Srimad Bhagavatam | Canto 7 | Chapter 14 | Verses

0
1

Ideal Family Life

Text 1

श्रीयुधिष्ठिर उवाच
गृहस्थ एतां पदवीं विधिना येन चाञ्जसा ।
यायाद्देवऋषे ब्रूहि माद‍ृशो गृहमूढधी: ॥ १ ॥

Text 2

श्रीनारद उवाच
गृहेष्ववस्थितो राजन्क्रिया: कुर्वन्यथोचिता: ।
वासुदेवार्पणं साक्षादुपासीत महामुनीन् ॥ २ ॥

Texts 3-4

श‍ृण्वन्भगवतोऽभीक्ष्णमवतारकथामृतम् ।
श्रद्दधानो यथाकालमुपशान्तजनावृत: ॥ ३ ॥
सत्सङ्गाच्छनकै: सङ्गमात्मजायात्मजादिषु ।
विमुञ्चेन्मुच्यमानेषु स्वयं स्वप्नवदुत्थित: ॥ ४ ॥

Text 5

यावदर्थमुपासीनो देहे गेहे च पण्डित: ।
विरक्तो रक्तवत्तत्र नृलोके नरतां न्यसेत् ॥ ५ ॥

Text 6

ज्ञातय: पितरौ पुत्रा भ्रातर: सुहृदोऽपरे ।
यद्वदन्ति यदिच्छन्ति चानुमोदेत निर्मम: ॥ ६ ॥

Text 7

दिव्यं भौमं चान्तरीक्षं वित्तमच्युतनिर्मितम् ।
तत्सर्वमुपयुञ्जान एतत्कुर्यात्स्वतो बुध: ॥ ७ ॥

Text 8

यावद् भ्र्रियेत जठरं तावत् स्वत्वं हि देहिनाम् ।
अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति ॥ ८ ॥

Text 9

मृगोष्ट्रखरमर्काखुसरीसृप्खगमक्षिका: ।
आत्मन: पुत्रवत् पश्येत्तैरेषामन्तरं कियत् ॥ ९ ॥

Text 10

त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि ।
यथादेशं यथाकालं यावद्दैवोपपादितम् ॥ १० ॥

Text 11

आश्वाघान्तेऽवसायिभ्य: कामान्संविभजेद्यथा ।
अप्येकामात्मनो दारां नृणां स्वत्वग्रहो यत: ॥ ११ ॥

Text 12

जह्याद् यदर्थे स्वान्प्राणान्हन्याद्वा पितरं गुरुम् ।
तस्यां स्वत्वं स्‍त्रियां जह्याद्यस्तेन ह्यजितो जित: ॥ १२ ॥

Text 13

कृमिविड्भस्मनिष्ठान्तं क्‍वेदं तुच्छं कलेवरम् ।
क्व‍ तदीयरतिर्भार्या क्व‍ायमात्मा नभश्छदि: ॥ १३ ॥

Text 14

सिद्धैर्यज्ञावशिष्टार्थै: कल्पयेद् वृत्तिमात्मन: ।
शेषे स्वत्वं त्यजन्प्राज्ञ: पदवीं महतामियात् ॥ १४ ॥

Text 15

देवानृषीन् नृभूतानि पितृनात्मानमन्वहम् ।
स्ववृत्त्यागतवित्तेन यजेत पुरुषं पृथक् ॥ १५ ॥

Text 16

यर्ह्यात्मनोऽधिकाराद्या: सर्वा: स्युर्यज्ञसम्पद: ।
वैतानिकेन विधिना अग्निहोत्रादिना यजेत् ॥ १६ ॥

Text 17

न ह्यग्निमुखतोऽयं वै भगवान्सर्वयज्ञभुक् ।
इज्येत हविषा राजन्यथा विप्रमुखे हुतै: ॥ १७ ॥

Text 18

तस्माद् ब्राह्मणदेवेषु मर्त्यादिषु यथार्हत: ।
तैस्तै: कामैर्यजस्वैनं क्षेत्रज्ञं ब्राह्मणाननु ॥ १८ ॥

Text 19

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विज: ।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान् ॥ १९ ॥

Texts 20-23

अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये ।
चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च ॥ २० ॥
तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके ।
चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ॥ २१ ॥
माघे च सितसप्तम्यां मघाराकासमागमे ।
राकया चानुमत्या च मासर्क्षाणि युतान्यपि ॥ २२ ॥
द्वादश्यामनुराधा स्याच्छ्रवणस्तिस्र उत्तरा: ।
तिसृष्वेकादशी वासु जन्मर्क्षश्रोणयोगूयुक् ॥ २३ ॥

Text 24

त एते श्रेयस: काला नृणां श्रेयोविवर्धना: ।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुष: ॥ २४ ॥

Text 25

एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम् ।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम् ॥ २५ ॥

Text 26

संस्कारकालो जायाया अपत्यस्यात्मनस्तथा ।
प्रेतसंस्था मृताहश्च कर्मण्यभ्युदये नृप ॥ २६ ॥

Texts 27-28

अथ देशान्प्रवक्ष्यामि धर्मादिश्रेयआवहान् ।
स वै पुण्यतमो देश: सत्पात्रं यत्र लभ्यते ॥ २७ ॥
बिम्बं भगवतो यत्र सर्वमेतच्चराचरम् ।
यत्र ह ब्राह्मणकुलं तपोविद्यादयान्वितम् ॥ २८ ॥

Text 29

यत्र यत्र हरेरर्चा स देश: श्रेयसां पदम् ।
यत्र गङ्गादयो नद्य: पुराणेषु च विश्रुता: ॥ २९ ॥

Texts 30-33

सरांसि पुष्करादीनि क्षेत्राण्यर्हाश्रितान्युत ।
कुरुक्षेत्रं गयशिर: प्रयाग: पुलहाश्रम: ॥ ३० ॥
नैमिषं फाल्गुनं सेतु: प्रभासोऽथ कुशस्थली ।
वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा ॥ ३१ ॥
नारायणाश्रमो नन्दा सीतारामाश्रमादय: ।
सर्वे कुलाचला राजन्महेन्द्रमलयादय: ॥ ३२ ॥
एते पुण्यतमा देशा हरेरर्चाश्रिताश्च ये ।
एतान्देशान्निषेवेत श्रेयस्कामो ह्यभीक्ष्णश: ।
धर्मो ह्यत्रेहित: पुंसां सहस्राधिफलोदय: ॥ ३३ ॥

Text 34

पात्रं त्वत्र निरुक्तं वै कविभि: पात्रवित्तमै: ।
हरिरेवैक उर्वीश यन्मयं वै चराचरम् ॥ ३४ ॥

Text 35

देवर्ष्यर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु ।
राजन्यदग्रपूजायां मत: पात्रतयाच्युत: ॥ ३५ ॥

Text 36

जीवराशिभिराकीर्ण अण्डकोशाङ्‌घ्रिपो महान् ।
तन्मूलत्वादच्युतेज्या सर्वजीवात्मतर्पणम् ॥ ३६ ॥

Text 37

पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवता: ।
शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ ॥ ३७ ॥

Text 38

तेष्वेव भगवान् राजंस्तारतम्येन वर्तते ।
तस्मात्पात्रं हि पुरुषो यावानात्मा यथेयते ॥ ३८ ॥

Text 39

द‍ृष्ट्वा तेषां मिथो नृणामवज्ञानात्मतां नृप ।
त्रेतादिषु हरेरर्चा क्रियायै कविभि: कृता ॥ ३९ ॥

Text 40

ततोऽर्चायां हरिं केचित् संश्रद्धाय सपर्यया ।
उपासत उपास्तापि नार्थदा पुरुषद्विषाम् ॥ ४० ॥

Text 41

पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदु: ।
तपसा विद्यया तुष्टय‍ा धत्ते वेदं हरेस्तनुम् ॥ ४१ ॥

Text 42

नन्वस्य ब्राह्मणा राजन्कृष्णस्य जगदात्मन: ।
पुनन्त: पादरजसा त्रिलोकीं दैवतं महत् ॥ ४२ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here