Srimad Bhagavatam | Canto 8 | Chapter 5 | Verses

0
3

The Demigods Appeal to the Lord for Protection

Text 1

श्रीशुक उवाच
राजन्नुदितमेतत् ते हरे: कर्माघनाशनम् ।
गजेन्द्रमोक्षणं पुण्यं रैवतं त्वन्तरं श‍ृणु ॥ १ ॥

Text 2

पञ्चमो रैवतो नाम मनुस्तामससोदर: ।
बलिविन्ध्यादयस्तस्य सुता हार्जुनपूर्वका: ॥ २ ॥

Text 3

विभुरिन्द्र: सुरगणा राजन्भूतरयादय: ।
हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजा: ॥ ३ ॥

Text 4

पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठै: सुरसत्तमै: ।
तयो: स्वकलया जज्ञे वैकुण्ठो भगवान्स्वयम् ॥ ४ ॥

Text 5

वैकुण्ठ: कल्पितो येन लोको लोकनमस्कृत: ।
रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया ॥ ५ ॥

Text 6

तस्यानुभाव: कथितो गुणाश्च परमोदया: ।
भौमान्‍रेणून्स विममे यो विष्णोर्वर्णयेद् गुणान् ॥ ६ ॥

Text 7

षष्ठश्च चक्षुष: पुत्रश्चाक्षुषो नाम वै मनु: ।
पूरुपूरुषसुद्युम्नप्रमुखाश्चाक्षुषात्मजा: ॥ ७ ॥

Text 8

इन्द्रो मन्त्रद्रुमस्तत्र देवा आप्यादयो गणा: ।
मुनयस्तत्र वै राजन्हविष्मद्वीरकादय: ॥ ८ ॥

Text 9

तत्रापि देवसम्भूत्यां वैराजस्याभवत् सुत: ।
अजितो नाम भगवानंशेन जगत: पति: ॥ ९ ॥

Text 10

पयोधिं येन निर्मथ्य सुराणां साधिता सुधा ।
भ्रममाणोऽम्भसि धृत: कूर्मरूपेण मन्दर: ॥ १० ॥

Texts 11-12

श्रीराजोवाच
यथा भगवता ब्रह्मन्मथित: क्षीरसागर: ।
यदर्थं वा यतश्चाद्रिं दधाराम्बुचरात्मना ॥ ११ ॥
यथामृतं सुरै: प्राप्तं किं चान्यदभवत् तत: ।
एतद् भगवत: कर्म वदस्व परमाद्भ‍ुतम् ॥ १२ ॥

Text 13

त्वया सङ्कथ्यमानेन महिम्ना सात्वतां पते: ।
नातितृप्यति मे चित्तं सुचिरं तापतापितम् ॥ १३ ॥

Text 14

श्रीसूत उवाच
सम्पृष्टो भगवानेवं द्वैपायनसुतो द्विजा: ।
अभिनन्द्य हरेर्वीर्यमभ्याचष्टुं प्रचक्रमे ॥ १४ ॥

Texts 15-16

श्रीशुक उवाच
यदा युद्धेऽसुरैर्देवा बध्यमाना: शितायुधै: ।
गतासवो निपतिता नोत्तिष्ठेरन्स्म भूरिश: ॥ १५ ॥
यदा दुर्वास: शापेन सेन्द्रा लोकास्त्रयो नृप ।
नि:श्रीकाश्चाभवंस्तत्र नेशुरिज्यादय: क्रिया: ॥ १६ ॥

Texts 17-18

निशाम्यैतत् सुरगणा महेन्द्रवरुणादय: ।
नाध्यगच्छन्स्वयं मन्त्रैर्मन्त्रयन्तो विनिश्चितम् ॥ १७ ॥
ततो ब्रह्मसभां जग्मुर्मेरोर्मूर्धनि सर्वश: ।
सर्वं विज्ञापयां चक्रु: प्रणता: परमेष्ठिने ॥ १८ ॥

Texts 19-20

स विलोक्येन्द्रवाय्वादीन् नि:सत्त्वान्विगतप्रभान् ।
लोकानमङ्गलप्रायानसुरानयथा विभु: ॥ १९ ॥
समाहितेन मनसा संस्मरन्पुरुषं परम् ।
उवाचोत्फुल्ल‍वदनो देवान्स भगवान्पर: ॥ २० ॥

Text 21

अहं भवो यूयमथोऽसुरादयो
मनुष्यतिर्यग्द्रुमघर्मजातय: ।
यस्यावतारांशकलाविसर्जिता
व्रजाम सर्वे शरणं तमव्ययम् ॥ २१ ॥

Text 22

न यस्य वध्यो न च रक्षणीयो
नोपेक्षणीयादरणीयपक्ष: ।
तथापि सर्गस्थितिसंयमार्थं
धत्ते रज:सत्त्वतमांसि काले ॥ २२ ॥

Text 23

अयं च तस्य स्थितिपालनक्षण:
सत्त्वं जुषाणस्य भवाय देहिनाम् ।
तस्माद् व्रजाम: शरणं जगद्गुरुं
स्वानां स नो धास्यति शं सुरप्रिय: ॥ २३ ॥

Text 24

श्रीशुक उवाच
इत्याभाष्य सुरान्वेधा: सह देवैररिन्दम ।
अजितस्य पदं साक्षाज्जगाम तमस: परम् ॥ २४ ॥

Text 25

तत्राद‍ृष्टस्वरूपाय श्रुतपूर्वाय वै प्रभु: ।
स्तुतिमब्रूत दैवीभिर्गीर्भिस्त्ववहितेन्द्रिय: ॥ २५ ॥

Text 26

श्रीब्रह्मोवाच
अविक्रियं सत्यमनन्तमाद्यं
गुहाशयं निष्कलमप्रतर्क्यम् ।
मनोऽग्रयानं वचसानिरुक्तं
नमामहे देववरं वरेण्यम् ॥ २६ ॥

Text 27

विपश्चितं प्राणमनोधियात्मना-
मर्थेन्द्रियाभासमनिद्रमव्रणम् ।
छायातपौ यत्र न गृध्रपक्षौ
तमक्षरं खं त्रियुगं व्रजामहे ॥ २७ ॥

Text 28

अजस्य चक्रं त्वजयेर्यमाणं
मनोमयं पञ्चदशारमाशु ।
त्रिनाभि विद्युच्चलमष्टनेमि
यदक्षमाहुस्तमृतं प्रपद्ये ॥ २८ ॥

Text 29

य एकवर्णं तमस: परं त-
दलोकमव्यक्तमनन्तपारम् ।
आसांचकारोपसुपर्णमेन-
मुपासते योगरथेन धीरा: ॥ २९ ॥

Text 30

न यस्य कश्चातितितर्ति मायां
यया जनो मुह्यति वेद नार्थम् ।
तं निर्जितात्मात्मगुणं परेशं
नमाम भूतेषु समं चरन्तम् ॥ ३० ॥

Text 31

इमे वयं यत्प्रिययैव तन्वा
सत्त्वेन सृष्टा बहिरन्तरावि: ।
गतिं न सूक्ष्मामृषयश्च विद्महे
कुतोऽसुराद्या इतरप्रधाना: ॥ ३१ ॥

Text 32

पादौ महीयं स्वकृतैव यस्य
चतुर्विधो यत्र हि भूतसर्ग: ।
स वै महापूरुष आत्मतन्त्र:
प्रसीदतां ब्रह्म महाविभूति: ॥ ३२ ॥

Text 33

अम्भस्तु यद्रेत उदारवीर्यं
सिध्यन्ति जीवन्त्युत वर्धमाना: ।
लोकायतोऽथाखिललोकपाला:
प्रसीदतां न: स महाविभूति: ॥ ३३ ॥

Text 34

सोमं मनो यस्य समामनन्ति
दिवौकसां यो बलमन्ध आयु: ।
ईशो नगानां प्रजन: प्रजानां
प्रसीदतां न: स महाविभूति: ॥ ३४ ॥

Text 35

अग्निर्मुखं यस्य तु जातवेदा
जात: क्रियाकाण्डनिमित्तजन्मा ।
अन्त:समुद्रेऽनुपचन्स्वधातून्
प्रसीदतां न: स महाविभूति: ॥ ३५ ॥

Text 36

यच्चक्षुरासीत् तरणिर्देवयानं
त्रयीमयो ब्रह्मण एष धिष्ण्यम् ।
द्वारं च मुक्तेरमृतं च मृत्यु:
प्रसीदतां न: स महाविभूति: ॥ ३६ ॥

Text 37

प्राणादभूद् यस्य चराचराणां
प्राण: सहो बलमोजश्च वायु: ।
अन्वास्म सम्राजमिवानुगा वयं
प्रसीदतां न: स महाविभूति: ॥ ३७ ॥

Text 38

श्रोत्राद् दिशो यस्य हृदश्च खानि
प्रजज्ञिरे खं पुरुषस्य नाभ्या: ।
प्राणेन्द्रियात्मासुशरीरकेत:
प्रसीदतां न: स महाविभूति: ॥ ३८ ॥

Text 39

बलान्महेन्द्रस्त्रिदशा: प्रसादा-
न्मन्योर्गिरीशो धिषणाद् विरिञ्च: ।
खेम्यस्तुछन्दांस्यृषयो मेढ्रत: क:
प्रसीदतां न: स महाविभूति: ॥ ३९ ॥

Text 40

श्रीर्वक्षस: पितरश्छाययासन्
धर्म: स्तनादितर: पृष्ठतोऽभूत् ।
द्यौर्यस्य शीर्ष्णोऽप्सरसो विहारात्
प्रसीदतां न: स महाविभूति: ॥ ४० ॥

Text 41

विप्रो मुखाद् ब्रह्म च यस्य गुह्यं
राजन्य आसीद् भुजयोर्बलं च ।
ऊर्वोर्विडोजोऽङ्‍‍घ्रिरवेदशूद्रौ
प्रसीदतां न: स महाविभूति: ॥ ४१ ॥

Text 42

लोभोऽधरात् प्रीतिरुपर्यभूद् द्युति-
र्नस्त: पशव्य: स्पर्शेन काम: ।
भ्रुवोर्यम: पक्ष्मभवस्तु काल:
प्रसीदतां न: स महाविभूति: ॥ ४२ ॥

Text 43

द्रव्यं वय: कर्म गुणान्विशेषं
यद्योगमायाविहितान्वदन्ति ।
यद् दुर्विभाव्यं प्रबुधापबाधं
प्रसीदतां न: स महाविभूति: ॥ ४३ ॥

Text 44

नमोऽस्तु तस्मा उपशान्तशक्तये
स्वाराज्यलाभप्रतिपूरितात्मने ।
गुणेषु मायारचितेषु वृत्तिभि-
र्न सज्जमानाय नभस्वदूतये ॥ ४४ ॥

Text 45

स त्वं नो दर्शयात्मानमस्मत्करणगोचरम् ।
प्रपन्नानां दिद‍ृक्षूणां सस्मितं ते मुखाम्बुजम् ॥ ४५ ॥

Text 46

तैस्तै: स्वेच्छाभूतै रूपै: काले काले स्वयं विभो ।
कर्म दुर्विषहं यन्नो भगवांस्तत् करोति हि ॥ ४६ ॥

Text 47

क्लेशभूर्यल्पसाराणि कर्माणि विफलानि वा ।
देहिनां विषयार्तानां न तथैवार्पितं त्वयि ॥ ४७ ॥

Text 48

नावम: कर्मकल्पोऽपि विफलायेश्वरार्पित: ।
कल्पते पुरुषस्यैव स ह्यात्मा दयितो हित: ॥ ४८ ॥

Text 49

यथा हि स्कन्धशाखानां तरोर्मूलावसेचनम् ।
एवमाराधनं विष्णो: सर्वेषामात्मनश्च हि ॥ ४९ ॥

Text 50

नमस्तुभ्यमनन्ताय दुर्वितर्क्यात्मकर्मणे ।
निर्गुणाय गुणेशाय सत्त्वस्थाय च साम्प्रतम् ॥ ५० ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here