Srimad Bhagavatam | Canto 8 | Chapter 15 | Verses

0
5

Bali Mahārāja Conquers the Heavenly Planets

Texts 1-2

श्रीराजोवाच
बले: पदत्रयं भूमे: कस्माद्धरिरयाचत ।
भूतेश्वर: कृपणवल्ल‍ब्धार्थोऽपि बबन्ध तम् ॥ १ ॥
एतद् वेदितुमिच्छामो महत्कौतूहलं हि न: ।
याच्ञेश्वरस्य पूर्णस्य बन्धनं चाप्यनागस: ॥ २ ॥

Text 3

श्रीशुक उवाच
पराजितश्रीरसुभिश्च हापितो
हीन्द्रेण राजन्भृगुभि: स जीवित: ।
सर्वात्मना तानभजद् भृगून्बलि:
शिष्यो महात्मार्थनिवेदनेन ॥ ३ ॥

Text 4

तं ब्राह्मणा भृगव: प्रीयमाणा
अयाजयन्विश्वजिता त्रिणाकम् ।
जिगीषमाणं विधिनाभिषिच्य
महाभिषेकेण महानुभावा: ॥ ४ ॥

Text 5

ततो रथ: काञ्चनपट्टनद्धो
हयाश्च हर्यश्वतुरङ्गवर्णा: ।
ध्वजश्च सिंहेन विराजमानो
हुताशनादास हविर्भिरिष्टात् ॥ ५ ॥

Text 6

धनुश्च दिव्यं पुरटोपनद्धं
तूणावरिक्तौ कवचं च दिव्यम् ।
पितामहस्तस्य ददौ च माला-
मम्‍लानपुष्पां जलजं च शुक्र: ॥ ६ ॥

Text 7

एवं स विप्रार्जितयोधनार्थ-
स्तै: कल्पितस्वस्त्ययनोऽथ विप्रान् ।
प्रदक्षिणीकृत्य कृतप्रणाम:
प्रह्लादमामन्‍त्र्य नमश्चकार ॥ ७ ॥

Texts 8-9

अथारुह्य रथं दिव्यं भृगुदत्तं महारथ: ।
सुस्रग्धरोऽथ सन्नह्य धन्वी खड्‌गी धृतेषुधि: ॥ ८ ॥
हेमाङ्गदलसब्दाहु: स्फुरन्मकरकुण्डल: ।
रराज रथमारूढो धिष्ण्यस्थ इव हव्यवाट् ॥ ९ ॥

Texts 10-11

तुल्यैश्वर्यबलश्रीभि: स्वयूथैर्दैत्ययूथपै: ।
पिबद्भ‍िरिव खं द‍ृग्भिर्दहद्भ‍ि: परिधीनिव ॥ १० ॥
वृतो विकर्षन् महतीमासुरीं ध्वजिनीं विभु: ।
ययाविन्द्रपुरीं स्वृद्धां कम्पयन्निव रोदसी ॥ ११ ॥

Text 12

रम्यामुपवनोद्यानै: श्रीमद्भ‍िर्नन्दनादिभि: ।
कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतै: ।
प्रवालफलपुष्पोरुभारशाखामरद्रुमै: ॥ १२ ॥

Text 13

हंससारसचक्राह्वकारण्डवकुलाकुला: ।
नलिन्यो यत्र क्रीडन्ति प्रमदा: सुरसेविता: ॥ १३ ॥

Text 14

आकाशगङ्गया देव्या वृतां परिखभूतया ।
प्राकारेणाग्निवर्णेन साट्टालेनोन्नतेन च ॥ १४ ॥

Text 15

रुक्‍मपट्टकपाटैश्च द्वारै: स्फटिकगोपुरै: ।
जुष्टां विभक्तप्रपथां विश्‍वकर्मविनिर्मिताम् ॥ १५ ॥

Text 16

सभाचत्वररथ्याढ्यां विमानैर्न्यर्बुदैर्युताम् ।
श‍ृङ्गाटकैर्मणिमयैर्वज्रविद्रुमवेदिभि: ॥ १६ ॥

Text 17

यत्र नित्यवयोरूपा: श्यामा विरजवासस: ।
भ्राजन्ते रूपवन्नार्यो ह्यर्चिर्भिरिव वह्नय: ॥ १७ ॥

Text 18

सुरस्त्रीकेशविभ्रष्टनवसौगन्धिकस्रजाम् ।
यत्रामोदमुपादाय मार्ग आवाति मारुत: ॥ १८ ॥

Text 19

हेमजालाक्षनिर्गच्छद्धूमेनागुरुगन्धिना ।
पाण्डुरेण प्रतिच्छन्नमार्गे यान्ति सुरप्रिया: ॥ १९ ॥

Text 20

मुक्तावितानैर्मणिहेमकेतुभि-
र्नानापताकावलभीभिरावृताम् ।
शिखण्डिपारावतभृङ्गनादितां
वैमानिकस्त्रीकलगीतमङ्गलाम् ॥ २० ॥

Text 21

मृदङ्गशङ्खानकदुन्दुभिस्वनै:
सतालवीणामुरजेष्टवेणुभि: ।
नृत्यै: सवाद्यैरुपदेवगीतकै-
र्मनोरमां स्वप्रभया जितप्रभाम् ॥ २१ ॥

Text 22

यां न व्रजन्त्यधर्मिष्ठा: खला भूतद्रुह: शठा: ।
मानिन: कामिनो लुब्धा एभिर्हीना व्रजन्ति यत् ॥ २२ ॥

Text 23

तां देवधानीं स वरूथिनीपति-
र्बहि: समन्ताद् रुरुधे पृतन्यया ।
आचार्यदत्तं जलजं महास्वनं
दध्मौ प्रयुञ्जन्भयमिन्द्रयोषिताम् ॥ २३ ॥

Text 24

मघवांस्तमभिप्रेत्य बले: परममुद्यमम् ।
सर्वदेवगणोपेतो गुरुमेतदुवाच ह ॥ २४ ॥

Text 25

भगवन्नुद्यमो भूयान्बलेर्न: पूर्ववैरिण: ।
अविषह्यमिमं मन्ये केनासीत्तेजसोर्जित: ॥ २५ ॥

Text 26

नैनं कश्चित् कुतो वापि प्रतिव्योढुमधीश्वर: ।
पिबन्निव मुखेनेदं लिहन्निव दिशो दश ।
दहन्निव दिशो द‍ृग्भि: संवर्ताग्निरिवोत्थित: ॥ २६ ॥

Text 27

ब्रूहि कारणमेतस्य दुर्धर्षत्वस्य मद्रिपो: ।
ओज: सहो बलं तेजो यत एतत्समुद्यम: ॥ २७ ॥

Text 28

श्रीगुरुरुवाच
जानामि मघवञ्छत्रोरुन्नतेरस्य कारणम् ।
शिष्यायोपभृतं तेजो भृगुभिर्ब्रह्मवादिभि: ॥ २८ ॥

Text 29

ओजस्विनं बलिं जेतुं न समर्थोऽस्ति कश्चन ।
भवद्विधो भवान्वापि वर्जयित्वेश्वरं हरिम् ।
विजेष्यति न कोऽप्येनं ब्रह्मतेज:समेधितम् ।
नास्य शक्त: पुर: स्थातुं कृतान्तस्य यथा जना: ॥ २९ ॥

Text 30

तस्मान्निलयमुत्सृज्य यूयं सर्वे त्रिविष्टपम् ।
यात कालं प्रतीक्षन्तो यत: शत्रोर्विपर्यय: ॥ ३० ॥

Text 31

एष विप्रबलोदर्क: सम्प्रत्यूर्जितविक्रम: ।
तेषामेवापमानेन सानुबन्धो विनङ्‌क्ष्यति ॥ ३१ ॥

Text 32

एवं सुमन्त्रितार्थास्ते गुरुणार्थानुदर्शिना ।
हित्वा त्रिविष्टपं जग्मुर्गीर्वाणा: कामरूपिण: ॥ ३२ ॥

Text 33

देवेष्वथ निलीनेषु बलिर्वैरोचन: पुरीम् ।
देवधानीमधिष्ठाय वशं निन्ये जगत्‍त्रयम् ॥ ३३ ॥

Text 34

तं विश्वजयिनं शिष्यं भृगव: शिष्यवत्सला: ।
शतेन हयमेधानामनुव्रतमयाजयन् ॥ ३४ ॥

Text 35

ततस्तदनुभावेन भुवनत्रयविश्रुताम् ।
कीर्तिं दिक्षु वितन्वान: स रेज उडुराडिव ॥ ३५ ॥

Text 36

बुभुजे च श्रियं स्वृद्धां द्विजदेवोपलम्भिताम् ।
कृतकृत्यमिवात्मानं मन्यमानो महामना: ॥ ३६ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here