Srimad Bhagavatam | Canto 6 | Chapter 2 | Verses

0
4

Ajāmila Delivered by the Viṣṇudūtas

Text 1

श्रीबादरायणिरुवाच
एवं ते भगवद्दूता यमदूताभिभाषितम् ।
उपधार्याथ तान् राजन् प्र्रत्याहुर्नयकोविदा: ॥ १ ॥

Text 2

श्रीविष्णुदूता ऊचु:
अहो कष्टं धर्मद‍ृशामधर्म: स्पृशते सभाम् ।
यत्रादण्ड्येष्वपापेषु दण्डो यैर्ध्रियते वृथा ॥ २ ॥

Text 3

प्रजानां पितरो ये च शास्तार: साधव: समा: ।
यदि स्यात्तेषु वैषम्यं कं यान्ति शरणं प्रजा: ॥ ३ ॥

Text 4

यद्यदाचरति श्रेयानितरस्तत्तदीहते ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ ४ ॥

Texts 5-6

यस्याङ्के शिर आधाय लोक: स्वपिति निर्वृत: ।
स्वयं धर्ममधर्मं वा न हि वेद यथा पशु: ॥ ५ ॥
स कथं न्यर्पितात्मानं कृतमैत्रमचेतनम् ।
विस्रम्भणीयो भूतानां सघृणो दोग्धुमर्हति ॥ ६ ॥

Text 7

अयं हि कृतनिर्वेशो जन्मकोट्यंहसामपि ।
यद्‌व्याजहार विवशो नाम स्वस्त्ययनं हरे: ॥ ७ ॥

Text 8

एतेनैव ह्यघोनोऽस्य कृतं स्यादघनिष्कृतम् ।
यदा नारायणायेति जगाद चतुरक्षरम् ॥ ८ ॥

Texts 9-10

स्तेन: सुरापो मित्रध्रुग् ब्रह्महा गुरुतल्पग: ।
स्त्रीराजपितृगोहन्ता ये च पातकिनोऽपरे ॥ ९ ॥
सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् ।
नामव्याहरणं विष्णोर्यतस्तद्विषया मति: ॥ १० ॥

Text 11

न निष्कृतैरुदितैर्ब्रह्मवादिभि-
स्तथा विशुद्ध्यत्यघवान् व्रतादिभि: ।
यथा हरेर्नामपदैरुदाहृतै-
स्तदुत्तमश्लोकगुणोपलम्भकम् ॥ ११ ॥

Text 12

नैकान्तिकं तद्धि कृतेऽपि निष्कृते
मन: पुनर्धावति चेदसत्पथे ।
तत्कर्मनिर्हारमभीप्सतां हरे-
र्गुणानुवाद: खलु सत्त्वभावन: ॥ १२ ॥

Text 13

अथैनं मापनयत कृताशेषाघनिष्कृतम् ।
यदसौ भगवन्नाम म्रियमाण: समग्रहीत् ॥ १३ ॥

Text 14

साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा ।
वैकुण्ठनामग्रहणमशेषाघहरं विदु: ॥ १४ ॥

Text 15

पतित: स्खलितो भग्न: सन्दष्टस्तप्त आहत: ।
हरिरित्यवशेनाह पुमान्नार्हति यातना: ॥ १५ ॥

Text 16

गुरूणां च लघूनां च गुरूणि च लघूनि च ।
प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभि: ॥ १६ ॥

Text 17

तैस्तान्यघानि पूयन्ते तपोदानव्रतादिभि: ।
नाधर्मजं तद्‌धृदयं तदपीशाङ्‌घ्रिसेवया ॥ १७ ॥

Text 18

अज्ञानादथवा ज्ञानादुत्तमश्लोकनाम यत् ।
सङ्कीर्तितमघं पुंसो दहेदेधो यथानल: ॥ १८ ॥

Text 19

यथागदं वीर्यतममुपयुक्तं यद‍ृच्छया ।
अजानतोऽप्यात्मगुणं कुर्यान्मन्त्रोऽप्युदाहृत: ॥ १९ ॥

Text 20

श्रीशुक उवाच
त एवं सुविनिर्णीय धर्मं भागवतं नृप ।
तं याम्यपाशान्निर्मुच्य विप्रं मृत्योरमूमुचन् ॥ २० ॥

Text 21

इति प्रत्युदिता याम्या दूता यात्वा यमान्तिकम् ।
यमराज्ञे यथा सर्वमाचचक्षुररिन्दम ॥ २१ ॥

Text 22

द्विज: पाशाद्विनिर्मुक्तो गतभी: प्रकृतिं गत: ।
ववन्दे शिरसा विष्णो: किङ्करान् दर्शनोत्सव: ॥ २२ ॥

Text 23

तं विवक्षुमभिप्रेत्य महापुरुषकिङ्करा: ।
सहसा पश्यतस्तस्य तत्रान्तर्दधिरेऽनघ ॥ २३ ॥

Texts 24-25

अजामिलोऽप्यथाकर्ण्य दूतानां यमकृष्णयो: ।
धर्मं भागवतं शुद्धं त्रैवेद्यं च गुणाश्रयम् ॥ २४ ॥
भक्तिमान् भगवत्याशु माहात्म्यश्रवणाद्धरे: ।
अनुतापो महानासीत्स्मरतोऽशुभमात्मन: ॥ २५ ॥

Text 26

अहो मे परमं कष्टमभूदविजितात्मन: ।
येन विप्लावितं ब्रह्म वृषल्यां जायतात्मना ॥ २६ ॥

Text 27

धिङ्‌मां विगर्हितं सद्भ‍िर्दुष्कृतं कुलकज्जलम् ।
हित्वा बालां सतीं योऽहं सुरापीमसतीमगाम् ॥ २७ ॥

Text 28

वृद्धावनाथौ पितरौ नान्यबन्धू तपस्विनौ ।
अहो मयाधुना त्यक्तावकृतज्ञेन नीचवत् ॥ २८ ॥

Text 29

सोऽहं व्यक्तं पतिष्यामि नरके भृशदारुणे ।
धर्मघ्ना: कामिनो यत्र विन्दन्ति यमयातना: ॥ २९ ॥

Text 30

किमिदं स्वप्न आहो स्वित् साक्षाद् द‍ृष्टमिहाद्भ‍ुतम् ।
क्‍व याता अद्य ते ये मां व्यकर्षन् पाशपाणय: ॥ ३० ॥

Text 31

अथ ते क्‍व गता: सिद्धाश्चत्वारश्चारुदर्शना: ।
व्यामोचयन्नीयमानं बद्ध्वा पाशैरधो भुव: ॥ ३१ ॥

Text 32

अथापि मे दुर्भगस्य विबुधोत्तमदर्शने ।
भवितव्यं मङ्गलेन येनात्मा मे प्रसीदति ॥ ३२ ॥

Text 33

अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपते: ।
वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति ॥ ३३ ॥

Text 34

क्‍व चाहं कितव: पापो ब्रह्मघ्नो निरपत्रप: ।
क्‍व च नारायणेत्येतद्भ‍गवन्नाम मङ्गलम् ॥ ३४ ॥

Text 35

सोऽहं तथा यतिष्यामि यतचित्तेन्द्रियानिल: ।
यथा न भूय आत्मानमन्धे तमसि मज्जये ॥ ३५ ॥

Texts 36-37

विमुच्य तमिमं बन्धमविद्याकामकर्मजम् ।
सर्वभूतसुहृच्छान्तो मैत्र: करुण आत्मवान् ॥ ३६ ॥
मोचये ग्रस्तमात्मानं योषिन्मय्यात्ममायया ।
विक्रीडितो ययैवाहं क्रीडामृग इवाधम: ॥ ३७ ॥

Text 38

ममाहमिति देहादौ हित्वामिथ्यार्थधीर्मतिम् ।
धास्ये मनो भगवति शुद्धं तत्कीर्तनादिभि: ॥ ३८ ॥

Text 39

इति जातसुनिर्वेद: क्षणसङ्गेन साधुषु ।
गङ्गाद्वारमुपेयाय मुक्तसर्वानुबन्धन: ॥ ३९ ॥

Text 40

स तस्मिन् देवसदन आसीनो योगमास्थित: ।
प्रत्याहृतेन्द्रियग्रामो युयोज मन आत्मनि ॥ ४० ॥

Text 41

ततो गुणेभ्य आत्मानं वियुज्यात्मसमाधिना ।
युयुजे भगवद्धाम्नि ब्रह्मण्यनुभवात्मनि ॥ ४१ ॥

Text 42

यर्ह्युपारतधीस्तस्मिन्नद्राक्षीत्पुरुषान् पुर: ।
उपलभ्योपलब्धान् प्राग्ववन्दे शिरसा द्विज: ॥ ४२ ॥

Text 43

हित्वा कलेवरं तीर्थे गङ्गायां दर्शनादनु ।
सद्य: स्वरूपं जगृहे भगवत्पार्श्ववर्तिनाम् ॥ ४३ ॥

Text 44

साकं विहायसा विप्रो महापुरुषकिङ्करै: ।
हैमं विमानमारुह्य ययौ यत्र श्रिय: पति: ॥ ४४ ॥

Text 45

एवं स विप्लावितसर्वधर्मा
दास्या: पति: पतितो गर्ह्यकर्मणा ।
निपात्यमानो निरये हतव्रत:
सद्यो विमुक्तो भगवन्नाम गृह्णन् ॥ ४५ ॥

Text 46

नात: परं कर्मनिबन्धकृन्तनं
मुमुक्षतां तीर्थपदानुकीर्तनात् ।
न यत्पुन: कर्मसु सज्जते मनो
रजस्तमोभ्यां कलिलं ततोऽन्यथा ॥ ४६ ॥

Texts 47-48

य एतं परमं गुह्यमितिहासमघापहम् ।
श‍ृणुयाच्छ्रद्धया युक्तो यश्च भक्त्यानुकीर्तयेत् ॥ ४७ ॥
न वै स नरकं याति नेक्षितो यमकिङ्करै: ।
यद्यप्यमङ्गलो मर्त्यो विष्णुलोके महीयते ॥ ४८ ॥

Text 49

म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् ।
अजामिलोऽप्यगाद्धाम किमुत श्रद्धया गृणन् ॥ ४९ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here