Executing the Payo-vrata Process of Worship
Text 1
श्रीशुक उवाच
एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा ।
हृते त्रिविष्टपे दैत्यै: पर्यतप्यदनाथवत् ॥ १ ॥
Text 2
एकदा कश्यपस्तस्या आश्रमं भगवानगात् ।
निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् ॥ २ ॥
Text 3
स पत्नीं दीनवदनां कृतासनपरिग्रह: ।
सभाजितो यथान्यायमिदमाह कुरूद्वह ॥ ३ ॥
Text 4
अप्यभद्रं न विप्राणां भद्रे लोकेऽधुनागतम् ।
न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिन: ॥ ४ ॥
Text 5
अपि वाकुशलं किञ्चिद् गृहेषु गृहमेधिनि ।
धर्मस्यार्थस्य कामस्य यत्र योगो ह्ययोगिनाम् ॥ ५ ॥
Text 6
अपि वातिथयोऽभ्येत्य कुटुम्बासक्तया त्वया ।
गृहादपूजिता याता: प्रत्युत्थानेन वा क्वचित् ॥ ६ ॥
Text 7
गृहेषु येष्वतिथयो नार्चिता: सलिलैरपि ।
यदि निर्यान्ति ते नूनं फेरुराजगृहोपमा: ॥ ७ ॥
Text 8
अप्यग्नयस्तु वेलायां न हुता हविषा सति ।
त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित् ॥ ८ ॥
Text 9
यत्पूजया कामदुघान्याति लोकान्गृहान्वित: ।
ब्राह्मणोऽग्निश्च वै विष्णो: सर्वदेवात्मनो मुखम् ॥ ९ ॥
Text 10
अपि सर्वे कुशलिनस्तव पुत्रा मनस्विनि ।
लक्षयेऽस्वस्थमात्मानं भवत्या लक्षणैरहम् ॥ १० ॥
Text 11
श्रीअदितिरुवाच
भद्रं द्विजगवां ब्रह्मन्धर्मस्यास्य जनस्य च ।
त्रिवर्गस्य परं क्षेत्रं गृहमेधिन्गृहा इमे ॥ ११ ॥
Text 12
अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सव: ।
सर्वं भगवतो ब्रह्मन्ननुध्यानान्न रिष्यति ॥ १२ ॥
Text 13
को नु मे भगवन्कामो न सम्पद्येत मानस: ।
यस्या भवान्प्रजाध्यक्ष एवं धर्मान्प्रभाषते ॥ १३ ॥
Text 14
तवैव मारीच मन:शरीरजा:
प्रजा इमा: सत्त्वरजस्तमोजुष: ।
समो भवांस्तास्वसुरादिषु प्रभो
तथापि भक्तं भजते महेश्वर: ॥ १४ ॥
Text 15
तस्मादीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत ।
हृतश्रियो हृतस्थानान्सपत्नै: पाहि न: प्रभो ॥ १५ ॥
Text 16
परैर्विवासिता साहं मग्ना व्यसनसागरे ।
ऐश्वर्यं श्रीर्यश: स्थानं हृतानि प्रबलैर्मम ॥ १६ ॥
Text 17
यथा तानि पुन: साधो प्रपद्येरन् ममात्मजा: ।
तथा विधेहि कल्याणं धिया कल्याणकृत्तम ॥ १७ ॥
Text 18
श्रीशुक उवाच
एवमभ्यर्थितोऽदित्या कस्तामाह स्मयन्निव ।
अहो मायाबलं विष्णो: स्नेहबद्धमिदं जगत् ॥ १८ ॥
Text 19
क्व देहो भौतिकोऽनात्मा क्व चात्मा प्रकृते: पर: ।
कस्य के पतिपुत्राद्या मोह एव हि कारणम् ॥ १९ ॥
Text 20
उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम् ।
सर्वभूतगुहावासं वासुदेवं जगद्गुरुम् ॥ २० ॥
Text 21
स विधास्यति ते कामान्हरिर्दीनानुकम्पन: ।
अमोघा भगवद्भक्तिर्नेतरेति मतिर्मम ॥ २१ ॥
Text 22
श्रीअदितिरुवाच
केनाहं विधिना ब्रह्मन्नुपस्थास्ये जगत्पतिम् ।
यथा मे सत्यसङ्कल्पो विदध्यात् स मनोरथम् ॥ २२ ॥
Text 23
आदिश त्वं द्विजश्रेष्ठ विधिं तदुपधावनम् ।
आशु तुष्यति मे देव: सीदन्त्या: सह पुत्रकै: ॥ २३ ॥
Text 24
श्रीकश्यप उवाच
एतन्मे भगवान्पृष्ट: प्रजाकामस्य पद्मज: ।
यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् ॥ २४ ॥
Text 25
फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम् ।
अर्चयेदरविन्दाक्षं भक्त्या परमयान्वित: ॥ २५ ॥
Text 26
सिनीवाल्यां मृदालिप्य स्नायात् क्रोडविदीर्णया ।
यदि लभ्येत वै स्रोतस्येतं मन्त्रमुदीरयेत् ॥ २६ ॥
Text 27
त्वं देव्यादिवराहेण रसाया: स्थानमिच्छता ।
उद्धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय ॥ २७ ॥
Text 28
निर्वर्तितात्मनियमो देवमर्चेत् समाहित: ।
अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरावपि ॥ २८ ॥
Text 29
नमस्तुभ्यं भगवते पुरुषाय महीयसे ।
सर्वभूतनिवासाय वासुदेवाय साक्षिणे ॥ २९ ॥
Text 30
नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च ।
चतुर्विंशद्गुणज्ञाय गुणसङ्ख्यानहेतवे ॥ ३० ॥
Text 31
नमो द्विशीर्ष्णे त्रिपदे चतु:शृङ्गाय तन्तवे ।
सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नम: ॥ ३१ ॥
Text 32
नम: शिवाय रुद्राय नम: शक्तिधराय च ।
सर्वविद्याधिपतये भूतानां पतये नम: ॥ ३२ ॥
Text 33
नमो हिरण्यगर्भाय प्राणाय जगदात्मने ।
योगैश्वर्यशरीराय नमस्ते योगहेतवे ॥ ३३ ॥
Text 34
नमस्त आदिदेवाय साक्षिभूताय ते नम: ।
नारायणाय ऋषये नराय हरये नम: ॥ ३४ ॥
Text 35
नमो मरकतश्यामवपुषेऽधिगतश्रिये ।
केशवाय नमस्तुभ्यं नमस्ते पीतवाससे ॥ ३५ ॥
Text 36
त्वं सर्ववरद: पुंसां वरेण्य वरदर्षभ ।
अतस्ते श्रेयसे धीरा: पादरेणुमुपासते ॥ ३६ ॥
Text 37
अन्ववर्तन्त यं देवा: श्रीश्च तत्पादपद्मयो: ।
स्पृहयन्त इवामोदं भगवान्मे प्रसीदताम् ॥ ३७ ॥
Text 38
एतैर्मन्त्रैर्हृषीकेशमावाहनपुरस्कृतम् ।
अर्चयेच्छ्रद्धया युक्त: पाद्योपस्पर्शनादिभि: ॥ ३८ ॥
Text 39
अर्चित्वा गन्धमाल्याद्यै: पयसा स्नपयेद् विभुम् ।
वस्त्रोपवीताभरणपाद्योपस्पर्शनैस्तत: ।
गन्धधूपादिभिश्चार्चेद्द्वादशाक्षरविद्यया ॥ ३९ ॥
Text 40
शृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति ।
ससर्पि: सगुडं दत्त्वा जुहुयान्मूलविद्यया ॥ ४० ॥
Text 41
निवेदितं तद्भक्ताय दद्याद्भुञ्जीत वा स्वयम् ।
दत्त्वाचमनमर्चित्वा ताम्बूलं च निवेदयेत् ॥ ४१ ॥
Text 42
जपेदष्टोत्तरशतं स्तुवीत स्तुतिभि: प्रभुम् ।
कृत्वा प्रदक्षिणं भूमौ प्रणमेद् दण्डवन्मुदा ॥ ४२ ॥
Text 43
कृत्वा शिरसि तच्छेषां देवमुद्वासयेत् तत: ।
द्वयवरान्भोजयेद् विप्रान्पायसेन यथोचितम् ॥ ४३ ॥
Texts 44-45
भुञ्जीत तैरनुज्ञात: सेष्ट: शेषं सभाजितै: ।
ब्रह्मचार्यथ तद्रात्र्यां श्वोभूते प्रथमेऽहनि ॥ ४४ ॥
स्नात: शुचिर्यथोक्तेन विधिना सुसमाहित: ।
पयसा स्नापयित्वार्चेद् यावद्व्रतसमापनम् ॥ ४५ ॥
Text 46
पयोभक्षो व्रतमिदं चरेद् विष्णवर्चनादृत: ।
पूर्ववज्जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् ॥ ४६ ॥
Text 47
एवं त्वहरह: कुर्याद्द्वादशाहं पयोव्रतम् ।
हरेराराधनं होममर्हणं द्विजतर्पणम् ॥ ४७ ॥
Text 48
प्रतिपद्दिनमारभ्य यावच्छुक्लत्रयोदशीम् ।
ब्रह्मचर्यमध:स्वप्नं स्नानं त्रिषवणं चरेत् ॥ ४८ ॥
Text 49
वर्जयेदसदालापं भोगानुच्चावचांस्तथा ।
अहिंस्र: सर्वभूतानां वासुदेवपरायण: ॥ ४९ ॥
Text 50
त्रयोदश्यामथो विष्णो: स्नपनं पञ्चकैर्विभो: ।
कारयेच्छास्त्रदृष्टेन विधिना विधिकोविदै: ॥ ५० ॥
Texts 51-52
पूजां च महतीं कुर्याद् वित्तशाठ्यविवर्जित: ।
चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे ॥ ५१ ॥
सूक्तेन तेन पुरुषं यजेत सुसमाहित: ।
नैवेद्यं चातिगुणवद् दद्यात्पुरुषतुष्टिदम् ॥ ५२ ॥
Text 53
आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभि: ।
तोषयेदृत्विजश्चैव तद्विद्ध्याराधनं हरे: ॥ ५३ ॥
Text 54
भोजयेत् तान्गुणवता सदन्नेन शुचिस्मिते ।
अन्यांश्च ब्राह्मणाञ्छक्त्या ये च तत्र समागता: ॥ ५४ ॥
Text 55
दक्षिणां गुरवे दद्यादृत्विग्भ्यश्च यथार्हत: ।
अन्नाद्येनाश्वपाकांश्च प्रीणयेत्समुपागतान् ॥ ५५ ॥
Text 56
भुक्तवत्सु च सर्वेषु दीनान्धकृपणादिषु ।
विष्णोस्तत्प्रीणनं विद्वान्भुञ्जीत सह बन्धुभि: ॥ ५६ ॥
Text 57
नृत्यवादित्रगीतैश्च स्तुतिभि: स्वस्तिवाचकै: ।
कारयेत्तत्कथाभिश्च पूजां भगवतोऽन्वहम् ॥ ५७ ॥
Text 58
एतत्पयोव्रतं नाम पुरुषाराधनं परम् ।
पितामहेनाभिहितं मया ते समुदाहृतम् ॥ ५८ ॥
Text 59
त्वं चानेन महाभागे सम्यक्चीर्णेन केशवम् ।
आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् ॥ ५९ ॥
Text 60
अयं वै सर्वयज्ञाख्य: सर्वव्रतमिति स्मृतम् ।
तप:सारमिदं भद्रे दानं चेश्वरतर्पणम् ॥ ६० ॥
Text 61
त एव नियमा: साक्षात्त एव च यमोत्तमा: ।
तपो दानं व्रतं यज्ञो येन तुष्यत्यधोक्षज: ॥ ६१ ॥
Text 62
तस्मादेतद्व्रतं भद्रे प्रयता श्रद्धयाचर ।
भगवान्परितुष्टस्ते वरानाशु विधास्यति ॥ ६२ ॥






