Srimad Bhagavatam | Canto 8 | Chapter 4 | Verses

0
1

Gajendra Returns to the Spiritual World

Text 1

श्रीशुक उवाच
तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमा: ।
मुमुचु: कुसुमासारं शंसन्त: कर्म तद्धरे: ॥ १ ॥

Text 2

नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगु: ।
ऋषयश्चारणा: सिद्धास्तुष्टुवु: पुरुषोत्तमम् ॥ २ ॥

Texts 3-4

योऽसौ ग्राह: स वै सद्य: परमाश्चर्यरूपधृक् ।
मुक्तो देवलशापेन हूहूर्गन्धर्वसत्तम: ॥ ३ ॥
प्रणम्य शिरसाधीशमुत्तमश्लोकमव्ययम् ।
अगायत यशोधाम कीर्तन्यगुणसत्कथम् ॥ ४ ॥

Text 5

सोऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम् ।
लोकस्य पश्यतो लोकं स्वमगान्मुक्तकिल्बिष: ॥ ५ ॥

Text 6

गजेन्द्रो भगवत्स्पर्शाद् विमुक्तोऽज्ञानबन्धनात् ।
प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुज: ॥ ६ ॥

Text 7

स वै पूर्वमभूद् राजा पाण्ड्यो द्रविडसत्तम: ।
इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायण: ॥ ७ ॥

Text 8

स एकदाराधनकाल आत्मवान्
गृहीतमौनव्रत ईश्वरं हरिम् ।
जटाधरस्तापस आप्लुतोऽच्युतं
समर्चयामास कुलाचलाश्रम: ॥ ८ ॥

Text 9

यद‍ृच्छया तत्र महायशा मुनि:
समागमच्छिष्यगणै: परिश्रित: ।
तं वीक्ष्य तूष्णीमकृतार्हणादिकं
रहस्युपासीनमृषिश्चुकोप ह ॥ ९ ॥

Text 10

तस्मा इमं शापमदादसाधु-
रयं दुरात्माकृतबुद्धिरद्य ।
विप्रावमन्ता विशतां तमिस्रं
यथा गज: स्तब्धमति: स एव ॥ १० ॥

Texts 11-12

श्रीशुक उवाच
एवं शप्‍त्वा गतोऽगस्त्यो भगवान् नृप सानुग: ।
इन्द्रद्युम्नोऽपि राजर्षिर्दिष्टं तदुपधारयन् ॥ ११ ॥
आपन्न: कौञ्जरीं योनिमात्मस्मृतिविनाशिनीम् ।
हर्यर्चनानुभावेन यद्गजत्वेऽप्यनुस्मृति: ॥ १२ ॥

Text 13

एवं विमोक्ष्य गजयूथपमब्जनाभ-
स्तेनापि पार्षदगतिं गमितेन युक्त: ।
गन्धर्वसिद्धविबुधैरुपगीयमान-
कर्माद्भ‍ुतं स्वभवनं गरुडासनोऽगात् ॥ १३ ॥

Text 14

एतन्महाराज तवेरितो मया
कृष्णानुभावो गजराजमोक्षणम् ।
स्वर्ग्यं यशस्यं कलिकल्मषापहं
दु:स्वप्ननाशं कुरुवर्य श‍ृण्वताम् ॥ १४ ॥

Text 15

यथानुकीर्तयन्त्येतच्छ्रेयस्कामा द्विजातय: ।
शुचय: प्रातरुत्थाय दु:स्वप्नाद्युपशान्तये ॥ १५ ॥

Text 16

इदमाह हरि: प्रीतो गजेन्द्रं कुरुसत्तम ।
श‍ृण्वतां सर्वभूतानां सर्वभूतमयो विभु: ॥ १६ ॥

Texts 17-24

श्रीभगवानुवाच
ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम् ।
वेत्रकीचकवेणूनां गुल्मानि सुरपादपान् ॥ १७ ॥
श‍ृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च ।
क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम् ॥ १८ ॥
श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम ।
सुदर्शनं पाञ्चजन्यं सुपर्णं पतगेश्वरम् ॥ १९ ॥
शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मदाश्रयाम् ।
ब्रह्माणं नारदमृषिं भवं प्रह्लादमेव च ॥ २० ॥
मत्स्यकूर्मवराहाद्यैरवतारै: कृतानि मे ।
कर्माण्यनन्तपुण्यानि सूर्यं सोमं हुताशनम् ॥ २१ ॥
प्रणवं सत्यमव्यक्तं गोविप्रान् धर्ममव्ययम् ।
दाक्षायणीर्धर्मपत्नी: सोमकश्यपयोरपि ॥ २२ ॥
गङ्गां सरस्वतीं नन्दां कालिन्दीं सितवारणम् ।
ध्रुवं ब्रह्मऋषीन्सप्त पुण्यश्लोकांश्च मानवान् ॥ २३ ॥
उत्थायापररात्रान्ते प्रयता: सुसमाहिता: ।
स्मरन्ति मम रूपाणि मुच्यन्ते तेꣷहसोऽखिलात् ॥ २४ ॥

Text 25

ये मां स्तुवन्त्यनेनाङ्ग प्रतिबुध्य निशात्यये ।
तेषां प्राणात्यये चाहं ददामि विपुलां गतिम् ॥ २५ ॥

Text 26

श्रीशुक उवाच
इत्यादिश्य हृषीकेश: प्राध्माय जलजोत्तमम् ।
हर्षयन्विबुधानीकमारुरोह खगाधिपम् ॥ २६ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here