The Elephant Gajendra’s Crisis
Text 1
श्रीशुक उवाच
आसीद् गिरिवरो राजंस्त्रिकूट इति विश्रुत: ।
क्षीरोदेनावृत: श्रीमान्योजनायुतमुच्छ्रित: ॥ १ ॥
Texts 2-3
तावता विस्तृत: पर्यक्त्रिभि: शृङ्गै: पयोनिधिम् ।
दिश: खं रोचयन्नास्ते रौप्यायसहिरण्मयै: ॥ २ ॥
अन्यैश्च ककुभ: सर्वा रत्नधातुविचित्रितै: ।
नानाद्रुमलतागुल्मैर्निर्घोषैर्निर्झराम्भसाम् ॥ ३ ॥
Text 4
स चावनिज्यमानाङ्घ्रि: समन्तात् पयऊर्मिभि: ।
करोति श्यामलां भूमिं हरिन्मरकताश्मभि: ॥ ४ ॥
Text 5
सिद्धचारणगन्धर्वैर्विद्याधरमहोरगै: ।
किन्नरैरप्सरोभिश्च क्रीडद्भिर्जुष्टकन्दर: ॥ ५ ॥
Text 6
यत्र सङ्गीतसन्नादैर्नदद्गुहममर्षया ।
अभिगर्जन्ति हरय: श्लाघिन: परशङ्कया ॥ ६ ॥
Text 7
नानारण्यपशुव्रातसङ्कुलद्रोण्यलङ्कृत: ।
चित्रद्रुमसुरोद्यानकलकण्ठविहङ्गम: ॥ ७ ॥
Text 8
सरित्सरोभिरच्छोदै: पुलिनैर्मणिवालुकै: ।
देवस्त्रीमज्जनामोदसौरभाम्ब्वनिलैर्युत: ॥ ८ ॥
Texts 9-13
तस्य द्रोण्यां भगवतो वरुणस्य महात्मन: ।
उद्यानमृतुमन्नाम आक्रीडं सुरयोषिताम् ॥ ९ ॥
सर्वतोऽलङ्कृतं दिव्यैर्नित्यपुष्पफलद्रुमै: ।
मन्दारै: पारिजातैश्च पाटलाशोकचम्पकै: ॥ १० ॥
चूतै: पियालै: पनसैराम्रैराम्रातकैरपि ।
क्रमुकैर्नारिकेलैश्च खर्जूरैर्बीजपूरकै: ॥ ११ ॥
मधुकै: शालतालैश्च तमालैरसनार्जुनै: ।
अरिष्टोडुम्बरप्लक्षैर्वटै: किंशुकचन्दनै: ॥ १२ ॥
पिचुमर्दै: कोविदारै: सरलै: सुरदारुभि: ।
द्राक्षेक्षुरम्भाजम्बुभिर्बदर्यक्षाभयामलै: ॥ १३ ॥
Texts 14-19
८.२.१४-१९
बिल्वै: कपित्थैर्जम्बीरैर्वृतो भल्लातकादिभि: ।
तस्मिन्सर: सुविपुलं लसत्काञ्चनपङ्कजम् ॥ १४ ॥
कुमुदोत्पलकह्लारशतपत्रश्रियोर्जितम् ।
मत्तषट्पदनिर्घुष्टं शकुन्तैश्च कलस्वनै: ॥ १५ ॥
हंसकारण्डवाकीर्णं चक्राह्वै: सारसैरपि ।
जलकुक्कुटकोयष्टिदात्यूहकुलकूजितम् ॥ १६ ॥
मत्स्यकच्छपसञ्चारचलत्पद्मरज:पय: ।
कदम्बवेतसनलनीपवञ्जुलकैर्वृतम् ॥ १७ ॥
कुन्दै: कुरुबकाशोकै: शिरीषै: कूटजेङ्गुदै: ।
कुब्जकै: स्वर्णयूथीभिर्नागपुन्नागजातिभि: ॥ १८ ॥
मल्लिकाशतपत्रैश्च माधवीजालकादिभि: ।
शोभितं तीरजैश्चान्यैर्नित्यर्तुभिरलं द्रुमै: ॥ १९ ॥
Text 20
तत्रैकदा तद्गिरिकाननाश्रय:
करेणुभिर्वारणयूथपश्चरन् ।
सकण्टकं कीचकवेणुवेत्रवद्
विशालगुल्मं प्ररुजन्वनस्पतीन् ॥ २० ॥
Text 21
यद्गन्धमात्राद्धरयो गजेन्द्रा
व्याघ्रादयो व्यालमृगा: सखड्गा: ।
महोरगाश्चापि भयाद्द्रवन्ति
सगौरकृष्णा: सरभाश्चमर्य: ॥ २१ ॥
Text 22
गोपुच्छशालावृकमर्कटाश्च ।
अन्यत्र क्षुद्रा हरिणा: शशादय-
श्चरन्त्यभीता यदनुग्रहेण ॥ २२ ॥
Texts 23-24
स घर्मतप्त: करिभि: करेणुभि-
र्वृतो मदच्युत्करभैरनुद्रुत: ।
गिरिं गरिम्णा परित: प्रकम्पयन्
निषेव्यमाणोऽलिकुलैर्मदाशनै: ॥ २३ ॥
सरोऽनिलं पङ्कजरेणुरूषितं
जिघ्रन्विदूरान्मदविह्वलेक्षण: ।
वृत: स्वयूथेन तृषार्दितेन तत्
सरोवराभ्यासमथागमद्द्रुतम् ॥ २४ ॥
Text 25
विगाह्य तस्मिन्नमृताम्बु निर्मलं
हेमारविन्दोत्पलरेणुरूषितम् ।
पपौ निकामं निजपुष्करोद्धृत-
मात्मानमद्भि: स्नपयन्गतक्लम: ॥ २५ ॥
Text 26
स पुष्करेणोद्धृतशीकराम्बुभि-
र्निपाययन्संस्नपयन्यथा गृही ।
घृणी करेणु: करभांश्च दुर्मदो
नाचष्ट कृच्छ्रं कृपणोऽजमायया ॥ २६ ॥
Text 27
तं तत्र कश्चिन्नृप दैवचोदितो
ग्राहो बलीयांश्चरणे रुषाग्रहीत् ।
यदृच्छयैवं व्यसनं गतो गजो
यथाबलं सोऽतिबलो विचक्रमे ॥ २७ ॥
Text 28
तथातुरं यूथपतिं करेणवो
विकृष्यमाणं तरसा बलीयसा ।
विचुक्रुशुर्दीनधियोऽपरे गजा:
पार्ष्णिग्रहास्तारयितुं न चाशकन् ॥ २८ ॥
Text 29
नियुध्यतोरेवमिभेन्द्रनक्रयो-
र्विकर्षतोरन्तरतो बहिर्मिथ: ।
समा: सहस्रं व्यगमन् महीपते
सप्राणयोश्चित्रममंसतामरा: ॥ २९ ॥
Text 30
ततो गजेन्द्रस्य मनोबलौजसां
कालेन दीर्घेण महानभूद् व्यय: ।
विकृष्यमाणस्य जलेऽवसीदतो
विपर्ययोऽभूत् सकलं जलौकस: ॥ ३० ॥
Text 31
इत्थं गजेन्द्र: स यदाप सङ्कटं
प्राणस्य देही विवशो यदृच्छया ।
अपारयन्नात्मविमोक्षणे चिरं
दध्याविमां बुद्धिमथाभ्यपद्यत ॥ ३१ ॥
Text 32
न मामिमे ज्ञातय आतुरं गजा:
कुत: करिण्य: प्रभवन्ति मोचितुम् ।
ग्राहेण पाशेन विधातुरावृतो-
ऽप्यहं च तं यामि परं परायणम् ॥ ३२ ॥
Text 33
य: कश्चनेशो बलिनोऽन्तकोरगात्
प्रचण्डवेगादभिधावतो भृशम् ।
भीतं प्रपन्नं परिपाति यद्भया-
न्मृत्यु: प्रधावत्यरणं तमीमहि ॥ ३३ ॥






