Srimad Bhagavatam | Canto 8 | Chapter 24 | Verses

0
1

Matsya, the Lord’s Fish Incarnation

Text 1

श्रीराजोवाच
भगवञ्छ्रोतुमिच्छामि हरेरद्भ‍ुतकर्मण: ।
अवतारकथामाद्यां मायामत्स्यविडम्बनम् ॥ १ ॥

Texts 2-3

यदर्थमदधाद् रूपं मात्स्यं लोकजुगुप्सितम् ।
तम:प्रकृति दुर्मर्षं कर्मग्रस्त इवेश्वर: ॥ २ ॥
एतन्नो भगवन् सर्वं यथावद् वक्तुमर्हसि ।
उत्तमश्लोकचरितं सर्वलोकसुखावहम् ॥ ३ ॥

Text 4

श्रीसूत उवाच
इत्युक्तो विष्णुरातेन भगवान् बादरायणि: ।
उवाच चरितं विष्णोर्मत्स्यरूपेण यत् कृतम् ॥ ४ ॥

Text 5

श्रीशुक उवाच
गोविप्रसुरसाधूनां छन्दसामपि चेश्वर: ।
रक्षामिच्छंस्तनूर्धत्ते धर्मस्यार्थस्य चैव हि ॥ ५ ॥

Text 6

उच्चावचेषु भूतेषु चरन् वायुरिवेश्वर: ।
नोच्चावचत्वं भजते निर्गुणत्वाद्धियो गुणै: ॥ ६ ॥

Text 7

आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लय: ।
समुद्रोपप्लुतास्तत्र लोका भूरादयो नृप ॥ ७ ॥

Text 8

कालेनागतनिद्रस्य धातु: शिशयिषोर्बली ।
मुखतो नि:सृतान् वेदान् हयग्रीवोऽन्तिकेऽहरत् ॥ ८ ॥

Text 9

ज्ञात्वा तद् दानवेन्द्रस्य हयग्रीवस्य चेष्टितम् ।
दधार शफरीरूपं भगवान् हरिरीश्वर: ॥ ९ ॥

Text 10

तत्र राजऋषि: कश्चिन्नाम्ना सत्यव्रतो महान् ।
नारायणपरोऽतपत् तप: स सलिलाशन: ॥ १० ॥

Text 11

योऽसावस्मिन् महाकल्पे तनय: स विवस्वत: ।
श्राद्धदेव इति ख्यातो मनुत्वे हरिणार्पित: ॥ ११ ॥

Text 12

एकदा कृतमालायां कुर्वतो जलतर्पणम् ।
तस्याञ्जल्युदके काचिच्छफर्येकाभ्यपद्यत ॥ १२ ॥

Text 13

सत्यव्रतोऽञ्जलिगतां सह तोयेन भारत ।
उत्ससर्ज नदीतोये शफरीं द्रविडेश्वर: ॥ १३ ॥

Text 14

तमाह सातिकरुणं महाकारुणिकं नृपम् ।
यादोभ्यो ज्ञातिघातिभ्यो दीनां मां दीनवत्सल ।
कथं विसृजसे राजन् भीतामस्मिन् सरिज्जले ॥ १४ ॥

Text 15

तमात्मनोऽनुग्रहार्थं प्रीत्या मत्स्यवपुर्धरम् ।
अजानन् रक्षणार्थाय शफर्या: स मनो दधे ॥ १५ ॥

Text 16

तस्या दीनतरं वाक्यमाश्रुत्य स महीपति: ।
कलशाप्सु निधायैनां दयालुर्निन्य आश्रमम् ॥ १६ ॥

Text 17

सा तु तत्रैकरात्रेण वर्धमाना कमण्डलौ ।
अलब्ध्वात्मावकाशं वा इदमाह महीपतिम् ॥ १७ ॥

Text 18

नाहं कमण्डलावस्मिन् कृच्छ्रं वस्तुमिहोत्सहे ।
कल्पयौक: सुविपुलं यत्राहं निवसे सुखम् ॥ १८ ॥

Text 19

स एनां तत आदाय न्यधादौदञ्चनोदके ।
तत्र क्षिप्ता मुहूर्तेन हस्तत्रयमवर्धत ॥ १९ ॥

Text 20

न म एतदलं राजन् सुखं वस्तुमुदञ्चनम् ।
पृथु देहि पदं मह्यं यत् त्वाहं शरणं गता ॥ २० ॥

Text 21

तत आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे ।
तदावृत्यात्मना सोऽयं महामीनोऽन्ववर्धत ॥ २१ ॥

Text 22

नैतन्मे स्वस्तये राजन्नुदकं सलिलौकस: ।
निधेहि रक्षायोगेन ह्रदे मामविदासिनि ॥ २२ ॥

Text 23

इत्युक्त: सोऽनयन्मत्स्यं तत्र तत्राविदासिनि ।
जलाशयेऽसम्मितं तं समुद्रे प्राक्षिपज्झषम् ॥ २३ ॥

Text 24

क्षिप्यमाणस्तमाहेदमिह मां मकरादय: ।
अदन्त्यतिबला वीर मां नेहोत्स्रष्टुमर्हसि ॥ २४ ॥

Text 25

एवं विमोहितस्तेन वदता वल्गुभारतीम् ।
तमाह को भवानस्मान् मत्स्यरूपेण मोहयन् ॥ २५ ॥

Text 26

नैवंवीर्यो जलचरो द‍ृष्टोऽस्माभि: श्रुतोऽपि वा ।
यो भवान् योजनशतमह्नाभिव्यानशे सर: ॥ २६ ॥

Text 27

नूनं त्वं भगवान् साक्षाद्धरिर्नारायणोऽव्यय: ।
अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥ २७ ॥

Text 28

नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर ।
भक्तानां न: प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥ २८ ॥

Text 29

सर्वे लीलावतारास्ते भूतानां भूतिहेतव: ।
ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥ २९ ॥

Text 30

न तेऽरविन्दाक्ष पदोपसर्पणं
मृषा भवेत् सर्वसुहृत्प्रियात्मन: ।
यथेतरेषां पृथगात्मनां सता-
मदीद‍ृशो यद् वपुरद्भ‍ुतं हि न: ॥ ३० ॥

Text 31

श्रीशुक उवाच
इति ब्रुवाणं नृपतिं जगत्पति:
सत्यव्रतं मत्स्यवपुर्युगक्षये ।
विहर्तुकाम: प्रलयार्णवेऽब्रवी-
च्चिकीर्षुरेकान्तजनप्रिय: प्रियम् ॥ ३१ ॥

Text 32

श्रीभगवानुवाच
सप्तमे ह्यद्यतनादूर्ध्वमहन्येतदरिंदम ।
निमङ्‌क्ष्यत्यप्ययाम्भोधौ त्रैलोक्यं भूर्भुवादिकम् ॥ ३२ ॥

Text 33

त्रिलोक्यां लीयमानायां संवर्ताम्भसि वै तदा ।
उपस्थास्यति नौ: काचिद् विशाला त्वां मयेरिता ॥ ३३ ॥

Texts 34-35

त्वं तावदोषधी: सर्वा बीजान्युच्चावचानि च ।
सप्तर्षिभि: परिवृत: सर्वसत्त्वोपबृंहित: ॥ ३४ ॥
आरुह्य बृहतीं नावं विचरिष्यस्यविक्लव: ।
एकार्णवे निरालोके ऋषीणामेव वर्चसा ॥ ३५ ॥

Text 36

दोधूयमानां तां नावं समीरेण बलीयसा ।
उपस्थितस्य मे श‍ृङ्गे निबध्नीहि महाहिना ॥ ३६ ॥

Text 37

अहं त्वामृषिभि: सार्धं सहनावमुदन्वति ।
विकर्षन् विचरिष्यामि यावद् ब्राह्मी निशा प्रभो ॥ ३७ ॥

Text 38

मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।
वेत्स्यस्यनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि ॥ ३८ ॥

Text 39

इत्थमादिश्य राजानं हरिरन्तरधीयत ।
सोऽन्ववैक्षत तं कालं यं हृषीकेश आदिशत् ॥ ३९ ॥

Text 40

आस्तीर्य दर्भान् प्राक्कूलान् राजर्षि: प्रागुदङ्‌मुख: ।
निषसाद हरे: पादौ चिन्तयन् मत्स्यरूपिण: ॥ ४० ॥

Text 41

तत: समुद्र उद्वेल: सर्वत: प्लावयन् महीम् ।
वर्धमानो महामेघैर्वर्षद्भ‍ि: समद‍ृश्यत ॥ ४१ ॥

Text 42

ध्यायन् भगवदादेशं दद‍ृशे नावमागताम् ।
तामारुरोह विप्रेन्द्रैरादायौषधिवीरुध: ॥ ४२ ॥

Text 43

तमूचुर्मुनय: प्रीता राजन् ध्यायस्व केशवम् ।
स वै न: सङ्कटादस्मादविता शं विधास्यति ॥ ४३ ॥

Text 44

सोऽनुध्यातस्ततो राज्ञा प्रादुरासीन्महार्णवे ।
एकश‍ृङ्गधरो मत्स्यो हैमो नियुतयोजन: ॥ ४४ ॥

Text 45

निबध्य नावं तच्छृङ्गे यथोक्तो हरिणा पुरा ।
वरत्रेणाहिना तुष्टस्तुष्टाव मधुसूदनम् ॥ ४५ ॥

Text 46

श्रीराजोवाच
अनाद्यविद्योपहतात्मसंविद-
स्तन्मूलसंसारपरिश्रमातुरा: ।
यद‍ृच्छयोपसृता यमाप्नुयु-
र्विमुक्तिदो न: परमो गुरुर्भवान् ॥ ४६ ॥

Text 47

जनोऽबुधोऽयं निजकर्मबन्धन:
सुखेच्छया कर्म समीहतेऽसुखम् ।
यत्सेवया तां विधुनोत्यसन्मतिं
ग्रन्थिं स भिन्द्याद् धृदयं स नो गुरु: ॥ ४७ ॥

Text 48

यत्सेवयाग्नेरिव रुद्ररोदनं
पुमान् विजह्यान्मलमात्मनस्तम: ।
भजेत वर्णं निजमेष सोऽव्ययो
भूयात् स ईश: परमो गुरोर्गुरु: ॥ ४८ ॥

Text 49

न यत्प्रसादायुतभागलेश-
मन्ये च देवा गुरवो जना: स्वयम् ।
कर्तुं समेता: प्रभवन्ति पुंस-
स्तमीश्वरं त्वां शरणं प्रपद्ये ॥ ४९ ॥

Text 50

अचक्षुरन्धस्य यथाग्रणी: कृत-
स्तथा जनस्याविदुषोऽबुधो गुरु: ।
त्वमर्कद‍ृक् सर्वद‍ृशां समीक्षणो
वृतो गुरुर्न: स्वगतिं बुभुत्सताम् ॥ ५० ॥

Text 51

जनो जनस्यादिशतेऽसतीं गतिं
यया प्रपद्येत दुरत्ययं तम: ।
त्वं त्वव्ययं ज्ञानममोघमञ्जसा
प्रपद्यते येन जनो निजं पदम् ॥ ५१ ॥

Text 52

त्वं सर्वलोकस्य सुहृत् प्रियेश्वरो
ह्यात्मा गुरुर्ज्ञानमभीष्टसिद्धि: ।
तथापि लोको न भवन्तमन्धधी-
र्जानाति सन्तं हृदि बद्धकाम: ॥ ५२ ॥

Text 53

त्वं त्वामहं देववरं वरेण्यं
प्रपद्य ईशं प्रतिबोधनाय ।
छिन्ध्यर्थदीपैर्भगवन् वचोभि-
र्ग्रन्थीन् हृदय्यान् विवृणु स्वमोक: ॥ ५३ ॥

Text 54

श्रीशुक उवाच
इत्युक्तवन्तं नृपतिं भगवानादिपूरुष: ।
मत्स्यरूपी महाम्भोधौ विहरंस्तत्त्वमब्रवीत् ॥ ५४ ॥

Text 55

पुराणसंहितां दिव्यां साङ्ख्ययोगक्रियावतीम् ।
सत्यव्रतस्य राजर्षेरात्मगुह्यमशेषत: ॥ ५५ ॥

Text 56

अश्रौषीद‍ृषिभि: साकमात्मतत्त्वमसंशयम् ।
नाव्यासीनो भगवता प्रोक्तं ब्रह्म सनातनम् ॥ ५६ ॥

Text 57

अतीतप्रलयापाय उत्थिताय स वेधसे ।
हत्वासुरं हयग्रीवं वेदान् प्रत्याहरद्धरि: ॥ ५७ ॥

Text 58

स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुत: ।
विष्णो: प्रसादात् कल्पेऽस्मिन्नासीद् वैवस्वतो मनु: ॥ ५८ ॥

Text 59

सत्यव्रतस्य राजर्षेर्मायामत्स्यस्य शार्ङ्गिण: ।
संवादं महदाख्यानं श्रुत्वा मुच्येत किल्बिषात् ॥ ५९ ॥

Text 60

अवतारं हरेर्योऽयं कीर्तयेदन्वहं नर: ।
सङ्कल्पास्तस्य सिध्यन्ति स याति परमां गतिम् ॥ ६० ॥

Text 61

प्रलयपयसि धातु: सुप्तशक्तेर्मुखेभ्य:
श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा ।
दितिजमकथयद् यो ब्रह्म सत्यव्रतानां
तमहमखिलहेतुं जिह्ममीनं नतोऽस्मि ॥ ६१ ॥
स वै मन: कृष्णपदारविन्दयो-
र्वचांसि वैकुण्ठगुणानुवर्णने ।
करौ हरेर्मन्दिरमार्जनादिषु
श्रुतिं चकाराच्युतसत्कथोदये ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here