Srimad Bhagavatam | Canto 8 | Chapter 1 | Verses

0
2

The Manus, Administrators of the Universe

Text 1

श्रीराजोवाच
स्वायम्भुवस्येह गुरो वंशोऽयं विस्तराच्छ्रुत: ।
यत्र विश्वसृजां सर्गो मनूनन्यान्वदस्व न: ॥ १ ॥

Text 2

मन्वन्तरे हरेर्जन्म कर्माणि च महीयस: ।
गृणन्ति कवयो ब्रह्मंस्तानि नो वद श‍ृण्वताम् ॥ २ ॥

Text 3

यद्यस्मिन्नन्तरे ब्रह्मन्भगवान्विश्वभावन: ।
कृतवान्कुरुते कर्ता ह्यतीतेऽनागतेऽद्य वा ॥ ३ ॥

Text 4

श्रीऋषिरुवाच
मनवोऽस्मिन्व्यतीता: षट् कल्पे स्वायम्भुवादय: ।
आद्यस्ते कथितो यत्र देवादीनां च सम्भव: ॥ ४ ॥

Text 5

आकूत्यां देवहूत्यां च दुहित्रोस्तस्य वै मनो: ।
धर्मज्ञानोपदेशार्थं भगवान्पुत्रतां गत: ॥ ५ ॥

Text 6

कृतं पुरा भगवत: कपिलस्यानुवर्णितम् ।
आख्यास्ये भगवान्यज्ञो यच्चकार कुरूद्वह ॥ ६ ॥

Text 7

विरक्त: कामभोगेषु शतरूपापति: प्रभु: ।
विसृज्य राज्यं तपसे सभार्यो वनमाविशत् ॥ ७ ॥

Text 8

सुनन्दायां वर्षशतं पदैकेन भुवं स्पृशन् ।
तप्यमानस्तपो घोरमिदमन्वाह भारत ॥ ८ ॥

Text 9

मनुरुवाच
येन चेतयते विश्वं विश्वं चेतयते न यम् ।
यो जागर्ति शयानेऽस्मिन्नायं तं वेद वेद स: ॥ ९ ॥

Text 10

आत्मावास्यमिदं विश्वं यत् किञ्चिज्ज‍गत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृध: कस्यस्विद्धनम् ॥ १० ॥

Text 11

यं पश्यति न पश्यन्तं चक्षुर्यस्य न रिष्यति ।
तं भूतनिलयं देवं सुपर्णमुपधावत ॥ ११ ॥

Text 12

न यस्याद्यन्तौ मध्यं च स्व: परो नान्तरं बहि: ।
विश्वस्यामूनि यद् यस्माद् विश्वं च तद‍ृतं महत् ॥ १२ ॥

Text 13

स विश्वकाय: पुरुहूत ईश:
सत्य: स्वयंज्योतिरज: पुराण: ।
धत्तेऽस्य जन्माद्यजयात्मशक्त्या
तां विद्ययोदस्य निरीह आस्ते ॥ १३ ॥

Text 14

अथाग्रे ऋषय: कर्माणीहन्तेऽकर्महेतवे ।
ईहमानो हि पुरुष: प्रायोऽनीहां प्रपद्यते ॥ १४ ॥

Text 15

ईहते भगवानीशो न हि तत्र विसज्जते ।
आत्मलाभेन पूर्णार्थो नावसीदन्ति येऽनु तम् ॥ १५ ॥

Text 16

तमीहमानं निरहङ्‌कृतं बुधं
निराशिषं पूर्णमनन्यचोदितम् ।
नृञ् शिक्षयन्तं निजवर्त्मसंस्थितं
प्रभुं प्रपद्येऽखिलधर्मभावनम् ॥ १६ ॥

Text 17

श्रीशुक उवाच
इति मन्त्रोपनिषदं व्याहरन्तं समाहितम् ।
द‍ृष्ट्वासुरा यातुधाना जग्धुमभ्यद्रवन् क्षुधा ॥ १७ ॥

Text 18

तांस्तथावसितान् वीक्ष्य यज्ञ: सर्वगतो हरि: ।
यामै: परिवृतो देवैर्हत्वाशासत् त्रिविष्टपम् ॥ १८ ॥

Text 19

स्वारोचिषो द्वितीयस्तु मनुरग्ने: सुतोऽभवत् ।
द्युमत्सुषेणरोचिष्मत्प्रमुखास्तस्य चात्मजा: ॥ १९ ॥

Text 20

तत्रेन्द्रो रोचनस्त्वासीद् देवाश्च तुषितादय: ।
ऊर्जस्तम्भादय: सप्त ऋषयो ब्रह्मवादिन: ॥ २० ॥

Text 21

ऋषेस्तु वेदशिरसस्तुषिता नाम पत्‍न्यभूत् ।
तस्यां जज्ञे ततो देवो विभुरित्यभिविश्रुत: ॥ २१ ॥

Text 22

अष्टाशीतिसहस्राणि मुनयो ये धृतव्रता: ।
अन्वशिक्षन्व्रतं तस्य कौमारब्रह्मचारिण: ॥ २२ ॥

Text 23

तृतीय उत्तमो नाम प्रियव्रतसुतो मनु: ।
पवन: सृञ्जयो यज्ञहोत्राद्यास्तत्सुता नृप ॥ २३ ॥

Text 24

वसिष्ठतनया: सप्त ऋषय: प्रमदादय: ।
सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् ॥ २४ ॥

Text 25

धर्मस्य सूनृतायां तु भगवान्पुरुषोत्तम: ।
सत्यसेन इति ख्यातो जात: सत्यव्रतै: सह ॥ २५ ॥

Text 26

सोऽनृतव्रतदु:शीलानसतो यक्षराक्षसान् ।
भूतद्रुहो भूतगणांश्चावधीत् सत्यजित्सख: ॥ २६ ॥

Text 27

चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तामस: ।
पृथु: ख्यातिर्नर: केतुरित्याद्या दश तत्सुता: ॥ २७ ॥

Text 28

सत्यका हरयो वीरा देवास्त्रिशिख ईश्वर: ।
ज्योतिर्धामादय: सप्त ऋषयस्तामसेऽन्तरे ॥ २८ ॥

Text 29

देवा वैधृतयो नाम विधृतेस्तनया नृप ।
नष्टा: कालेन यैर्वेदा विधृता: स्वेन तेजसा ॥ २९ ॥

Text 30

तत्रापि जज्ञे भगवान्हरिण्यां हरिमेधस: ।
हरिरित्याहृतो येन गजेन्द्रो मोचितो ग्रहात् ॥ ३० ॥

Text 31

श्रीराजोवाच
बादरायण एतत् ते श्रोतुमिच्छामहे वयम् ।
हरिर्यथा गजपतिं ग्राहग्रस्तममूमुचत् ॥ ३१ ॥

Text 32

तत्कथासु महत् पुण्यं धन्यं स्वस्त्ययनं शुभम् ।
यत्र यत्रोत्तमश्लोको भगवान्गीयते हरि: ॥ ३२ ॥

Text 33

श्रीसूत उवाच
परीक्षितैवं स तु बादरायणि:
प्रायोपविष्टेन कथासु चोदित: ।
उवाच विप्रा: प्रतिनन्द्य पार्थिवं
मुदा मुनीनां सदसि स्म श‍ृण्वताम् ॥ ३३ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here