गुरो ।
यद्‌वृत्तमनुतिष्ठन् वै लोक: क्षेमाय कल्पते ॥ ३१ ॥

Text 32

तस्मै नमो भगवते य इदं स्वेन रोचिषा ।
आत्मस्थं व्यञ्जयामास स धर्मं पातुमर्हति ॥ ३२ ॥

Text 33

स इत्थं गृणत: पुत्रान् पुरो दृष्ट्वा प्रजापतीन् ।
प्रजापतिपतिस्तन्वं तत्याज व्रीडितस्तदा ।
तां दिशो जगृहुर्घोरां नीहारं यद्विदुस्तम: ॥ ३३ ॥

Text 34

कदाचिद् ध्यायत: स्रष्टुर्वेदा आसंश्चतुर्मुखात् ।
कथं स्रक्ष्याम्यहं लोकान् समवेतान् यथा पुरा ॥ ३४ ॥

Text 35

चातुर्होत्रं कर्मतन्त्रमुपवेदनयै: सह ।
धर्मस्य पादाश्चत्वारस्तथैवाश्रमवृत्तय: ॥ ३५ ॥

Text 36

विदुर उवाच
स वै विश्वसृजामीशो वेदादीन् मुखतोऽसृजत् ।
यद् यद् येनासृजद् देवस्तन्मे ब्रूहि तपोधन ॥ ३६ ॥

Text 37

मैत्रेय उवाच
ऋग्यजु:सामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखै: ।
शास्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात्क्रमात् ॥ ३७ ॥

Text 38

आयुर्वेदं धनुर्वेदं गान्धर्वं वेदमात्मन: ।
स्थापत्यं चासृजद् वेदं क्रमात्पूर्वादिभिर्मुखै: ॥ ३८ ॥

Text 39

इतिहासपुराणानि पञ्चमं वेदमीश्वर: ।
सर्वेभ्य एव वक्त्रेभ्य: ससृजे सर्वदर्शन: ॥ ३९ ॥

Text 40

षोडश्युक्थौ पूर्ववक्त्रात्पुरीष्यग्निष्टुतावथ ।
आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम् ॥ ४० ॥

Text 41

विद्या दानं तप: सत्यं धर्मस्येति पदानि च ।
आश्रमांश्च यथासंख्यमसृजत्सह वृत्तिभि: ॥ ४१ ॥

Text 42

सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत्तथा ।
वार्तासञ्चयशालीनशिलोञ्छ इति वै गृहे ॥ ४२ ॥

Text 43

वैखानसा वालखिल्यौदुम्बरा: फेनपा वने ।
न्यासे कुटीचक: पूर्वं बह्वोदो हंसनिष्क्रियौ ॥ ४३ ॥

Text 44

आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च ।
एवं व्याहृतयश्वासन् प्रणवो ह्यस्य दहृत: ॥ ४४ ॥

Text 45

तस्योष्णिगासील्लोमभ्यो गायत्री च त्वचो विभो: ।
त्रिष्टुम्मांसात्स्‍नुतोऽनुष्टुब्जगत्यस्थ्न: प्रजापते: ॥ ४५ ॥

Text 46

मज्जाया: पङ्‌क्तिरुत्पन्ना बृहती प्राणतोऽभवत् ॥ ४६ ॥

Text 47

स्पर्शस्तस्याभवज्जीव: स्वरो देह उदाहृत ।
ऊष्माणमिन्द्रियाण्याहुरन्त:स्था बलमात्मन: ।
स्वरा: सप्त विहारेण भवन्ति स्म प्रजापते: ॥ ४७ ॥

Text 48

शब्दब्रह्मात्मनस्तस्य व्यक्ताव्यक्तात्मन: पर: ।
ब्रह्मावभाति विततो नानाशक्त्युपबृंहित: ॥ ४८ ॥

Text 49

ततोऽपरामुपादाय स सर्गाय मनो दधे ॥ ४९ ॥

Text 50

ऋषीणां भूरिवीर्याणामपि सर्गमविस्तृतम् ।
ज्ञात्वा तद्‍धृदये भूयश्चिन्तयामास कौरव ॥ ५० ॥

Text 51

अहो अद्भुतमेतन्मे व्यापृतस्यापि नित्यदा ।
न ह्येधन्ते प्रजा नूनं दैवमत्र विघातकम् ॥ ५१ ॥

Text 52

एवं युक्तकृतस्तस्य दैवञ्चावेक्षतस्तदा ।
कस्य रूपमभूद् द्वेधा यत्कायमभिचक्षते ॥ ५२ ॥

Text 53

ताभ्यां रूपविभागाभ्यां मिथुनं समपद्यत ॥ ५३ ॥

Text 54

यस्तु तत्र पुमान् सोऽभून्मनु: स्वायम्भुव: स्वराट् ।
स्त्री याऽसीच्छतरूपाख्या महिष्यस्य महात्मन: ॥ ५४ ॥

Text 55

तदा मिथुनधर्मेण प्रजा ह्येधाम्बभूविरे ॥ ५५ ॥

Text 56

स चापि शतरूपायां पञ्चापत्यान्यजीजनत् ।
प्रियव्रतोत्तानपादौ तिस्र: कन्याश्च भारत ।
आकूतिर्देवहूतिश्च प्रसूतिरिति सत्तम ॥ ५६ ॥

Text 57

आकूतिं रुचये प्रादात्कर्दमाय तु मध्यमाम् ।
दक्षायादात्प्रसूतिं च यत आपूरितं जगत् ॥ ५७ ॥

Srimad Bhagavatam | Canto 3 | Chapter 11 | Verses

0

Calculation of Time, from the Atom

Text 1

मैत्रेय उवाच
चरम: सद्विशेषाणामनेकोऽसंयुत: सदा ।
परमाणु: स विज्ञेयो नृणामैक्यभ्रमो यत: ॥ १ ॥

Text 2

सत एव पदार्थस्य स्वरूपावस्थितस्य यत् ।
कैवल्यं परममहानविशेषो निरन्तर: ॥ २ ॥

Text 3

एवं कालोऽप्यनुमित: सौक्ष्म्ये स्थौल्ये च सत्तम ।
संस्थानभुक्त्या भगवानव्यक्तो व्यक्तभुग्विभु: ॥ ३ ॥

Text 4

स काल: परमाणुर्वै यो भुङ्क्ते परमाणुताम् ।
सतोऽविशेषभुग्यस्तु स काल: परमो महान् ॥ ४ ॥

Text 5

अणुर्द्वौ परमाणु स्यात्त्रसरेणुस्त्रय: स्मृत: ।
जालार्करश्म्यवगत: खमेवानुपतन्नगात् ॥ ५ ॥

Text 6

त्रसरेणुत्रिकं भुङ्क्ते य: काल: स त्रुटि: स्मृत: ।
शतभागस्तु वेध: स्यात्तैस्त्रिभिस्तु लव: स्मृत: ॥ ६ ॥

Text 7

निमेषस्त्रिलवो ज्ञेय आम्नातस्ते त्रय: क्षण: ।
क्षणान् पञ्च विदु: काष्ठां लघु ता दश पञ्च च ॥ ७ ॥

Text 8

लघूनि वै समाम्नाता दश पञ्च च नाडिका ।
ते द्वे मुहूर्त: प्रहर: षड्याम: सप्त नृणाम् ॥ ८ ॥

Text 9

द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलै: ।
स्वर्णमाषै: कृतच्छिद्रं यावत्प्रस्थजलप्लुतम् ॥ ९ ॥

Text 10

यामाश्चत्वारश्चत्वारो मर्त्यानामहनी उभे ।
पक्ष: पञ्चदशाहानि शुक्ल: कृष्णश्च मानद ॥ १० ॥

Text 11

तयो: समुच्चयो मास: पितृणां तदहर्निशम् ।
द्वौ तावृतु: षडयनं दक्षिणं चोत्तरं दिवि ॥ ११ ॥

Text 12

अयने चाहनी प्राहुर्वत्सरो द्वादश स्मृत: ।
संवत्सरशतं नृणां
परमायुर्निरूपितम् ॥ १२ ॥

Text 13

ग्रहर्क्षताराचक्रस्थ: परमाण्वादिना जगत् ।
संवत्सरावसानेन पर्येत्यनिमिषो विभु: ॥ १३ ॥

Text 14

संवत्सर: परिवत्सर इडावत्सर एव च ।
अनुवत्सरो वत्सरश्च विदुरैवं प्रभाष्यते ॥ १४ ॥

Text 15

य: सृज्यशक्तिमुरुधोच्छ्‌वसयन् स्वशक्त्या
पुंसोऽभ्रमाय दिवि धावति भूतभेद: ।
कालाख्यया गुणमयं क्रतुभिर्वितन्वं-
स्तस्मै बलिं हरत वत्सरपञ्चकाय ॥ १५ ॥

Text 16

विदुर उवाच
पितृदेवमनुष्याणामायु: परमिदं स्मृतम् ।
परेषां गतिमाचक्ष्व ये स्यु:कल्पाद् बहिर्विद: ॥ १६ ॥

Text 17

भगवान् वेद कालस्य गतिं भगवतो ननु ।
विश्वं विचक्षते धीरा योगराद्धेन चक्षुषा ॥ १७ ॥

Text 18

मैत्रेय उवाच
कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।
दिव्यैर्द्वादशभिर्वर्षै: सावधानं निरूपितम् ॥ १८ ॥

Text 19

चत्वारि त्रीणि द्वै चैकं कृतादिषु यथाक्रमम् ।
संख्यातानि सहस्राणि द्विगुणानि शतानि च ॥ १९ ॥

Text 20

सन्ध्यासन्ध्यांशयोरन्तर्य: काल: शतसंख्ययो: ।
तमेवाहुर्युगं तज्ज्ञा यत्र धर्मो विधीयते ॥ २० ॥

Text 21

धर्मश्चतुष्पान्मनुजान् कृते समनुवर्तते ।
स एवान्येष्वधर्मेण व्येति पादेन वर्धता ॥ २१ ॥

Text 22

त्रिलोक्या युगसाहस्रं बहिराब्रह्मणो दिनम् ।
तावत्येव निशा तात यन्निमीलति विश्वसृक् ॥ २२ ॥

Text 23

निशावसान आरब्धो लोककल्पोऽनुवर्तते ।
यावद्दिनं भगवतो मनून् भुञ्जंश्चतुर्दश ॥ २३ ॥

Text 24

स्वं स्वं कालं मनुर्भुङ्क्ते साधिकां ह्येकसप्ततिम् ॥ २४ ॥

Text 25

मन्वन्तरेषु मनवस्तद्वंश्या ऋषय: सुरा: ।
भवन्ति चैव युगपत्सुरेशाश्चानु ये च तान् ॥ २५ ॥

Text 26

एष दैनन्दिन: सर्गो ब्राह्मस्त्रैलोक्यवर्तन: ।
तिर्यङ्‌नृपितृदेवानां सम्भवो यत्र कर्मभि: ॥ २६ ॥

Text 27

मन्वन्तरेषु भगवान् बिभ्रत्सत्त्वं स्वमूर्तिभि: ।
मन्वादिभिरिदं विश्वमवत्युदितपौरुष: ॥ २७ ॥

Text 28

तमोमात्रामुपादाय प्रतिसंरुद्धविक्रम: ।
कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये ॥ २८ ॥

Text 29

तमेवान्वपिधीयन्ते लोको भूरादयस्त्रय: ।
निशायामनुवृत्तायां निर्मुक्तशशिभास्करम् ॥ २९ ॥

Text 30

त्रिलोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना ।
यान्त्यूष्मणा महर्लोकाज्जनं भृग्वादयोऽर्दिता: ॥ ३० ॥

Text 31

तावत्‍त्रिभुवनं सद्य: कल्पान्तैधितसिन्धव: ।
प्लावयन्त्युत्कटाटोपचण्डवातेरितोर्मय: ॥ ३१ ॥

Text 32

अन्त: स तस्मिन् सलिल आस्तेऽनन्तासनो हरि: ।
योगनिद्रानिमीलाक्ष: स्तूयमानो जनालयै: ॥ ३२ ॥

Text 33

एवंविधैरहोरात्रै: कालगत्योपलक्षितै: ।
अपक्षितमिवास्यापि परमायुर्वय: शतम् ॥ ३३ ॥

Text 34

यदर्धमायुषस्तस्य परार्धमभिधीयते ।
पूर्व: परार्धोऽपक्रान्तो ह्यपरोऽद्य प्रवर्तते ॥ ३४ ॥

Text 35

पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत् ।
कल्पो यत्राभवद्ब्रह्मा शब्दब्रह्मेति यं विदु: ॥ ३५ ॥

Text 36

तस्यैव चान्ते कल्पोऽभूद् यं पाद्ममभिचक्षते ।
यद्धरेर्नाभिसरस आसील्लोकसरोरुहम् ॥ ३६ ॥

Text 37

अयं तु कथित: कल्पो द्वितीयस्यापि भारत ।
वाराह इति विख्यातो यत्रासीच्छूकरो हरि: ॥ ३७ ॥

Text 38

कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते ।
अव्याकृतस्यानन्तस्य ह्यनादेर्जगदात्मन: ॥ ३८ ॥

Text 39

कालोऽयं परमाण्वादिर्द्विपरार्धान्त ईश्वर: ।
नैवेशितुं प्रभुर्भूम्न ईश्वरो धाममानिनाम् ॥ ३९ ॥

Text 40

विकारै: सहितो युक्तैर्विशेषादिभिरावृत: ।
आण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृत: ॥ ४० ॥

Text 41

दशोत्तराधिकैर्यत्र प्रविष्ट: परमाणुवत् ।
लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशय: ॥ ४१ ॥

Text 42

तदाहुरक्षरं ब्रह्म सर्वकारणकारणम् ।
विष्णोर्धाम परं साक्षात्पुरुषस्य महात्मन: ॥ ४२ ॥

Srimad Bhagavatam | Canto 3 | Chapter 10 | Verses

0

Divisions of the Creation

Text 1

विदुर उवाच
अन्तर्हिते भगवति ब्रह्मा लोकपितामह: ।
प्रजा: ससर्ज कतिधा दैहिकीर्मानसीर्विभु: ॥ १ ॥

Text 2

ये च मे भगवन् पृष्टास्त्वय्यर्था बहुवित्तम ।
तान् वदस्वानुपूर्व्येण छिन्धि न: सर्वसंशयान् ॥ २ ॥

Text 3

सूत उवाच
एवं सञ्चोदितस्तेन क्षत्‍त्रा कौषारविर्मुनि: ।
प्रीत: प्रत्याह तान् प्रश्नान् हृदिस्थानथ भार्गव ॥ ३ ॥

Text 4

मैत्रेय उवाच
विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तप: ।
आत्मन्यात्मानमावेश्य यथाह भगवानज: ॥ ४ ॥

Text 5

तद्विलोक्याब्जसम्भूतो वायुना यदधिष्ठित: ।
पद्ममम्भश्च तत्कालकृतवीर्येण कम्पितम् ॥ ५ ॥

Text 6

तपसा ह्येधमानेन विद्यया चात्मसंस्थया ।
विवृद्धविज्ञानबलो न्यपाद् वायुं सहाम्भसा ॥ ६ ॥

Text 7

तद्विलोक्य वियद्व्यापि पुष्करं यदधिष्ठितम् ।
अनेन लोकान् प्राग्लीनान् कल्पितास्मीत्यचिन्तयत् ॥ ७ ॥

Text 8

पद्मकोशं तदाविश्य भगवत्कर्मचोदित: ।
एकं व्यभाङ्‌क्षीदुरुधा त्रिधा भाव्यं द्विसप्तधा ॥ ८ ॥

Text 9

एतावाञ्जीवलोकस्य संस्थाभेद: समाहृत: ।
धर्मस्य ह्यनिमित्तस्य विपाक: परमेष्ठ्यसौ ॥ ९ ॥

Text 10

विदुर उवाच
यथात्थ बहुरूपस्य हरेरद्भुतकर्मण: ।
कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय न: प्रभो ॥ १० ॥

Text 11

मैत्रेय उवाच
गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठित: ।
पुरुषस्तदुपादानमात्मानं लीलयासृजत् ॥ ११ ॥

Text 12

विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया ।
ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना ॥ १२ ॥

Text 13

यथेदानीं तथाग्रे च पश्चादप्येतदीद‍ृशम् ॥ १३ ॥

Text 14

सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु य: ।
कालद्रव्यगुणैरस्य त्रिविध: प्रतिसंक्रम: ॥ १४ ॥

Text 15

आद्यस्तु महत: सर्गो गुणवैषम्यमात्मन: ।
द्वितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदय: ॥ १५ ॥

Text 16

भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान् ।
चतुर्थ ऐन्द्रिय: सर्गो यस्तु ज्ञानक्रियात्मक: ॥ १६ ॥

Text 17

वैकारिको देवसर्ग: पञ्चमो यन्मयं मन: ।
पष्ठस्तु तमस: सर्गो यस्त्वबुद्धिकृत: प्रभो: ॥ १७ ॥

Text 18

षडिमे प्राकृता: सर्गा वैकृतानपि मे श‍ृणु ।
रजोभाजो भगवतो लीलेयं हरिमेधस: ॥ १८ ॥

Text 19

सप्तमो मुख्यसर्गस्तु षङ्‌विधस्तस्थुषां च य: ।
वनस्पत्योषधिलतात्वक्सारा वीरुधो द्रुमा: ॥ १९ ॥

Text 20

उत्स्रोतसस्तम:प्राया अन्त:स्पर्शा विशेषिण: ॥ २० ॥

Text 21

तिरश्चामष्टम: सर्ग: सोऽष्टाविंशद्विधो मत: ।
अविदो भूरितमसो घ्राणज्ञा ह्यद्यवेदिन: ॥ २१ ॥

Text 22

गौरजो महिष: कृष्ण: सूकरो गवयो रुरु: ।
द्विशफा: पशवश्चेमे अविरुष्ट्रश्च सत्तम ॥ २२ ॥

Text 23

खरोऽश्वोऽश्वतरो गौर: शरभश्चमरी तथा ।
एते चैकशफा: क्षत्त: श‍ृणु पञ्चनखान् पशून् ॥ २३ ॥

Text 24

श्वा सृगालो वृको व्याघ्रो मार्जार: शशशल्लकौ ।
सिंह: कपिर्गज: कूर्मो गोधा च मकरादय: ॥ २४ ॥

Text 25

कङ्कगृधबकश्येनभासभल्लूकबर्हिण: ।
हंससारसचक्राह्वकाकोलूकादय: खगा: ॥ २५ ॥

Text 26

अर्वाक्स्रोतस्तु नवम: क्षत्तरेकविधो नृणाम् ।
रजोऽधिका: कर्मपरा दु:खे च सुखमानिन: ॥ २६ ॥

Text 27

वैकृतास्रय एवैते देवसर्गश्च सत्तम ।
वैकारिकस्तु य: प्रोक्त: कौमारस्तूभयात्मक: ॥ २७ ॥

Texts 28-29

देवसर्गश्चाष्टविधो विबुधा: पितरोऽसुरा: ।
गन्धर्वाप्सरस: सिद्धा यक्षरक्षांसि चारणा: ॥ २८ ॥
भूतप्रेतपिशाचाश्च विद्याध्रा: किन्नरादय: ।
दशैते विदुराख्याता: सर्गास्ते विश्वसृक्‍कृता: ॥ २९ ॥

Text 30

अत: परं प्रवक्ष्यामि वंशान्मन्वन्तराणि च ।
एवं रज:प्लुत: स्रष्टा कल्पादिष्वात्मभूर्हरि: ।
सृजत्यमोघसङ्कल्प आत्मैवात्मानमात्मना ॥ ३० ॥

Srimad Bhagavatam | Canto 3 | Chapter 9 | Verses

0

Brahmā’s Prayers for Creative Energy

Text 1

ब्रह्मोवाच
ज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजां
न ज्ञायते भगवतो गतिरित्यवद्यम् ।
नान्यत्त्वदस्ति भगवन्नपि तन्न शुद्धं
मायागुणव्यतिकराद्यदुरुर्विभासि ॥ १ ॥

Text 2

रूपं यदेतदवबोधरसोदयेन
शश्वन्निवृत्ततमस: सदनुग्रहाय ।
आदौ गृहीतमवतारशतैकबीजं
यन्नाभिपद्मभवनादहमाविरासम् ॥ २ ॥

Text 3

नात: परं परम यद्भवत: स्वरूप-
मानन्दमात्रमविकल्पमविद्धवर्च: ।
पश्यामि विश्वसृजमेकमविश्वमात्मन्
भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि ॥ ३ ॥

Text 4

तद्वा इदं भुवनमङ्गल मङ्गलाय
ध्याने स्म नो दर्शितं त उपासकानाम् ।
तस्मै नमो भगवतेऽनुविधेम तुभ्यं
योऽनाद‍ृतो नरकभाग्भिरसत्प्रसङ्गै: ॥ ४ ॥

Text 5

ये तु त्वदीयचरणाम्बुजकोशगन्धं
जिघ्रन्ति कर्णविवरै: श्रुतिवातनीतम् ।
भक्त्या गृहीतचरण: परया च तेषां
नापैषि नाथ हृदयाम्बुरुहात्स्वपुंसाम् ॥ ५ ॥

Text 6

तावद्भयं द्रविणदेहसुहृन्निमित्तं
शोक: स्पृहा परिभवो विपुलश्च लोभ: ।
तावन्ममेत्यसदवग्रह आर्तिमूलं
यावन्न तेऽङ्‌घ्रिमभयं प्रवृणीत लोक: ॥ ६ ॥

Text 7

दैवेन ते हतधियो भवत: प्रसङ्गा-
त्सर्वाशुभोपशमनाद्विमुखेन्द्रिया ये ।
कुर्वन्ति कामसुखलेशलवाय दीना
लोभाभिभूतमनसोऽकुशलानि शश्वत् ॥ ७ ॥

Text 8

क्षुत्तृट्‌त्रिधातुभिरिमा मुहुरर्द्यमाना:
शीतोष्णवातवरषैरितरेतराच्च ।
कामाग्निनाच्युत रुषा च सुदुर्भरेण
सम्पश्यतो मन उरुक्रम सीदते मे ॥ ८ ॥

Text 9

यावत्पृथक्त्वमिदमात्मन इन्द्रियार्थ-
मायाबलं भगवतो जन ईश पश्येत् ।
तावन्न संसृतिरसौ प्रतिसंक्रमेत
व्यर्थापि दु:खनिवहं वहती क्रियार्था ॥ ९ ॥

Text 10

अह्न्यापृतार्तकरणा निशि नि:शयाना ।
नानामनोरथधिया क्षणभग्ननिद्रा: ।
दैवाहतार्थरचना ऋषयोऽपि देव
युष्मत्प्रसङ्गविमुखा इह संसरन्ति ॥ १० ॥

Text 11

त्वं भक्तियोगपरिभावितहृत्सरोज
आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम् ।
यद्यद्धिया त उरुगाय विभावयन्ति
तत्तद्वपु: प्रणयसे सदनुग्रहाय ॥ ११ ॥

Text 12

नातिप्रसीदति तथोपचितोपचारै-
राराधित: सुरगणैर्हृदिबद्धकामै: ।
यत्सर्वभूतदययासदलभ्ययैको
नानाजनेष्ववहित: सुहृदन्तरात्मा ॥ १२ ॥

Text 13

पुंसामतो विविधकर्मभिरध्वराद्यै-
र्दानेन चोग्रतपसा परिचर्यया च ।
आराधनं भगवतस्तव सत्क्रियार्थो
धर्मोऽर्पित: कर्हिचिद्‌म्रियते न यत्र ॥ १३ ॥

Text 14

शश्वत्स्वरूपमहसैव निपीतभेद-
मोहाय बोधधिषणाय नम: परस्मै ।
विश्वोद्भवस्थितिलयेषु निमित्तलीला-
रासाय ते नम इदं चकृमेश्वराय ॥ १४ ॥

Text 15

यस्यावतारगुणकर्मविडम्बनानि
नामानि येऽसुविगमे विवशा गृणन्ति ।
तेऽनैकजन्मशमलं सहसैव हित्वा
संयान्त्यपावृतामृतं तमजं प्रपद्ये ॥ १५ ॥

Text 16

यो वा अहं च गिरिशश्च विभु: स्वयं च
स्थित्युद्भवप्रलयहेतव आत्ममूलम् ।
भित्त्वा त्रिपाद्ववृध एक उरुप्ररोह-
स्तस्मै नमो भगवते भुवनद्रुमाय ॥ १६ ॥

Text 17

लोको विकर्मनिरत: कुशले प्रमत्त:
कर्मण्ययं त्वदुदिते भवदर्चने स्वे ।
यस्तावदस्य बलवानिह जीविताशां
सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै ॥ १७ ॥

Text 18

यस्माद्‌बिभेम्यहमपि द्विपरार्धधिष्ण्य-
मध्यासित: सकललोकनमस्कृतं यत् ।
तेपे तपो बहुसवोऽवरुरुत्समान-
स्तस्मै नमो भगवतेऽधिमखाय तुभ्यम् ॥ १८ ॥

Text 19

तिर्यङ्‍मनुष्यविबुधादिषु जीवयोनि-
ष्वात्मेच्छयात्मकृतसेतुपरीप्सया य: ।
रेमे निरस्तविषयोऽप्यवरुद्धदेह-
स्तस्मै नमो भगवते पुरुषोत्तमाय ॥ १९ ॥

Text 20

योऽविद्ययानुपहतोऽपि दशार्धवृत्त्या
निद्रामुवाह जठरीकृतलोकयात्र: ।
अन्तर्जलेऽहिकशिपुस्पर्शानुकूलां
भीमोर्मिमालिनि जनस्य सुखं विवृण्वन् ॥ २० ॥

Text 21

यन्नाभिपद्मभवनादहमासमीड्य
लोकत्रयोपकरणो यदनुग्रहेण ।
तस्मै नमस्त उदरस्थभवाय योग-
निद्रावसानविकसन्नलिनेक्षणाय ॥ २१ ॥

Text 22

सोऽयं समस्तजगतां सुहृदेक आत्मा
सत्त्वेन यन्मृडयते भगवान् भगेन ।
तेनैव मे द‍ृशमनुस्पृशताद्यथाहं
स्रक्ष्यामि पूर्ववदिदं प्रणतप्रियोऽसौ ॥ २२ ॥

Text 23

एष प्रपन्नवरदो रमयात्मशक्त्या
यद्यत्करिष्यति गृहीतगुणावतार: ।
तस्मिन् स्वविक्रममिदं सृजतोऽपि चेतो
युञ्जीत कर्मशमलं च यथा विजह्याम् ॥ २३ ॥

Text 24

नाभिहृदादिह सतोऽम्भसि यस्य पुंसो
विज्ञानशक्तिरहमासमनन्तशक्ते: ।
रूपं विचित्रमिदमस्य विवृण्वतो मे
मा रीरिषीष्ट निगमस्य गिरां विसर्ग: ॥ २४ ॥

Text 25

सोऽसावदभ्रकरुणो भगवान् विवृद्ध-
प्रेमस्मितेन नयनाम्बुरुहं विजृम्भन् ।
उत्थाय विश्वविजयाय च नो विषादं
माध्व्या गिरापनयतात्पुरुष: पुराण: ॥ २५ ॥

Text 26

मैत्रेय उवाच
स्वसम्भवं निशाम्यैवं तपोविद्यासमाधिभि: ।
यावन्मनोवच: स्तुत्वा विरराम स खिन्नवत् ॥ २६ ॥

Texts 27-28

अथाभिप्रेतमन्वीक्ष्य ब्रह्मणो मधुसूदन: ।
विषण्णचेतसं तेन कल्पव्यतिकराम्भसा ॥ २७ ॥
लोकसंस्थानविज्ञान आत्मन: परिखिद्यत: ।
तमाहागाधया वाचा कश्मलं शमयन्निव ॥ २८ ॥

Text 29

श्रीभगवानुवाच
मा वेदगर्भ गास्तन्द्रीं सर्ग उद्यममावह ।
तन्मयापादितं ह्यग्रे यन्मां प्रार्थयते भवान् ॥ २९ ॥

Text 30

भूयस्त्वं तप आतिष्ठ विद्यां चैव मदाश्रयाम् ।
ताभ्यामन्तर्हृदि ब्रह्मन् लोकान्द्रक्ष्यस्यपावृतान् ॥ ३० ॥

Text 31

तत आत्मनि लोके च भक्तियुक्त: समाहित: ।
द्रष्टासि मां ततं ब्रह्यन्मयि लोकांस्त्वमात्मन: ॥ ३१ ॥

Text 32

यदा तु सर्वभूतेषु दारुष्वग्निमिव स्थितम् ।
प्रतिचक्षीत मां लोको जह्यात्तर्ह्येव कश्मलम् ॥ ३२ ॥

Text 33

यदा रहितमात्मानं भूतेन्द्रियगुणाशयै: ।
स्वरूपेण मयोपेतं पश्यन् स्वाराज्यमृच्छति ॥ ३३ ॥

Text 34

नानाकर्मवितानेन प्रजा बह्वी: सिसृक्षत: ।
नात्मावसीदत्यस्मिंस्ते वर्षीयान्मदनुग्रह: ॥ ३४ ॥

Text 35

ऋषिमाद्यं न बध्नाति पापीयांस्त्वां रजोगुण: ।
यन्मनो मयि निर्बद्धं प्रजा: संसृजतोऽपि ते ॥ ३५ ॥

Text 36

ज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनाम् ।
यन्मां त्वं मन्यसेऽयुक्तं भूतेन्द्रियगुणात्मभि: ॥ ३६ ॥

Text 37

तुभ्यं मद्विचिकित्सायामात्मा मे दर्शितोऽबहि: ।
नालेन सलिले मूलं पुष्करस्य विचिन्वत: ॥ ३७ ॥

Text 38

यच्चकर्थाङ्ग मतस्तोत्रं मत्कथाभ्युदयाङ्कितम् ।
यद्वा तपसि ते निष्ठा स एष मदनुग्रह: ॥ ३८ ॥

Text 39

प्रीतोऽहमस्तु भद्रं ते लोकानां विजयेच्छया ।
यदस्तौषीर्गुणमयं निर्गुणं मानुवर्णयन् ॥ ३९ ॥

Text 40

य एतेन पुमान्नित्यं स्तुत्वा स्तोत्रेण मां भजेत् ।
तस्याशु सम्प्रसीदेयं सर्वकामवरेश्वर: ॥ ४० ॥

Text 41

पूर्तेन तपसा यज्ञैर्दानैर्योगसमाधिना ।
राद्धं नि:श्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम् ॥ ४१ ॥

Text 42

अहमात्मात्मनां धात: प्रेष्ठ: सन् प्रेयसामपि ।
अतो मयि रतिं कुर्याद्देहादिर्यत्कृते प्रिय: ॥ ४२ ॥

Text 43

सर्ववेदमयेनेदमात्मनात्मात्मयोनिना ।
प्रजा: सृज यथापूर्वं याश्च मय्यनुशेरते ॥ ४३ ॥

Text 44

मैत्रेय उवाच
तस्मा एवं जगत्स्रष्ट्रे प्रधानपुरुषेश्वर: ।
व्यज्येदं स्वेन रूपेण कञ्जनाभस्तिरोदधे ॥ ४४ ॥

Srimad Bhagavatam | Canto 3 | Chapter 8 | Verses

0

Text 1

मैत्रेय उवाच
सत्सेवनीयो बत पूरुवंशो
यल्लोकपालो भगवत्प्रधान: ।
बभूविथेहाजितकीर्तिमालां
पदे पदे नूतनयस्यभीक्ष्णम् ॥ १ ॥

Text 2

सोऽहं नृणां क्षुल्लसुखाय दु:खं
महद्‌गतानां विरमाय तस्य ।
प्रवर्तये भागवतं पुराणं
यदाह साक्षाद्भगवानृषिभ्य: ॥ २ ॥

Text 3

आसीनमुर्व्यां भगवन्तमाद्यं
सङ्कर्षणं देवमकुण्ठसत्त्वम् ।
विवित्सवस्तत्त्वमत: परस्य
कुमारमुख्या मुनयोऽन्वपृच्छन् ॥ ३ ॥

Text 4

स्वमेव धिष्ण्यं बहु मानयन्तं
यद्वासुदेवाभिधमामनन्ति ।
प्रत्यग्धृताक्षाम्बुजकोशमीष-
दुन्मीलयन्तं विबुधोदयाय ॥ ४ ॥

Text 5

स्वर्धुन्युदार्द्रै: स्वजटाकलापै-
रुपस्पृशन्तश्चरणोपधानम् ।
पद्मं यदर्चन्त्यहिराजकन्या:
सप्रेमनानाबलिभिर्वरार्था: ॥ ५ ॥

Text 6

मुहुर्गृणन्तो वचसानुराग-
स्खलत्पदेनास्य कृतानि तज्ज्ञा: ।
किरीटसाहस्रमणिप्रवेक-
प्रद्योतितोद्दामफणासहस्रम् ॥ ६ ॥

Text 7

प्रोक्तं किलैतद्भगवत्तमेन
निवृत्तिधर्माभिरताय तेन ।
सनत्कुमाराय स चाह पृष्ट:
सांख्यायनायाङ्ग धृतव्रताय ॥ ७ ॥

Text 8

सांख्यायन: पारमहंस्यमुख्यो
विवक्षमाणो भगवद्विभूती: ।
जगाद सोऽस्मद्गुरवेऽन्विताय
पराशरायाथ बृहस्पतेश्च ॥ ८ ॥

Text 9

प्रोवाच मह्यं स दयालुरुक्तो
मुनि: पुलस्त्येन पुराणमाद्यम् ।
सोऽहं तवैतत्कथयामि वत्स
श्रद्धालवे नित्यमनुव्रताय ॥ ९ ॥

Text 10

उदाप्लुतं विश्वमिदं तदासीद्
यन्निद्रयामीलितद‍ृङ् न्यमीलयत् ।
अहीन्द्रतल्पेऽधिशयान एक:
कृतक्षण: स्वात्मरतौ निरीह: ॥ १० ॥

Text 11

सोऽन्त:शरीरेऽर्पितभूतसूक्ष्म:
कालात्मिकां शक्तिमुदीरयाण: ।
उवास तस्मिन् सलिले पदे स्वे
यथानलो दारुणि रुद्धवीर्य: ॥ ११ ॥

Text 12

चतुर्युगानां च सहस्रमप्सु
स्वपन् स्वयोदीरितया स्वशक्त्या ।
कालाख्ययासादितकर्मतन्त्रो
लोकानपीतान्दद‍ृशे स्वदेहे ॥ १२ ॥

Text 13

तस्यार्थसूक्ष्माभिनिविष्टद‍ृष्टे-
रन्तर्गतोऽर्थो रजसा तनीयान् ।
गुणेन कालानुगतेन विद्ध:
सूष्यंस्तदाभिद्यत नाभिदेशात् ॥ १३ ॥

Text 14

स पद्मकोश: सहसोदतिष्ठत्
कालेन कर्मप्रतिबोधनेन ।
स्वरोचिषा तत्सलिलं विशालं
विद्योतयन्नर्क इवात्मयोनि: ॥ १४ ॥

Text 15

तल्लोकपद्मं स उ एव विष्णु:
प्रावीविशत्सर्वगुणावभासम् ।
तस्मिन् स्वयं वेदमयो विधाता
स्वयम्भुवं यं स्म वदन्ति सोऽभूत् ॥ १५ ॥

Text 16

तस्यां स चाम्भोरुहकर्णिकाया-
मवस्थितो लोकमपश्यमान: ।
परिक्रमन् व्योम्नि विवृत्तनेत्र-
श्चत्वारि लेभेऽनुदिशं मुखानि ॥ १६ ॥

Text 17

तस्माद्युगान्तश्वसनावघूर्ण-
जलोर्मिचक्रात्सलिलाद्विरूढम् ।
उपाश्रित: कञ्जमु लोकतत्त्वं
नात्मानमद्धाविददादिदेव: ॥ १७ ॥

Text 18

क एष योऽसावहमब्जपृष्ठ
एतत्कुतो वाब्जमनन्यदप्सु ।
अस्ति ह्यधस्तादिह किञ्चनैत-
दधिष्ठितं यत्र सता नु भाव्यम् ॥ १८ ॥

Text 19

स इत्थमुद्वीक्ष्य तदब्जनाल-
नाडीभिरन्तर्जलमाविवेश ।
नार्वाग्गतस्तत्खरनालनाल-
नाभिं विचिन्वंस्तदविन्दताज: ॥ १९ ॥

Text 20

तमस्यपारे विदुरात्मसर्गं
विचिन्वतोऽभूत्सुमहांस्त्रिणेमि: ।
यो देहभाजां भयमीरयाण:
परिक्षिणोत्यायुरजस्य हेति: ॥ २० ॥

Text 21

ततो निवृत्तोऽप्रतिलब्धकाम:
स्वधिष्ण्यमासाद्य पुन: स देव: ।
शनैर्जितश्वासनिवृत्तचित्तो
न्यषीददारूढसमाधियोग: ॥ २१ ॥

Text 22

कालेन सोऽज: पुरुषायुषाभि-
प्रवृत्तयोगेन विरूढबोध: ।
स्वयं तदन्तर्हृदयेऽवभात-
मपश्यतापश्यत यन्न पूर्वम् ॥ २२ ॥

Text 23

मृणालगौरायतशेषभोग-
पर्यङ्क एकं पुरुषं शयानम् ।
फणातपत्रायुतमूर्धरत्न-
द्युभिर्हतध्वान्तयुगान्ततोये ॥ २३ ॥

Text 24

प्रेक्षां क्षिपन्तं हरितोपलाद्रे:
सन्ध्याभ्रनीवेरुरुरुक्‍ममूर्ध्न: ।
रत्नोदधारौषधिसौमनस्य
वनस्रजो वेणुभुजाङ्‌घ्रि पाङ्‌घ्रे : ॥ २४ ॥

Text 25

आयामतो विस्तरत: स्वमान-
देहेन लोकत्रयसंग्रहेण ।
विचित्रदिव्याभरणांशुकानां
कृतश्रियापाश्रितवेषदेहम् ॥ २५ ॥

Text 26

पुंसां स्वकामाय विविक्तमार्गै-
रभ्यर्चतां कामुदुघाङ्‌घ्रि पद्मम् ।
प्रदर्शयन्तं कृपया नखेन्दु-
मयूखभिन्नाङ्गुलिचारुपत्रम् ॥ २६ ॥

Text 27

मुखेन लोकार्तिहरस्मितेन
परिस्फुरत्कुण्डलमण्डितेन ।
शोणायितेनाधरबिम्बभासा
प्रत्यर्हयन्तं सुनसेन सुभ्र्वा ॥ २७ ॥

Text 28

कदम्बकिञ्जल्कपिशङ्गवाससा
स्वलंकृतं मेखलया नितम्बे ।
हारेण चानन्तधनेन वत्स
श्रीवत्सवक्ष:स्थलवल्लभेन ॥ २८ ॥

Text 29

परार्ध्यकेयूरमणिप्रवेक-
पर्यस्तदोर्दण्डसहस्रशाखम् ।
अव्यक्तमूलं भुवनाङ्‌घ्रि पेन्द्र-
महीन्द्रभोगैरधिवीतवल्शम् ॥ २९ ॥

Text 30

चराचरौको भगवन्महीध्र-
महीन्द्रबन्धुं सलिलोपगूढम् ।
किरीटसाहस्रहिरण्यश‍ृङ्ग-
माविर्भवत्कौस्तुभरत्नगर्भम् ॥ ३० ॥

Text 31

निवीतमाम्नायमधुव्रतश्रिया
स्वकीर्तिमय्या वनमालया हरिम् ।
सूर्येन्दुवाय्वग्‍न्यगमं त्रिधामभि:
परिक्रमत्प्राधनिकैर्दुरासदम् ॥ ३१ ॥

Text 32

तर्ह्येव तन्नाभिसर:सरोज-
मात्मामम्भ: श्वसनं वियच्च ।
ददर्श देवो जगतो विधाता
नात: परं लोकविसर्गद‍ृष्टि: ॥ ३२ ॥

Text 33

स कर्मबीजं रजसोपरक्त:
प्रजा: सिसृक्षन्नियदेव दृष्ट्वा ।
अस्तौद्विसर्गाभिमुखस्तमीड्य-
मव्यक्तवर्त्मन्यभिवेशितात्मा ॥ ३३ ॥

Stay Connected

16,985FansLike
12,500FollowersFollow
61,453SubscribersSubscribe