Srimad Bhagavatam | Canto 6 | Chapter 3 | Verses

0
5

Yamarāja Instructs His Messengers

Text 1

श्रीराजोवाच
निशम्य देव: स्वभटोपवर्णितं
प्रत्याह किं तानपि धर्मराज: ।
एवं हताज्ञो विहतान्मुरारे-
र्नैदेशिकैर्यस्य वशे जनोऽयम् ॥ १ ॥

Text 2

यमस्य देवस्य न दण्डभङ्ग:
कुतश्चनर्षे श्रुतपूर्व आसीत् ।
एतन्मुने वृश्चति लोकसंशयं
न हि त्वदन्य इति मे विनिश्चितम् ॥ २ ॥

Text 3

श्रीशुक उवाच
भगवत्पुरुषै राजन् याम्या: प्रतिहतोद्यमा: ।
पतिं विज्ञापयामासुर्यमं संयमनीपतिम् ॥ ३ ॥

Text 4

यमदूता ऊचु:
कति सन्तीह शास्तारो जीवलोकस्य वै प्रभो ।
त्रैविध्यं कुर्वत: कर्म फलाभिव्यक्तिहेतव: ॥ ४ ॥

Text 5

यदि स्युर्बहवो लोके शास्तारो दण्डधारिण: ।
कस्य स्यातां न वा कस्य मृत्युश्चामृतमेव वा ॥ ५ ॥

Text 6

किन्तु शास्तृबहुत्वे स्याद्ब‍हूनामिह कर्मिणाम् ।
शास्तृत्वमुपचारो हि यथा मण्डलवर्तिनाम् ॥ ६ ॥

Text 7

अतस्त्वमेको भूतानां सेश्वराणामधीश्वर: ।
शास्ता दण्डधरो नृणां शुभाशुभविवेचन: ॥ ७ ॥

Text 8

तस्य ते विहितो दण्डो न लोके वर्ततेऽधुना ।
चतुर्भिरद्भ‍ुतै: सिद्धैराज्ञा ते विप्रलम्भिता ॥ ८ ॥

Text 9

नीयमानं तवादेशादस्माभिर्यातनागृहान् ।
व्यामोचयन्पातकिनं छित्त्वा पाशान प्रसह्य ते ॥ ९ ॥

Text 10

तांस्ते वेदितुमिच्छामो यदि नो मन्यसे क्षमम् ।
नारायणेत्यभिहिते मा भैरित्याययुर्द्रुतम् ॥ १० ॥

Text 11

श्रीबादरायणिरुवाच
इति देव: स आपृष्ट: प्रजासंयमनो यम: ।
प्रीत: स्वदूतान्प्रत्याह स्मरन् पादाम्बुजं हरे: ॥ ११ ॥

Text 12

यम उवाच
परो मदन्यो जगतस्तस्थुषश्च
ओतं प्रोतं पटवद्यत्र विश्वम् ।
यदंशतोऽस्य स्थितिजन्मनाशा
नस्योतवद्यस्य वशे च लोक: ॥ १२ ॥

Text 13

यो नामभिर्वाचि जनं निजायां
बध्नाति तन्‍त्र्यामिव दामभिर्गा: ।
यस्मै बलिं त इमे नामकर्म-
निबन्धबद्धाश्चकिता वहन्ति ॥ १३ ॥

Texts 14-15

अहं महेन्द्रो निऋर्ति: प्रचेता:
सोमोऽग्निरीश: पवनो विरिञ्चि: ।
आदित्यविश्वे वसवोऽथ साध्या
मरुद्गणा रुद्रगणा: ससिद्धा: ॥ १४ ॥
अन्ये च ये विश्वसृजोऽमरेशा
भृग्वादयोऽस्पृष्टरजस्तमस्का: ।
यस्येहितं न विदु: स्पृष्टमाया:
सत्त्वप्रधाना अपि किं ततोऽन्ये ॥ १५ ॥

Text 16

यं वै न गोभिर्मनसासुभिर्वा
हृदा गिरा वासुभृतो विचक्षते ।
आत्मानमन्तर्हृदि सन्तमात्मनां
चक्षुर्यथैवाकृतयस्तत: परम् ॥ १६ ॥

Text 17

तस्यात्मतन्त्रस्य हरेरधीशितु:
परस्य मायाधिपतेर्महात्मन: ।
प्रायेण दूता इह वै मनोहरा-
श्चरन्ति तद्रूपगुणस्वभावा: ॥ १७ ॥

Text 18

भूतानि विष्णो: सुरपूजितानि
दुर्दर्शलिङ्गानि महाद्भ‍ुतानि ।
रक्षन्ति तद्भ‍‌क्तिमत: परेभ्यो
मत्तश्च मर्त्यानथ सर्वतश्च ॥ १८ ॥

Text 19

धर्मं तु साक्षाद्भ‍गवत्प्रणीतं
न वै विदुऋर्षयो नापि देवा: ।
न सिद्धमुख्या असुरा मनुष्या:
कुतो नु विद्याधरचारणादय: ॥ १९ ॥

Texts 20-21

स्वयम्भूर्नारद: शम्भु: कुमार: कपिलो मनु: ।
प्रह्लादो जनको भीष्मो बलिर्वैयासकिर्वयम् ॥ २० ॥
द्वादशैते विजानीमो धर्मं भागवतं भटा: ।
गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतमश्नुते ॥ २१ ॥

Text 22

एतावानेव लोकेऽस्मिन् पुंसां धर्म: पर: स्मृत: ।
भक्तियोगो भगवति तन्नामग्रहणादिभि: ॥ २२ ॥

Text 23

नामोच्चारणमाहात्म्यं हरे: पश्यत पुत्रका: ।
अजामिलोऽपि येनैव मृत्युपाशादमुच्यत ॥ २३ ॥

Text 24

एतावतालमघनिर्हरणाय पुंसां
सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् ।
विक्रुश्य पुत्रमघवान् यदजामिलोऽपि
नारायणेति म्रियमाण इयाय मुक्तिम् ॥ २४ ॥

Text 25

प्रायेण वेद तदिदं न महाजनोऽयं
देव्या विमोहितमतिर्बत माययालम् ।
त्रय्यां जडीकृतमतिर्मधुपुष्पितायां
वैतानिके महति कर्मणि युज्यमान: ॥ २५ ॥

Text 26

एवं विमृश्य सुधियो भगवत्यनन्ते
सर्वात्मना विदधते खलु भावयोगम् ।
ते मे न दण्डमर्हन्त्यथ यद्यमीषां
स्यात् पातकं तदपि हन्त्युरुगायवाद: ॥ २६ ॥

Text 27

ते देवसिद्धपरिगीतपवित्रगाथा
ये साधव: समद‍ृशो भगवत्प्रपन्ना: ।
तान्नोपसीदत हरेर्गदयाभिगुप्तान्
नैषां वयं न च वय: प्रभवाम दण्डे ॥ २७ ॥

Text 28

तानानयध्वमसतो विमुखान् मुकुन्द-
पादारविन्दमकरन्दरसादजस्रम् ।
निष्किञ्चनै: परमहंसकुलैरसङ्गै-
र्जुष्टाद्गृहे निरयवर्त्मनि बद्धतृष्णान् ॥ २८ ॥

Text 29

जिह्वा न वक्ति भगवद्गुणनामधेयं
चेतश्च न स्मरति तच्चरणारविन्दम् ।
कृष्णाय नो नमति यच्छिर एकदापि
तानानयध्वमसतोऽकृतविष्णुकृत्यान् ॥ २९ ॥

Text 30

तत् क्षम्यतां स भगवान् पुरुष: पुराणो
नारायण: स्वपुरुषैर्यदसत्कृतं न: ।
स्वानामहो न विदुषां रचिताञ्जलीनां
क्षान्तिर्गरीयसि नम: पुरुषाय भूम्ने ॥ ३० ॥

Text 31

तस्मात् सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसाम् ।
महतामपि कौरव्य विद्ध्यैकान्तिकनिष्कृतम् ॥ ३१ ॥

Text 32

श‍ृण्वतां गृणतां वीर्याण्युद्दामानि हरेर्मुहु: ।
यथा सुजातया भक्त्या शुद्ध्येन्नात्मा व्रतादिभि: ॥ ३२ ॥

Text 33

कृष्णाङ्‌घ्रिपद्ममधुलिण् न पुनर्विसृष्ट-
मायागुणेषु रमते वृजिनावहेषु ।
अन्यस्तु कामहत आत्मरज: प्रमार्ष्टु-
मीहेत कर्म यत एव रज: पुन: स्यात् ॥ ३३ ॥

Text 34

इत्थं स्वभर्तृगदितं भगवन्महित्वं
संस्मृत्य विस्मितधियो यमकिङ्करास्ते ।
नैवाच्युताश्रयजनं प्रतिशङ्कमाना
द्रष्टुं च बिभ्यति तत: प्रभृति स्म राजन् ॥ ३४ ॥

Text 35

इतिहासमिमं गुह्यं भगवान् कुम्भसम्भव: ।
कथयामास मलय आसीनो हरिमर्चयन् ॥ ३५ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here