Mail ID: contact@vedavarsity.com

Contact: +91 9634998911

Google search engineGoogle search engine
Home Blog Page 92

Srimad Bhagavatam | Canto 1 | Chapter 4 | Verses

0

The Appearance of Śrī Nārada

Text 1

व्यास उवाच
इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम् ।
वृद्ध: कुलपति: सूतं बह्‌वृच: शौनकोऽब्रवीत् ॥ १ ॥

Text 2

शौनक उवाच
सूत सूत महाभाग वद नो वदतां वर ।
कथां भागवतीं पुण्यां यदाह भगवाञ्छुक: ॥ २ ॥

Text 3

कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना ।
कुत: सञ्चोदित: कृष्ण: कृतवान् संहितां मुनि: ॥ ३ ॥

Text 4

तस्य पुत्रो महायोगी समद‍ृङ्‍‌निर्विकल्पक: ।
एकान्तमतिरुन्निद्रो गूढो मूढ इवेयते ॥ ४ ॥

Text 5

द‍ृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं
देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम् ।
तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति
स्त्रीपुम्भिदा न तु सुतस्य विविक्तद‍ृष्टे: ॥ ५ ॥

Text 6

कथमालक्षित: पौरै: सम्प्राप्त: कुरुजाङ्गलान् ।
उन्मत्तमूकजडवद्विचरन् गजसाह्वये ॥ ६ ॥

Text 7

कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह ।
संवाद: समभूत्तात यत्रैषा सात्वती श्रुति: ॥ ७ ॥

Text 8

स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम् ।
अवेक्षते महाभागस्तीर्थीकुर्वंस्तदाश्रमम् ॥ ८ ॥

Text 9

अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम् ।
तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि न: ॥ ९ ॥

Text 10

स सम्राट् कस्य वा हेतो: पाण्डूनां मानवर्धन: ।
प्रायोपविष्टो गङ्गायामनाद‍ृत्याधिराट्‌श्रियम् ॥ १० ॥

Text 11

नमन्ति यत्पादनिकेतमात्मन:
शिवायहानीय धनानि शत्रव: ।
कथं स वीर: श्रियमङ्ग दुस्त्यजां
युवैषतोत्स्रष्टुमहो सहासुभि: ॥ ११ ॥

Text 12

शिवाय लोकस्य भवाय भूतये
य उत्तमश्लोकपरायणा जना: ।
जीवन्ति नात्मार्थमसौ पराश्रयं
मुमोच निर्विद्य कुत: कलेवरम् ॥ १२ ॥

Text 13

तत्सर्वं न: समाचक्ष्व पृष्टो यदिह किञ्चन ।
मन्ये त्वां विषये वाचां स्‍नातमन्यत्र छान्दसात् ॥ १३ ॥

Text 14

सूत उवाच
द्वापरे समनुप्राप्ते तृतीये युगपर्यये ।
जात: पराशराद्योगी वासव्यां कलया हरे: ॥ १४ ॥

Text 15

स कदाचित्सरस्वत्या उपस्पृश्य जलं शुचि: ।
विविक्त एक आसीन उदिते रविमण्डले ॥ १५ ॥

Text 16

परावरज्ञ: स ऋषि: कालेनाव्यक्तरंहसा ।
युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे ॥ १६ ॥

Texts 17-18

भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् ।
अश्रद्दधानान्नि:सत्त्वान्दुर्मेधान् ह्रसितायुष: ॥ १७ ॥
दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा ।
सर्ववर्णाश्रमाणां यद्दध्यौ हितममोघद‍ृक् ॥ १८ ॥

Text 19

चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् ।
व्यदधाद्यज्ञसन्तत्यै वेदमेकं चतुर्विधम् ॥ १९ ॥

Text 20

ऋग्यजु:सामाथर्वाख्या वेदाश्चत्वार उद्‍धृता: ।
इतिहासपुराणं च पञ्चमो वेद उच्यते ॥ २० ॥

Text 21

तत्रर्ग्वेदधर: पैल: सामगो जैमिनि: कवि: ।
वैशम्पायन एवैको निष्णातो यजुषामुत ॥ २१ ॥

Text 22

अथर्वाङ्गिरसामासीत्सुमन्तुर्दारुणो मुनि: ।
इतिहासपुराणानां पिता मे रोमहर्षण: ॥ २२ ॥

Text 23

त एत ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा ।
शिष्यै: प्रशिष्यैस्तच्छिष्यैर्वेदास्ते शाखिनोऽभवन् ॥ २३ ॥

Text 24

त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा ।
एवं चकार भगवान् व्यास: कृपणवत्सल: ॥ २४ ॥

Text 25

स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा ।
कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह ।
इति भारतमाख्यानं कृपया मुनिना कृतम् ॥ २५ ॥

Text 26

एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजा: ।
सर्वात्मकेनापि यदा नातुष्यद्‍धृदयं तत: ॥ २६ ॥

Text 27

नातिप्रसीदद्‍धृदय: सरस्वत्यास्तटे शुचौ ।
वितर्कयन् विविक्तस्थ इदं चोवाच धर्मवित् ॥ २७ ॥

Texts 28-29

धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नय: ।
मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥ २८ ॥
भारतव्यपदेशेन ह्याम्नायार्थश्च प्रदर्शित: ।
द‍ृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत ॥ २९ ॥

Text 30

तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभु: ।
असम्पन्न इवाभाति ब्रह्मवर्चस्य सत्तम: ॥ ३० ॥

Text 31

किं वा भागवता धर्मा न प्रायेण निरूपिता: ।
प्रिया: परमहंसानां त एव ह्यच्युतप्रिया: ॥ ३१ ॥

Text 32

तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यत: ।
कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम् ॥ ३२ ॥

Text 33

तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनि: ।
पूजयामास विधिवन्नारदं सुरपूजितम् ॥ ३३ ॥

Srimad Bhagavatam | Canto 1 | Chapter 3 | Verses

0

Kṛṣṇa Is the Source of All Incarnations

Text 1

सूत उवाच
जगृहे पौरुषं रूपं भगवान्महदादिभि: ।
सम्भूतं षोडशकलमादौ लोकसिसृक्षया ॥ १ ॥

Text 2

यस्याम्भसि शयानस्य योगनिद्रां वितन्वत: ।
नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पति: ॥ २ ॥

Text 3

यस्यावयवसंस्थानै: कल्पितो लोकविस्तर: ।
तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् ॥ ३ ॥

Text 4

पश्यन्त्यदो रूपमदभ्रचक्षुषा
सहस्रपादोरुभुजाननाद्भुतम् ।
सहस्रमूर्धश्रवणाक्षिनासिकं
सहस्रमौल्यम्बरकुण्डलोल्लसत् ॥ ४ ॥

Text 5

एतन्नानावताराणां निधानं बीजमव्ययम् ।
यस्यांशांशेन सृज्यन्ते देवतिर्यङ्‍नरादय: ॥ ५ ॥

Text 6

स एव प्रथमं देव: कौमारं सर्गमाश्रित: ।
चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम् ॥ ६ ॥

Text 7

द्वितीयं तु भवायास्य रसातलगतां महीम् ।
उद्धरिष्यन्नुपादत्त यज्ञेश: सौकरं वपु: ॥ ७ ॥

Text 8

तृतीयमृषिसर्गं वै देवर्षित्वमुपेत्य स: ।
तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यत: ॥ ८ ॥

Text 9

तुर्ये धर्मकलासर्गे नरनारायणावृषी ।
भूत्वात्मोपशमोपेतमकरोद्दुश्चरं तप: ॥ ९ ॥

Text 10

पञ्चम: कपिलो नाम सिद्धेश: कालविप्लुतम् ।
प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् ॥ १० ॥

Text 11

षष्ठमत्रेरपत्यत्वं वृत: प्राप्तोऽनसूयया ।
आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ ११ ॥

Text 12

तत: सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत ।
स यामाद्यै: सुरगणैरपात्स्वायम्भुवान्तरम् ॥ १२ ॥

Text 13

अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रम: ।
दर्शयन् वर्त्म धीराणां सर्वाश्रमनमस्कृतम् ॥ १३ ॥

Text 14

ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपु: ।
दुग्धेमामोषधीर्विप्रास्तेनायं स उशत्तम: ॥ १४ ॥

Text 15

रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे ।
नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् ॥ १५ ॥

Text 16

सुरासुराणामुदधिं मथ्नतां मन्दराचलम् ।
दध्रे कमठरूपेण पृष्ठ एकादशे विभु: ॥ १६ ॥

Text 17

धान्वन्तरं द्वादशमं त्रयोदशममेव च ।
अपाययत्सुरानन्यान्मोहिन्या मोहयन् स्त्रिया ॥ १७ ॥

Text 18

चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्जितम् ।
ददार करजैरूरावेरकां कटकृद्यथा ॥ १८ ॥

Text 19

पञ्चदशं वामनकं कृत्वागादध्वरं बले: ।
पदत्रयं याचमान: प्रत्यादित्सुस्त्रिपिष्टपम् ॥ १९ ॥

Text 20

अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् ।
त्रि:सप्तकृत्व: कुपितो नि:क्षत्रामकरोन्महीम् ॥ २० ॥

Text 21

तत: सप्तदशे जात: सत्यवत्यां पराशरात् ।
चक्रे वेदतरो: शाखा द‍ृष्ट्वा पुंसोऽल्पमेधस: ॥ २१ ॥

Text 22

नरदेवत्वमापन्न: सुरकार्यचिकीर्षया ।
समुद्रनिग्रहादीनि चक्रे वीर्याण्यत: परम् ॥ २२ ॥

Text 23

एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।
रामकृष्णाविति भुवो भगवानहरद्भ‍रम् ॥ २३ ॥

Text 24

तत: कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् ।
बुद्धो नाम्नाञ्जनसुत: कीकटेषु भविष्यति ॥ २४ ॥

Text 25

अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु ।
जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पति: ॥ २५ ॥

Text 26

अवतारा ह्यसङ्ख्येया हरे: सत्त्वनिधेर्द्विजा: ।
यथाविदासिन: कुल्या: सरस: स्यु: सहस्रश: ॥ २६ ॥

Text 27

ऋषयो मनवो देवा मनुपुत्रा महौजस: ।
कला: सर्वे हरेरेव सप्रजापतय: स्मृता: ॥ २७ ॥

Text 28

एते चांशकला: पुंस: कृष्णस्तु भगवान् स्वयम् ।
इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥ २८ ॥

Text 29

जन्म गुह्यं भगवतो य एतत्प्रयतो नर: ।
सायं प्रातर्गृणन् भक्त्या दु:खग्रामाद्विमुच्यते ॥ २९ ॥

Text 30

एतद्रूपं भगवतो ह्यरूपस्य चिदात्मन: ।
मायागुणैर्विरचितं महदादिभिरात्मनि ॥ ३० ॥

Text 31

यथा नभसि मेघौघो रेणुर्वा पार्थिवोऽनिले ।
एवं द्रष्टरि द‍ृश्यत्वमारोपितमबुद्धिभि: ॥ ३१ ॥

Text 32

अत: परं यदव्यक्तमव्यूढगुणबृंहितम् ।
अद‍ृष्टाश्रुतवस्तुत्वात्स जीवो यत्पुनर्भव: ॥ ३२ ॥

Text 33

यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा ।
अविद्ययात्मनि कृते इति तद्ब्रह्मदर्शनम् ॥ ३३ ॥

Text 34

यद्येषोपरता देवी माया वैशारदी मति: ।
सम्पन्न एवेति विदुर्महिम्नि स्वे महीयते ॥ ३४ ॥

Text 35

एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च ।
वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पते: ॥ ३५ ॥

Text 36

स वा इदं विश्वममोघलील:
सृजत्यवत्यत्ति न सज्जतेऽस्मिन् ।
भूतेषु चान्तर्हित आत्मतन्त्र:
षाड्‍वर्गिकं जिघ्रति षड्‍गुणेश: ॥ ३६ ॥

Text 37

न चास्य कश्चिन्निपुणेन धातु-
रवैति जन्तु: कुमनीष ऊती: ।
नामानि रूपाणि मनोवचोभि:
सन्तन्वतो नटचर्यामिवाज्ञ: ॥ ३७ ॥

Text 38

स वेद धातु: पदवीं परस्य
दुरन्तवीर्यस्य रथाङ्गपाणे: ।
योऽमायया सन्ततयानुवृत्त्या
भजेत तत्पादसरोजगन्धम् ॥ ३८ ॥

Text 39

अथेह धन्या भगवन्त इत्थं
यद्वासुदेवेऽखिललोकनाथे ।
कुर्वन्ति सर्वात्मकमात्मभावं
न यत्र भूय: परिवर्त उग्र: ॥ ३९ ॥

Text 40

इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।
उत्तमश्लोकचरितं चकार भगवानृषि: ।
नि:श्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत् ॥ ४० ॥

Text 41

तदिदं ग्राहयामास सुतमात्मवतां वरम् ।
सर्ववेदेतिहासानां सारं सारं समुद्‍धृतम् ॥ ४१ ॥

Text 42

स तु संश्रावयामास महाराजं परीक्षितम् ।
प्रायोपविष्टं गङ्गायां परीतं परमर्षिभि: ॥ ४२ ॥

Text 43

कृष्णे स्वधामोपगते धर्मज्ञानादिभि: सह ।
कलौ नष्टद‍ृशामेष पुराणार्कोऽधुनोदित: ॥ ४३ ॥

Text 44

तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजस: ।
अहं चाध्यगमं तत्र निविष्टस्तदनुग्रहात् ।
सोऽहं व: श्रावयिष्यामि यथाधीतं यथामति ॥ ४४ ॥

Srimad Bhagavatam | Canto 1 | Chapter 2 | Verses

0

Divinity and Divine Service

Text 1

व्यास उवाच
इति सम्प्रश्नसंहृष्टो विप्राणां रौमहर्षणि: ।
प्रतिपूज्य वचस्तेषां प्रवक्तुमुपचक्रमे ॥ १ ॥

Text 2

सूत उवाच
यं प्रव्रजन्तमनुपेतमपेतकृत्यं
द्वैपायनो विरहकातर आजुहाव ।
पुत्रेति तन्मयतया तरवोऽभिनेदु-
स्तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥ २ ॥

Text 3

य: स्वानुभावमखिलश्रुतिसारमेक-
मध्यात्मदीपमतितितीर्षतां तमोऽन्धम् ।
संसारिणां करुणयाह पुराणगुह्यं
तं व्याससूनुमुपयामि गुरुं मुनीनाम् ॥ ३ ॥

Text 4

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ४ ॥

Text 5

मुनय: साधु पृष्टोऽहं भवद्भ‍िर्लोकमङ्गलम् ।
यत्कृत: कृष्णसम्प्रश्नो येनात्मा सुप्रसीदति ॥ ५ ॥

Text 6

स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे ।
अहैतुक्यप्रतिहता ययात्मा सुप्रसीदति ॥ ६ ॥

Text 7

वासुदेवे भगवति भक्तियोग: प्रयोजित: ।
जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम् ॥ ७ ॥

Text 8

धर्म: स्वनुष्ठित: पुंसां विष्वक्सेनकथासु य: ।
नोत्पादयेद्यदि रतिं श्रम एव हि केवलम् ॥ ८ ॥

Text 9

धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते ।
नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृत: ॥ ९ ॥

Text 10

कामस्य नेन्द्रियप्रीतिर्लाभो जीवेत यावता ।
जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभि: ॥ १० ॥

Text 11

वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् ।
ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ ११ ॥

Text 12

तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया ।
पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया ॥ १२ ॥

Text 13

अत: पुम्भिर्द्विजश्रेष्ठा वर्णाश्रमविभागश: ।
स्वनुष्ठितस्य धर्मस्य संसिद्धिर्हरितोषणम् ॥ १३ ॥

Text 14

तस्मादेकेन मनसा भगवान् सात्वतां पति: ।
श्रोतव्य: कीर्तितव्यश्च ध्येय: पूज्यश्च नित्यदा ॥ १४ ॥

Text 15

यदनुध्यासिना युक्ता: कर्मग्रन्थिनिबन्धनम् ।
छिन्दन्ति कोविदास्तस्य को न कुर्यात्कथारतिम् ॥ १५ ॥

Text 16

शुश्रूषो: श्रद्दधानस्य वासुदेवकथारुचि: ।
स्यान्महत्सेवया विप्रा: पुण्यतीर्थनिषेवणात् ॥ १६ ॥

Text 17

श‍ृण्वतां स्वकथा: कृष्ण: पुण्यश्रवणकीर्तन: ।
हृद्यन्त:स्थो ह्यभद्राणि विधुनोति सुहृत्सताम् ॥ १७ ॥

Text 18

नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया ।
भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी ॥ १८ ॥

Text 19

तदा रजस्तमोभावा: कामलोभादयश्च ये ।
चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ १९ ॥

Text 20

एवं प्रसन्नमनसो भगवद्भक्तियोगत: ।
भगवत्तत्त्वविज्ञानं मुक्तसङ्गस्य जायते ॥ २० ॥

Text 21

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशया: ।
क्षीयन्ते चास्य कर्माणि द‍ृष्ट एवात्मनीश्वरे ॥ २१ ॥

Text 22

अतो वै कवयो नित्यं भक्तिं परमया मुदा ।
वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम् ॥ २२ ॥

Text 23

सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तै-
र्युक्त: पर: पुरुष एक इहास्य धत्ते ।
स्थित्यादये हरिविरिञ्चिहरेति संज्ञा:
श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्यु: ॥ २३ ॥

Text 24

पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमय: ।
तमसस्तु रजस्तस्मात्सत्त्वं यद्ब्रह्मदर्शनम् ॥ २४ ॥

Text 25

भेजिरे मुनयोऽथाग्रे भगवन्तमधोक्षजम् ।
सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तानिह ॥ २५ ॥

Text 26

मुमुक्षवो घोररूपान् हित्वा भूतपतीनथ ।
नारायणकला: शान्ता भजन्ति ह्यनसूयव: ॥ २६ ॥

Text 27

रजस्तम:प्रकृतय: समशीला भजन्ति वै ।
पितृभूतप्रजेशादीन्श्रियैश्वर्यप्रजेप्सव: ॥ २७ ॥

Texts 28-29

वासुदेवपरा वेदा वासुदेवपरा मखा: ।
वासुदेवपरा योगा वासुदेवपरा: क्रिया: ॥ २८ ॥
वासुदेवपरं ज्ञानं वासुदेवपरं तप: ।
वासुदेवपरो धर्मो वासुदेवपरा गति: ॥ २९ ॥

Text 30

स एवेदं ससर्जाग्रे भगवानात्ममायया ।
सदसद्रूपया चासौ गुणमयागुणो विभु: ॥ ३० ॥

Text 31

तया विलसितेष्वेषु गुणेषु गुणवानिव ।
अन्त:प्रविष्ट आभाति विज्ञानेन विजृम्भित: ॥ ३१ ॥

Text 32

यथा ह्यवहितो वह्निर्दारुष्वेक: स्वयोनिषु ।
नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् ॥ ३२ ॥

Text 33

असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभि: ।
स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् ॥ ३३ ॥

Text 34

भावयत्येष सत्त्वेन लोकान् वै लोकभावन: ।
लीलावतारानुरतो देवतिर्यङ्‍नरादिषु ॥ ३४ ॥

Srimad Bhagavatam | Canto 1 | Chapter 1 | Verses

0

Questions by the Sages

Text 1

ॐ नमो भगवते वासुदेवाय
जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञ: स्वराट्
तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरय: ।
तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा
धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥ १ ॥

Text 2

धर्म: प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां
वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।
श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वर:
सद्यो हृद्यवरुध्यतेऽत्र कृतिभि: शुश्रूषुभिस्तत्क्षणात् ॥ २ ॥

Text 3

निगमकल्पतरोर्गलितं फलं
शुकमुखादमृतद्रवसंयुतम् ।
पिबत भागवतं रसमालयं
मुहुरहो रसिका भुवि भावुका: ॥ ३ ॥

Text 4

नैमिषेऽनिमिषक्षेत्रे ऋषय: शौनकादय: ।
सत्रं स्वर्गायलोकाय सहस्रसममासत ॥ ४ ॥

Text 5

त एकदा तु मुनय: प्रातर्हुतहुताग्नय: ।
सत्कृतं सूतमासीनं पप्रच्छुरिदमादरात् ॥ ५ ॥

Text 6

त्वया खलु पुराणानि सेतिहासानि चानघ ।
आख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युत ॥ ६ ॥

Text 7

यानि वेदविदां श्रेष्ठो भगवान् बादरायण: ।
अन्ये च मुनय: सूत परावरविदो विदु: ॥ ७ ॥

Text 8

वेत्थ त्वं सौम्य तत्सर्वं तत्त्वतस्तदनुग्रहात् ।
ब्रूयु: स्‍निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ८ ॥

Text 9

तत्र तत्राञ्जसायुष्मन् भवता यद्विनिश्चितम् ।
पुंसामेकान्तत: श्रेयस्तन्न: शंसितुमर्हसि ॥ ९ ॥

Text 10

प्रायेणाल्पायुष: सभ्य कलावस्मिन् युगे जना: ।
मन्दा: सुमन्दमतयो मन्दभाग्या ह्युपद्रुता: ॥ १० ॥

Text 11

भूरीणि भूरिकर्माणि श्रोतव्यानि विभागश: ।
अत: साधोऽत्र यत्सारं समुद्‍धृत्य मनीषया ।
ब्रूहि भद्रायभूतानां येनात्मा सुप्रसीदति ॥ ११ ॥

Text 12

सूत जानासि भद्रं ते भगवान् सात्वतां पति: ।
देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥ १२ ॥

Text 13

तन्न: शुश्रूषमाणानामर्हस्यङ्गानुवर्णितुम् ।
यस्यावतारो भूतानां क्षेमाय च भवाय च ॥ १३ ॥

Text 14

आपन्न: संसृतिं घोरां यन्नाम विवशो गृणन् ।
तत: सद्यो विमुच्येत यद्ब‍िभेति स्वयं भयम् ॥ १४ ॥

Text 15

यत्पादसंश्रया: सूत मुनय: प्रशमायना: ।
सद्य: पुनन्त्युपस्पृष्टा: स्वर्धुन्यापोऽनुसेवया ॥ १५ ॥

Text 16

को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मण: ।
शुद्धिकामो न श‍ृणुयाद्यश: कलिमलापहम् ॥ १६ ॥

Text 17

तस्य कर्माण्युदाराणि परिगीतानि सूरिभि: ।
ब्रूहि न: श्रद्दधानानां लीलया दधत: कला: ॥ १७ ॥

Text 18

अथाख्याहिहरेर्धीमन्नवतारकथा: शुभा: ।
लीला विदधत: स्वैरमीश्वरस्यात्ममायया ॥ १८ ॥

Text 19

वयं तु न वितृप्याम उत्तमश्लोकविक्रमे ।
यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥ १९ ॥

Text 20

कृतवान् किल कर्माणि सह रामेण केशव: ।
अतिमर्त्यानि भगवान् गूढ: कपटमानुष: ॥ २० ॥

Text 21

कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् ।
आसीना दीर्घसत्रेण कथायां सक्षणा हरे: ॥ २१ ॥

Text 22

त्वं न: सन्दर्शितो धात्रा दुस्तरं निस्तितीर्षताम् ।
कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम् ॥ २२ ॥

Text 23

ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि ।
स्वां काष्ठामधुनोपेते धर्म: कं शरणं गत: ॥ २३ ॥

Ahulya Math

0

This important place is the Puri home of Lord Nityananda and Sri Advaita Acarya. It is difficult to locate this place because this is in a private home and very unfortunately the owners have removed sign-boards for this very important place. It on the other side of Grand Road, 5mins walk from Gaudiya Math temple. Coming from Gaudiya Math, go down Heragohiri-sahi road toward Daitaparha-sahi area. Go past Jaduani library and Temple passing police station. On the chowk (intersection), just opposite to chemist shop, a private home with green color small entrance door is the spot. Present day, unfortunately, this very important spot is in a very deprecated and neglected state.

Sri Gauranga Mahaprabhu stands in the centre flanked by Sri Advaita Acarya and Srimati Sita Thakurani (the eternal wife of Sri Advaita Acarya) on His left, and Sri Nityananda Prabhu on His right. Small Deities of Jagannatha, Radha-Krishna and salagrama are also on the altar.

Mausi Maa Mandir

0

In Orissa “Mausi Ma” means aunty. Temple is situated almost the mid-way of the Grand road, a small temple of the Goddess Ardhasini otherwise called as Mausima of Lord Jagannatha. She is maha-saktis who also help protect Puri Dhama. According to local stories, once Lakshmi Devi left Sri Mandira, and thus Jagannatha and Baladeva becomes poor. They had nothing to eat for a long period of time and so they had to go out begging. When Jagannatha and Baladeva were out during that time, Subhadra Devi was forced to stay here at Mausi Ma, or aunty’s house. During return of Rathayatra all chariots stop here at Mausi Ma Mandira and the Deities are offered Poda Pitha, a kind of cake.

Bali-Math

0

This is in Markandeshwar-sahi area behind Bada Oriya Math, 5 mins from Markandeya Sarovara. It is said that Srila Abhirama Thakura (Abhirama Gopala) who is Sridhama in Krishna-lila, established this classic temple, which now desperately needs renovation. Deities are Sri Sri Radha-Krishna, Sri Sri Radha Madana-Mohana vijaya-vigraha, Patita-pavana Jagannatha Deva, many salagrama-silas and a murti named Abhirama Gopala.

Deities worshipped by Abhirama Thakura

Visakha Math

0

This extremely small holy spot is only 5 mins from Markandeya Sarovara. Madhava Chandra Dasa worships the Deities in a make ship Deity room next to the original temple which is now severely rundown. It is said that Sri Narahari Sarakara Thakura, an eternal associate of Sri Caitanya Mahaprabhu, installed and worshiped 5 feet tall, blissfully dancing neem wood Deities of Gaura Gadadhara here. Jagannatha, Baladeva, Subhadra and many salagrama-silas share the altar.

SRI SRI GAURA-GADADHARA WORSHIPPED BY NARAHARI THAKURA

Markandeya Sarovar

0

c Sri Madana-mohana, Lord Jagannatha’s utsava murti, enacts His Kaliya-mardana-lila (crushing Kaliya serpent) in this holy tank.

If one bathes in Markandeya Sarovara and then takes darshan of Markandesvara Mahadeva, he obtains the pious result of performing rajasuya and asvamedha yajnas.

Indradhyumna Sarovara

0
Sacred Indradyumna Sarovar (Lake) in Puri. This lake named in memory of ancient king Indradyumna, builder of famous Jagannath temple

This water tank is half km from Gundica temple. Mahaprabhu took water from here to cleanse Gundica temple. There are 3 main temples here: Indradyumna Maharaja’s temple on left side near tank, a large Saksi Gopala temple on right side and Nilakantesvara Mahadeva Siva temple mid way down the stairs leading to the sarovara.

Mother Cow creates a huge lake: Millions of years ago during Satya-yuga, King Indradyumna performed asvamedha-yajna (horse sacrifice) here. At that time he honoured the assembled Brahmins by donating 1000’s of cows. While all those heavy cows were standing here, their hooves made a deep depression in the earth; creating a large lake. Lake became filled with water and cow urine. Since then it became a tirtha, a purifying place of pilgrimage. Skanda Purana says that this is the best of all tirthas. Chandana Yatra and Sitala-sthali festival are pompously celebrated here

Stay Connected

16,985FansLike
12,500FollowersFollow
61,453SubscribersSubscribe