Mail ID: contact@vedavarsity.com

Contact: +91 9634998911

Google search engineGoogle search engine
Home Blog Page 87

Srimad Bhagavatam | Canto 3 | Chapter 27 | Verses

0

Understanding Material Nature

Text 1

श्रीभगवानुवाच
प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणै: ।
अविकारादकर्तृत्वान्निर्गुणत्वाज्जलार्कवत् ॥ १ ॥

Text 2

स एष यर्हि प्रकृतेर्गुणेष्वभिविषज्जते ।
अहंक्रियाविमूढात्मा कर्तास्मीत्यभिमन्यते ॥ २ ॥

Text 3

तेन संसारपदवीमवशोऽभ्येत्यनिर्वृत: ।
प्रासङ्गिकै: कर्मदोषै: सदसन्मिश्रयोनिषु ॥ ३ ॥

Text 4

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।
ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ४ ॥

Text 5

अत एव शनैश्चित्तं प्रसक्तमसतां पथि ।
भक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम् ॥ ५ ॥

Text 6

यमादिभिर्योगपथैरभ्यसन्श्रद्धयान्वित: ।
मयि भावेन सत्येन मत्कथाश्रवणेन च ॥ ६ ॥

Text 7

सर्वभूतसमत्वेन निर्वैरेणाप्रसङ्गत: ।
ब्रह्मचर्येण मौनेन स्वधर्मेण बलीयसा ॥ ७ ॥

Text 8

यद‍ृच्छयोपलब्धेन सन्तुष्टो मितभुङ्‍मुनि: ।
विविक्तशरण: शान्तो मैत्र: करुण आत्मवान् ॥ ८ ॥

Text 9

सानुबन्धे च देहेऽस्मिन्नकुर्वन्नसदाग्रहम् ।
ज्ञानेन द‍ृष्टतत्त्वेन प्रकृते: पुरुषस्य च ॥ ९ ॥

Text 10

निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शन: ।
उपलभ्यात्मनात्मानं चक्षुषेवार्कमात्मद‍ृक् ॥ १० ॥

Text 11

मुक्तलिङ्गं सदाभासमसति प्रतिपद्यते ।
सतो बन्धुमसच्चक्षु: सर्वानुस्यूतमद्वयम् ॥ ११ ॥

Text 12

यथा जलस्थ आभास: स्थलस्थेनावद‍ृश्यते ।
स्वाभासेन तथा सूर्यो जलस्थेन दिवि स्थित: ॥ १२ ॥

Text 13

एवं त्रिवृदहङ्कारो भूतेन्द्रियमनोमयै: ।
स्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यद‍ृक् ॥ १३ ॥

Text 14

भूतसूक्ष्मेन्द्रियमनोबुद्ध्यादिष्विह निद्रया ।
लीनेष्वसति यस्तत्र विनिद्रो निरहंक्रिय: ॥ १४ ॥

Text 15

मन्यमानस्तदात्मानमनष्टो नष्टवन्मृषा ।
नष्टेऽहङ्करणे द्रष्टा नष्टवित्त इवातुर: ॥ १५ ॥

Text 16

एवं प्रत्यवमृश्यासावात्मानं प्रतिपद्यते ।
साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रह: ॥ १६ ॥

Text 17

देवहूतिरुवाच
पुरुषं प्रकृतिर्ब्रह्मन्न विमुञ्चति कर्हिचित् ।
अन्योन्यापाश्रयत्वाच्च नित्यत्वादनयो: प्रभो ॥ १७ ॥

Text 18

यथा गन्धस्य भूमेश्च न भावो व्यतिरेकत: ।
अपां रसस्य च यथा तथा बुद्धे: परस्य च ॥ १८ ॥

Text 19

अकर्तु: कर्मबन्धोऽयं पुरुषस्य यदाश्रय: ।
गुणेषु सत्सु प्रकृते: कैवल्यं तेष्वत: कथम् ॥ १९ ॥

Text 20

क्‍वचित्तत्त्वावमर्शेन निवृत्तं भयमुल्बणम् ।
अनिवृत्तनिमित्तत्वात्पुन: प्रत्यवतिष्ठते ॥ २० ॥

Text 21

श्रीभगवानुवाच
अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना ।
तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम् ॥ २१ ॥

Text 22

ज्ञानेन द‍ृष्टतत्त्वेन वैराग्येण बलीयसा ।
तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना ॥ २२ ॥

Text 23

प्रकृति: पुरुषस्येह दह्यमाना त्वहर्निशम् ।
तिरोभवित्री शनकैरग्नेर्योनिरिवारणि: ॥ २३ ॥

Text 24

भुक्तभोगा परित्यक्ता द‍ृष्टदोषा च नित्यश: ।
नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च ॥ २४ ॥

Text 25

यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत् ।
स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ २५ ॥

Text 26

एवं विदिततत्त्वस्य प्रकृतिर्मयि मानसम् ।
युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित् ॥ २६ ॥

Text 27

यदैवमध्यात्मरत: कालेन बहुजन्मना ।
सर्वत्र जातवैराग्य आब्रह्मभुवनान्मुनि: ॥ २७ ॥

Texts 28-29

मद्भक्त: प्रतिबुद्धार्थो मत्प्रसादेन भूयसा ।
नि:श्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयम् ॥ २८ ॥
प्राप्नोतीहाञ्जसा धीर: स्वद‍ृशाच्छिन्नसंशय: ।
यद्गत्वा न निवर्तेत योगी लिङ्गाद्विनिर्गमे ॥ २९ ॥

Text 30

यदा न योगोपचितासु चेतो
मायासु सिद्धस्य विषज्जतेऽङ्ग ।
अनन्यहेतुष्वथ मे गति: स्याद्
आत्यन्तिकी यत्र न मृत्युहास: ॥ ३० ॥

Srimad Bhagavatam | Canto 3 | Chapter 26 | Verses

0

Fundamental Principles of Material Nature

Text 1

श्रीभगवानुवाच
अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक् ।
यद्विदित्वा विमुच्येत पुरुष: प्राकृतैर्गुणै: ॥ १ ॥

Text 2

ज्ञानं नि:श्रेयसार्थाय पुरुषस्यात्मदर्शनम् ।
यदाहुर्वर्णये तत्ते हृदयग्रन्थिभेदनम् ॥ २ ॥

Text 3

अनादिरात्मा पुरुषो निर्गुण: प्रकृते: पर: ।
प्रत्यग्धामा स्वयंज्योतिर्विश्वं येन समन्वितम् ॥ ३ ॥

Text 4

स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभु: ।
यद‍ृच्छयैवोपगतामभ्यपद्यत लीलया ॥ ४ ॥

Text 5

गुणैर्विचित्रा: सृजतीं सरूपा: प्रकृतिं प्रजा: ।
विलोक्य मुमुहे सद्य: स इह ज्ञानगूहया ॥ ५ ॥

Text 6

एवं पराभिध्यानेन कर्तृत्वं प्रकृते: पुमान् ।
कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते ॥ ६ ॥

Text 7

तदस्य संसृतिर्बन्ध: पारतन्‍त्र्यं च तत्कृतम् ।
भवत्यकर्तुरीशस्य साक्षिणो निर्वृतात्मन: ॥ ७ ॥

Text 8

कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदु: ।
भोक्‍तृत्वे सुखदु:खानां पुरुषं प्रकृते: परम् ॥ ८ ॥

Text 9

देवहूतिरुवाच
प्रकृते: पुरुषस्यापि लक्षणं पुरुषोत्तम ।
ब्रूहि कारणयोरस्य सदसच्च यदात्मकम् ॥ ९ ॥

Text 10

श्रीभगवानुवाच
यत्तत्‍त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् ।
प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ॥ १० ॥

Text 11

पञ्चभि: पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा ।
एतच्चतुर्विंशतिकं गणं प्राधानिकं विदु: ॥ ११ ॥

Text 12

महाभूतानि पञ्चैव भूरापोऽग्निर्मरुन्नभ: ।
तन्मात्राणि च तावन्ति गन्धादीनि मतानि मे ॥ १२ ॥

Text 13

इन्द्रियाणि दश श्रोत्रं त्वग्दृग्रसननासिका: ।
वाक्‍करौ चरणौ मेढ्रं पायुर्दशम उच्यते ॥ १३ ॥

Text 14

मनो बुद्धिरहङ्कारश्चित्तमित्यन्तरात्मकम् ।
चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया ॥ १४ ॥

Text 15

एतावानेव सङ्ख्यातो ब्रह्मण: सगुणस्य ह ।
सन्निवेशो मया प्रोक्तो य: काल: पञ्चविंशक: ॥ १५ ॥

Text 16

प्रभावं पौरुषं प्राहु: कालमेके यतो भयम् ।
अहङ्कारविमूढस्य कर्तु: प्रकृतिमीयुष: ॥ १६ ॥

Text 17

प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मानवि ।
चेष्टा यत: स भगवान्काल इत्युपलक्षित: ॥ १७ ॥

Text 18

अन्त: पुरुषरूपेण कालरूपेण यो बहि: ।
समन्वेत्येष सत्त्वानां भगवानात्ममायया ॥ १८ ॥

Text 19

दैवात्क्षुभितधर्मिण्यां स्वस्यां योनौ पर: पुमान् ।
आधत्त वीर्यं सासूत महत्तत्त्वं हिरण्मयम् ॥ १९ ॥

Text 20

विश्वमात्मगतं व्यञ्जन्कूटस्थो जगदङ्कुर: ।
स्वतेजसापिबत्तीव्रमात्मप्रस्वापनं तम: ॥ २० ॥

Text 21

यत्तत्सत्त्वगुणं स्वच्छं शान्तं भगवत: पदम् ।
यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम् ॥ २१ ॥

Text 22

स्वच्छत्वमविकारित्वं शान्तत्वमिति चेतस: ।
वृत्तिभिर्लक्षणं प्रोक्तं यथापां प्रकृति: परा ॥ २२ ॥

Texts 23-24

महत्तत्त्वाद्विकुर्वाणाद्भगवद्वीर्यसम्भवात् ।
क्रियाशक्तिरहङ्कारस्त्रिविध: समपद्यत ॥ २३ ॥
वैकारिकस्तैजसश्च तामसश्च यतो भव: ।
मनसश्चेन्द्रियाणां च भूतानां महतामपि ॥ २४ ॥

Text 25

सहस्रशिरसं साक्षाद्यमनन्तं प्रचक्षते ।
सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् ॥ २५ ॥

Text 26

कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् ।
शान्तघोरविमूढत्वमिति वा स्यादहङ्कृते: ॥ २६ ॥

Text 27

वैकारिकाद्विकुर्वाणान्मनस्तत्त्वमजायत ।
यत्सङ्कल्पविकल्पाभ्यां वर्तते कामसम्भव: ॥ २७ ॥

Text 28

यद्विदुर्ह्यनिरुद्धाख्यं हृषीकाणामधीश्वरम् ।
शारदेन्दीवरश्यामं संराध्यं योगिभि: शनै: ॥ २८ ॥

Text 29

तैजसात्तु विकुर्वाणाद् बुद्धितत्त्वमभूत्सति ।
द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रह: ॥ २९ ॥

Text 30

संशयोऽथ विपर्यासो निश्चय: स्मृतिरेव च ।
स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तित: पृथक् ॥ ३० ॥

Text 31

तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागश: ।
प्राणस्य हि क्रियाशक्तिर्बुद्धेर्विज्ञानशक्तिता ॥ ३१ ॥

Text 32

तामसाच्च विकुर्वाणाद्भगवद्वीर्यचोदितात् ।
शब्दमात्रमभूत्तस्मान्नभ: श्रोत्रं तु शब्दगम् ॥ ३२ ॥

Text 33

अर्थाश्रयत्वं शब्दस्य द्रष्टुर्लिङ्गत्वमेव च ।
तन्मात्रत्वं च नभसो लक्षणं कवयो विदु: ॥ ३३ ॥

Text 34

भूतानां छिद्रदातृत्वं बहिरन्तरमेव च ।
प्राणेन्द्रियात्मधिष्ण्यत्वं नभसो वृत्तिलक्षणम् ॥ ३४ ॥

Text 35

नभस: शब्दतन्मात्रात्कालगत्या विकुर्वत: ।
स्पर्शोऽभवत्ततो वायुस्त्वक्स्पर्शस्य च संग्रह: ॥ ३५ ॥

Text 36

मृदुत्वं कठिनत्वं च शैत्यमुष्णत्वमेव च ।
एतत्स्पर्शस्य स्पर्शत्वं तन्मात्रत्वं नभस्वत: ॥ ३६ ॥

Text 37

चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयो: ।
सर्वेन्द्रियाणामात्मत्वं वायो: कर्माभिलक्षणम् ॥ ३७ ॥

Text 38

वायोश्च स्पर्शतन्मात्राद्रूपं दैवेरितादभूत् ।
समुत्थितं ततस्तेजश्चक्षू रूपोपलम्भनम् ॥ ३८ ॥

Text 39

द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च ।
तेजस्त्वं तेजस: साध्वि रूपमात्रस्य वृत्तय: ॥ ३९ ॥

Text 40

द्योतनं पचनं पानमदनं हिममर्दनम् ।
तेजसो वृत्तयस्त्वेता: शोषणं क्षुत्तृडेव च ॥ ४० ॥

Text 41

रूपमात्राद्विकुर्वाणात्तेजसो दैवचोदितात् ।
रसमात्रमभूत्तस्मादम्भो जिह्वा रसग्रह: ॥ ४१ ॥

Text 42

कषायो मधुरस्तिक्त: कट्‍वम्‍ल इति नैकधा ।
भौतिकानां विकारेण रस एको विभिद्यते ॥ ४२ ॥

Text 43

क्लेदनं पिण्डनं तृप्ति: प्राणनाप्यायनोन्दनम् ।
तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमा: ॥ ४३ ॥

Text 44

रसमात्राद्विकुर्वाणादम्भसो दैवचोदितात् ।
गन्धमात्रमभूत्तस्मात्पृथ्वी घ्राणस्तु गन्धग: ॥ ४४ ॥

Text 45

करम्भपूतिसौरभ्यशान्तोग्राम्‍लादिभि: पृथक् ।
द्रव्यावयववैषम्याद्गन्ध एको विभिद्यते ॥ ४५ ॥

Text 46

भावनं ब्रह्मण: स्थानं धारणं सद्विशेषणम् ।
सर्वसत्त्वगुणोद्भेद: पृथिवीवृत्तिलक्षणम् ॥ ४६ ॥

Text 47

नभोगुणविशेषोऽर्थो यस्य तच्छ्रोत्रमुच्यते ।
वायोर्गुणविशेषोऽर्थो यस्य तत्स्पर्शनं विदु: ॥ ४७ ॥

Text 48

तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरुच्यते ।
अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदु: ।
भूमेर्गुणविशेषोऽर्थो यस्य स घ्राण उच्यते ॥ ४८ ॥

Text 49

परस्य द‍ृश्यते धर्मो ह्यपरस्मिन्समन्वयात् ।
अतो विशेषो भावानां भूमावेवोपलक्ष्यते ॥ ४९ ॥

Text 50

एतान्यसंहत्य यदा महदादीनि सप्त वै ।
कालकर्मगुणोपेतो जगदादिरुपाविशत् ॥ ५० ॥

Text 51

ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डमचेतनम् ।
उत्थितं पुरुषो यस्मादुदतिष्ठदसौ विराट् ॥ ५१ ॥

Text 52

एतदण्डं विशेषाख्यं क्रमवृद्धैर्दशोत्तरै: ।
तोयादिभि: परिवृतं प्रधानेनावृतैर्बहि: ।
यत्र लोकवितानोऽयं रूपं भगवतो हरे: ॥ ५२ ॥

Text 53

हिरण्मयादण्डकोशादुत्थाय सलिलेशयात् ।
तमाविश्य महादेवो बहुधा निर्बिभेद खम् ॥ ५३ ॥

Text 54

निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत् ।
वाण्या वह्निरथो नासे प्राणोतो घ्राण एतयो: ॥ ५४ ॥

Text 55

घ्राणाद्वायुरभिद्येतामक्षिणी चक्षुरेतयो: ।
तस्मात्सूर्यो न्यभिद्येतां कर्णौ श्रोत्रं ततो दिश: ॥ ५५ ॥

Text 56

निर्बिभेद विराजस्त्वग्रोमश्मश्रवादयस्तत: ।
तत ओषधयश्चासन् शिश्नं निर्बिभिदे तत: ॥ ५६ ॥

Text 57

रेतस्तस्मादाप आसन्निरभिद्यत वै गुदम् ।
गुदादपानोऽपानाच्च मृत्युर्लोकभयङ्कर: ॥ ५७ ॥

Text 58

हस्तौ च निरभिद्येतां बलं ताभ्यां तत: स्वराट् ।
पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरि: ॥ ५८ ॥

Text 59

नाड्योऽस्य निरभिद्यन्त ताभ्यो लोहितमाभृतम् ।
नद्यस्तत: समभवन्नुदरं निरभिद्यत ॥ ५९ ॥

Text 60

क्षुत्पिपासे तत: स्यातां समुद्रस्त्वेतयोरभूत् ।
अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम् ॥ ६० ॥

Text 61

मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरां पति: ।
अहङ्कारस्ततो रुद्रश्चित्तं चैत्यस्ततोऽभवत् ॥ ६१ ॥

Text 62

एते ह्यभ्युत्थिता देवा नैवास्योत्थापनेऽशकन् ।
पुनराविविशु: खानि तमुत्थापयितुं क्रमात् ॥ ६२ ॥

Text 63

वह्निर्वाचा मुखं भेजे नोदतिष्ठत्तदा विराट् ।
घ्राणेन नासिके वायुर्नोदतिष्ठत्तदा विराट् ॥ ६३ ॥

Text 64

अक्षिणी चक्षुषादित्यो नोदतिष्ठत्तदा विराट् ।
श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत्तदा विराट् ॥ ६४ ॥

Text 65

त्वचं रोमभिरोषध्यो नोदतिष्ठत्तदा विराट् ।
रेतसा शिश्नमापस्तु नोदतिष्ठत्तदा विराट् ॥ ६५ ॥

Text 66

गुदं मृत्युरपानेन नोदतिष्ठत्तदा विराट् ।
हस्ताविन्द्रो बलेनैव नोदतिष्ठत्तदा विराट् ॥ ६६ ॥

Text 67

विष्णुर्गत्यैव चरणौ नोदतिष्ठत्तदा विराट् ।
नाडीर्नद्यो लोहितेन नोदतिष्ठत्तदा विराट् ॥ ६७ ॥

Text 68

क्षुत्तृड्भ्यामुदरं सिन्धुर्नोदतिष्ठत्तदा विराट् ।
हृदयं मनसा चन्द्रो नोदतिष्ठत्तदा विराट् ॥ ६८ ॥

Text 69

बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत्तदा विराट् ।
रुद्रोऽभिमत्या हृदयं नोदतिष्ठत्तदा विराट् ॥ ६९ ॥

Text 70

चित्तेन हृदयं चैत्य: क्षेत्रज्ञ: प्राविशद्यदा ।
विराट् तदैव पुरुष: सलिलादुदतिष्ठत ॥ ७० ॥

Text 71

यथा प्रसुप्तं पुरुषं प्राणेन्द्रियमनोधिय: ।
प्रभवन्ति विना येन नोत्थापयितुमोजसा ॥ ७१ ॥

Text 72

तमस्मिन्प्रत्यगात्मानं धिया योगप्रवृत्तया ।
भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत् ॥ ७२ ॥

Srimad Bhagavatam | Canto 3 | Chapter 25 | Verses

0

The Glories of Devotional Service

Text 1

शौनक उवाच
कपिलस्तत्त्वसंख्याता भगवानात्ममायया ।
जात: स्वयमज: साक्षादात्मप्रज्ञप्तये नृणाम् ॥ १ ॥

Text 2

न ह्यस्य वर्ष्मण: पुंसां वरिम्ण: सर्वयोगिनाम् ।
विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मेऽसव: ॥ २ ॥

Text 3

यद्यद्विधत्ते भगवान् स्वच्छन्दात्मात्ममायया ।
तानि मे श्रद्दधानस्य कीर्तन्यान्यनुकीर्तय ॥ ३ ॥

Text 4

सूत उवाच
द्वैपायनसखस्त्वेवं मैत्रेयो भगवांस्तथा ।
प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदित: ॥ ४ ॥

Text 5

मैत्रेय उवाच
पितरि प्रस्थितेऽरण्यं मातु: प्रियचिकीर्षया ।
तस्मिन् बिन्दुसरेऽवात्सीद्भगवान् कपिल: किल ॥ ५ ॥

Text 6

तमासीनमकर्माणं तत्त्वमार्गाग्रदर्शनम् ।
स्वसुतं देवहूत्याह धातु: संस्मरती वच: ॥ ६ ॥

Text 7

देवहूतिरुवाच
निर्विण्णा नितरां भूमन्नसदिन्द्रियतर्षणात् ।
येन सम्भाव्यमानेन प्रपन्नान्धं तम: प्रभो ॥ ७ ॥

Text 8

तस्य त्वं तमसोऽन्धस्य दुष्पारस्याद्य पारगम् ।
सच्चक्षुर्जन्मनामन्ते लब्धं मे त्वदनुग्रहात् ॥ ८ ॥

Text 9

य आद्यो भगवान् पुंसामीश्वरो वै भवान् किल ।
लोकस्य तमसान्धस्य चक्षु: सूर्य इवोदित: ॥ ९ ॥

Text 10

अथ मे देव सम्मोहमपाक्रष्टुं त्वमर्हसि ।
योऽवग्रहोऽहंममेतीत्येतस्मिन् योजितस्त्वया ॥ १० ॥

Text 11

तं त्वा गताहं शरणं शरण्यं
स्वभृत्यसंसारतरो: कुठारम् ।
जिज्ञासयाहं प्रकृते: पूरुषस्य
नमामि सद्धर्मविदां वरिष्ठम् ॥ ११ ॥

Text 12

मैत्रेय उवाच
इति स्वमातुर्निरवद्यमीप्सितं
निशम्य पुंसामपवर्गवर्धनम् ।
धियाभिनन्द्यात्मवतां सतां गति-
र्बभाष ईषत्स्मितशोभितानन: ॥ १२ ॥

Text 13

श्रीभगवानुवाच
योग आध्यात्मिक: पुंसां मतो नि:श्रेयसाय मे ।
अत्यन्तोपरतिर्यत्र दु:खस्य च सुखस्य च ॥ १३ ॥

Text 14

तमिमं ते प्रवक्ष्यामि यमवोचं पुरानघे ।
ऋषीणां श्रोतुकामानां योगं सर्वाङ्गनैपुणम् ॥ १४ ॥

Text 15

चेत: खल्वस्य बन्धाय मुक्तये चात्मनो मतम् ।
गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये ॥ १५ ॥

Text 16

अहंममाभिमानोत्थै: कामलोभादिभिर्मलै: ।
वीतं यदा मन: शुद्धमदु:खमसुखं समम् ॥ १६ ॥

Text 17

तदा पुरुष आत्मानं केवलं प्रकृते: परम् ।
निरन्तरं स्वयंज्योतिरणिमानमखण्डितम् ॥ १७ ॥

Text 18

ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना ।
परिपश्यत्युदासीनं प्रकृतिं च हतौजसम् ॥ १८ ॥

Text 19

न युज्यमानया भक्त्या भगवत्यखिलात्मनि ।
सद‍ृशोऽस्ति शिव: पन्था योगिनां ब्रह्मसिद्धये ॥ १९ ॥

Text 20

प्रसङ्गमजरं पाशमात्मन: कवयो विदु: ।
स एव साधुषु कृतो मोक्षद्वारमपावृतम् ॥ २० ॥

Text 21

तितिक्षव: कारुणिका: सुहृद: सर्वदेहिनाम् ।
अजातशत्रव: शान्ता: साधव: साधुभूषणा: ॥ २१ ॥

Text 22

मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये द‍ृढाम् ।
मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवा: ॥ २२ ॥

Text 23

मदाश्रया: कथा मृष्टा:श‍ृण्वन्ति कथयन्ति च ।
तपन्ति विविधास्तापा नैतान्मद्गतचेतस: ॥ २३ ॥

Text 24

त एते साधव: साध्वि सर्वसङ्गविवर्जिता: ।
सङ्गस्तेष्वथ ते प्रार्थ्य: सङ्गदोषहरा हि ते ॥ २४ ॥

Text 25

सतां प्रसङ्गान्मम वीर्यसंविदो
भवन्ति हृत्कर्णरसायना: कथा: ।
तज्जोषणादाश्वपवर्गवर्त्मनि
श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥ २५ ॥

Text 26

भक्त्या पुमाञ्जातविराग ऐन्द्रियाद्
द‍ृष्टश्रुतान्मद्रचनानुचिन्तया ।
चित्तस्य यत्तो ग्रहणे योगयुक्तो
यतिष्यते ऋजुभिर्योगमार्गै: ॥ २६ ॥

Text 27

असेवयायं प्रकृतेर्गुणानां
ज्ञानेन वैराग्यविजृम्भितेन ।
योगेन मय्यर्पितया च भक्त्या
मां प्रत्यगात्मानमिहावरुन्धे ॥ २७ ॥

Text 28

देवहूतिरुवाच
काचित्त्वय्युचिता भक्ति: कीद‍ृशी मम गोचरा ।
यया पदं ते निर्वाणमञ्जसान्वाश्नवा अहम् ॥ २८ ॥

Text 29

यो योगो भगवद्बाणो निर्वाणात्मंस्त्वयोदित: ।
कीद‍ृश: कति चाङ्गानि यतस्तत्त्वावबोधनम् ॥ २९ ॥

Text 30

तदेतन्मे विजानीहि यथाहं मन्दधीर्हरे ।
सुखं बुद्ध्येय दुर्बोधं योषा भवदनुग्रहात् ॥ ३० ॥

Text 31

मैत्रेय उवाच
विदित्वार्थं कपिलो मातुरित्थं
जातस्‍नेहो यत्र तन्वाभिजात: ।
तत्त्वाम्नायं यत्प्रवदन्ति सांख्यं
प्रोवाच वै भक्तिवितानयोगम् ॥ ३१ ॥

Text 32

श्रीभगवानुवाच
देवानां गुणलिङ्गानामानुश्रविककर्मणाम् ।
सत्त्व एवैकमनसो वृत्ति: स्वाभाविकी तु या ।
अनिमित्ता भागवती भक्ति: सिद्धेर्गरीयसी ॥ ३२ ॥

Text 33

जरयत्याशु या कोशं निगीर्णमनलो यथा ॥ ३३ ॥

Text 34

नैकात्मतां मे स्पृहयन्ति केचिन्
मत्पादसेवाभिरता मदीहा: ।
येऽन्योन्यतो भागवता: प्रसज्य
सभाजयन्ते मम पौरुषाणि ॥ ३४ ॥

Text 35

पश्यन्ति ते मे रुचिराण्यम्ब सन्त:
प्रसन्नवक्त्रारुणलोचनानि ।
रूपाणि दिव्यानि वरप्रदानि
साकं वाचं स्पृहणीयां वदन्ति ॥ ३५ ॥

Text 36

तैर्दर्शनीयावयवैरुदार-
विलासहासेक्षितवामसूक्तै: ।
हृतात्मनो हृतप्राणांश्च भक्ति-
रनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते‍ ॥ ३६ ॥

Text 37

अथो विभूतिं मम मायाविनस्ता-
मैश्वर्यमष्टाङ्गमनुप्रवृत्तम् ।
श्रियं भागवतीं वास्पृहयन्ति भद्रां
परस्य मे तेऽश्नुवते तु लोके ॥ ३७ ॥

Text 38

न कर्हिचिन्मत्परा: शान्तरूपे
नङ्‍क्ष्यन्ति नो मेऽनिमिषो लेढि हेति: ।
येषामहं प्रिय आत्मा सुतश्च
सखा गुरु: सुहृदो दैवमिष्टम् ॥ ३८ ॥

Texts 39-40

इमं लोकं तथैवामुमात्मानमुभयायिनम् ।
आत्मानमनु ये चेह ये राय: पशवो गृहा: ॥ ३९ ॥
विसृज्य सर्वानन्यांश्च मामेवं विश्वतोमुखम् ।
भजन्त्यनन्यया भक्त्या तान्मृत्योरतिपारये ॥ ४० ॥

Text 41

नान्यत्र मद्भगवत: प्रधानपुरुषेश्वरात् ।
आत्मन: सर्वभूतानां भयं तीव्रं निवर्तते ॥ ४१ ॥

Text 42

मद्भयाद्वाति वातोऽयं सूर्यस्तपति मद्भयात् ।
वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति मद्भयात् ॥ ४२ ॥

Text 43

ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिन: ।
क्षेमाय पादमूलं मे प्रविशन्त्यकुतोभयम् ॥ ४३ ॥

Text 44

एतावानेव लोकेऽस्मिन् पुंसां नि:श्रेयसोदय: ।
तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम् ॥ ४४ ॥

Srimad Bhagavatam | Canto 3 | Chapter 24 | Verses

0

The Renunciation of Kardama Muni

Text 1

मैत्रेय उवाच
निर्वेदवादिनीमेवं मनोर्दुहितरं मुनि: ।
दयालु: शालिनीमाह शुक्लाभिव्याहृतं स्मरन् ॥ १ ॥

Text 2

ऋषिरुवाच
मा खिदो राजपुत्रीत्थमात्मानं प्रत्यनिन्दिते ।
भगवांस्तेऽक्षरो गर्भमदूरात्सम्प्रपत्स्यते ॥ २ ॥

Text 3

धृतव्रतासि भद्रं ते दमेन नियमेन च ।
तपोद्रविणदानैश्च श्रद्धया चेश्वरं भज ॥ ३ ॥

Text 4

स त्वयाराधित: शुक्लो वितन्वन्मामकंयश: ।
छेत्ता ते हृदयग्रन्थिमौदर्यो ब्रह्मभावन: ॥ ४ ॥

Text 5

मैत्रेय उवाच
देवहूत्यपि संदेशं गौरवेण प्रजापते: ।
सम्यक् श्रद्धाय पुरुषं कूटस्थमभजद्गुरुम् ॥ ५ ॥

Text 6

तस्यां बहुतिथे काले भगवान्मधुसूदन: ।
कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि ॥ ६ ॥

Text 7

अवादयंस्तदा व्योम्नि वादित्राणि घनाघना: ।
गायन्ति तं स्म गन्धर्वा नृत्यन्त्यप्सरसो मुदा ॥ ७ ॥

Text 8

पेतु: सुमनसो दिव्या: खेचरैरपवर्जिता: ।
प्रसेदुश्च दिश: सर्वा अम्भांसि च मनांसि च ॥ ८ ॥

Text 9

तत्कर्दमाश्रमपदं सरस्वत्या परिश्रितम् ।
स्वयम्भू: साकमृषिभिर्मरीच्यादिभिरभ्ययात् ॥ ९ ॥

Text 10

भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन् ।
तत्त्वसंख्यानविज्ञप्‍त्यै जातं विद्वानज: स्वराट् ॥ १० ॥

Text 11

सभाजयन् विशुद्धेन चेतसा तच्चिकीर्षितम् ।
प्रहृष्यमाणैरसुभि: कर्दमं चेदमभ्यधात् ॥ ११ ॥

Text 12

ब्रह्मोवाच
त्वया मेऽपचितिस्तात कल्पिता निर्व्यलीकत: ।
यन्मे सञ्जगृहे वाक्यं भवान्मानद मानयन् ॥ १२ ॥

Text 13

एतावत्येव शुश्रूषा कार्या पितरि पुत्रकै: ।
बाढमित्यनुमन्येत गौरवेण गुरोर्वच: ॥ १३ ॥

Text 14

इमा दुहितर: सत्यस्तव वत्स सुमध्यमा: ।
सर्गमेतं प्रभावै: स्वैर्बृंहयिष्यन्त्यनेकधा ॥ १४ ॥

Text 15

अतस्त्वमृषिमुख्येभ्यो यथाशीलं यथारुचि ।
आत्मजा: परिदेह्यद्य विस्तृणीहि यशो भुवि ॥ १५ ॥

Text 16

वेदाहमाद्यं पुरुषमवतीर्णं स्वमायया ।
भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने ॥ १६ ॥

Text 17

ज्ञानविज्ञानयोगेन कर्मणामुद्धरन् जटा: ।
हिरण्यकेश: पद्माक्ष: पद्ममुद्रापदाम्बुज: ॥ १७ ॥

Text 18

एष मानवि ते गर्भं प्रविष्ट: कैटभार्दन: ।
अविद्यासंशयग्रन्थिं छित्त्वा गां विचरिष्यति ॥ १८ ॥

Text 19

अयं सिद्धगणाधीश: साङ्ख्याचार्यै: सुसम्मत: ।
लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धन: ॥ १९ ॥

Text 20

मैत्रेय उवाच
तावाश्वास्य जगत्स्रष्टा कुमारै: सहनारद: ।
हंसो हंसेन यानेन त्रिधामपरमं ययौ ॥ २० ॥

Text 21

गते शतधृतौ क्षत्त: कर्दमस्तेन चोदित: ।
यथोदितं स्वदुहितृ: प्रादाद्विश्वसृजां तत: ॥ २१ ॥

Texts 22-23

मरीचये कलां प्रादादनसूयामथात्रये ।
श्रद्धामङ्गिरसेऽयच्छत्पुलस्त्याय हविर्भुवम् ॥ २२ ॥
पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् ।
ख्यातिं च भृगवेऽयच्छद्वसिष्ठायाप्यरुन्धतीम् ॥ २३ ॥

Text 24

अथर्वणेऽददाच्छान्तिं यया यज्ञो वितन्यते ।
विप्रर्षभान् कृतोद्वाहान् सदारान् समलालयत् ॥ २४ ॥

Text 25

ततस्त ऋषय: क्षत्त कृतदारा निमन्‍त्र्‍य तम् ।
प्रातिष्ठन्नन्दिमापन्ना: स्वं स्वमाश्रममण्डलम् ॥ २५ ॥

Text 26

स चावतीर्णं त्रियुगमाज्ञाय विबुधर्षभम् ।
विविक्त उपसङ्गम्य प्रणम्य समभाषत ॥ २६ ॥

Text 27

अहो पापच्यमानानां निरये स्वैरमङ्गलै: ।
कालेन भूयसा नूनं प्रसीदन्तीह देवता: ॥ २७ ॥

Text 28

बहुजन्मविपक्‍वेन सम्यग्योगसमाधिना ।
द्रष्टुं यतन्ते यतय: शून्यागारेषु यत्पदम् ॥ २८ ॥

Text 29

स एव भगवानद्य हेलनं नगणय्य न: ।
गृहेषु जातो ग्राम्याणां य: स्वानां पक्षपोषण: ॥ २९ ॥

Text 30

स्वीयं वाक्यमृतं कर्तुमवतीर्णोऽसि मे गृहे ।
चिकीर्षुर्भगवान् ज्ञानं भक्तानां मानवर्धन: ॥ ३० ॥

Text 31

तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव ।
यानि यानि च रोचन्ते स्वजनानामरूपिण: ॥ ३१ ॥

Text 32

त्वां सूरिभिस्तत्त्वबुभुत्सयाद्धा
सदाभिवादार्हणपादपीठम् ।
ऐश्वर्यवैराग्ययशोऽवबोध-
वीर्यश्रिया पूर्तमहं प्रपद्ये ॥ ३२ ॥

Text 33

परं प्रधानं पुरुषं महान्तं
कालं कविं त्रिवृतं लोकपालम् ।
आत्मानुभूत्यानुगतप्रपञ्चं
स्वच्छन्दशक्तिं कपिलं प्रपद्ये ॥ ३३ ॥

Text 34

आ स्माभिपृच्छेऽद्य पतिं प्रजानां
त्वयावतीर्णर्ण उताप्तकाम: ।
परिव्रजत्पदवीमास्थितोऽहं
चरिष्ये त्वां हृदि युञ्जन् विशोक: ॥ ३४ ॥

Text 35

श्री भगवानुवाच
मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके ।
अथाजनि मया तुभ्यं यदवोचमृतं मुने ॥ ३५ ॥

Text 36

एतन्मे जन्म लोकेऽस्मिन्मुमुक्षूणां दुराशयात् ।
प्रसंख्यानाय तत्त्वानां सम्मतायात्मदर्शने ॥ ३६ ॥

Text 37

एष आत्मपथोऽव्यक्तो नष्ट: कालेन भूयसा ।
तं प्रवर्तयितुं देहमिमं विद्धि मया भृतम् ॥ ३७ ॥

Text 38

गच्छ कामं मयापृष्टो मयि संन्यस्तकर्मणा ।
जित्वा सुदुर्जयं मृत्युममृतत्वाय मां भज ॥ ३८ ॥

Text 39

मामात्मानं स्वयंज्योति: सर्वभूतगुहाशयम् ।
आत्मन्येवात्मना वीक्ष्य विशोकोऽभयमृच्छसि ॥ ३९ ॥

Text 40

मात्र आध्यात्मिकीं विद्यां शमनीं सर्वकर्मणाम् ।
वितरिष्ये यया चासौ भयं चातितरिष्यति ॥ ४० ॥

Text 41

मैत्रेय उवाच
एवं समुदितस्तेन कपिलेन प्रजापति: ।
दक्षिणीकृत्य तं प्रीतो वनमेव जगाम ह ॥ ४१ ॥

Text 42

व्रतं स आस्थितो मौनमात्मैकशरणो मुनि: ।
नि:सङ्गो व्यचरत्क्षोणीमनग्निरनिकेतन: ॥ ४२ ॥

Text 43

मनो ब्रह्मणि युञ्जानो यत्तत्सदसत: परम् ।
गुणावभासे विगुण एकभक्त्यानुभाविते ॥ ४३ ॥

Text 44

निरहंकृतिर्निर्ममश्च निर्द्वन्द्व: समद‍ृक् स्वद‍ृक् ।
प्रत्यक्प्रशान्तधीर्धीर: प्रशान्तोर्मिरिवोदधि: ॥ ४४ ॥

Text 45

वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि ।
परेण भक्तिभावेन लब्धात्मा मुक्तबन्धन: ॥ ४५ ॥

Text 46

आत्मानं सर्वभूतेषु भगवन्तमवस्थितम् ।
अपश्यत्सर्वभूतानि भगवत्यपि चात्मनि ॥ ४६ ॥

Text 47

इच्छाद्वेषविहीनेन सर्वत्र समचेतसा ।
भगवद्भक्तियुक्तेन प्राप्ता भागवती गति: ॥ ४७ ॥

Srimad Bhagavatam | Canto 3 | Chapter 23 | Verses

0

Devahūti’s Lamentation

Text 1

मैत्रेय उवाच
पितृभ्यां प्रस्थिते साध्वी पतिमिङ्गितकोविदा ।
नित्यं पर्यचरत्प्रीत्या भवानीव भवं प्रभुम् ॥ १ ॥

Text 2

विश्रम्भेणात्मशौचेन गौरवेण दमेन च ।
शुश्रूषया सौहृदेन वाचा मधुरया च भो: ॥ २ ॥

Text 3

विसृज्य कामं दम्भं च द्वेषं लोभमघं मदम् ।
अप्रमत्तोद्यता नित्यं तेजीयांसमतोषयत् ॥ ३ ॥

Texts 4-5

स वै देवर्षिवर्यस्तां मानवीं समनुव्रताम् ।
दैवाद्गरीयस: पत्युराशासानां महाशिष: ॥ ४ ॥
कालेन भूयसा क्षामां कर्शितां व्रतचर्यया ।
प्रेमगद्गदया वाचा पीडित: कृपयाब्रवीत् ॥ ५ ॥

Text 6

कर्दम उवाच
तुष्टोऽहमद्य तव मानवि मानदाया:
शुश्रूषया परमया परया च भक्त्या ।
यो देहिनामयमतीव सुहृत्स देहो
नावेक्षित: समुचित: क्षपितुं मदर्थे ॥ ६ ॥

Text 7

ये मे स्वधर्मनिरतस्य तप:समाधि-
विद्यात्मयोगविजिता भगवत्प्रसादा: ।
तानेव ते मदनुसेवनयावरुद्धान्
द‍ृष्टिं प्रपश्य वितराम्यभयानशोकान् ॥ ७ ॥

Text 8

अन्ये पुनर्भगवतो भ्रुव उद्विजृम्भ-
विभ्रंशितार्थरचना: किमुरुक्रमस्य ।
सिद्धासि भुङ्‌क्ष्व विभवान्निजधर्मदोहान्
दिव्यान्नरैर्दुरधिगान्नृपविक्रियाभि: ॥ ८ ॥

Text 9

एवं ब्रुवाणमबलाखिलयोगमाया-
विद्याविचक्षणमवेक्ष्य गताधिरासीत् ।
सम्प्रश्रयप्रणयविह्वलया गिरेषद्-
व्रीडावलोकविलसद्धसिताननाह ॥ ९ ॥

Text 10

देवहूतिरुवाच
राद्धं बत द्विजवृषैतदमोघयोग-
मायाधिपे त्वयि विभो तदवैमि भर्त: ।
यस्तेऽभ्यधायि समय: सकृदङ्गसङ्गो
भूयाद्गरीयसि गुण: प्रसव: सतीनाम् ॥ १० ॥

Text 11

तत्रेतिकृत्यमुपशिक्ष यथोपदेशं
येनैष मे कर्शितोऽतिरिरंसयात्मा ।
सिद्ध्येत ते कृतमनोभवधर्षिताया
दीनस्तदीश भवनं सद‍ृशं विचक्ष्व ॥ ११ ॥

Text 12

मैत्रेय उवाच
प्रियाया: प्रियमन्विच्छन् कर्दमो योगमास्थित: ।
विमानं कामगं क्षत्तस्तर्ह्येवाविरचीकरत् ॥ १२ ॥

Text 13

सर्वकामदुघं दिव्यं सर्वरत्नसमन्वितम् ।
सर्वर्द्ध्युपचयोदर्कं मणिस्तम्भैरुपस्कृतम् ॥ १३ ॥

Texts 14-15

दिव्योपकरणोपेतं सर्वकालसुखावहम् ।
पट्टिकाभि: पताकाभिर्विचित्राभिरलंकृतम् ॥ १४ ॥
स्रग्भिर्विचित्रमाल्याभिर्मञ्जुशिञ्जत्षडङ्‌घ्रिभि: ।
दुकूलक्षौमकौशेयैर्नानावस्रैर्विराजितम् ॥ १५ ॥

Text 16

उपर्युपरि विन्यस्तनिलयेषु पृथक्पृथक् ।
क्षिप्तै: कशिपुभि: कान्तं पर्यङ्कव्यजनासनै: ॥ १६ ॥

Text 17

तत्र तत्र विनिक्षिप्तनानाशिल्पोपशोभितम् ।
महामरकतस्थल्या जुष्टं विद्रुमवेदिभि: ॥ १७ ॥

Text 18

द्वा:सु विद्रुमदेहल्या भातं वज्रकपाटवत् ।
शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिश्रितम् ॥ १८ ॥

Text 19

चक्षुष्मत्पद्मरागाग्र्‍यैर्वज्रभित्तिषु निर्मितै: ।
जुष्टं विचित्रवैतानैर्महार्हैर्हेमतोरणै: ॥ १९ ॥

Text 20

हंसपारावतव्रातैस्तत्र तत्र निकूजितम् ।
कृत्रिमान् मन्यमानै: स्वानधिरुह्याधिरुह्य च ॥ २० ॥

Text 21

विहारस्थानविश्रामसंवेशप्राङ्गणाजिरै: ।
यथोपजोषं रचितैर्विस्मापनमिवात्मन: ॥ २१ ॥

Text 22

ईद‍ृग्गृहं तत्पश्यन्तीं नातिप्रीतेन चेतसा ।
सर्वभूताशयाभिज्ञ: प्रावोचत्कर्दम: स्वयम् ॥ २२ ॥

Text 23

निमज्ज्यास्मिन् हृदे भीरु विमानमिदमारुह ।
इदं शुक्लकृतं तीर्थमाशिषां यापकं नृणाम् ॥ २३ ॥

Text 24

सा तद्भर्तु: समादाय वच: कुवलयेक्षणा ।
सरजं बिभ्रती वासो वेणीभूतांश्च मूर्धजान् ॥ २४ ॥

Text 25

अङ्गं च मलपङ्केन संछन्नं शबलस्तनम् ।
आविवेश सरस्वत्या: सर: शिवजलाशयम् ॥ २५ ॥

Text 26

सान्त:सरसि वेश्मस्था: शतानि दश कन्यका: ।
सर्वा: किशोरवयसो ददर्शोत्पलगन्धय: ॥ २६ ॥

Text 27

तां दृष्ट्वा सहसोत्थाय प्रोचु: प्राञ्जलय: स्त्रिय: ।
वयं कर्मकरीस्तुभ्यं शाधि न: करवाम किम् ॥ २७ ॥

Text 28

स्‍नानेन तां महार्हेण स्‍नापयित्वा मनस्विनीम् ।
दुकूले निर्मले नूत्ने ददुरस्यै च मानदा: ॥ २८ ॥

Text 29

भूषणानि परार्ध्यानि वरीयांसि द्युमन्ति च ।
अन्नं सर्वगुणोपेतं पानं चैवामृतासवम् ॥ २९ ॥

Text 30

अथादर्शे स्वमात्मानं स्रग्विणं विरजाम्बरम् ।
विरजं कृतस्वस्त्ययनं कन्याभिर्बहुमानितम् ॥ ३० ॥

Text 31

स्‍नातं कृतशिर:स्‍नानं सर्वाभरणभूषितम् ।
निष्कग्रीवं वलयिनं कूजत्काञ्चननूपुरम् ॥ ३१ ॥

Text 32

श्रोण्योरध्यस्तया काञ्‍च्या काञ्चन्या बहुरत्नया ।
हारेण च महार्हेण रुचकेन च भूषितम् ॥ ३२ ॥

Text 33

सुदता सुभ्रुवा श्लक्ष्णस्‍निग्धापाङ्गेन चक्षुषा ।
पद्मकोशस्पृधा नीलैरलकैश्च लसन्मुखम् ॥ ३३ ॥

Text 34

यदा सस्मार ऋषभमृषीणां दयितं पतिम् ।
तत्र चास्ते सह स्त्रीभिर्यत्रास्ते स प्रजापति: ॥ ३४ ॥

Text 35

भर्तु: पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा ।
निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत ॥ ३५ ॥

Texts 36-37

स तां कृतमलस्‍नानां विभ्राजन्तीमपूर्ववत् ।
आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीम् ॥ ३६ ॥
विद्याधरीसहस्रेण सेव्यमानां सुवाससम् ।
जातभावो विमानं तदारोहयदमित्रहन् ॥ ३७ ॥

Text 38

तस्मिन्नलुप्तमहिमा प्रिययानुरक्तो
विद्याधरीभिरुपचीर्णवपुर्विमाने ।
बभ्राज उत्कचकुमुद्गणवानपीच्य-
स्ताराभिरावृत इवोडुपतिर्नभ:स्थ: ॥ ३८ ॥

Text 39

तेनाष्टलोकपविहारकुलाचलेन्द्र-
द्रोणीस्वनङ्गसखमारुतसौभगासु ।
सिद्धैर्नुतो द्युधुनिपातशिवस्वनासु
रेमे चिरं धनदवल्ललनावरूथी ॥ ३९ ॥

Text 40

वैश्रम्भके सुरसने नन्दने पुष्पभद्रके ।
मानसे चैत्ररथ्ये च स रेमे रामया रत: ॥ ४० ॥

Text 41

भ्राजिष्णुना विमानेन कामगेन महीयसा ।
वैमानिकानत्यशेत चरँल्लोकान् यथानिल: ॥ ४१ ॥

Text 42

किं दुरापादनं तेषां पुंसामुद्दामचेतसाम् ।
यैराश्रितस्तीर्थपदश्चरणो व्यसनात्यय: ॥ ४२ ॥

Text 43

प्रेक्षयित्वा भुवो गोलं पत्‍न्यै यावान् स्वसंस्थया ।
बह्वाश्चर्यं महायोगी स्वाश्रमाय न्यवर्तत ॥ ४३ ॥

Text 44

विभज्य नवधात्मानं मानवीं सुरतोत्सुकाम् ।
रामां निरमयन् रेमे वर्षपूगान्मुहूर्तवत् ॥ ४४ ॥

Text 45

तस्मिन् विमान उत्कृष्टां शय्यां रतिकरीं श्रिता ।
न चाबुध्यत तं कालं पत्यापीच्येन सङ्गता ॥ ४५ ॥

Text 46

एवं योगानुभावेन दम्पत्यो रममाणयो: ।
शतं व्यतीयु: शरद: कामलालसयोर्मनाक् ॥ ४६ ॥

Text 47

तस्यामाधत्त रेतस्तां भावयन्नात्मनात्मवित् ।
नोधा विधाय रूपं स्वं सर्वसङ्कल्पविद्विभु: ॥ ४७ ॥

Text 48

अत: सा सुषुवे सद्यो देवहूति: स्त्रिय: प्रजा: ।
सर्वास्ताश्चारुसर्वाङ्‍ग्यो लोहितोत्पलगन्धय: ॥ ४८ ॥

Text 49

पतिं सा प्रव्रजिष्यन्तं तदालक्ष्योशतीबहि: ।
स्मयमाना विक्लवेन हृदयेन विदूयता ॥ ४९ ॥

Text 50

लिखन्त्यधोमुखी भूमिं पदा नखमणिश्रिया ।
उवाच ललितां वाचं निरुध्याश्रुकलां शनै: ॥ ५० ॥

Text 51

देवहूतिरुवाच
सर्वं तद्भगवान्मह्यमुपोवाह प्रतिश्रुतम् ।
अथापि मे प्रपन्नाया अभयं दातुमर्हसि ॥ ५१ ॥

Text 52

ब्रह्मन्दुहितृभिस्तुभ्यं विमृग्या: पतय: समा: ।
कश्चित्स्यान्मे विशोकाय त्वयि प्रव्रजिते वनम् ॥ ५२ ॥

Text 53

एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो ।
इन्द्रियार्थप्रसङ्गेन परित्यक्तपरात्मन: ॥ ५३ ॥

Text 54

इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस्त्वयि मे कृत: ।
अजानन्त्या परं भावं तथाप्यस्त्वभयाय मे ॥ ५४ ॥

Text 55

सङ्गो य: संसृतेर्हेतुरसत्सु विहितोऽधिया ।
स एव साधुषु कृतो नि:सङ्गत्वाय कल्पते ॥ ५५ ॥

Text 56

नेह यत्कर्म धर्माय न विरागाय कल्पते ।
न तीर्थपदसेवायै जीवन्नपि मृतो हि स: ॥ ५६ ॥

Text 57

साहं भगवतो नूनं वञ्चिता मायया द‍ृढम् ।
यत्त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात् ॥ ५७ ॥

Srimad Bhagavatam | Canto 3 | Chapter 22 | Verses

0

The Marriage of Kardama Muni and Devahūti

Text 1

मैत्रेय उवाच
एवमाविष्कृताशेषगुणकर्मोदयो मुनिम् ।
सव्रीड इव तं सम्राडुपारतमुवाच ह ॥ १ ॥

Text 2

मनुरुवाच
ब्रह्मासृजत्स्वमुखतो युष्मानात्मपरीप्सया ।
छन्दोमयस्तपोविद्यायोगयुक्तानलम्पटान् ॥ २ ॥

Text 3

तत्‍त्राणायासृजच्चास्मान् दो:सहस्रात्सहस्रपात् ।
हृदयं तस्य हि ब्रह्म क्षत्रमङ्गं प्रचक्षते ॥ ३ ॥

Text 4

अतो ह्यन्योन्यमात्मानं ब्रह्म क्षत्रं च रक्षत: ।
रक्षति स्माव्ययो देव: स य: सदसदात्मक: ॥ ४ ॥

Text 5

तव सन्दर्शनादेवच्छिन्ना मे सर्वसंशया: ।
यत्स्वयं भगवान् प्रीत्या धर्ममाह रिरक्षिषो: ॥ ५ ॥

Text 6

दिष्टय‍ा मे भगवान् द‍ृष्टो दुर्दर्शो योऽकृतात्मनाम् ।
दिष्टय‍ा पादरज: स्पृष्टं शीर्ष्णा मे भवत: शिवम् ॥ ६ ॥

Text 7

दिष्टय‍ा त्वयानुशिष्टोऽहं कृतश्चानुग्रहो महान् ।
अपावृतै: कर्णरन्ध्रैर्जुष्टा दिष्ट्योशतीर्गिर: ॥ ७ ॥

Text 8

स भवान्दुहितृस्‍नेहपरिक्लिष्टात्मनो मम ।
श्रोतुमर्हसि दीनस्य श्रावितं कृपया मुने ॥ ८ ॥

Text 9

प्रियव्रतोत्तानपदो: स्वसेयं दुहिता मम ।
अन्विच्छति पतिं युक्तं वय: शीलगुणादिभि: ॥ ९ ॥

Text 10

यदा तु भवत: शीलश्रुतरूपवयोगुणान् ।
अश‍ृणोन्नारदादेषा त्वय्यासीत्कृतनिश्चया ॥ १० ॥

Text 11

तत्प्रतीच्छ द्विजाग्र्येमां श्रद्धयोपहृतां मया ।
सर्वात्मनानुरूपां ते गृहमेधिषु कर्मसु ॥ ११ ॥

Text 12

उद्यतस्य हि कामस्य प्रतिवादो न शस्यते ।
अपि निर्मुक्तसङ्गस्य कामरक्तस्य किं पुन: ॥ १२ ॥

Text 13

य उद्यतमनाद‍ृत्य कीनाशमभियाचते ।
क्षीयते तद्यश: स्फीतं मानश्चावज्ञया हत: ॥ १३ ॥

Text 14

अहं त्वाश‍ृणवं विद्वन् विवाहार्थं समुद्यतम् ।
अतस्त्वमुपकुर्वाण: प्रत्तां प्रतिगृहाण मे ॥ १४ ॥

Text 15

ऋषिरुवाच
बाढमुद्वोढुकामोऽहमप्रत्ता च तवात्मजा ।
आवयोरनुरूपोऽसावाद्यो वैवाहिको विधि: ॥ १५ ॥

Text 16

काम: स भूयान्नरदेव तेऽस्या:
पुत्र्या: समाम्नायविधौ प्रतीत: ।
क एव ते तनयां नाद्रियेत
स्वयैव कान्त्या क्षिपतीमिव श्रियम् ॥ १६ ॥

Text 17

यां हर्म्यपृष्ठे क्‍वणदङ्‌घ्रिशोभां
विक्रीडतीं कन्दुकविह्वलाक्षीम् ।
विश्‍वावसुर्न्यपतत्स्वाद्विमाना-
द्विलोक्य सम्मोहविमूढचेता: ॥ १७ ॥

Text 18

तां प्रार्थयन्तीं ललनाललाम-
मसेवितश्रीचरणैरद‍ृष्टाम् ।
वत्सां मनोरुच्चपद: स्वसारं
को नानुमन्येत बुधोऽभियाताम् ॥ १८ ॥

Text 19

अतो भजिष्ये समयेन साध्वीं
यावत्तेजो बिभृयादात्मनो मे ।
अतो धर्मान् पारमहंस्यमुख्यान्
शुक्लप्रोक्तान् बहु मन्येऽविहिंस्रान् ॥ १९ ॥

Text 20

यतोऽभवद्विश्वमिदं विचित्रं
संस्थास्यते यत्र च वावतिष्ठते ।
प्रजापतीनां पतिरेष मह्यं
परं प्रमाणं भगवाननन्त: ॥ २० ॥

Text 21

मैत्रेय उवाच
स उग्रधन्वन्नियदेवाबभाषे
आसीच्च तूष्णीमरविन्दनाभम् ।
धियोपगृह्णन् स्मितशोभितेन
मुखेन चेतो लुलुभे देवहूत्या: ॥ २१ ॥

Text 22

सोऽनुज्ञात्वा व्यवसितं महिष्या दुहितु: स्फुटम् ।
तस्मै गुणगणाढ्याय ददौ तुल्यां प्रहर्षित: ॥ २२ ॥

Text 23

शतरूपा महाराज्ञी पारिबर्हान्महाधनान् ।
दम्पत्यो: पर्यदात्प्रीत्या भूषावास: परिच्छदान् ॥ २३ ॥

Text 24

प्रत्तां दुहितरं सम्राट् सद‍ृक्षाय गतव्यथ: ।
उपगुह्य च बाहुभ्यामौत्कण्ठ्योन्मथिताशय: ॥ २४ ॥

Text 25

अशक्नुवंस्तद्विरहं मुञ्चन् बाष्पकलां मुहु: ।
आसिञ्चदम्ब वत्सेति नेत्रोदैर्दुहितु: शिखा: ॥ २५ ॥

Texts 26-27

आमन्‍त्र्‍य तं मुनिवरमनुज्ञात: सहानुग: ।
प्रतस्थे रथमारुह्य सभार्य: स्वपुरं नृप: ॥ २६ ॥
उभयोऋर्षिकुल्याया: सरस्वत्या: सुरोधसो: ।
ऋषीणामुपशान्तानां पश्यन्नाश्रमसम्पद: ॥ २७ ॥

Text 28

तमायान्तमभिप्रेत्य ब्रह्मावर्तात्प्रजा: पतिम् ।
गीतसंस्तुतिवादित्रै: प्रत्युदीयु: प्रहर्षिता: ॥ २८ ॥

Texts 29-30

बर्हिष्मती नाम पुरी सर्वसम्पत्समन्विता ।
न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वत: ॥ २९ ॥
कुशा: काशास्त एवासन् शश्वद्धरितवर्चस: ।
ऋषयो यै: पराभाव्य यज्ञघ्नान् यज्ञमीजिरे ॥ ३० ॥

Text 31

कुशकाशमयं बर्हिरास्तीर्य भगवान्मनु: ।
अयजद्यज्ञपुरुषं लब्धा स्थानं यतो भुवम् ॥ ३१ ॥

Text 32

बर्हिष्मतीं नाम विभुर्यां निर्विश्य समावसत् ।
तस्यां प्रविष्टो भवनं तापत्रयविनाशनम् ॥ ३२ ॥

Text 33

सभार्य: सप्रज: कामान् बुभुजेऽन्याविरोधत: ।
सङ्गीयमानसत्कीर्ति: सस्त्रीभि: सुरगायकै: ।
प्रत्यूषेष्वनुबद्धेन हृदा श‍ृण्वन् हरे: कथा: ॥ ३३ ॥

Text 34

निष्णातं योगमायासु मुनिं स्वायम्भुवं मनुम् ।
यदाभ्रंशयितुं भोगा न शेकुर्भगवत्परम् ॥ ३४ ॥

Text 35

अयातयामास्तस्यासन् यामा:स्वान्तरयापना: ।
श‍ृण्वतो ध्यायतो विष्णो: कुर्वतो ब्रुवत: कथा: ॥ ३५ ॥

Text 36

स एवं स्वान्तरं निन्ये युगानामेकसप्ततिम् ।
वासुदेवप्रसङ्गेन परिभूतगतित्रय: ॥ ३६ ॥

Text 37

शारीरा मानसा दिव्या वैयासे ये च मानुषा: ।
भौतिकाश्च कथं क्लेशा बाधन्ते हरिसंश्रयम् ॥ ३७ ॥

Text 38

य: पृष्टो मुनिभि: प्राह धर्मान्नानाविदाञ्छुभान् ।
नृणां वर्णाश्रमाणां च सर्वभूतहित: सदा ॥ ३८ ॥

Text 39

एतत्त आदिराजस्य मनोश्चरितमद्भुतम् ।
वर्णितं वर्णनीयस्य तदपत्योदयं श‍ृणु ॥ ३९ ॥

Srimad Bhagavatam | Canto 3 | Chapter 21 | Verses

0

Conversation Between Manu and Kardama

Text 1

विदुर उवाच
स्वायम्भुवस्य च मनोर्वंश: परमसम्मत: ।
कथ्यतां भगवन् यत्र मैथुनेनैधिरे प्रजा: ॥ १ ॥

Text 2

प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै ।
यथाधर्मं जुगुपतु: सप्तद्वीपवतीं महीम् ॥ २ ॥

Text 3

तस्य वै दुहिता ब्रह्मन्देवहूतीति विश्रुता ।
पत्नी प्रजापतेरुक्ता कर्दमस्य त्वयानघ ॥ ३ ॥

Text 4

तस्यां स वै महायोगी युक्तायां योगलक्षणै: ।
ससर्ज कतिधा वीर्यं तन्मे शुश्रूषवे वद ॥ ४ ॥

Text 5

रुचिर्यो भगवान् ब्रह्मन्दक्षो वा ब्रह्मण: सुत: ।
यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम् ॥ ५ ॥

Text 6

मैत्रेय उवाच
प्रजा: सृजेति भगवान् कर्दमो ब्रह्मणोदित: ।
सरस्वत्यां तपस्तेपे सहस्राणां समा दश ॥ ६ ॥

Text 7

तत: समाधियुक्तेन क्रियायोगेन कर्दम: ।
सम्प्रपेदे हरिं भक्त्या प्रपन्नवरदाशुषम् ॥ ७ ॥

Text 8

तावत्प्रसन्नो भगवान् पुष्कराक्ष: कृते युगे ।
दर्शयामास तं क्षत्त: शाब्दं ब्रह्म दधद्वपु: ॥ ८ ॥

Text 9

स तं विरजमर्काभं सितपद्मोत्पलस्रजम् ।
स्‍निग्धनीलालकव्रातवक्त्राब्जं विरजोऽम्बरम् ॥ ९ ॥

Text 10

किरीटिनं कुण्डलिनं शङ्खचक्रगदाधरम् ।
श्वेतोत्पलक्रीडनकं मन:स्पर्शस्मितेक्षणम् ॥ १० ॥

Text 11

विन्यस्तचरणाम्भोजमंसदेशे गरुत्मत: ।
दृष्ट्वा खेऽवस्थितं वक्ष:श्रियं कौस्तुभकन्धरम् ॥ ११ ॥

Text 12

जातहर्षोऽपतन्मूर्ध्ना क्षितौ लब्धमनोरथ: ।
गीर्भिस्त्वभ्यगृणात्प्रीतिस्वभावात्मा कृताञ्जलि: ॥ १२ ॥

Text 13

ऋषिरुवाच
जुष्टं बताद्याखिलसत्त्वराशे:
सांसिद्ध्यमक्ष्णोस्तव दर्शनान्न: ।
यद्दर्शनं जन्मभिरीड्य सद्‌भि-
राशासते योगिनो रूढयोगा: ॥ १३ ॥

Text 14

ये मायया ते हतमेधसस्त्वत्-
पादारविन्दं भवसिन्धुपोतम् ।
उपासते कामलवाय तेषां
रासीश कामान्निरयेऽपि ये स्यु: ॥ १४ ॥

Text 15

तथा स चाहं परिवोढुकाम:
समानशीलां गृहमेधधेनुम् ।
उपेयिवान्मूलमशेषमूलं
दुराशय: कामदुघाङ्‌घ्रिपस्य ॥ १५ ॥

Text 16

प्रजापतेस्ते वचसाधीश तन्त्या
लोक: किलायं कामहतोऽनुबद्ध: ।
अहं च लोकानुगतो वहामि
बलिं च शुक्लानिमिषाय तुभ्यम् ॥ १६ ॥

Text 17

लोकांश्च लोकानुगतान् पशूंश्च
हित्वा श्रितास्ते चरणातपत्रम् ।
परस्परं त्वद्गुणवादसीधु-
पीयूषनिर्यापितदेहधर्मा: ॥ १७ ॥

Text 18

न तेऽजराक्षभ्रमिरायुरेषां
त्रयोदशारं त्रिशतं षष्टिपर्व ।
षण्नेम्यनन्तच्छदि यत्‍त्रिणाभि
करालस्रोतो जगदाच्छिद्य धावत् ॥ १८ ॥

Text 19

एक: स्वयं सञ्जगत: सिसृक्षया-
द्वितीययात्मन्नधियोगमायया ।
सृजस्यद: पासि पुनर्ग्रसिष्यसे
यथोर्णनाभिर्भगवन् स्वशक्तिभि: ॥ १९ ॥

Text 20

नैतद्बताधीश पदं तवेप्सितं
यन्मायया नस्तनुषे भूतसूक्ष्मम् ।
अनुग्रहायास्त्वपि यर्ही मायया
लसत्तुलस्या भगवान् विलक्षित: ॥ २० ॥

Text 21

तं त्वानुभूत्योपरतक्रियार्थं
स्वमायया वर्तितलोकतन्त्रम् ।
नमाम्यभीक्ष्णं नमनीयपाद-
सरोजमल्पीयसि कामवर्षम् ॥ २१ ॥

Text 22

ऋषिरुवाच
इत्यव्यलीकं प्रणुतोऽब्जनाभ-
स्तमाबभाषे वचसामृतेन ।
सुपर्णपक्षोपरि रोचमान:
प्रेमस्मितोद्वीक्षणविभ्रमद्भ्रू: ॥ २२ ॥

Text 23

श्रीभगवानुवाच
विदित्वा तव चैत्यं मे पुरैव समयोजि तत् ।
यदर्थमात्मनियमैस्त्वयैवाहं समर्चित: ॥ २३ ॥

Text 24

न वै जातु मृषैव स्यात्प्रजाध्यक्ष मदर्हणम् ।
भवद्विधेष्वतितरां मयि संगृभितात्मनाम् ॥ २४ ॥

Text 25

प्रजापतिसुत: सम्राण्मनुर्विख्यातमङ्गल: ।
ब्रह्मावर्तं योऽधिवसन् शास्ति सप्तार्णवां महीम् ॥ २५ ॥

Text 26

स चेह विप्र राजर्षिर्महिष्या शतरूपया ।
आयास्यति दिद‍ृक्षुस्त्वां परश्वो धर्मकोविद: ॥ २६ ॥

Text 27

आत्मजामसितापाङ्गीं वय:शीलगुणान्विताम् ।
मृगयन्तीं पतिं दास्यत्यनुरूपाय ते प्रभो ॥ २७ ॥

Text 28

समाहितं ते हृदयं यत्रेमान् परिवत्सरान् ।
सा त्वां ब्रह्मन्नृपवधू: काममाशु भजिष्यति ॥ २८ ॥

Text 29

या त आत्मभृतं वीर्यं नवधा प्रसविष्यति ।
वीर्ये त्वदीये ऋषय आधास्यन्त्यञ्जसात्मन: ॥ २९ ॥

Text 30

त्वं च सम्यगनुष्ठाय निदेशं म उशत्तम: ।
मयि तीर्थीकृताशेषक्रियार्थो मां प्रपत्स्यसे ॥ ३० ॥

Text 31

कृत्वा दयां च जीवेषु दत्त्वा चाभयमात्मवान् ।
मय्यात्मानं सह जगद् द्रक्ष्यस्यात्मनि चापि माम् ॥ ३१ ॥

Text 32

सहाहं स्वांशकलया त्वद्वीर्येण महामुने ।
तव क्षेत्रे देवहूत्यां प्रणेष्ये तत्त्वसंहिताम् ॥ ३२ ॥

Text 33

मैत्रेय उवाच
एवं तमनुभाष्याथ भगवान् प्रत्यगक्षज: ।
जगाम बिन्दुसरस: सरस्वत्या परिश्रितात् ॥ ३३ ॥

Text 34

निरीक्षतस्तस्य ययावशेष-
सिद्धेश्वराभिष्टुतसिद्धमार्ग: ।
आकर्णयन् पत्ररथेन्द्रपक्षै-
रुच्चारितं स्तोममुदीर्णसाम ॥ ३४ ॥

Text 35

अथ सम्प्रस्थिते शुक्ले कर्दमो भगवानृषि: ।
आस्ते स्म बिन्दुसरसि तं कालं प्रतिपालयन् ॥ ३५ ॥

Text 36

मनु: स्यन्दनमास्थाय शातकौम्भपरिच्छदम् ।
आरोप्य स्वां दुहितरं सभार्य: पर्यटन्महीम् ॥ ३६ ॥

Text 37

तस्मिन् सुधन्वन्नहनि भगवान् यत्समादिशत् ।
उपायादाश्रमपदं मुने: शान्तव्रतस्य तत् ॥ ३७ ॥

Texts 38-39

यस्मिन् भगवतो नेत्रान्न्यपतन्नश्रुबिन्दव: ।
कृपया सम्परीतस्य प्रपन्नेऽर्पितया भृशम् ॥ ३८ ॥
तद्वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम् ।
पुण्यं शिवामृतजलं महर्षिगणसेवितम् ॥ ३९ ॥

Text 40

पुण्यद्रुमलताजालै: कूजत्पुण्यमृगद्विजै: ।
सर्वर्तुफलपुष्पाढ्यं वनराजिश्रियान्वितम् ॥ ४० ॥

Text 41

मत्तद्विजगणैर्घुष्टं मत्तभ्रमरविभ्रमम् ।
मत्तबर्हिनटाटोपमाह्वयन्मत्तकोकिलम् ॥ ४१ ॥

Texts 42-43

कदम्बचम्पकाशोककरञ्जबकुलासनै: ।
कुन्दमन्दारकुटजैश्चूतपोतैरलङ्कृतम् ॥ ४२ ॥
कारण्डवै: प्लवैर्हंसै: कुररैर्जलकुक्‍कुटै: ।
सारसैश्चक्रवाकैश्च चकोरैर्वल्गु कूजितम् ॥ ४३ ॥

Text 44

तथैव हरिणै: क्रोडै: श्‍वाविद्गवयकुञ्जरै: ।
गोपुच्छैर्हरिभिर्मर्कैर्नकुलैर्नाभिभिर्वृतम् ॥ ४४ ॥

Texts 45-47

प्रविश्य तत्तीर्थवरमादिराज: सहात्मज: ।
ददर्श मुनिमासीनं तस्मिन् हुतहुताशनम् ॥ ४५ ॥
विद्योतमानं वपुषा तपस्युग्रयुजा चिरम् ।
नातिक्षामं भगवत: स्‍निग्धापाङ्गावलोकनात् ।
त द्वय‍हृतामृतकलापीयूषश्रवणेन च ॥ ४६ ॥
प्रांशुं पद्मपलाशाक्षं जटिलं चीरवाससम् ।
उपसंश्रित्य मलिनं यथार्हणमसंस्कृतम् ॥ ४७ ॥

Text 48

अथोटजमुपायातं नृदेवं प्रणतं पुर: ।
सपर्यया पर्यगृह्णात्प्रतिनन्द्यानुरूपया ॥ ४८ ॥

Text 49

गृहीतार्हणमासीनं संयतं प्रीणयन्मुनि: ।
स्मरन् भगवदादेशमित्याह श्लक्ष्णया गिरा ॥ ४९ ॥

Text 50

नूनं चङ्‌क्रमणं देव सतां संरक्षणाय ते ।
वधाय चासतां यस्त्वं हरे: शक्तिर्हि पालिनी ॥ ५० ॥

Text 51

योऽर्केन्द्वग्नीन्द्रवायूनां यमधर्मप्रचेतसाम् ।
रूपाणि स्थान आधत्से तस्मै शुक्लाय ते नम: ॥ ५१ ॥

Texts 52-54

न यदा रथमास्थाय जैत्रं मणिगणार्पितम् ।
विस्फूर्जच्चण्डकोदण्डो रथेन त्रासयन्नघान् ॥ ५२ ॥
स्वसैन्यचरणक्षुण्णं वेपयन्मण्डलं भुव: ।
विकर्षन् बृहतीं सेनां पर्यटस्यंशुमानिव ॥ ५३ ॥
तदैव सेतव: सर्वे वर्णाश्रमनिबन्धना: ।
भगवद्रचिता राजन् भिद्येरन् बत दस्युभि: ॥ ५४ ॥

Text 55

अधर्मश्च समेधेत लोलुपैर्व्यङ्कुशैर्नृभि: ।
शयाने त्वयि लोकोऽयं दस्युग्रस्तो विनङ्‍क्ष्यति ॥ ५५ ॥

Text 56

अथापि पृच्छे त्वां वीर यदर्थं त्वमिहागत: ।
तद्वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा ॥ ५६ ॥

Srimad Bhagavatam | Canto 3 | Chapter 20 | Verses

0

Conversation Between Maitreya and Vidura

Text 1

शौनक उवाच
महीं प्रतिष्ठामध्यस्य सौते स्वायम्भुवो मनु: ।
कान्यन्वतिष्ठद् द्वाराणि मार्गायावरजन्मनाम् ॥ १ ॥

Text 2

क्षत्ता महाभागवत: कृष्णस्यैकान्तिक: सुहृत् ।
यस्तत्याजाग्रजं कृष्णे सापत्यमघवानिति ॥ २ ॥

Text 3

द्वैपायनादनवरो महित्वे तस्य देहज: ।
सर्वात्मना श्रित: कृष्णं तत्परांश्चाप्यनुव्रत: ॥ ३ ॥

Text 4

किमन्वपृच्छन्मैत्रेयं विरजास्तीर्थसेवया ।
उपगम्य कुशावर्त आसीनं तत्त्ववित्तमम् ॥ ४ ॥

Text 5

तयो: संवदतो: सूत प्रवृत्ता ह्यमला: कथा: ।
आपो गाङ्गा इवाघघ्नीर्हरे: पादाम्बुजाश्रया: ॥ ५ ॥

Text 6

ता न: कीर्तय भद्रं ते कीर्तन्योदारकर्मण: ।
रसज्ञ: को नु तृप्येत हरिलीलामृतं पिबन् ॥ ६ ॥

Text 7

एवमुग्रश्रवा: पृष्ट ऋषिभिर्नैमिषायनै: ।
भगवत्यर्पिताध्यात्मस्तानाह श्रूयतामिति ॥ ७ ॥

Text 8

सूत उवाच
हरेर्धृतक्रोडतनो: स्वमायया
निशम्य गोरुद्धरणं रसातलात् ।
लीलां हिरण्याक्षमवज्ञया हतं
सञ्जातहर्षो मुनिमाह भारत: ॥ ८ ॥

Text 9

विदुर उवाच
प्रजापतिपति: सृष्ट्वा प्रजासर्गे प्रजापतीन् ।
किमारभत मे ब्रह्मन् प्रब्रूह्यव्यक्तमार्गवित् ॥ ९ ॥

Text 10

ये मरीच्यादयो विप्रा यस्तु स्वायम्भुवो मनु: ।
ते वै ब्रह्मण आदेशात्कथमेतदभावयन् ॥ १० ॥

Text 11

सद्वितीया: किमसृजन् स्वतन्त्रा उत कर्मसु ।
आहोस्वित्संहता: सर्व इदं स्म समकल्पयन् ॥ ११ ॥

Text 12

मैत्रेय उवाच
दैवेन दुर्वितर्क्येण परेणानिमिषेण च ।
जातक्षोभाद्भगवतो महानासीद् गुणत्रयात् ॥ १२ ॥

Text 13

रज:प्रधानान्महतस्त्रिलिङ्गो दैवचोदितात् ।
जात: ससर्ज भूतादिर्वियदादीनि पञ्चश: ॥ १३ ॥

Text 14

तानि चैकैकश: स्रष्टुमसमर्थानि भौतिकम् ।
संहत्य दैवयोगेन हैममण्डमवासृजन् ॥ १४ ॥

Text 15

सोऽशयिष्टाब्धिसलिले आण्डकोशो निरात्मक: ।
साग्रं वै वर्षसाहस्रमन्ववात्सीत्तमीश्वर: ॥ १५ ॥

Text 16

तस्य नाभेरभूत्पद्मं सहस्रार्कोरुदीधिति ।
सर्वजीवनिकायौको यत्र स्वयमभूत्स्वराट् ॥ १६ ॥

Text 17

सोऽनुविष्टो भगवता य: शेते सलिलाशये ।
लोकसंस्थां यथापूर्वं निर्ममे संस्थया स्वया ॥ १७ ॥

Text 18

ससर्ज च्छाययाविद्यां पञ्चपर्वाणमग्रत: ।
तामिस्रमन्धतामिस्रं तमो मोहो महातम: ॥ १८ ॥

Text 19

विससर्जात्मन: कायं नाभिनन्दंस्तमोमयम् ।
जगृहुर्यक्षरक्षांसि रात्रिं क्षुत्तृट्‌समुद्भवाम् ॥ १९ ॥

Text 20

क्षुत्तृड्भ्यामुपसृष्टास्ते तं जग्धुमभिदुद्रुवु: ।
मा रक्षतैनं जक्षध्वमित्यूचु: क्षुत्तृडर्दिता: ॥ २० ॥

Text 21

देवस्तानाह संविग्नो मा मां जक्षत रक्षत ।
अहो मे यक्षरक्षांसि प्रजा यूयं बभूविथ ॥ २१ ॥

Text 22

देवता: प्रभया या या दीव्यन् प्रमुखतोऽसृजत् ।
ते अहार्षुर्देवयन्तो विसृष्टां तां प्रभामह: ॥ २२ ॥

Text 23

देवोऽदेवाञ्जघनत: सृजति स्मातिलोलुपान् ।

एनं लोलुपतया मैथुनायाभिपेदिरे ॥ २३ ॥

Text 24

ततो हसन् स
भगवानसुरैर्निरपत्रपै: ।
अन्वीयमानस्तरसा क्रुद्धो भीत: परापतत् ॥ २४ ॥

Text 25

स उपव्रज्य वरदं प्रपन्नार्तिहरं हरिम् ।
अनुग्रहाय भक्तानामनुरूपात्मदर्शनम् ॥ २५ ॥

Text 26

पाहि मां परमात्मंस्ते प्रेषणेनासृजं
प्रजा: ।
ता इमा यभितुं पापा उपाक्रामन्ति मां प्रभो ॥ २६ ॥

Text 27

त्वमेक: किल लोकानां क्लिष्टानां
क्लेशनाशन: ।
त्वमेक: क्लेशदस्तेषामनासन्नपदां तव ॥ २७ ॥

Text 28

सोऽवधार्यास्य कार्पण्यं विविक्ताध्यात्मदर्शन: ।
विमुञ्चात्मतनुं घोरामित्युक्तो विमुमोच ह ॥ २८ ॥

Text 29

तां क्‍वणच्चरणाम्भोजां मदविह्वललोचनाम् ।
काञ्चीकलापविलसद्दुकूलच्छन्नरोधसम् ॥ २९ ॥

Text 30

अन्योन्यश्लेषयोत्तुङ्गनिरन्तरपयोधराम् ।
सुनासां सुद्विजां स्‍निग्धहासलीलावलोकनाम् ॥ ३० ॥

Text 31

गूहन्तीं व्रीडयात्मानं नीलालकवरूथिनीम् ।
उपलभ्यासुरा धर्म सर्वे सम्मुमुहु: स्त्रियम् ॥ ३१ ॥

Text 32

अहो रूपमहो धैर्यमहो अस्या नवं वय: ।
मध्ये कामयमानानामकामेव विसर्पति ॥ ३२ ॥

Text 33

वितर्कयन्तो बहुधा तां सन्ध्यां
प्रमदाकृतिम् ।
अभिसम्भाव्य विश्रम्भात्पर्यपृच्छन् कुमेधस: ॥ ३३ ॥

Text 34

कासि कस्यासि रम्भोरु को वार्थस्तेऽत्र
भामिनि ।
रूपद्रविणपण्येन दुर्भगान्नो विबाधसे ॥ ३४ ॥

Text 35

या वा काचित्त्वमबले दिष्टय‍ा सन्दर्शनं तव ।
उत्सुनोषीक्षमाणानां कन्दुकक्रीडया मन: ॥ ३५ ॥

Text 36

नैकत्र ते जयति शालिनि पादपद्मं
घ्नन्त्या मुहु: करतलेन पतत्पतङ्गम् ।
मध्यं विषीदति बृहत्स्तनभारभीतं
शान्तेव द‍ृष्टिरमला सुशिखासमूह: ॥ ३६ ॥

Text 37

इति सायन्तनीं सन्ध्यामसुरा: प्रमदायतीम् ।
प्रलोभयन्तीं जगृहुर्मत्वा मूढधिय: स्त्रियम् ॥ ३७ ॥

Text 38

प्रहस्य भावगम्भीरं जिघ्रन्त्यात्मानमात्मना ।
कान्त्या ससर्ज भगवान् गन्धर्वाप्सरसां गणान् ॥ ३८ ॥

Text 39

विससर्ज तनुं तां वैज्योत्‍स्‍नां कान्तिमतीं प्रियाम् ।
त एव चाददु: प्रीत्या विश्वावसुपुरोगमा: ॥ ३९ ॥

Text 40

सृष्ट्वा भूतपिशाचांश्च भगवानात्मतन्द्रिणा ।
दिग्वाससो मुक्तकेशान् वीक्ष्य चामीलयद् द‍ृशौ ॥ ४० ॥

Text 41

जगृहुस्तद्विसृष्टां तां जृम्भणाख्यां तनुं प्रभो: ।
निद्रामिन्द्रियविक्लेदो यया भूतेषु द‍ृश्यते ।
येनोच्छिष्टान्धर्षयन्ति तमुन्मादं प्रचक्षते ॥ ४१ ॥

Text 42

ऊर्जस्वन्तं मन्यमान आत्मानं भगवानज: ।
साध्यान् गणान् पितृगणान् परोक्षेणासृजत्प्रभु: ॥ ४२ ॥

Text 43

त आत्मसर्गं तं कायं पितर: प्रतिपेदिरे ।
साध्येभ्यश्च पितृभ्यश्च कवयो यद्वितन्वते ॥ ४३ ॥

Text 44

सिद्धान् विद्याधरांश्चैव तिरोधानेन सोऽसृजत् ।
तेभ्योऽददात्तमात्मानमन्तर्धानाख्यमद्भुतम् ॥ ४४ ॥

Text 45

स किन्नरान किम्पुरुषान् प्रत्यात्म्येनासृजत्प्रभु: ।
मानयन्नात्मनात्मानमात्माभासं विलोकयन् ॥ ४५ ॥

Text 46

ते तु तज्जगृहू रूपं त्यक्तं यत्परमेष्ठिना ।
मिथुनीभूय गायन्तस्तमेवोषसि कर्मभि: ॥ ४६ ॥

Text 47

देहेन वै भोगवता शयानो बहुचिन्तया ।
सर्गेऽनुपचिते क्रोधादुत्ससर्ज ह तद्वपु: ॥ ४७ ॥

Text 48

येऽहीयन्तामुत: केशा अहयस्तेऽङ्ग जज्ञिरे ।
सर्पा: प्रसर्पत: क्रूरा नागा भोगोरुकन्धरा: ॥ ४८ ॥

Text 49

स आत्मान् मन्यमान: कृतकृत्यमिवात्मभू: ।
तदा मनून् ससर्जान्ते मनसा लोकभावनान् ॥ ४९ ॥

Text 50

तेभ्य: सोऽसृजत्स्वीयं पुरं पुरुषमात्मवान् ।
तान् दृष्ट्वा ये पुरा सृष्टा: प्रशशंसु: प्रजापतिम् ॥ ५० ॥

Text 51

अहो एतज्जगत्स्रष्ट: सुकृतं बत ते कृतम् ।
प्रतिष्ठिता: क्रिया यस्मिन् साकमन्नमदामहे ॥ ५१ ॥

Text 52

तपसा विद्यया युक्तो योगेन सुसमाधिना ।
ऋषीनृषिर्हृषीकेश: ससर्जाभिमता: प्रजा: ॥ ५२ ॥

Text 53

तेभ्यश्चैकैकश: स्वस्य देहस्यांशमदादज: ।
यत्तत्समाधियोगर्द्धितपोविद्याविरक्तिमत् ॥ ५३ ॥

Srimad Bhagavatam | Canto 3 | Chapter 19 | Verses

0

The Killing of the Demon Hiraṇyākṣa

Text 1

मैत्रेय उवाच
अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वच: ।
प्रहस्य प्रेमगर्भेण तदपाङ्गेन सोऽग्रहीत् ॥ १ ॥

Text 2

तत: सपत्नं मुखतश्चरन्तमकुतोभयम् ।
जघानोत्पत्य गदया हनावसुरमक्षज: ॥ २ ॥

Text 3

सा हता तेन गदया विहता भगवत्करात् ।
विघूर्णितापतद्रेजे तदद्भुतमिवाभवत् ॥ ३ ॥

Text 4

स तदा लब्धतीर्थोऽपि न बबाधे निरायुधम् ।
मानयन् स मृधे धर्मं विष्वक्सेनं प्रकोपयन् ॥ ४ ॥

Text 5

गदायामपविद्धायां हाहाकारे विनिर्गते ।
मानयामास तद्धर्मं सुनाभं चास्मरद्विभु: ॥ ५ ॥

Text 6

तं व्यग्रचक्रं दितिपुत्राधमेन
स्वपार्षदमुख्येन विषज्जमानम् ।
चित्रा वाचोऽतद्विदां खेचराणां
तत्र स्मासन् स्वस्ति तेऽमुं जहीति ॥ ६ ॥

Text 7

स तं निशाम्यात्तरथाङ्गमग्रतो
व्यवस्थितं पद्मपलाशलोचनम् ।
विलोक्य चामर्षपरिप्लुतेन्द्रियो
रुषा स्वदन्तच्छदमादशच्छ्‌वसन् ॥ ७ ॥

Text 8

करालदंष्ट्रश्चक्षुर्भ्यां सञ्चक्षाणो दहन्निव ।
अभिप्लुत्य स्वगदया हतोऽसीत्याहनद्धरिम् ॥ ८ ॥

Text 9

पदा सव्येन तां साधो भगवान् यज्ञसूकर: ।
लीलया मिषत: शत्रो: प्राहरद्वातरंहसम् ॥ ९ ॥

Text 10

आह चायुधमाधत्स्व घटस्व त्वं
जिगीषसि ।
इत्युक्त:स तदा भूयस्ताडयन् व्यनदद् भृशम् ॥ १० ॥

Text 11

तां स आपततीं वीक्ष्य भगवान्
समवस्थित: ।
जग्राह लीलया प्राप्तां गरुत्मानिव पन्नगीम् ॥ ११ ॥

Text 12

स्वपौरुषे प्रतिहते हतमानो
महासुर: ।
नैच्छद्गदां दीयमानां हरिणा विगतप्रभ: ॥ १२ ॥

Text 13

जग्राह त्रिशिखं शूलं ज्वलज्ज्वलनलोलुपम् ।
यज्ञाय धृतरूपाय विप्रायाभिचरन् यथा ॥ १३ ॥

Text 14

तदोजसा दैत्यमहाभटार्पितं
चकासदन्त:ख उदीर्णदीधिति ।
चक्रेण चिच्छेद निशातनेमिना
हरिर्यथा तार्क्ष्यपतत्रमुज्झितम् ॥ १४ ॥

Text 15

वृक्णे स्वशूले बहुधारिणा हरे:
प्रत्येत्य विस्तीर्णमुरो विभूतिमत् ।
प्रवृद्धरोष: स कठोरमुष्टिना
नदन् प्रहृत्यान्तरधीयतासुर: ॥ १५ ॥

Text 16

तेनेत्थमाहत: क्षत्तर्भगवानादिसूकर: ।
नाकम्पत मनाक् क्‍वापि स्रजा हत इव द्विप: ॥ १६ ॥

Text 17

अथोरुधासृजन्मायां योगमायेश्वरे हरौ ।
यां विलोक्य प्रजास्त्रस्ता मेनिरेऽस्योपसंयमम् ॥ १७ ॥

Text 18

प्रववुर्वायवश्चण्डास्तम: पांसवमैरयन् ।
दिग्भ्यो निपेतुर्ग्रावाण: क्षेपणै: प्रहिता इव ॥ १८ ॥

Text 19

द्यौर्नष्टभगणाभ्रौघै: सविद्युत्स्तनयित्नुभि: ।
वर्षद्‌भि: पूयकेशासृग्विण्मूत्रास्थीनि चासकृत् ॥ १९ ॥

Text 20

गिरय: प्रत्यद‍ृश्यन्त नानायुधमुचोऽनघ ।
दिग्वाससो यातुधान्य: शूलिन्यो मुक्तमूर्धजा: ॥ २० ॥

Text 21

बहुभिर्यक्षरक्षोभि: पत्त्यश्वरथकुञ्जरै: ।
आततायिभिरुत्सृष्टा हिंस्रा वाचोऽतिवैशसा: ॥ २१ ॥

Text 22

प्रादुष्कृतानां मायानामासुरीणां विनाशयत् ।
सुदर्शनास्त्रं भगवान् प्रायुङ्क्त दयितं त्रिपात् ॥ २२ ॥

Text 23

तदा दिते: समभवत्सहसा हृदि वेपथु: ।
स्मरन्त्या भर्तुरादेशं स्तनाच्चासृक् प्रसुस्रुवे ॥ २३ ॥

Text 24

विनष्टासु स्वमायासु भूयश्चाव्रज्य केशवम् ।
रुषोपगूहमानोऽमुं दद‍ृशेऽवस्थितं बहि: ॥ २४ ॥

Text 25

तं मुष्टिभिर्विनिघ्नन्तं वज्रसारैरधोक्षज: ।
करेण कर्णमूलेऽहन् यथा त्वाष्ट्रं मरुत्पति: ॥ २५ ॥

Text 26

स आहतो विश्वजिता ह्यवज्ञया
परिभ्रमद्गात्र उदस्तलोचन: ।
विशीर्णबाह्वङ्‌घ्रिशिरोरुहोऽपतद्
यथा नगेन्द्रो लुलितो नभस्वता ॥ २६ ॥

Text 27

क्षितौ शयानं तमकुण्ठवर्चसं
करालदंष्ट्रं परिदष्टदच्छदम् ।
अजादयो वीक्ष्य शशंसुरागता
अहो इमां को नु लभेत संस्थितिम् ॥ २७ ॥

Text 28

यं योगिनो योगसमाधिना रहो
ध्यायन्ति लिङ्गादसतो मुमुक्षया ।
तस्यैष दैत्यऋषभ: पदाहतो
मुखं प्रपश्यंस्तनुमुत्ससर्ज ह ॥ २८ ॥

Text 29

एतौ तौ पार्षदावस्य शापाद्यातावसद्गतिम् ।
पुन: कतिपयै: स्थानं प्रपत्स्येते ह जन्मभि: ॥ २९ ॥

Text 30

देवा ऊचु:
नमो नमस्तेऽखिलयज्ञतन्तवे
स्थितौ गृहीतामलसत्त्वमूर्तये ।
दिष्टय‍ा हतोऽयं जगतामरुन्तुद-
स्त्वत्पादभक्त्या वयमीश निर्वृता: ॥ ३० ॥

Text 31

मैत्रेय उवाच
एवं हिरण्याक्षमसह्यविक्रमं
स सादयित्वा हरिरादिसूकर: ।
जगाम लोकं स्वमखण्डितोत्सवं
समीडित: पुष्करविष्टरादिभि: ॥ ३१ ॥

Text 32

मया यथानूक्तमवादि ते हरे:
कृतावतारस्य सुमित्र चेष्टितम् ।
यथा हिरण्याक्ष उदारविक्रमो
महामृधे क्रीडनवन्निराकृत: ॥ ३२ ॥

Text 33

सूत उवाच
इति कौषारवाख्यातामाश्रुत्य भगवत्कथाम् ।
क्षत्तानन्दं परं लेभे महाभागवतो द्विज ॥ ३३ ॥

Text 34

अन्येषां पुण्यश्लोकानामुद्दामयशसां
सताम् ।
उपश्रुत्य भवेन्मोद: श्रीवत्साङ्कस्य किं पुन: ॥ ३४ ॥

Text 35

यो गजेन्द्र झषग्रस्तं ध्यायन्तं
चरणाम्बुजम् । क्रोशन्तीनां करेणूनां कृच्छ्रतोऽमोचयद् द्रुतम् ॥ ३५ ॥

Text 36

तं
सुखाराध्यमृजुभिरनन्यशरणैर्नृभि: ।
कृतज्ञ: को न सेवेत
दुराराध्यमसाधुभि: ॥ ३६ ॥

Text 37

यो वै हिरण्याक्षवधं
महाद्भुतं
विक्रीडितं कारणसूकरात्मन: ।
श‍ृणोति
गायत्यनुमोदतेऽञ्जसा
विमुच्यते ब्रह्मवधादपि द्विजा: ॥ ३७ ॥

Text 38

एतन्महापुण्यमलं पवित्रं
धन्यं यशस्यं पदमायुराशिषाम् ।
प्राणेन्द्रियाणां युधि शौर्यवर्धनं
नारायणोऽन्ते गतिरङ्ग श‍ृण्वताम् ॥ ३८ ॥

Srimad Bhagavatam | Canto 3 | Chapter 18 | Verses

0

The Battle Between Lord Boar and the Demon Hiraṇyākṣa

Text 1

मैत्रेय उवाच
तदेवमाकर्ण्य जलेशभाषितं
महामनास्तद्विगणय्य दुर्मद: ।
हरेर्विदित्वा गतिमङ्ग नारदाद्
रसातलं निर्विविशे त्वरान्वित: ॥ १ ॥

Text 2

ददर्श तत्राभिजितं धराधरं
प्रोन्नीयमानावनिमग्रदंष्ट्रया ।
मुष्णन्तमक्ष्णा स्वरुचोऽरुणश्रिया
जहास चाहो वनगोचरो मृग: ॥ २ ॥

Text 3

आहैनमेह्यज्ञ महीं विमुञ्च नो
रसौकसां विश्वसृजेयमर्पिता ।
न स्वस्ति यास्यस्यनया ममेक्षत:
सुराधमासादितसूकराकृते ॥ ३ ॥

Text 4

त्वं न: सपत्नैरभवाय किं भृतो
यो मायया हन्त्यसुरान् परोक्षजित् ।
त्वां योगमायाबलमल्पपौरुषं
संस्थाप्य मूढ प्रमृजे सुहृच्छुच: ॥ ४ ॥

Text 5

त्वयि संस्थिते गदया शीर्णशीर्ष-
ण्यस्मद्भुजच्युतया ये च तुभ्यम् ।
बलिं हरन्त्यृषयो ये च देवा:
स्वयं सर्वे न भविष्यन्त्यमूला: ॥ ५ ॥

Text 6

स तुद्यमानोऽरिदुरुक्ततोमरै-
र्दंष्ट्राग्रगां गामुपलक्ष्य भीताम् ।
तोदं मृषन्निरगादम्बुमध्याद्
ग्राहाहत: सकरेणुर्यथेभ: ॥ ६ ॥

Text 7

तं नि:सरन्तं सलिलादनुद्रुतो
हिरण्यकेशो द्विरदं यथा झष: ।
करालदंष्ट्रोऽशनिनिस्वनोऽब्रवीद्
गतह्रियां किं त्वसतां विगर्हितम् ॥ ७ ॥

Text 8

स गामुदस्तात्सलिलस्य गोचरे
विन्यस्य तस्यामदधात्स्वसत्त्वम् ।
अभिष्टुतो विश्वसृजा प्रसूनै-
रापूर्यमाणो विबुधै: पश्यतोऽरे: ॥ ८ ॥

Text 9

परानुषक्तं तपनीयोपकल्पं
महागदं काञ्चनचित्रदंशम् ।
मर्माण्यभीक्ष्णं प्रतुदन्तं दुरुक्तै:
प्रचण्डमन्यु: प्रहसंस्तं बभाषे ॥ ९ ॥

Text 10

श्रीभगवानुवाच
सत्यं वयं भो वनगोचरा मृगा
युष्मद्विधान्मृगये ग्रामसिंहान् ।
न मृत्युपाशै: प्रतिमुक्तस्य वीरा
विकत्थनं तव गृह्णन्त्यभद्र ॥ १० ॥

Text 11

एते वयं न्यासहरा रसौकसां
गतह्रियो गदया द्रावितास्ते ।
तिष्ठामहेऽथापि कथञ्चिदाजौ
स्थेयं क्‍व यामो बलिनोत्पाद्य वैरम् ॥ ११ ॥

Text 12

त्वं पद्रथानां किल यूथपाधिपो
घटस्व नोऽस्वस्तय आश्वनूह: ।
संस्थाप्य चास्मान् प्रमृजाश्रुस्वकानां
य: स्वां प्रतिज्ञां नातिपिपर्त्यसभ्य: ॥ १२ ॥

Text 13

मैत्रेय उवाचसोऽधिक्षिप्तो भगवता प्रलब्धश्च रुषा भृशम् ।
आजहारोल्बणं क्रोधं क्रीड्यमानोऽहिराडिव ॥ १३ ॥

Text 14

सृजन्नमर्षित: श्वासान्मन्युप्रचलितेन्द्रिय: ।
आसाद्य तरसा दैत्यो गदयान्यहनद्धरिम् ॥ १४ ॥

Text 15

भगवांस्तु गदावेगं विसृष्टं रिपुणोरसि ।
अवञ्चयत्तिरश्चीनो योगारूढ इवान्तकम् ॥ १५ ॥

Text 16

पुनर्गदां स्वामादाय भ्रामयन्तमभीक्ष्णश: ।
अभ्यधावद्धरि: क्रुद्ध: संरम्भाद्दष्टदच्छदम् ॥ १६ ॥

Text 17

ततश्च गदयारातिं दक्षिणस्यां भ्रुवि प्रभु: ।
आजघ्ने स तु तां सौम्य गदया कोविदोऽहनत् ॥ १७ ॥

Text 18

एवं गदाभ्यां गुर्वीभ्यां हर्यक्षो हरिरेव च ।
जिगीषया सुसंरब्धावन्योन्यमभिजघ्नतु: ॥ १८ ॥

Text 19

तयो: स्पृधोस्तिग्मगदाहताङ्गयो:
क्षतास्रवघ्राणविवृद्धमन्य्वो: ।
विचित्रमार्गांश्चरतोर्जिगीषया
व्यभादिलायामिव शुष्मिणोर्मृध: ॥ १९ ॥

Text 20

दैत्यस्य यज्ञावयवस्य माया-
गृहीतवाराहतनोर्महात्मन: ।
कौरव्य मह्यां द्विषतोर्विमर्दनं
दिद‍ृक्षुरागाद‍ृषिभिर्वृत: स्वराट् ॥ २० ॥

Text 21

आसन्नशौण्डीरमपेतसाध्वसं
कृतप्रतीकारमहार्यविक्रमम् ।
विलक्ष्य दैत्यं भगवान् सहस्रणी-
र्जगाद नारायणमादिसूकरम् ॥ २१ ॥

Texts 22-23

ब्रह्मोवाच
एष ते देव देवानामङ्‌घ्रिमूलमुपेयुषाम् ।
विप्राणां सौरभेयीणां भूतानामप्यनागसाम् ॥ २२ ॥
आगस्कृद्भयकृद्दुष्कृदस्मद्राद्धवरोऽसुर: ।
अन्वेषन्नप्रतिरथो लोकानटति कण्टक: ॥ २३ ॥

Text 24

मैनं मायाविनं द‍ृप्तं निरङ्कुशमसत्तमम् ।
आक्रीड बालवद्देव यथाशीविषमुत्थितम् ॥ २४ ॥

Text 25

न यावदेष वर्धेत स्वां वेलां प्राप्य दारुण: ।
स्वां देव मायामास्थाय तावज्जह्यघमच्युत ॥ २५ ॥

Text 26

एषा घोरतमा सन्ध्या लोकच्छम्बट्करी प्रभो ।
उपसर्पति सर्वात्मन् सुराणां जयमावह ॥ २६ ॥

Text 27

अधुनैषोऽभिजिन्नाम योगो मौहूर्तिको ह्यगात् ।
शिवाय नस्त्वं सुहृदामाशु निस्तर दुस्तरम् ॥ २७ ॥

Text 28

दिष्टय‍ा त्वां विहितं मृत्युसमयमासादित: स्वयम् ।
विक्रम्यैनं मृधे हत्वा लोकानाधेहि शर्मणि ॥ २८ ॥

Stay Connected

16,985FansLike
12,500FollowersFollow
61,453SubscribersSubscribe