Srimad Bhagavatam | Canto 8 | Chapter 17 | Verses

0
2

The Supreme Lord Agrees to Become Aditi’s Son

Text 1

श्रीशुक उवाच
इत्युक्ता सादिती राजन्स्वभर्त्रा कश्यपेन वै ।
अन्वतिष्ठद् व्रतमिदं द्वादशाहमतन्द्रिता ॥ १ ॥

Texts 2-3

चिन्तयन्त्येकया बुद्ध्या महापुरुषमीश्वरम् ।
प्रगृह्येन्द्रियदुष्टाश्वान्मनसा बुद्धिसारथि: ॥ २ ॥
मनश्चैकाग्रया बुद्ध्या भगवत्यखिलात्मनि ।
वासुदेवे समाधाय चचार ह पयोव्रतम् ॥ ३ ॥

Text 4

तस्या: प्रादुरभूत्तात भगवानादिपुरुष: ।
पीतवासाश्चतुर्बाहु: शङ्खचक्रगदाधर: ॥ ४ ॥

Text 5

तं नेत्रगोचरं वीक्ष्य सहसोत्थाय सादरम् ।
ननाम भुवि कायेन दण्डवत् प्रीतिविह्वला ॥ ५ ॥

Text 6

सोत्थाय बद्धाञ्जलिरीडितुं स्थिता
नोत्सेह आनन्दजलाकुलेक्षणा ।
बभूव तूष्णीं पुलकाकुलाकृति-
स्तद्दर्शनात्युत्सवगात्रवेपथु: ॥ ६ ॥

Text 7

प्रीत्या शनैर्गद्गदया गिरा हरिं
तुष्टाव सा देव्यदिति: कुरूद्वह ।
उद्वीक्षती सा पिबतीव चक्षुषा
रमापतिं यज्ञपतिं जगत्पतिम् ॥ ७ ॥

Text 8

श्रीअदितिरुवाच
यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद
तीर्थश्रव: श्रवणमङ्गलनामधेय ।
आपन्नलोकवृजिनोपशमोदयाद्य
शं न: कृधीश भगवन्नसि दीननाथ: ॥ ८ ॥

Text 9

विश्वाय विश्वभवनस्थितिसंयमाय
स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने ।
स्वस्थाय शश्वदुपबृंहितपूर्णबोध-
व्यापादितात्मतमसे हरये नमस्ते ॥ ९ ॥

Text 10

आयु: परं वपुरभीष्टमतुल्यलक्ष्मी-
र्द्योभूरसा: सकलयोगगुणास्त्रिवर्ग: ।
ज्ञानं च केवलमनन्त भवन्ति तुष्टात्
त्वत्तो नृणां किमु सपत्नजयादिराशी: ॥ १० ॥

Text 11

श्रीशुक उवाच
अदित्यैवं स्तुतो राजन्भगवान्पुष्करेक्षण: ।
क्षेत्रज्ञ: सर्वभूतानामिति होवाच भारत ॥ ११ ॥

Text 12

श्रीभगवानुवाच
देवमातर्भवत्या मे विज्ञातं चिरकाङ्‌क्षितम् ।
यत् सपत्नैर्हृतश्रीणां च्यावितानां स्वधामत: ॥ १२ ॥

Text 13

तान्विनिर्जित्य समरे दुर्मदानसुरर्षभान् ।
प्रतिलब्धजयश्रीभि: पुत्रैरिच्छस्युपासितुम् ॥ १३ ॥

Text 14

इन्द्रज्येष्ठै: स्वतनयैर्हतानां युधि विद्विषाम् ।
स्त्रियो रुदन्तीरासाद्य द्रष्टुमिच्छसि दु:खिता: ॥ १४ ॥

Text 15

आत्मजान्सुसमृद्धांस्त्वं प्रत्याहृतयश:श्रिय: ।
नाकपृष्ठमधिष्ठाय क्रीडतो द्रष्टुमिच्छसि ॥ १५ ॥

Text 16

प्रायोऽधुना तेऽसुरयूथनाथा
अपारणीया इति देवि मे मति: ।
यत्तेऽनुकूलेश्वरविप्रगुप्ता
न विक्रमस्तत्र सुखं ददाति ॥ १६ ॥

Text 17

अथाप्युपायो मम देवि चिन्त्य:
सन्तोषितस्य व्रतचर्यया ते ।
ममार्चनं नार्हति गन्तुमन्यथा
श्रद्धानुरूपं फलहेतुकत्वात् ॥ १७ ॥

Text 18

त्वयार्चितश्चाहमपत्यगुप्तये
पयोव्रतेनानुगुणं समीडित: ।
स्वांशेन पुत्रत्वमुपेत्य ते सुतान्
गोप्तास्मि मारीचतपस्यधिष्ठित: ॥ १८ ॥

Text 19

उपधाव पतिं भद्रे प्रजापतिमकल्मषम् ।
मां च भावयती पत्यावेवंरूपमवस्थितम् ॥ १९ ॥

Text 20

नैतत् परस्मा आख्येयं पृष्टयापि कथञ्चन ।
सर्वं सम्पद्यते देवि देवगुह्यं सुसंवृतम् ॥ २० ॥

Text 21

श्रीशुक उवाच
एतावदुक्त्वा भगवांस्तत्रैवान्तरधीयत ।
अदितिर्दुर्लभं लब्ध्वा हरेर्जन्मात्मनि प्रभो: ।
उपाधावत् पतिं भक्त्या परया कृतकृत्यवत् ॥ २१ ॥

Text 22

स वै समाधियोगेन कश्यपस्तदबुध्यत ।
प्रविष्टमात्मनि हरेरंशं ह्यवितथेक्षण: ॥ २२ ॥

Text 23

सोऽदित्यां वीर्यमाधत्त तपसा चिरसम्भृतम् ।
समाहितमना राजन्दारुण्यग्निं यथानिल: ॥ २३ ॥

Text 24

अदितेर्धिष्ठितं गर्भं भगवन्तं सनातनम् ।
हिरण्यगर्भो विज्ञाय समीडे गुह्यनामभि: ॥ २४ ॥

Text 25

श्रीब्रह्मोवाच
जयोरुगाय भगवन्नुरुक्रम नमोऽस्तु ते ।
नमो ब्रह्मण्यदेवाय त्रिगुणाय नमो नम: ॥ २५ ॥

Text 26

नमस्ते पृश्निगर्भाय वेदगर्भाय वेधसे ।
त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे ॥ २६ ॥

Text 27

त्वमादिरन्तो भुवनस्य मध्य-
मनन्तशक्तिं पुरुषं यमाहु: ।
कालो भवानाक्षिपतीश विश्वं
स्रोतो यथान्त:पतितं गभीरम् ॥ २७ ॥

Text 28

त्वं वै प्रजानां स्थिरजङ्गमानां
प्रजापतीनामसि सम्भविष्णु: ।
दिवौकसां देव दिवश्‍च्युतानां
परायणं नौरिव मज्जतोऽप्सु ॥ २८ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here