Srimad Bhagavatam | Canto 7 | Chapter 13 | Verses

0
1

The Behavior of a Perfect Person

Text 1

श्रीनारद उवाच
कल्पस्त्वेवं परिव्रज्य देहमात्रावशेषित: ।
ग्रामैकरात्रविधिना निरपेक्षश्चरेन्महीम् ॥ १ ॥

Text 2

बिभृयाद् यद्यसौ वास: कौपीनाच्छादनं परम् ।
त्यक्तं न लिङ्गाद् दण्डादेरन्यत् किञ्चिदनापदि ॥ २ ॥

Text 3

एक एव चरेद्भ‍िक्षुरात्मारामोऽनपाश्रय: ।
सर्वभूतसुहृच्छान्तो नारायणपरायण: ॥ ३ ॥

Text 4

पश्येदात्मन्यदो विश्वं परे सदसतोऽव्यये ।
आत्मानं च परं ब्रह्म सर्वत्र सदसन्मये ॥ ४ ॥

Text 5

सुप्तिप्रबोधयो: सन्धावात्मनो गतिमात्मद‍ृक् ।
पश्यन्बन्धं च मोक्षं च मायामात्रं न वस्तुत: ॥ ५ ॥

Text 6

नाभिनन्देद् ध्रुवं मृत्युमध्रुवं वास्य जीवितम् ।
कालं परं प्रतीक्षेत भूतानां प्रभवाप्ययम् ॥ ६ ॥

Text 7

नासच्छास्त्रेषु सज्जेत नोपजीवेत जीविकाम् ।
वादवादांस्त्यजेत्तर्कान्पक्षं कंच न संश्रयेत् ॥ ७ ॥

Text 8

न शिष्याननुबध्नीत ग्रन्थान्नैवाभ्यसेद् बहून् ।
न व्याख्यामुपयुञ्जीत नारम्भानारभेत्‍क्‍वचित् ॥ ८ ॥

Text 9

न यतेराश्रम: प्रायो धर्महेतुर्महात्मन: ।
शान्तस्य समचित्तस्य बिभृयादुत वा त्यजेत् ॥ ९ ॥

Text 10

अव्यक्तलिङ्गो व्यक्तार्थो मनीष्युन्मत्तबालवत् ।
कविर्मूकवदात्मानं स द‍ृष्टय‍ा दर्शयेन्नृणाम् ॥ १० ॥

Text 11

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रह्रादस्य च संवादं मुनेराजगरस्य च ॥ ११ ॥

Texts 12-13

तं शयानं धरोपस्थे कावेर्यां सह्यसानुनि ।
रजस्वलैस्तनूदेशैर्निगूढामलतेजसम् ॥ १२ ॥
ददर्श लोकान्विचरन् लोकतत्त्वविवित्सया ।
वृतोऽमात्यै: कतिपयै: प्रह्रादो भगवत्प्रिय: ॥ १३ ॥

Text 14

कर्मणाकृतिभिर्वाचा लिङ्गैर्वर्णाश्रमादिभि: ।
न विदन्ति जना यं वै सोऽसाविति न वेति च ॥ १४ ॥

Text 15

तं नत्वाभ्यर्च्य विधिवत्पादयो: शिरसा स्पृशन् ।
विवित्सुरिदमप्राक्षीन्महाभागवतोऽसुर: ॥ १५ ॥

Texts 16-17

बिभर्षि कायं पीवानं सोद्यमो भोगवान्यथा ॥ १६ ॥
वित्तं चैवोद्यमवतां भोगो वित्तवतामिह ।
भोगिनां खलु देहोऽयं पीवा भवति नान्यथा ॥ १७ ॥

Text 18

न ते शयानस्य निरुद्यमस्य
ब्रह्मन्नु हार्थो यत एव भोग: ।
अभोगिनोऽयं तव विप्र देह:
पीवा यतस्तद्वद न: क्षमं चेत् ॥ १८ ॥

Text 19

कवि: कल्पो निपुणद‍ृक् चित्रप्रियकथ: सम: । लोकस्य कुर्वत: कर्म शेषे तद्वीक्षितापि वा ॥ १९ ॥

Text 20

श्रीनारद उवाच
\स इत्थं दैत्यपतिना परिपृष्टो महामुनि: ।
स्मयमानस्तमभ्याह तद्वागमृतयन्त्रित: ॥ २० ॥

Text 21

श्रीब्राह्मण उवाच
वेदेदमसुरश्रेष्ठ भवान् नन्वार्यसम्मत: ।
ईहोपरमयोर्नृणां पदान्यध्यात्मचक्षुषा ॥ २१ ॥

Text 22

यस्य नारायणो देवो भगवान्‍हृद्गत: सदा ।
भक्त्या केवलयाज्ञानं धुनोति ध्वान्तमर्कवत् ॥ २२ ॥

Text 23

तथापि ब्रूमहे प्रश्नांस्तव राजन्यथाश्रुतम् ।
सम्भाषणीयो हि भवानात्मन: शुद्धिमिच्छता ॥ २३ ॥

Text 24

तृष्णया भववाहिन्या योग्यै: कामैरपूर्यया ।
कर्माणि कार्यमाणोऽहं नानायोनिषु योजित: ॥ २४ ॥

Text 25

यद‍ृच्छया लोकमिमं प्रापित: कर्मभिर्भ्रमन् ।
स्वर्गापवर्गयोर्द्वारं तिरश्चां पुनरस्य च ॥ २५ ॥

Text 26

तत्रापि दम्पतीनां च सुखायान्यापनुत्तये ।
कर्माणि कुर्वतां द‍ृष्ट्वा निवृत्तोऽस्मि विपर्ययम् ॥ २६ ॥

Text 27

सुखमस्यात्मनो रूपं सर्वेहोपरतिस्तनु: ।
मन:संस्पर्शजान् द‍ृष्ट्वा भोगान्स्वप्स्यामि संविशन् ॥ २७ ॥

Text 28

इत्येतदात्मन: स्वार्थं सन्तं विस्मृत्य वै पुमान् ।
विचित्रामसति द्वैते घोरामाप्नोति संसृतिम् ॥ २८ ॥

Text 29

जलं तदुद्भ‍वैश्छन्नं हित्वाज्ञो जलकाम्यया ।
मृगतृष्णामुपाधावेत्तथान्यत्रार्थद‍ृक् स्वत: ॥ २९ ॥

Text 30

देहादिभिर्दैवतन्त्रैरात्मन: सुखमीहत: ।
दु:खात्ययं चानीशस्य क्रिया मोघा: कृता: कृता: ॥ ३० ॥

Text 31

आध्यात्मिकादिभिर्दु:खैरविमुक्तस्य कर्हिचित् ।
मर्त्यस्य कृच्छ्रोपनतैरर्थै: कामै: क्रियेत किम् ॥ ३१ ॥

Text 32

पश्यामि धनिनां क्लेशं लुब्धानामजितात्मनाम् ।
भयादलब्धनिद्राणां सर्वतोऽभिविशङ्किनाम् ॥ ३२ ॥

Text 33

राजतश्चौरत: शत्रो: स्वजनात्पशुपक्षित: ।
अर्थिभ्य: कालत: स्वस्मान्नित्यं प्राणार्थवद्भ‍यम् ॥ ३३ ॥

Text 34

शोकमोहभयक्रोधरागक्लैब्यश्रमादय: ।
यन्मूला: स्युर्नृणां जह्यात्स्पृहां प्राणार्थयोर्बुध: ॥ ३४ ॥

Text 35

मधुकारमहासर्पौ लोकेऽस्मिन्नो गुरूत्तमौ ।
वैराग्यं परितोषं च प्राप्ता यच्छिक्षया वयम् ॥ ३५ ॥

Text 36

विराग: सर्वकामेभ्य: शिक्षितो मे मधुव्रतात् ।
कृच्छ्राप्तं मधुवद्वित्तं हत्वाप्यन्यो हरेत्पतिम् ॥ ३६ ॥

Text 37

अनीह: परितुष्टात्मा यद‍ृच्छोपनतादहम् ।
नो चेच्छये बह्वहानि महाहिरिव सत्त्ववान् ॥ ३७ ॥

Text 38

क्‍वचिदल्पं क्‍वचिद्भ‍ूरि भुञ्जेऽन्नं स्वाद्वस्वादु वा ।
क्‍वचिद्भ‍ूरि गुणोपेतं गुणहीनमुत क्व‍चित् ।
श्रद्धयोपहृतं क्व‍ापि कदाचिन्मानवर्जितम् ।
भुञ्जे भुक्त्वाथ कस्मिंश्चिद्दिवा नक्तं यद‍ृच्छया ॥ ३८ ॥

Text 39

क्षौमं दुकूलमजिनं चीरं वल्कलमेव वा ।
वसेऽन्यदपि सम्प्राप्तं दिष्टभुक्तुष्टधीरहम् ॥ ३९ ॥

Text 40

क्व‍चिच्छये धरोपस्थे तृणपर्णाश्मभस्मसु ।
क्व‍चित्प्रासादपर्यङ्के कशिपौ वा परेच्छया ॥ ४० ॥

Text 41

क्व‍चित्स्‍नातोऽनुलिप्ताङ्ग: सुवासा: स्रग्व्यलङ्‌कृत: ।
रथेभाश्वैश्चरे
क्व‍ापि दिग्वासा ग्रहवद्विभो ॥ ४१ ॥

Text 42

नाहं निन्दे न च स्तौमि स्वभावविषमं जनम् ।
एतेषां श्रेय आशासे
उतैकात्म्यं महात्मनि ॥ ४२ ॥

Text 43

विकल्पं जुहुयाच्चित्तौ तां मनस्यर्थविभ्रमे ।
मनो वैकारिके हुत्वा तं मायायां जुहोत्यनु ॥ ४३ ॥

Text 44

आत्मानुभूतौ तां मायां जुहुयात्सत्यद‍ृङ्‍मुनि: ।
ततो निरीहो विरमेत् स्वानुभूत्यात्मनि स्थित: ॥ ४४ ॥

Text 45

स्वात्मवृत्तं मयेत्थं ते सुगुप्तमपि वर्णितम् ।
व्यपेतं लोकशास्त्राभ्यां भवान्हि भगवत्पर: ॥ ४५ ॥

Text 46

श्रीनारद उवाच
धर्मं पारमहंस्यं वै मुने: श्रुत्वासुरेश्वर: ।
पूजयित्वा तत: प्रीत आमन्‍त्र्यप्रययौ गृहम् ॥ ४६ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here