Srimad Bhagavatam | Canto 8 | Chapter 14 | Verses

0
4

The System of Universal Management

Text 1

श्रीराजोवाच
मन्वन्तरेषु भगवन्यथा मन्वादयस्त्विमे ।
यस्मिन्कर्मणि ये येन नियुक्तास्तद्वदस्व मे ॥ १ ॥

Text 2

श्रीऋषिरुवाच
मनवो मनुपुत्राश्च मुनयश्च महीपते ।
इन्द्रा: सुरगणाश्चैव सर्वे पुरुषशासना: ॥ २ ॥

Text 3

यज्ञादयो या: कथिता: पौरुष्यस्तनवो नृप ।
मन्वादयो जगद्यात्रां नयन्त्याभि: प्रचोदिता: ॥ ३ ॥

Text 4

चतुर्युगान्ते कालेन ग्रस्ताञ्छ्रुतिगणान्यथा ।
तपसा ऋषयोऽपश्यन्यतो धर्म: सनातन: ॥ ४ ॥

Text 5

ततो धर्मं चतुष्पादं मनवो हरिणोदिता: ।
युक्ता: सञ्चारयन्त्यद्धा स्वे स्वे काले महीं नृप ॥ ५ ॥

Text 6

पालयन्ति प्रजापाला यावदन्तं विभागश: ।
यज्ञभागभुजो देवा ये च तत्रान्विताश्च तै: ॥ ६ ॥

Text 7

इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमूर्जिताम् ।
भुञ्जान: पाति लोकांस्त्रीन् कामं लोके प्रवर्षति ॥ ७ ॥

Text 8

ज्ञानं चानुयुगं ब्रूते हरि: सिद्धस्वरूपधृक् ।
ऋषिरूपधर: कर्म योगं योगेशरूपधृक् ॥ ८ ॥

Text 9

सर्गं प्रजेशरूपेण दस्यून्हन्यात् स्वराड्‌वपु: ।
कालरूपेण सर्वेषामभावाय पृथग्गुण: ॥ ९ ॥

Text 10

स्तूयमानो जनैरेभिर्मायया नामरूपया ।
विमोहितात्मभिर्नानादर्शनैर्न च द‍ृश्यते ॥ १० ॥

Text 11

एतत् कल्पविकल्पस्य प्रमाणं परिकीर्तितम् ।
यत्र मन्वन्तराण्याहुश्चतुर्दश पुराविद: ॥ ११ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here