Mail ID: contact@vedavarsity.com

Contact: +91 9634998911

Google search engineGoogle search engine
Home Blog Page 85

Srimad Bhagavatam | Canto 4 | Chapter 14 | Verses

0

The Story of King Vena

Text 1

मैत्रेय उवाच
भृग्वादयस्ते मुनयो लोकानां क्षेमदर्शिन: ।
गोप्तर्यसति वै नृणां पश्यन्त: पशुसाम्यताम् ॥ १ ॥

Text 2

वीरमातरमाहूय सुनीथां ब्रह्मवादिन: ।
प्रकृत्यसम्मतं वेनमभ्यषिञ्चन् पतिं भुव: ॥ २ ॥

Text 3

श्रुत्वा नृपासनगतं वेनमत्युग्रशासनम् ।
निलिल्युर्दस्यव: सद्य: सर्पत्रस्ता इवाखव: ॥ ३ ॥

Text 4

स आरूढनृपस्थान उन्नद्धोऽष्टविभूतिभि: ।
अवमेने महाभागान् स्तब्ध: सम्भावित: स्वत: ॥ ४ ॥

Text 5

एवं मदान्ध उत्सिक्तो निरङ्कुश इव द्विप: ।
पर्यटन् रथमास्थाय कम्पयन्निव रोदसी ॥ ५ ॥

Text 6

न यष्टव्यं न दातव्यं न होतव्यं द्विजा: क्‍वचित् ।
इति न्यवारयद्धर्मं भेरीघोषेण सर्वश: ॥ ६ ॥

Text 7

वेनस्यावेक्ष्य मुनयो दुर्वृत्तस्य विचेष्टितम् ।
विमृश्य लोकव्यसनं कृपयोचु: स्म सत्रिण: ॥ ७ ॥

Text 8

अहो उभयत: प्राप्तं लोकस्य व्यसनं महत् ।
दारुण्युभयतो दीप्ते इव तस्करपालयो: ॥ ८ ॥

Text 9

अराजकभयादेष कृतो राजातदर्हण: ।
ततोऽप्यासीद्भयं त्वद्य कथं स्यात्स्वस्ति देहिनाम् ॥ ९ ॥

Text 10

अहेरिव पय:पोष: पोषकस्याप्यनर्थभृत् ।
वेन: प्रकृत्यैव खल: सुनीथागर्भसम्भव: ॥ १० ॥

Text 11

निरूपित: प्रजापाल: स जिघांसति वै प्रजा: ।
तथापि सान्‍त्वयेमामुं नास्मांस्तत्पातकं स्पृशेत् ॥ ११ ॥

Text 12

तद्विद्वद्‌भिरसद्‍वृत्तो वेनोऽस्माभि: कृतो नृप: ।
सान्त्वितो यदि नो वाचं न ग्रहीष्यत्यधर्मकृत् ।
लोकधिक्कारसन्दग्धं दहिष्याम: स्वतेजसा ॥ १२ ॥

Text 13

एवमध्यवसायैनं मुनयो गूढमन्यव: ।
उपव्रज्याब्रुवन् वेनं सान्‍त्वयित्वा च सामभि: ॥ १३ ॥

Text 14

मुनय ऊचु:
नृपवर्य निबोधैतद्यत्ते विज्ञापयाम भो: ।
आयु:श्रीबलकीर्तीनां तव तात विवर्धनम् ॥ १४ ॥

Text 15

धर्म आचरित: पुंसां वाङ्‍मन:कायबुद्धिभि: ।
लोकान् विशोकान् वतरत्यथानन्त्यमसङ्गिनाम् ॥ १५ ॥

Text 16

स ते मा विनशेद्वीर प्रजानां क्षेमलक्षण: ।
यस्मिन् विनष्टे नृपतिरैश्वर्यादवरोहति ॥ १६ ॥

Text 17

राजन्नसाध्वमात्येभ्यश्चोरादिभ्य: प्रजा नृप: ।
रक्षन्यथा बलिं गृह्णन्निह प्रेत्य च मोदते ॥ १७ ॥

Text 18

यस्य राष्ट्रे पुरे चैव भगवान् यज्ञपूरुष: ।
इज्यते स्वेन धर्मेण जनैर्वर्णाश्रमान्वितै: ॥ १८ ॥

Text 19

तस्य राज्ञो महाभाग भगवान् भूतभावन: ।
परितुष्यति विश्वात्मा तिष्ठतो निजशासने ॥ १९ ॥

Text 20

तस्मिंस्तुष्टे किमप्राप्यं जगतामीश्वरेश्वरे ।
लोका: सपाला ह्येतस्मै हरन्ति बलिमाद‍ृता: ॥ २० ॥

Text 21

तं सर्वलोकामरयज्ञसङ्ग्रहं
त्रयीमयं द्रव्यमयं तपोमयम् ।
यज्ञैर्विचित्रैर्यजतो भवाय ते
राजन् स्वदेशाननुरोद्धुमर्हसि ॥ २१ ॥

Text 22

यज्ञेन युष्मद्विषये द्विजातिभि-
र्वितायमानेन सुरा: कला हरे: ।
स्विष्टा: सुतुष्टा: प्रदिशन्ति वाञ्छितं
तद्धेलनं नार्हसि वीर चेष्टितुम् ॥ २२ ॥

Text 23

वेन उवाच
बालिशा बत यूयं वा अधर्मे धर्ममानिन: ।
ये वृत्तिदं पतिं हित्वा जारं पतिमुपासते ॥ २३ ॥

Text 24

अवजानन्त्यमी मूढा नृपरूपिणमीश्वरम् ।
नानुविन्दन्ति ते भद्रमिह लोके परत्र च ॥ २४ ॥

Text 25

को यज्ञपुरुषो नाम यत्र वो भक्तिरीद‍ृशी ।
भर्तृस्‍नेहविदूराणां यथा जारे कुयोषिताम् ॥ २५ ॥

Texts 26-27

विष्णुर्विरिञ्चो गिरिश इन्द्रो वायुर्यमो रवि: ।
पर्जन्यो धनद: सोम: क्षितिरग्निरपाम्पति: ॥ २६ ॥
एते चान्ये च विबुधा: प्रभवो वरशापयो: ।
देहे भवन्ति नृपते: सर्वदेवमयो नृप: ॥ २७ ॥

Text 28

तस्मान्मां कर्मभिर्विप्रा यजध्वं गतमत्सरा: ।
बलिं च मह्यं हरत मत्तोऽन्य: कोऽग्रभुक्पुमान् ॥ २८ ॥

Text 29

मैत्रेय उवाच
इत्थं विपर्ययमति: पापीयानुत्पथं गत: ।
अनुनीयमानस्तद्याच्ञां न चक्रे भ्रष्टमङ्गल: ॥ २९ ॥

Text 30

इति तेऽसत्कृतास्तेन द्विजा: पण्डितमानिना ।
भग्नायां भव्ययाच्ञायां तस्मै विदुर चुक्रुधु: ॥ ३० ॥

Text 31

हन्यतां हन्यतामेष पाप: प्रकृतिदारुण: ।
जीवञ्जगदसावाशु कुरुते भस्मसाद् ध्रुवम् ॥ ३१ ॥

Text 32

नायमर्हत्यसद्‍वृत्तो नरदेववरासनम् ।
योऽधियज्ञपतिं विष्णुं विनिन्दत्यनपत्रप: ॥ ३२ ॥

Text 33

को वैनं परिचक्षीत वेनमेकमृतेऽशुभम् ।
प्राप्त ईद‍ृशमैश्वर्यं यदनुग्रहभाजन: ॥ ३३ ॥

Text 34

इत्थं व्यवसिता हन्तुमृषयो रूढमन्यव: ।
निजघ्नुर्हुङ्कृतैर्वेनं हतमच्युतनिन्दया ॥ ३४ ॥

Text 35

ऋषिभि: स्वाश्रमपदं गते पुत्रकलेवरम् ।
सुनीथा पालयामास विद्यायोगेन शोचती ॥ ३५ ॥

Text 36

एकदा मुनयस्ते तु सरस्वत्सलिलाप्लुता: ।
हुत्वाग्नीन् सत्कथाश्चक्रुरुपविष्टा: सरित्तटे ॥ ३६ ॥

Text 37

वीक्ष्योत्थितांस्तदोत्पातानाहुर्लोकभयङ्करान् ।
अप्यभद्रमनाथाया दस्युभ्यो न भवेद्भुव: ॥ ३७ ॥

Text 38

एवं मृशन्त ऋषयो धावतां सर्वतोदिशम् ।
पांसु: समुत्थितो भूरिश्चोराणामभिलुम्पताम् ॥ ३८ ॥

Texts 39-40

तदुपद्रवमाज्ञाय लोकस्य वसु लुम्पताम् ।
भर्तर्युपरते तस्मिन्नन्योन्यं च जिघांसताम् ॥ ३९ ॥
चोरप्रायं जनपदं हीनसत्त्वमराजकम् ।
लोकान्नावारयञ्छक्ता अपि तद्दोषदर्शिन: ॥ ४० ॥

Text 41

ब्राह्मण: समद‍ृक् शान्तो दीनानां समुपेक्षक: ।
स्रवते ब्रह्म तस्यापि भिन्नभाण्डात्पयो यथा ॥ ४१ ॥

Text 42

नाङ्गस्य वंशो राजर्षेरेष संस्थातुमर्हति ।
अमोघवीर्या हि नृपा वंशेऽस्मिन् केशवाश्रया: ॥ ४२ ॥

Text 43

विनिश्चित्यैवमृषयो विपन्नस्य महीपते: ।
ममन्थुरूरुं तरसा तत्रासीद्बाहुको नर: ॥ ४३ ॥

Text 44

काककृष्णोऽतिह्रस्वाङ्गो ह्रस्वबाहुर्महाहनु: ।
ह्रस्वपान्निम्ननासाग्रो रक्ताक्षस्ताम्रमूर्धज: ॥ ४४ ॥

Text 45

तं तु तेऽवनतं दीनं किं करोमीति वादिनम् ।
निषीदेत्यब्रुवंस्तात स निषादस्ततोऽभवत् ॥ ४५ ॥

Text 46

तस्य वंश्यास्तु नैषादा गिरिकाननगोचरा: ।
येनाहरज्जायमानो वेनकल्मषमुल्बणम् ॥ ४६ ॥

Srimad Bhagavatam | Canto 4 | Chapter 13 | Verses

0

Description of the Descendants of Dhruva Mahārāja

Text 1

सूत उवाच
निशम्य कौषारविणोपवर्णितंध्रुवस्य वैकुण्ठपदाधिरोहणम् । प्ररूढभावो भगवत्यधोक्षजेप्रष्टुं पुनस्तं विदुर: प्रचक्रमे ॥ १ ॥

Text 2

विदुर उवाच
के ते प्रचेतसो नाम कस्यापत्यानि
सुव्रत ।
कस्यान्ववाये प्रख्याता: कुत्र वा सत्रमासत ॥ २ ॥

Text 3

मन्ये महाभागवतं नारदं देवदर्शनम् ।
येन
प्रोक्त: क्रियायोग: परिचर्याविधिर्हरे: ॥ ३ ॥

Text 4

स्वधर्मशीलै: पुरुषैर्भगवान् यज्ञपूरुष: ।
इज्यमानो भक्तिमता नारदेनेरित: किल ॥ ४ ॥

Text 5

यास्ता देवर्षिणा तत्र वर्णिता भगवत्कथा: ।
मह्यं शुश्रूषवे ब्रह्मन् कार्त्स्‍न्येनाचष्टुमर्हसि ॥ ५ ॥

Text 6

मैत्रेय उवाच
ध्रुवस्य चोत्कल: पुत्र: पितरि प्रस्थिते वनम् ।
सार्वभौमश्रियं नैच्छदधिराजासनं पितु: ॥ ६ ॥

Text 7

स जन्मनोपशान्तात्मा नि:सङ्ग: समदर्शन: ।
ददर्श लोके विततमात्मानं लोकमात्मनि ॥ ७ ॥

Texts 8-9

आत्मानं ब्रह्म निर्वाणं प्रत्यस्तमितविग्रहम् ।
अवबोधरसैकात्म्यमानन्दमनुसन्ततम् ॥ ८ ॥
अव्यवच्छिन्नयोगाग्निदग्धकर्ममलाशय: ।
स्वरूपमवरुन्धानो नात्मनोऽन्यं तदैक्षत ॥ ९ ॥

Text 10

जडान्धबधिरोन्मत्तमूकाकृतिरतन्मति: ।
लक्षित: पथि बालानां प्रशान्तार्चिरिवानल: ॥ १० ॥

Text 11

मत्वा तं जडमुन्मत्तं कुलवृद्धा: समन्त्रिण: ।
वत्सरं भूपतिं चक्रुर्यवीयांसं भ्रमे: सुतम् ॥ ११ ॥

Text 12

स्वर्वीथिर्वत्सरस्येष्टा भार्यासूत षडात्मजान् ।
पुष्पार्णं तिग्मकेतुं च इषमूर्जं वसुं जयम् ॥ १२ ॥

Text 13

पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतु: ।
प्रातर्मध्यन्दिनं सायमिति ह्यासन् प्रभासुता: ॥ १३ ॥

Text 14

प्रदोषो निशिथो व्युष्ट इति दोषासुतास्त्रय: ।
व्युष्ट: सुतं पुष्करिण्यां सर्वतेजसमादधे ॥ १४ ॥

Texts 15-16

स चक्षु: सुतमाकूत्यां पत्‍न्यां मनुमवाप ह ।
मनोरसूत महिषी विरजान्नड्‌वला सुतान् ॥ १५ ॥
पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तमृतं व्रतम् ।
अग्निष्टोममतीरात्रं प्रद्युम्नं शिबिमुल्मुकम् ॥ १६ ॥

Text 17

उल्मुकोऽजनयत्पुत्रान्पुष्करिण्यां षडुत्तमान् ।
अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं गयम् ॥ १७ ॥

Text 18

सुनीथाङ्गस्य या पत्नी सुषुवे वेनमुल्बणम् ।
यद्दौ:शील्यात्स राजर्षिर्निर्विण्णो निरगात्पुरात् ॥ १८ ॥

Texts 19-20

यमङ्ग शेपु: कुपिता वाग्वज्रा मुनय: किल ।
गतासोस्तस्य भूयस्ते ममन्थुर्दक्षिणं करम् ॥ १९ ॥
अराजके तदा लोके दस्युभि: पीडिता: प्रजा: ।
जातो नारायणांशेन पृथुराद्य: क्षितीश्वर: ॥ २० ॥

Text 21

विदुर उवाच
तस्य शीलनिधे: साधोर्ब्रह्मण्यस्य महात्मन: ।
राज्ञ: कथमभूद्दुष्टा प्रजा यद्विमना ययौ ॥ २१ ॥

Text 22

किं वांहो वेन उद्दिश्य ब्रह्मदण्डमयूयुजन् ।
दण्डव्रतधरे राज्ञि मुनयो धर्मकोविदा: ॥ २२ ॥

Text 23

नावध्येय: प्रजापाल: प्रजाभिरघवानपि ।
यदसौ लोकपालानां बिभर्त्योज: स्वतेजसा ॥ २३ ॥

Text 24

एतदाख्याहि मे ब्रह्मन् सुनीथात्मजचेष्टितम् ।
श्रद्दधानाय भक्ताय त्वं परावरवित्तम: ॥ २४ ॥

Text 25

मैत्रेय उवाच
अङ्गोऽश्वमेधं राजर्षिराजहार महाक्रतुम् ।
नाजग्मुर्देवतास्तस्मिन्नाहूता ब्रह्मवादिभि: ॥ २५ ॥

Text 26

तमूचुर्विस्मितास्तत्र यजमानमथर्त्विज: ।
हवींषि हूयमानानि न ते गृह्णन्ति देवता: ॥ २६ ॥

Text 27

राजन् हवींष्यदुष्टानि श्रद्धयासादितानि ते ।
छन्दांस्ययातयामानि योजितानि धृतव्रतै: ॥ २७ ॥

Text 28

न विदामेह देवानां हेलनं वयमण्वपि ।
यन्न गृह्णन्ति भागान् स्वान् ये देवा: कर्मसाक्षिण: ॥ २८ ॥

Text 29

मैत्रेय उवाच
अङ्गो द्विजवच: श्रुत्वा यजमान: सुदुर्मना: ।
तत्प्रष्टुं व्यसृजद्वाचं सदस्यांस्तदनुज्ञया ॥ २९ ॥

Text 30

नागच्छन्त्याहुता देवा न गृह्णन्ति ग्रहानिह ।
सदसस्पतयो ब्रूत किमवद्यं मया कृतम् ॥ ३० ॥

Text 31

सदसस्पतय ऊचु:
नरदेवेह भवतो नाघं तावन् मनाक्स्थितम् ।
अस्त्येकं प्राक्तनमघं यदिहेद‍ृक् त्वमप्रज: ॥ ३१ ॥

Text 32

तथा साधय भद्रं ते आत्मानं सुप्रजं नृप ।
इष्टस्ते पुत्रकामस्य पुत्रं दास्यति यज्ञभुक् ॥ ३२ ॥

Text 33

तथा स्वभागधेयानि ग्रहीष्यन्ति दिवौकस: ।
यद्यज्ञपुरुष: साक्षादपत्याय हरिर्वृत: ॥ ३३ ॥

Text 34

तांस्तान् कामान् हरिर्दद्याद्यान् यान् कामयते जन: ।
आराधितो यथैवैष तथा पुंसां फलोदय: ॥ ३४ ॥

Text 35

इति व्यवसिता विप्रास्तस्य राज्ञ: प्रजातये ।
पुरोडाशं निरवपन् शिपिविष्टाय विष्णवे ॥ ३५ ॥

Text 36

तस्मात्पुरुष उत्तस्थौ हेममाल्यमलाम्बर: ।
हिरण्मयेन पात्रेण सिद्धमादाय पायसम् ॥ ३६ ॥

Text 37

स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम् ।
अवघ्राय मुदा युक्त: प्रादात्पत्‍न्या उदारधी: ॥ ३७ ॥

Text 38

सा तत्पुंसवनं राज्ञी प्राश्य वै पत्युरादधे ।
गर्भं काल उपावृत्ते कुमारं सुषुवेऽप्रजा ॥ ३८ ॥

Text 39

स बाल एव पुरुषो मातामहमनुव्रत: ।
अधर्मांशोद्भवं मृत्युं तेनाभवदधार्मिक: ॥ ३९ ॥

Text 40

स शरासनमुद्यम्य मृगयुर्वनगोचर: ।
हन्त्यसाधुर्मृगान् दीनान् वेनोऽसावित्यरौज्जन: ॥ ४० ॥

Text 41

आक्रीडे क्रीडतो बालान् वयस्यानतिदारुण: ।
प्रसह्य निरनुक्रोश: पशुमारममारयत् ॥ ४१ ॥

Text 42

तं विचक्ष्य खलं पुत्रं शासनैर्विविधैर्नृप: ।
यदा न शासितुं कल्पो भृशमासीत्सुदुर्मना: ॥ ४२ ॥

Text 43

प्रायेणाभ्यर्चितो देवो येऽप्रजा गृहमेधिन: ।
कदपत्यभृतं दु:खं ये न विन्दन्ति दुर्भरम् ॥ ४३ ॥

Text 44

यत: पापीयसी कीर्तिरधर्मश्च महान्नृणाम् ।
यतो विरोध: सर्वेषां यत आधिरनन्तक: ॥ ४४ ॥

Text 45

कस्तं प्रजापदेशं वै मोहबन्धनमात्मन: ।
पण्डितो बहु मन्येत यदर्था: क्लेशदा गृहा: ॥ ४५ ॥

Text 46

कदपत्यं वरं मन्ये सदपत्याच्छुचां पदात् ।
निर्विद्येत गृहान्मर्त्यो यत्‍क्‍लेशनिवहा गृहा: ॥ ४६ ॥

Text 47

एवं स निर्विण्णमना नृपो गृहा-
न्निशीथ उत्थाय महोदयोदयात् ।
अलब्धनिद्रोऽनुपलक्षितो नृभि-
र्हित्वा गतो वेनसुवं प्रसुप्ताम् ॥ ४७ ॥

Text 48

विज्ञाय निर्विद्य गतं पतिं प्रजा:
पुरोहितामात्यसुहृद्गणादय: ।
विचिक्युरुर्व्यामतिशोककातरा
यथा निगूढं पुरुषं कुयोगिन: ॥ ४८ ॥

Text 49

अलक्षयन्त: पदवीं प्रजापते-
र्हतोद्यमा: प्रत्युपसृत्य ते पुरीम् ।
ऋषीन् समेतानभिवन्द्य साश्रवो
न्यवेदयन् पौरव भर्तृविप्लवम् ॥ ४९ ॥

Srimad Bhagavatam | Canto 4 | Chapter 12 | Verses

0

Dhruva Mahārāja Goes Back to Godhead

Text 1

मैत्रेय उवाच
ध्रुवं निवृत्तं प्रतिबुद्ध्य वैशसा-
दपेतमन्युं भगवान्धनेश्वर: ।
तत्रागतश्चारणयक्षकिन्नरै:
संस्तूयमानो न्यवदत्कृताञ्जलिम् ॥ १ ॥

Text 2

धनद उवाच
भो भो: क्षत्रियदायाद परितुष्टोऽस्मि तेऽनघ ।
यत्त्वं पितामहादेशाद्वैरं दुस्त्यजमत्यज: ॥ २ ॥

Text 3

न भवानवधीद्यक्षान्न यक्षा भ्रातरं तव ।
काल एव हि भूतानां प्रभुरप्ययभावयो: ॥ ३ ॥

Text 4

अहं त्वमित्यपार्था धीरज्ञानात्पुरुषस्य हि ।
स्वाप्नीवाभात्यतद्ध्यानाद्यया बन्धविपर्ययौ ॥ ४ ॥

Text 5

तद्गच्छ ध्रुव भद्रं ते भगवन्तमधोक्षजम् ।
सर्वभूतात्मभावेन सर्वभूतात्मविग्रहम् ॥ ५ ॥

Text 6

भजस्व भजनीयाङ्‌घ्रि मभवाय भवच्छिदम् ।
युक्तं विरहितं शक्त्या गुणमय्यात्ममायया ॥ ६ ॥

Text 7

वृणीहि कामं नृप यन्मनोगतं
मत्तस्त्वमौत्तानपदेऽविशङ्कित: ।
वरं वरार्होऽम्बुजनाभपादयो-
रनन्तरं त्वां वयमङ्ग शुश्रुम ॥ ७ ॥

Text 8

मैत्रेय उवाच
स राजराजेन वराय चोदितो
ध्रुवो महाभागवतो महामति: ।
हरौ स वव्रेऽचलितां स्मृतिं यया
तरत्ययत्नेन दुरत्ययं तम: ॥ ८ ॥

Text 9

तस्य प्रीतेन मनसा तां दत्त्वैडविडस्तत: ।
पश्यतोऽन्तर्दधे सोऽपि स्वपुरं प्रत्यपद्यत ॥ ९ ॥

Text 10

अथायजत यज्ञेशं क्रतुभिर्भूरिदक्षिणै: ।
द्रव्यक्रियादेवतानां कर्म कर्मफलप्रदम् ॥ १० ॥

Text 11

सर्वात्मन्यच्युतेऽसर्वे तीव्रौघां भक्तिमुद्वहन् ।
ददर्शात्मनि भूतेषु तमेवावस्थितं विभुम् ॥ ११ ॥

Text 12

तमेवं शीलसम्पन्नं ब्रह्मण्यं दीनवत्सलम् ।
गोप्तारं धर्मसेतूनां मेनिरे पितरं प्रजा: ॥ १२ ॥

Text 13

षट्‌त्रिंशद्वर्षसाहस्रं शशास क्षितिमण्डलम् ।
भोगै: पुण्यक्षयं कुर्वन्नभोगैरशुभक्षयम् ॥ १३ ॥

Text 14

एवं बहुसवं कालं महात्माविचलेन्द्रिय: ।
त्रिवर्गौपयिकं नीत्वा पुत्रायादान्नृपासनम् ॥ १४ ॥

Text 15

मन्यमान इदं विश्वं मायारचितमात्मनि ।
अविद्यारचितस्वप्नगन्धर्वनगरोपमम् ॥ १५ ॥

Text 16

आत्मस्त्र्यपत्यसुहृदो बलमृद्धकोश-
मन्त:पुरं परिविहारभुवश्च रम्या: ।
भूमण्डलं जलधिमेखलमाकलय्य
कालोपसृष्टमिति स प्रययौ विशालाम् ॥ १६ ॥

Text 17

तस्यां विशुद्धकरण: शिववार्विगाह्य
बद्ध्वासनं जितमरुन्मनसाहृताक्ष: ।
स्थूले दधार भगवत्प्रतिरूप एतद्
ध्यायंस्तदव्यवहितो व्यसृजत्समाधौ ॥ १७ ॥

Text 18

भक्तिं हरौ भगवति प्रवहन्नजस्र-
मानन्दबाष्पकलया मुहुरर्द्यमान: ।
विक्लिद्यमानहृदय: पुलकाचिताङ्गो
नात्मानमस्मरदसाविति मुक्तलिङ्ग: ॥ १८ ॥

Text 19

स ददर्श विमानाग्र्यं नभसोऽवतरद् ध्रुव: ।
विभ्राजयद्दश दिशो राकापतिमिवोदितम् ॥ १९ ॥

Text 20

तत्रानु देवप्रवरौ चतुर्भुजौ
श्यामौ किशोरावरुणाम्बुजेक्षणौ ।
स्थिताववष्टभ्य गदां सुवाससौ
किरीटहाराङ्गदचारुकुण्डलौ ॥ २० ॥

Text 21

विज्ञाय तावुत्तमगायकिङ्करा-
वभ्युत्थित: साध्वसविस्मृतक्रम: ।
ननाम नामानि गृणन्मधुद्विष:
पार्षत्प्रधानाविति संहताञ्जलि: ॥ २१ ॥

Text 22

तं कृष्णपादाभिनिविष्टचेतसं
बद्धाञ्जलिं प्रश्रयनम्रकन्धरम् ।
सुनन्दनन्दावुपसृत्य सस्मितं
प्रत्यूचतु: पुष्करनाभसम्मतौ ॥ २२ ॥

Text 23

सुनन्दनन्दावूचतु:
भो भो राजन्सुभद्रं ते वाचं नोऽवहित: श‍ृणु ।
य: पञ्चवर्षस्तपसा भवान्देवमतीतृपत् ॥ २३ ॥

Text 24

तस्याखिलजगद्धातुरावां देवस्य शार्ङ्गिण: ।
पार्षदाविह सम्प्राप्तौ नेतुं त्वां भगवत्पदम् ॥ २४ ॥

Text 25

सुदुर्जयं विष्णुपदं जितं त्वया
यत्सूरयोऽप्राप्य विचक्षते परम् ।
आतिष्ठ तच्चन्द्रदिवाकरादयो
ग्रहर्क्षतारा: परियन्ति दक्षिणम् ॥ २५ ॥

Text 26

अनास्थितं ते पितृभिरन्यैरप्यङ्ग कर्हिचित् ।
आतिष्ठ जगतां वन्द्यं तद्विष्णो: परमं पदम् ॥ २६ ॥

Text 27

एतद्विमानप्रवरमुत्तमश्लोकमौलिना ।
उपस्थापितमायुष्मन्नधिरोढुं त्वमर्हसि ॥ २७ ॥

Text 28

मैत्रेय उवाच
निशम्य वैकुण्ठनियोज्यमुख्ययो-
र्मधुच्युतं वाचमुरुक्रमप्रिय: ।
कृताभिषेक: कृतनित्यमङ्गलो
मुनीन् प्रणम्याशिषमभ्यवादयत् ॥ २८ ॥

Text 29

परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदावभिवन्द्य च ।
इयेष तदधिष्ठातुं बिभ्रद्रूपं हिरण्मयम् ॥ २९ ॥

Text 30

तदोत्तानपद: पुत्रो ददर्शान्तकमागतम् ।
मृत्योर्मूर्ध्नि पदं दत्त्वा आरुरोहाद्भुतं गृहम् ॥ ३० ॥

Text 31

तदा दुन्दुभयो नेदुर्मृदङ्गपणवादय: ।
गन्धर्वमुख्या: प्रजगु: पेतु: कुसुमवृष्टय: ॥ ३१ ॥

Text 32

स च स्वर्लोकमारोक्ष्यन् सुनीतिं जननीं ध्रुव: ।
अन्वस्मरदगं हित्वा दीनां यास्ये त्रिविष्टपम् ॥ ३२ ॥

Text 33

इति व्यवसितं तस्य व्यवसाय सुरोत्तमौ ।
दर्शयामासतुर्देवीं पुरो यानेन गच्छतीम् ॥ ३३ ॥

Text 34

तत्र तत्र प्रशंसद्‌भि: पथि वैमानिकै: सुरै: ।
अवकीर्यमाणो दद‍ृशे कुसुमै: क्रमशो ग्रहान् ॥ ३४ ॥

Text 35

त्रिलोकीं देवयानेन सोऽतिव्रज्य मुनीनपि ।
परस्ताद्यद् ध्रुवगतिर्विष्णो: पदमथाभ्यगात् ॥ ३५ ॥

Text 36

यद्भ्राजमानं स्वरुचैव सर्वतो
लोकास्त्रयो ह्यनु विभ्राजन्त एते ।
यन्नाव्रजञ्जन्तुषु येऽननुग्रहा
व्रजन्ति भद्राणि चरन्ति येऽनिशम् ॥ ३६ ॥

Text 37

शान्ता: समद‍ृश: शुद्धा: सर्वभूतानुरञ्जना: ।
यान्त्यञ्जसाच्युतपदमच्युतप्रियबान्धवा: ॥ ३७ ॥

Text 38

इत्युत्तानपद: पुत्रो ध्रुव: कृष्णपरायण: ।
अभूत्‍त्रयाणां लोकानां चूडामणिरिवामल: ॥ ३८ ॥

Text 39

गम्भीरवेगोऽनिमिषं ज्योतिषां चक्रमाहितम् ।
यस्मिन् भ्रमति कौरव्य मेढ्यामिव गवां गण: ॥ ३९ ॥

Text 40

महिमानं विलोक्यास्य नारदो भगवानृषि: ।
आतोद्यं वितुदञ्श्लोकान् सत्रेऽगायत्प्रचेतसाम् ॥ ४० ॥

Text 41

नारद उवाच
नूनं सुनीते: पतिदेवताया-
स्तप:प्रभावस्य सुतस्य तां गतिम् ।
दृष्ट्वाभ्युपायानपि वेदवादिनो
नैवाधिगन्तुं प्रभवन्ति किं नृपा: ॥ ४१ ॥

Text 42

य: पञ्चवर्षो गुरुदारवाक्शरै-
र्भिन्नेन यातो हृदयेन दूयता ।
वनं मदादेशकरोऽजितं प्रभुं
जिगाय तद्भक्तगुणै: पराजितम् ॥ ४२ ॥

Text 43

य: क्षत्रबन्धुर्भुवि तस्याधिरूढ-
मन्वारुरुक्षेदपि वर्षपूगै: ।
प्रसाद्य वैकुण्ठमवाप तत्पदम् ॥ ४३ ॥ षट्पञ्चवर्षो यदहोभिरल्पै:

Text 44

मैत्रेय उवाच
एतत्तेऽभिहितं सर्वं यत्पृष्टोऽहमिह त्वया ।
ध्रुवस्योद्दामयशसश्‍चरितं सम्मतं सताम् ॥ ४४ ॥

Text 45

धन्यं यशस्यमायुष्यं पुण्यं स्वस्त्ययनं महत् ।
स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यमघमर्षणम् ॥ ४५ ॥

Text 46

श्रुत्वैतच्छ्रद्धयाभीक्ष्णमच्युतप्रियचेष्टितम् ।
भवेद्भक्तिर्भगवति यया स्यात्‍क्‍लेशसङ्‌क्षय: ॥ ४६ ॥

Text 47

महत्त्वमिच्छतां तीर्थं श्रोतु: शीलादयो गुणा: ।
यत्र तेजस्तदिच्छूनां मानो यत्र मनस्विनाम् ॥ ४७ ॥

Text 48

प्रयत: कीर्तयेत्प्रात: समवाये द्विजन्मनाम् ।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत् ॥ ४८ ॥

Texts 49-50

पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा ।
दिनक्षये व्यतीपाते सङ्‌क्रमेऽर्कदिनेऽपि वा ॥ ४९ ॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रय: ।
नेच्छंस्तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति ॥ ५० ॥

Text 51

ज्ञानमज्ञाततत्त्वाय यो दद्यात्सत्पथेऽमृतम् । कृपालोर्दीननाथस्य देवास्तस्यानुगृह्णते ॥ ५१ ॥

Text 52

इदं मया तेऽभिहितं कुरूद्वहध्रुवस्य विख्यातविशुद्धकर्मण: । हित्वार्भक: क्रीडनकानि मातु-र्गृहं च विष्णुं शरणं यो जगाम ॥ ५२ ॥

Srimad Bhagavatam | Canto 4 | Chapter 11 | Verses

0

Svāyambhuva Manu Advises Dhruva Mahārāja to Stop Fighting

Text 1

मैत्रेय उवाच
निशम्य गदतामेवमृषीणां धनुषि ध्रुव: ।
सन्दधेऽस्त्रमुपस्पृश्य यन्नारायणनिर्मितम् ॥ १ ॥

Text 2

सन्धीयमान एतस्मिन्माया गुह्यकनिर्मिता: ।
क्षिप्रं विनेशुर्विदुर क्लेशा ज्ञानोदये यथा ॥ २ ॥

Text 3

तस्यार्षास्त्रं धनुषि प्रयुञ्जत:
सुवर्णपुङ्खा: कलहंसवासस: ।
विनि:सृता आविविशुर्द्विषद्बलं
यथा वनं भीमरवा: शिखण्डिन: ॥ ३ ॥

Text 4

तैस्तिग्मधारै: प्रधने शिलीमुखै-
रितस्तत: पुण्यजना उपद्रुता: ।
तमभ्यधावन् कुपिता उदायुधा:
सुपर्णमुन्नद्धफणा इवाहय: ॥ ४ ॥

Text 5

स तान् पृषत्कैरभिधावतो मृधे
निकृत्तबाहूरुशिरोधरोदरान् ।
निनाय लोकं परमर्कमण्डलं
व्रजन्ति निर्भिद्य यमूर्ध्वरेतस: ॥ ५ ॥

Text 6

तान् हन्यमानानभिवीक्ष्य गुह्यका-
ननागसश्चित्ररथेन भूरिश: ।
औत्तानपादिं कृपया पितामहो
मनुर्जगादोपगत: सहर्षिभि: ॥ ६ ॥

Text 7

मनुरुवाच
अलं वत्सातिरोषेण तमोद्वारेण पाप्मना ।
येन पुण्यजनानेतानवधीस्त्वमनागस: ॥ ७ ॥

Text 8

नास्मत्कुलोचितं तात कर्मैतत्सद्विगर्हितम् ।
वधो यदुपदेवानामारब्धस्तेऽकृतैनसाम् ॥ ८ ॥

Text 9

नन्वेकस्यापराधेन प्रसङ्गाद् बहवो हता: ।
भ्रातुर्वधाभितप्तेन त्वयाङ्ग भ्रातृवत्सल ॥ ९ ॥

Text 10

नायं मार्गो हि साधूनां हृषीकेशानुवर्तिनाम् ।
यदात्मानं पराग्गृह्य पशुवद्भूतवैशसम् ॥ १० ॥

Text 11

सर्वभूतात्मभावेन भूतावासं हरिं भवान् ।
आराध्याप दुराराध्यं विष्णोस्तत्परमं पदम् ॥ ११ ॥

Text 12

स त्वं हरेरनुध्यातस्तत्पुंसामपि सम्मत: ।
कथं त्ववद्यं कृतवाननुशिक्षन् सतां व्रतम् ॥ १२ ॥

Text 13

तितिक्षया करुणया मैत्र्या चाखिलजन्तुषु ।
समत्वेन च सर्वात्मा भगवान् सम्प्रसीदति ॥ १३ ॥

Text 14

सम्प्रसन्ने भगवति पुरुष: प्राकृतैर्गुणै: ।
विमुक्तो जीवनिर्मुक्तो ब्रह्म निर्वाणमृच्छति ॥ १४ ॥

Text 15

भूतै: पञ्चभिरारब्धैर्योषित्पुरुष एव हि ।
तयोर्व्यवायात्सम्भूतिर्योषित्पुरुषयोरिह ॥ १५ ॥

Text 16

एवं प्रवर्तते सर्ग: स्थिति: संयम एव च ।
गुणव्यतिकराद्राजन्मायया परमात्मन: ॥ १६ ॥

Text 17

निमित्तमात्रं तत्रासीन्निर्गुण: पुरुषर्षभ: ।
व्यक्ताव्यक्तमिदं विश्वं यत्र भ्रमति लोहवत् ॥ १७ ॥

Text 18

स खल्विदं भगवान् कालशक्त्या
गुणप्रवाहेण विभक्तवीर्य: ।
करोत्यकर्तैव निहन्त्यहन्ता
चेष्टा विभूम्न: खलु दुर्विभाव्या ॥ १८ ॥

Text 19

सोऽनन्तोऽन्तकर: कालोऽनादिरादिकृदव्यय: ।
जनं जनेन जनयन्मारयन्मृत्युनान्तकम् ॥ १९ ॥

Text 20

न वै स्वपक्षोऽस्य विपक्ष एव वा
परस्य मृत्योर्विशत: समं प्रजा: ।
तं धावमानमनुधावन्त्यनीशा
यथा रजांस्यनिलं भूतसङ्घा: ॥ २० ॥

Text 21

आयुषोऽपचयं जन्तोस्तथैवोपचयं विभु: ।
उभाभ्यां रहित: स्वस्थो दु:स्थस्य विदधात्यसौ ॥ २१ ॥

Text 22

केचित्कर्म वदन्त्येनं स्वभावमपरे नृप ।
एके कालं परे दैवं पुंस: काममुतापरे ॥ २२ ॥

Text 23

अव्यक्तस्याप्रमेयस्य नानाशक्त्युदयस्य च ।
न वै चिकीर्षितं तात को वेदाथ स्वसम्भवम् ॥ २३ ॥

Text 24

न चैते पुत्रक भ्रातुर्हन्तारो धनदानुगा: । विसर्गादानयोस्तात पुंसो दैवं हि कारणम् ॥ २४ ॥

Text 25

स एव विश्वं सृजति स एवावति हन्ति च ।
अथापि ह्यनहङ्कारान्नाज्यते गुणकर्मभि: ॥ २५ ॥

Text 26

एष भूतानि भूतात्मा भूतेशो भूतभावन: ।
स्वशक्त्या मायया युक्त: सृजत्यत्ति च पाति च ॥ २६ ॥

Text 27

तमेव मृत्युममृतं तात दैवं
सर्वात्मनोपेहि जगत्परायणम् ।
यस्मै बलिं विश्वसृजो हरन्ति
गावो यथा वै नसि दामयन्त्रिता: ॥ २७ ॥

Text 28

य: पञ्चवर्षो जननीं त्वं विहाय
मातु: सपत्‍न्या वचसा भिन्नमर्मा ।
वनं गतस्तपसा प्रत्यगक्ष-
माराध्य लेभे मूर्ध्नि पदं त्रिलोक्या: ॥ २८ ॥

Text 29

तमेनमङ्गात्मनि मुक्तविग्रहे
व्यपाश्रितं निर्गुणमेकमक्षरम् ।
आत्मानमन्विच्छ विमुक्तमात्मद‍ृग्
यस्मिन्निदं भेदमसत्प्रतीयते ॥ २९ ॥

Text 30

त्वं प्रत्यगात्मनि तदा भगवत्यनन्त
आनन्दमात्र उपपन्नसमस्तशक्तौ ।
भक्तिं विधाय परमां शनकैरविद्या-
ग्रन्थिं विभेत्स्यसि ममाहमिति प्ररूढम् ॥ ३० ॥

Text 31

संयच्छ रोषं भद्रं ते प्रतीपं श्रेयसां परम् ।
श्रुतेन भूयसा राजन्नगदेन यथामयम् ॥ ३१ ॥

Text 32

येनोपसृष्टात्पुरुषाल्लोक उद्विजते भृशम् ।
न बुधस्तद्वशं गच्छेदिच्छन्नभयमात्मन: ॥ ३२ ॥

Text 33

हेलनं गिरिशभ्रातुर्धनदस्य त्वया कृतम् ।
यज्जघ्निवान् पुण्यजनान् भ्रातृघ्नानित्यमर्षित: ॥ ३३ ॥

Text 34

तं प्रसादय वत्साशु सन्नत्या प्रश्रयोक्तिभि: ।
न यावन्महतां तेज: कुलं नोऽभिभविष्यति ॥ ३४ ॥

Text 35

एवं स्वायम्भुव: पौत्रमनुशास्य मनुर्ध्रुवम् ।
तेनाभिवन्दित: साकमृषिभि: स्वपुरं ययौ ॥ ३५ ॥

Srimad Bhagavatam | Canto 4 | Chapter 10 | Verses

0

Dhruva Mahārāja’s Fight with the Yakṣas

Text 1

मैत्रेय उवाच
प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रुव: । उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ ॥ १ ॥

Text 2

इलायामपि भार्यायां वायो: पुत्र्यां महाबल: । पुत्रमुत्कलनामानं योषिद्रत्नमजीजनत् ॥ २ ॥

Text 3

उत्तमस्त्वकृतोद्वाहो मृगयायां बलीयसा । हत: पुण्यजनेनाद्रौ तन्मातास्य गतिं गता ॥ ३ ॥

Text 4

ध्रुवो भ्रातृवधं श्रुत्वा कोपामर्षशुचार्पित: । जैत्रं स्यन्दनमास्थाय गत: पुण्यजनालयम् ॥ ४ ॥

Text 5

गत्वोदीचीं दिशं राजा रुद्रानुचरसेविताम् । ददर्श हिमवद्‌द्रोण्यां पुरीं गुह्यकसङ्कुलाम् ॥ ५ ॥

Text 6

दध्मौ शङ्खं बृहद्बाहु: खं दिशश्चानुनादयन् । येनोद्विग्नद‍ृश: क्षत्तरुपदेव्योऽत्रसन्भृशम् ॥ ६ ॥

Text 7

ततो निष्क्रम्य बलिन उपदेवमहाभटा: । असहन्तस्तन्निनादमभिपेतुरुदायुधा: ॥ ७ ॥

Text 8

स तानापततो वीर उग्रधन्वा महारथ: । एकैकं युगपत्सर्वानहन् बाणैस्त्रिभिस्त्रिभि: ॥ ८ ॥

Text 9

ते वै ललाटलग्नैस्तैरिषुभि: सर्व एव हि । मत्वा निरस्तमात्मानमाशंसन् कर्म तस्य तत् ॥ ९ ॥

Text 10

तेऽपि चामुममृष्यन्त: पादस्पर्शमिवोरगा: । शरैरविध्यन् युगपद् द्विगुणं प्रचिकीर्षव: ॥ १० ॥

Texts 11-12

तत: परिघनिस्त्रिंशै: प्रासशूलपरश्वधै: । शक्त्यृष्टिभिर्भुशुण्डीभिश्चित्रवाजै: शरैरपि ॥ ११ ॥ अभ्यवर्षन् प्रकुपिता: सरथं सहसारथिम् । इच्छन्तस्तत्प्रतीकर्तुमयुतानां त्रयोदश ॥ १२ ॥

Text 13

औत्तानपादि: स तदा शस्त्रवर्षेण भूरिणा ।
न एवाद‍ृश्यताच्छन्न आसारेण यथा गिरि: ॥ १३ ॥

Text 14

हाहाकारस्तदैवासीत्सिद्धानां दिवि पश्यताम् ।
हतोऽयं मानव: सूर्यो मग्न: पुण्यजनार्णवे ॥ १४ ॥

Text 15

नदत्सु यातुधानेषु जयकाशिष्वथो मृधे ।
उदतिष्ठद्रथस्तस्य नीहारादिव भास्कर: ॥ १५ ॥

Text 16

धनुर्विस्फूर्जयन्दिव्यं द्विषतां खेदमुद्वहन् ।
अस्त्रौघं व्यधमद्बाणैर्घनानीकमिवानिल: ॥ १६ ॥

Text 17

तस्य ते चापनिर्मुक्ता भित्त्वा वर्माणि रक्षसाम् ।
कायानाविविशुस्तिग्मा गिरीनशनयो यथा ॥ १७ ॥

Texts 18-19

भल्लै: सञ्छिद्यमानानां शिरोभिश्चारुकुण्डलै: ।
ऊरुभिर्हेमतालाभैर्दोर्भिर्वलयवल्गुभि: ॥ १८ ॥
हारकेयूरमुकुटैरुष्णीषैश्च महाधनै: ।
आस्तृतास्ता रणभुवो रेजुर्वीरमनोहरा: ॥ १९ ॥

Text 20

हतावशिष्टा इतरे रणाजिराद्
रक्षोगणा: क्षत्रियवर्यसायकै: ।
प्रायो विवृक्णावयवा विदुद्रुवु-
र्मृगेन्द्रविक्रीडितयूथपा इव ॥ २० ॥

Text 21

अपश्यमान: स तदाततायिनं
महामृधे कञ्चन मानवोत्तम: ।
पुरीं दिद‍ृक्षन्नपि नाविशद्‌द्विषां
न मायिनां वेद चिकीर्षितं जन: ॥ २१ ॥

Text 22

इति ब्रुवंश्चित्ररथ: स्वसारथिं
यत्त: परेषां प्रतियोगशङ्कित: ।
शुश्राव शब्दं जलधेरिवेरितं
नभस्वतो दिक्षु रजोऽन्वद‍ृश्यत ॥ २२ ॥

Text 23

क्षणेनाच्छादितं व्योम घनानीकेन सर्वत: ।
विस्फुरत्तडिता दिक्षु त्रासयत्स्तनयित्नुना ॥ २३ ॥

Text 24

ववृषू रुधिरौघासृक्पूयविण्मूत्रमेदस: ।
निपेतुर्गगनादस्य कबन्धान्यग्रतोऽनघ ॥ २४ ॥

Text 25

तत: खेऽद‍ृश्यत गिरिर्निपेतु: सर्वतोदिशम् ।
गदापरिघनिस्त्रिंशमुसला: साश्मवर्षिण: ॥ २५ ॥

Text 26

अहयोऽशनिनि:श्वासा वमन्तोऽग्निं रुषाक्षिभि: ।
अभ्यधावन् गजा मत्ता: सिंहव्याघ्राश्च यूथश: ॥ २६ ॥

Text 27

समुद्र ऊर्मिभिर्भीम: प्लावयन् सर्वतो भुवम् ।
आससाद महाह्राद: कल्पान्त इव भीषण: ॥ २७ ॥

Text 28

एवंविधान्यनेकानि त्रासनान्यमनस्विनाम् ।
ससृजुस्तिग्मगतय आसुर्या माययासुरा: ॥ २८ ॥

Text 29

ध्रुवे प्रयुक्तामसुरैस्तां मायामतिदुस्तराम् ।
निशम्य तस्य मुनय: शमाशंसन् समागता: ॥ २९ ॥

Text 30

मुनय ऊचु:
औत्तानपाद भगवांस्तव शार्ङ्गधन्वा
देव: क्षिणोत्ववनतार्तिहरो विपक्षान् ।
यन्नामधेयमभिधाय निशम्य चाद्धा
लोकोऽञ्जसा तरति दुस्तरमङ्ग मृत्युम् ॥ ३० ॥

Srimad Bhagavatam | Canto 4 | Chapter 9 | Verses

0

Dhruva Mahārāja Returns Home

Text 1

मैत्रेय उवाच
त एवमुत्सन्नभया उरुक्रमे
कृतावनामा: प्रययुस्त्रिविष्टपम् ।
सहस्रशीर्षापि ततो गरुत्मता
मधोर्वनं भृत्यदिद‍ृक्षया गत: ॥ १ ॥

Text 2

स वै धिया योगविपाकतीव्रया
हृत्पद्मकोशे स्फुरितं तडित्प्रभम् ।
तिरोहितं सहसैवोपलक्ष्य
बहि:स्थितं तदवस्थं ददर्श ॥ २ ॥

Text 3

तद्दर्शनेनागतसाध्वस: क्षिता-
ववन्दताङ्गं विनमय्य दण्डवत् ।
द‍ृग्भ्यां प्रपश्यन् प्रपिबन्निवार्भक-
श्चुम्बन्निवास्येन भुजैरिवाश्लिषन् ॥ ३ ॥

Text 4

स तं विवक्षन्तमतद्विदं हरि-
र्ज्ञात्वास्य सर्वस्य च हृद्यवस्थित: ।
कृताञ्जलिं ब्रह्ममयेन कम्बुना
पस्पर्श बालं कृपया कपोले ॥ ४ ॥

Text 5

स वै तदैव प्रतिपादितां गिरं
दैवीं परिज्ञातपरात्मनिर्णय: ।
तं भक्तिभावोऽभ्यगृणादसत्वरं
परिश्रुतोरुश्रवसं ध्रुवक्षिति: ॥ ५ ॥

Text 6

ध्रुव उवाच
योऽन्त: प्रविश्य मम वाचमिमां प्रसुप्तां
सञ्जीवयत्यखिलशक्तिधर: स्वधाम्ना ।
अन्यांश्च हस्तचरणश्रवणत्वगादीन्
प्राणान्नमो भगवते पुरुषाय तुभ्यम् ॥ ६ ॥

Text 7

एकस्त्वमेव भगवन्निदमात्मशक्त्या
मायाख्ययोरुगुणया महदाद्यशेषम् ।
सृष्ट्वानुविश्य पुरुषस्तदसद्गुणेषु
नानेव दारुषु विभावसुवद्विभासि ॥ ७ ॥

Text 8

त्वद्दत्तया वयुनयेदमचष्ट विश्वं
सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्न: ।
तस्यापवर्ग्यशरणं तव पादमूलं
विस्मर्यते कृतविदा कथमार्तबन्धो ॥ ८ ॥

Text 9

नूनं विमुष्टमतयस्तव मायया ते
ये त्वां भवाप्ययविमोक्षणमन्यहेतो: ।
अर्चन्ति कल्पकतरुं कुणपोपभोग्य-
मिच्छन्ति यत्स्पर्शजं निरयेऽपि नृणाम् ॥ ९ ॥

Text 10

या निर्वृतिस्तनुभृतां तव पादपद्म
ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् ।
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्
किं त्वन्तकासिलुलितात्पततां विमानात् ॥ १० ॥

Text 11

भक्तिं मुहु: प्रवहतां त्वयि मे प्रसङ्गो
भूयादनन्त महताममलाशयानाम् ।
येनाञ्जसोल्बणमुरुव्यसनं भवाब्धिं
नेष्ये भवद्गुणकथामृतपानमत्त: ॥ ११ ॥

Text 12

ते न स्मरन्त्यतितरां प्रियमीश मर्त्यं
ये चान्वद: सुतसुहृद्गृहवित्तदारा: ।
ये त्वब्जनाभ भवदीयपदारविन्द
सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गा: ॥ १२ ॥

Text 13

तिर्यङ्‌नगद्विजसरीसृपदेवदैत्य
मर्त्यादिभि: परिचितं सदसद्विशेषम् ।
रूपं स्थविष्ठमज ते महदाद्यनेकं
नात: परं परम वेद्मि न यत्र वाद: ॥ १३ ॥

Text 14

कल्पान्त एतदखिलं जठरेण गृह्णन्
शेते पुमान्स्वद‍ृगनन्तसखस्तदङ्के ।
यन्नाभिसिन्धुरुहकाञ्चनलोकपद्म-
गर्भे द्युमान्भगवते प्रणतोऽस्मि तस्मै ॥ १४ ॥

Text 15

त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा
कूटस्थ आदिपुरुषो भगवांस्त्र्यधीश: ।
यद्बुद्ध्यवस्थितिमखण्डितया स्वद‍ृष्टय‍ा
द्रष्टा स्थितावधिमखो व्यतिरिक्त आस्से ॥ १५ ॥

Text 16

यस्मिन्विरुद्धगतयो ह्यनिशं पतन्ति
विद्यादयो विविधशक्तय आनुपूर्व्यात् ।
तद्ब्रह्म विश्वभवमेकमनन्तमाद्य-
मानन्दमात्रमविकारमहं प्रपद्ये ॥ १६ ॥

Text 17

सत्याशिषो हि भगवंस्तव पादपद्म-
माशीस्तथानुभजत: पुरुषार्थमूर्ते: ।
अप्येवमर्य भगवान्परिपाति दीनान्
वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥ १७ ॥

Text 18

मैत्रेय उवाच
अथाभिष्टुत एवं वै सत्सङ्कल्पेन धीमता ।
भृत्यानुरक्तो भगवान् प्रतिनन्द्येदमब्रवीत् ॥ १८ ॥

Text 19

श्रीभगवानुवाच
वेदाहं ते व्यवसितं हृदि राजन्यबालक ।
तत्प्रयच्छामि भद्रं ते दुरापमपि सुव्रत ॥ १९ ॥

Texts 20-21

नान्यैरधिष्ठितं भद्र यद्भ्राजिष्णु ध्रुवक्षिति ।
यत्र ग्रहर्क्षताराणां ज्योतिषां चक्रमाहितम् ॥ २० ॥
मेढ्यां गोचक्रवत्स्थास्‍नु परस्तात्कल्पवासिनाम् ।
धर्मोऽग्नि: कश्यप: शुक्रो मुनयो ये वनौकस: ।
चरन्ति दक्षिणीकृत्य भ्रमन्तो यत्सतारका: ॥ २१ ॥

Text 22

प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्मसंश्रय: ।
षट्-त्रिंशद्वर्षसाहस्रं रक्षिताव्याहतेन्द्रिय: ॥ २२ ॥

Text 23

त्वद्भ्रातर्युत्तमे नष्टे मृगयायां तु तन्मना: ।
अन्वेषन्ती वनं माता दावाग्निं सा प्रवेक्ष्यति ॥ २३ ॥

Text 24

इष्ट्वा मां यज्ञहृदयं यज्ञै: पुष्कलदक्षिणै: ।
भुक्त्वा चेहाशिष: सत्या अन्ते मां संस्मरिष्यसि ॥ २४ ॥

Text 25

ततो गन्तासि मत्स्थानं सर्वलोकनमस्कृतम् ।
उपरिष्टाद‍ृषिभ्यस्त्वं यतो नावर्तते गत: ॥ २५ ॥

Text 26

मैत्रेय उवाच
इत्यर्चित: स भगवानतिदिश्यात्मन: पदम् ।
बालस्य पश्यतो धाम स्वमगाद्गरुडध्वज: ॥ २६ ॥

Text 27

सोऽपि सङ्कल्पजं विष्णो: पादसेवोपसादितम् ।
प्राप्य सङ्कल्पनिर्वाणं नातिप्रीतोऽभ्यगात्पुरम् ॥ २७ ॥

Text 28

विदुर उवाच
सुदुर्लभं यत्परमं पदं हरे-
र्मायाविनस्तच्चरणार्चनार्जितम् ।
लब्ध्वाप्यसिद्धार्थमिवैकजन्मना
कथं स्वमात्मानममन्यतार्थवित् ॥ २८ ॥

Text 29

मैत्रेय उवाच
मातु: सपत्‍न्या वाग्बाणैर्हृदि विद्धस्तु तान् स्मरन् ।
नैच्छन्मुक्तिपतेर्मुक्तिं तस्मात्तापमुपेयिवान् ॥ २९ ॥

Text 30

ध्रुव उवाच
समाधिना नैकभवेन यत्पदं
विदु: सनन्दादय ऊर्ध्वरेतस: ।
मासैरहं षड्‌भिरमुष्य पादयो-
श्छायामुपेत्यापगत: पृथङ्‍मति: ॥ ३० ॥

Text 31

अहो बत ममानात्म्यं मन्दभाग्यस्य पश्यत । भवच्छिद: पादमूलं गत्वायाचे यदन्तवत् ॥ ३१ ॥

Text 32

मतिर्विदूषिता देवै: पतद्‌भिरसहिष्णुभि: । यो नारदवचस्तथ्यं नाग्राहिषमसत्तम: ॥ ३२ ॥

Text 33

दैवीं मायामुपाश्रित्य प्रसुप्त इव भिन्नद‍ृक् । तप्ये द्वितीयेऽप्यसति भ्रातृभ्रातृव्यहृद्रुजा ॥ ३३ ॥

Text 34

मयैतत्प्रार्थितं व्यर्थं चिकित्सेव गतायुषि । प्रसाद्य जगदात्मानं तपसा दुष्प्रसादनम् । भवच्छिदमयाचेऽहं भवं भाग्यविवर्जित: ॥ ३४ ॥

Text 35

वाराज्यं यच्छतो मौढ्यान्मानो मे भिक्षितो बत । ईश्वरात्क्षीणपुण्येन फलीकारानिवाधन: ॥ ३५ ॥

Text 36

मैत्रेय उवाच
न वै मुकुन्दस्य पदारविन्दयोरजोजुषस्तात भवाद‍ृशा जना: । वाञ्छन्ति तद्दास्यमृतेऽर्थमात्मनोयद‍ृच्छया लब्धमन:समृद्धय: ॥ ३६ ॥

Text 37

आकर्ण्यात्मजमायान्तं सम्परेत्य यथागतम् । राजा न श्रद्दधे भद्रमभद्रस्य कुतो मम ॥ ३७ ॥

Text 38

श्रद्धाय वाक्यं देवर्षेर्हर्षवेगेन धर्षित: । वार्ताहर्तुरतिप्रीतो हारं प्रादान्महाधनम् ॥ ३८ ॥

Texts 39-40

सदश्वं रथमारुह्य कार्तस्वरपरिष्कृतम् । ब्राह्मणै: कुलवृद्धैश्च पर्यस्तोऽमात्यबन्धुभि: ॥ ३९ ॥ शङ्खदुन्दुभिनादेन ब्रह्मघोषेण वेणुभि: । निश्चक्राम पुरात्तूर्णमात्मजाभीक्षणोत्सुक: ॥ ४० ॥

Text 41

सुनीति: सुरुचिश्चास्य महिष्यौ रुक्‍मभूषिते । आरुह्य शिबिकां सार्धमुत्तमेनाभिजग्मतु: ॥ ४१ ॥

Texts 42-43

तं द‍ृष्ट्वोपवनाभ्याश आयान्तं तरसा रथात् । अवरुह्य नृपस्तूर्णमासाद्य प्रेमविह्वल: ॥ ४२ ॥ परिरेभेऽङ्गजं दोर्भ्यां दीर्घोत्कण्ठमना: श्वसन् । विष्वक्सेनाङ्‌घ्रिसंस्पर्शहताशेषाघबन्धनम् ॥ ४३ ॥

Text 44

अथाजिघ्रन्मुहुर्मूर्ध्नि शीतैर्नयनवारिभि: । स्‍नापयामास तनयं जातोद्दाममनोरथ: ॥ ४४ ॥

Text 45

अभिवन्द्य पितु: पादावाशीर्भिश्चाभिमन्त्रित: । ननाम मातरौ शीर्ष्णा सत्कृत: सज्जनाग्रणी: ॥ ४५ ॥

Text 46

सुरुचिस्तं समुत्थाप्य पादावनतमर्भकम् । परिष्वज्याह जीवेति बाष्पगद्गदया गिरा ॥ ४६ ॥

Text 47

यस्य प्रसन्नो भगवान् गुणैर्मैत्र्यादिभिर्हरि: । तस्मै नमन्ति भूतानि निम्नमाप इव स्वयम् ॥ ४७ ॥

Text 48

उत्तमश्च ध्रुवश्चोभावन्योन्यं प्रेमविह्वलौ । अङ्गसङ्गादुत्पुलकावस्रौघं मुहुरूहतु: ॥ ४८ ॥

Text 49

सुनीतिरस्य जननी प्राणेभ्योऽपि प्रियं सुतम् । उपगुह्य जहावाधिं तदङ्गस्पर्शनिर्वृता ॥ ४९ ॥

Text 50

पय: स्तनाभ्यां सुस्राव नेत्रजै: सलिलै: शिवै: । तदाभिषिच्यमानाभ्यां वीर वीरसुवो मुहु: ॥ ५० ॥

Text 51

तां शशंसुर्जना राज्ञीं दिष्टय‍ा ते पुत्र आर्तिहा । प्रतिलब्धश्चिरं नष्टो रक्षिता मण्डलं भुव: ॥ ५१ ॥

Text 52

अभ्यर्चितस्त्वया नूनं भगवान्‌प्रणतार्तिहा । यदनुध्यायिनो धीरा मृत्युं जिग्यु: सुदुर्जयम् ॥ ५२ ॥

Text 53

लाल्यमानं जनैरेवं ध्रुवं सभ्रातरं नृप: । आरोप्य करिणीं हृष्ट: स्तूयमानोऽविशत्पुरम् ॥ ५३ ॥

Text 54

तत्र तत्रोपसंक्लृप्तैर्लसन्मकरतोरणै: । सवृन्दै: कदलीस्तम्भै: पूगपोतैश्च तद्विधै: ॥ ५४ ॥

Text 55

चूतपल्लववास:स्रङ्‍मुक्तादामविलम्बिभि: । उपस्कृतं प्रतिद्वारमपां कुम्भै: सदीपकै: ॥ ५५ ॥

Text 56

प्राकारैर्गोपुरागारै: शातकुम्भपरिच्छदै: । सर्वतोऽलड़्क़ृतं श्रीमद्विमानशिखरद्युभि: ॥ ५६ ॥

Text 57

मृष्टचत्वररथ्याट्टमार्गं चन्दनचर्चितम् । लाजाक्षतै: पुष्पफलैस्तण्डुलैर्बलिभिर्युतम् ॥ ५७ ॥

Texts 58-59

ध्रुवाय पथि द‍ृष्टाय तत्र तत्र पुरस्त्रिय: । सिद्धार्थाक्षतदध्यम्बुदूर्वापुष्पफलानि च ॥ ५८ ॥ उपजह्रु: प्रयुञ्जाना वात्सल्यादाशिष: सती: । श‍ृण्वंस्तद्वल्गुगीतानि प्राविशद्भवनं पितु: ॥ ५९ ॥

Text 60

महामणिव्रातमये स तस्मिन्भवनोत्तमे । लालितो नितरां पित्रा न्यवसद्दिवि देववत् ॥ ६० ॥

Text 61

पय:फेननिभा: शय्या दान्ता रुक्‍मपरिच्छदा: । आसनानि महार्हाणि यत्र रौक्‍मा उपस्करा: ॥ ६१ ॥

Text 62

यत्र स्फटिककुड्येषु महामारकतेषु च । मणिप्रदीपा आभान्ति ललनारत्नसंयुता: ॥ ६२ ॥

Text 63

उद्यानानि च रम्याणि विचित्रैरमरद्रुमै: । कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतै: ॥ ६३ ॥

Text 64

वाप्यो वैदूर्यसोपाना: पद्मोत्पलकुमुद्वती: । हंसकारण्डवकुलैर्जुष्टाश्चक्राह्वसारसै: ॥ ६४ ॥

Text 65

उत्तानपादो राजर्षि: प्रभावं तनयस्य तम् । श्रुत्वा दृष्ट्वाद्भुततमं प्रपेदे विस्मयं परम् ॥ ६५ ॥

Text 66

वीक्ष्योढवयसं तं च प्रकृतीनां च सम्मतम् । अनुरक्तप्रजं राजा ध्रुवं चक्रे भुव: पतिम् ॥ ६६ ॥

Text 67

आत्मानं च प्रवयसमाकलय्य विशाम्पति: । वनं विरक्त: प्रातिष्ठद्विमृशन्नात्मनो गतिम् ॥ ६७ ॥

Srimad Bhagavatam | Canto 4 | Chapter 8 | Verses

0

Dhruva Mahārāja Leaves Home for the Forest

Text 1

मैत्रेय उवाच
सनकाद्या नारदश्च ऋभुर्हंसोऽरुणिर्यति: ।
नैते गृहान् ब्रह्मसुता ह्यावसन्नूर्ध्वरेतस: ॥ १ ॥

Text 2

मृषाधर्मस्य भार्यासीद्दम्भं मायां च शत्रुहन् ।
असूत मिथुनं तत्तु निऋर्तिर्जगृहेऽप्रज: ॥ २ ॥

Text 3

तयो: समभवल्लोभो निकृतिश्च महामते ।
ताभ्यां क्रोधश्च हिंसा च यद्दुरुक्ति: स्वसा कलि: ॥ ३ ॥

Text 4

दुरुक्तौ कलिराधत्त भयं मृत्युं च सत्तम ।
तयोश्च मिथुनं जज्ञे यातना निरयस्तथा ॥ ४ ॥

Text 5

सङ्ग्रहेण मयाख्यात: प्रतिसर्गस्तवानघ ।
त्रि: श्रुत्वैतत्पुमान् पुण्यं विधुनोत्यात्मनो मलम् ॥ ५ ॥

Text 6

अथात: कीर्तये वंशं पुण्यकीर्ते: कुरूद्वह ।
स्वायम्भुवस्यापि मनोर्हरेरंशांशजन्मन: ॥ ६ ॥

Text 7

प्रियव्रतोत्तानपादौ शतरूपापते: सुतौ ।
वासुदेवस्य कलया रक्षायां जगत: स्थितौ ॥ ७ ॥

Text 8

जाये उत्तानपादस्य सुनीति: सुरुचिस्तयो: ।
सुरुचि: प्रेयसी पत्युर्नेतरा यत्सुतो ध्रुव: ॥ ८ ॥

Text 9

एकदा सुरुचे: पुत्रमङ्कमारोप्य लालयन् ।
उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत ॥ ९ ॥

Text 10

तथा चिकीर्षमाणं तं सपत्‍न्यास्तनयं ध्रुवम् ।
सुरुचि: श‍ृण्वतो राज्ञ: सेर्ष्यमाहातिगर्विता ॥ १० ॥

Text 11

न वत्स नृपतेर्धिष्ण्यं भवानारोढुमर्हति ।
न गृहीतो मया यत्त्वं कुक्षावपि नृपात्मज: ॥ ११ ॥

Text 12

बालोऽसि बत नात्मानमन्यस्त्रीगर्भसम्भृतम् ।
नूनं वेद भवान् यस्य दुर्लभेऽर्थे मनोरथ: ॥ १२ ॥

Text 13

तपसाराध्य पुरुषं तस्यैवानुग्रहेण मे ।
गर्भे त्वं साधयात्मानं यदीच्छसि नृपासनम् ॥ १३ ॥

Text 14

मैत्रेय उवाच
मातु: सपत्‍न्या: स दुरुक्तिविद्ध:
श्वसन् रुषा दण्डहतो यथाहि: ।
हित्वा मिषन्तं पितरं सन्नवाचं
जगाम मातु: प्ररुदन् सकाशम् ॥ १४ ॥

Text 15

तं नि:श्वसन्तं स्फुरिताधरोष्ठं
सुनीतिरुत्सङ्ग उदूह्य बालम् ।
निशम्य तत्पौरमुखान्नितान्तं
सा विव्यथे यद्गदितं सपत्‍न्या ॥ १५ ॥

Text 16

सोत्सृज्य धैर्यं विललाप शोक
दावाग्निना दावलतेव बाला ।
वाक्यं सपत्‍न्या: स्मरती सरोज
श्रिया द‍ृशा बाष्पकलामुवाह ॥ १६ ॥

Text 17

दीर्घं श्वसन्ती वृजिनस्य पार-
मपश्यती बालकमाह बाला ।
मामङ्गलं तात परेषु मंस्था
भुङ्क्ते जनो यत्परदु:खदस्तत् ॥ १७ ॥

Text 18

सत्यं सुरुच्याभिहितं भवान्मे
यद्दुर्भगाया उदरे गृहीत: ।
स्तन्येन वृद्धश्च विलज्जते यां
भार्येति वा वोढुमिडस्पतिर्माम् ॥ १८ ॥

Text 19

आतिष्ठ तत्तात विमत्सरस्त्वम्
उक्तं समात्रापि यदव्यलीकम् ।
आराधयाधोक्षजपादपद्मं
यदीच्छसेऽध्यासनमुत्तमो यथा ॥ १९ ॥

Text 20

यस्याङ्‌घ्रि पद्मं परिचर्य विश्व
विभावनायात्तगुणाभिपत्ते: ।
अजोऽध्यतिष्ठत्खलु पारमेष्ठ्यं
पदं जितात्मश्वसनाभिवन्द्यम् ॥ २० ॥

Text 21

तथा मनुर्वो भगवान् पितामहो
यमेकमत्या पुरुदक्षिणैर्मखै: ।
इष्ट्वाभिपेदे दुरवापमन्यतो
भौमं सुखं दिव्यमथापवर्ग्यम् ॥ २१ ॥

Text 22

तमेव वत्साश्रय भृत्यवत्सलं
मुमुक्षुभिर्मृग्यपदाब्जपद्धतिम् ।
अनन्यभावे निजधर्मभाविते
मनस्यवस्थाप्य भजस्व पूरुषम् ॥ २२ ॥

Text 23

नान्यं तत: पद्मपलाशलोचनाद्
दु:खच्छिदं ते मृगयामि कञ्चन ।
यो मृग्यते हस्तगृहीतपद्मया
श्रियेतरैरङ्ग विमृग्यमाणया ॥ २३ ॥

Text 24

मैत्रेय उवाच
एवं सञ्जल्पितं मातुराकर्ण्यार्थागमं वच: ।
सन्नियम्यात्मनात्मानं निश्चक्राम पितु: पुरात् ॥ २४ ॥

Text 25

नारदस्तदुपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम् ।
स्पृष्ट्वा मूर्धन्यघघ्नेन पाणिना प्राह विस्मित: ॥ २५ ॥

Text 26

अहो तेज: क्षत्रियाणां मानभङ्गममृष्यताम् ।
बालोऽप्ययं हृदा धत्ते यत्समातुरसद्वच: ॥ २६ ॥

Text 27

नारद उवाच
नाधुनाप्यवमानं ते सम्मानं वापि पुत्रक ।
लक्षयाम: कुमारस्य सक्तस्य क्रीडनादिषु ॥ २७ ॥

Text 28

विकल्पे विद्यमानेऽपि न ह्यसन्तोषहेतव: ।
पुंसो मोहमृते भिन्ना यल्लोके निजकर्मभि: ॥ २८ ॥

Text 29

परितुष्येत्ततस्तात तावन्मात्रेण पूरुष: ।
दैवोपसादितं यावद्वीक्ष्येश्वरगतिं बुध: ॥ २९ ॥

Text 30

अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि ।
यत्प्रसादं स वै पुंसां दुराराध्यो मतो मम ॥ ३० ॥

Text 31

मुनय: पदवीं यस्य नि:सङ्गेनोरुजन्मभि: ।
न विदुर्मृगयन्तोऽपि तीव्रयोगसमाधिना ॥ ३१ ॥

Text 32

अतो निवर्ततामेष निर्बन्धस्तव निष्फल: ।
यतिष्यति भवान् काले श्रेयसां समुपस्थिते ॥ ३२ ॥

Text 33

यस्य यद्दैवविहितं स तेन सुखदु:खयो: ।
आत्मानं तोषयन्देही तमस: पारमृच्छति ॥ ३३ ॥

Text 34

गुणाधिकान्मुदं लिप्सेदनुक्रोशं गुणाधमात् ।
मैत्रीं समानादन्विच्छेन्न तापैरभिभूयते ॥ ३४ ॥

Text 35

ध्रुव उवाच
सोऽयं शमो भगवता सुखदु:खहतात्मनाम् ।
दर्शित: कृपया पुंसां दुर्दर्शोऽस्मद्विधैस्तु य: ॥ ३५ ॥

Text 36

अथापि मेऽविनीतस्य क्षात्‍त्रं घोरमुपेयुष: ।
सुरुच्या दुर्वचोबाणैर्न भिन्ने श्रयते हृदि ॥ ३६ ॥

Text 37

पदं त्रिभुवनोत्कृष्टं जिगीषो: साधु वर्त्म मे ।
ब्रूह्यस्मत्पितृभिर्ब्रह्मन्नन्यैरप्यनधिष्ठितम् ॥ ३७ ॥

Text 38

नूनं भवान्भगवतो योऽङ्गज: परमेष्ठिन: ।
वितुदन्नटते वीणां हिताय जगतोऽर्कवत् ॥ ३८ ॥

Text 39

मैत्रेय उवाच
इत्युदाहृतमाकर्ण्य भगवान्नारदस्तदा ।
प्रीत: प्रत्याह तं बालं सद्वाक्यमनुकम्पया ॥ ३९ ॥

Text 40

नारद उवाच
जनन्याभिहित: पन्था: स वै नि:श्रेयसस्य ते ।
भगवान् वासुदेवस्तं भज तं प्रवणात्मना ॥ ४० ॥

Text 41

धर्मार्थकाममोक्षाख्यं य इच्छेच्छ्रेय आत्मन: ।
एकं ह्येव हरेस्तत्र कारणं पादसेवनम् ॥ ४१ ॥

Text 42

तत्तात गच्छ भद्रं ते यमुनायास्तटं शुचि ।
पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरे: ॥ ४२ ॥

Text 43

स्‍नात्वानुसवनं तस्मिन् कालिन्द्या: सलिले शिवे ।
कृत्वोचितानि निवसन्नात्मन: कल्पितासन: ॥ ४३ ॥

Text 44

प्राणायामेन त्रिवृता प्राणेन्द्रियमनोमलम् ।
शनैर्व्युदस्याभिध्यायेन्मनसा गुरुणा गुरुम् ॥ ४४ ॥

Text 45

प्रसादाभिमुखं शश्वत्प्रसन्नवदनेक्षणम् ।
सुनासं सुभ्रुवं चारुकपोलं सुरसुन्दरम् ॥ ४५ ॥

Text 46

तरुणं रमणीयाङ्गमरुणोष्ठेक्षणाधरम् ।
प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम् ॥ ४६ ॥

Text 47

श्रीवत्साङ्कं घनश्यामं पुरुषं वनमालिनम् ।
शङ्खचक्रगदापद्मैरभिव्यक्तचतुर्भुजम् ॥ ४७ ॥

Text 48

किरीटिनं कुण्डलिनं केयूरवलयान्वितम् ।
कौस्तुभाभरणग्रीवं पीतकौशेयवाससम् ॥ ४८ ॥

Text 49

काञ्चीकलापपर्यस्तं लसत्काञ्चननूपुरम् ।
दर्शनीयतमं शान्तं मनोनयनवर्धनम् ॥ ४९ ॥

Text 50

पद्‌भ्यां नखमणिश्रेण्या विलसद्‌भ्यां समर्चताम् ।
हृत्पद्मकर्णिकाधिष्ण्यमाक्रम्यात्मन्यवस्थितम् ॥ ५० ॥

Text 51

स्मयमानमभिध्यायेत्सानुरागावलोकनम् ।
नियतेनैकभूतेन मनसा वरदर्षभम् ॥ ५१ ॥

Text 52

एवं भगवतो रूपं सुभद्रं ध्यायतो मन: ।
निर्वृत्या परया तूर्णं सम्पन्नं न निवर्तते ॥ ५२ ॥

Text 53

जपश्च परमो गुह्य: श्रूयतां मे नृपात्मज ।
यं सप्तरात्रं प्रपठन्पुमान् पश्यति खेचरान् ॥ ५३ ॥

Text 54

ॐ नमो भगवते वासुदेवाय ।
मन्त्रेणानेन देवस्य कुर्याद् द्रव्यमयीं बुध: ।
सपर्यां विविधैर्द्रव्यैर्देशकालविभागवित् ॥ ५४ ॥

Text 55

सलिलै: शुचिभिर्माल्यैर्वन्यैर्मूलफलादिभि: ।
शस्ताङ्कुरांशुकैश्चार्चेत्तुलस्या प्रियया प्रभुम् ॥ ५५ ॥

Text 56

लब्ध्वा द्रव्यमयीमर्चां क्षित्यम्ब्वादिषु वार्चयेत् ।
आभृतात्मा मुनि: शान्तो यतवाङ्‌मितवन्यभुक् ॥ ५६ ॥

Text 57

स्वेच्छावतारचरितैरचिन्त्यनिजमायया ।
करिष्यत्युत्तमश्लोकस्तद् ध्यायेद्‌धृदयङ्गमम् ॥ ५७ ॥

Text 58

परिचर्या भगवतो यावत्य: पूर्वसेविता: ।
ता मन्त्रहृदयेनैव प्रयुञ्‍ज्यान्मन्त्रमूर्तये ॥ ५८ ॥

Texts 59-60

एवं कायेन मनसा वचसा च मनोगतम् ।
परिचर्यमाणो भगवान् भक्तिमत्परिचर्यया ॥ ५९ ॥
पुंसाममायिनां सम्यग्भजतां भाववर्धन: ।
श्रेयो दिशत्यभिमतं यद्धर्मादिषु देहिनाम् ॥ ६० ॥

Text 61

विरक्तश्चेन्द्रियरतौ भक्तियोगेन भूयसा ।
तं निरन्तरभावेन भजेताद्धा विमुक्तये ॥ ६१ ॥

Text 62

इत्युक्तस्तं परिक्रम्य प्रणम्य च नृपार्भक: ।
ययौ मधुवनं पुण्यं हरेश्चरणचर्चितम् ॥ ६२ ॥

Text 63

तपोवनं गते तस्मिन्प्रविष्टोऽन्त:पुरं मुनि: ।
अर्हितार्हणको राज्ञा सुखासीन उवाच तम् ॥ ६३ ॥

Text 64

नारद उवाच
राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यता ।
किं वा न रिष्यते कामो धर्मो वार्थेन संयुत: ॥ ६४ ॥

Text 65

राजोवाच
सुतो मे बालको ब्रह्मन् स्त्रैणेनाकरुणात्मना ।
निर्वासित: पञ्चवर्ष: सह मात्रा महान्कवि: ॥ ६५ ॥

Text 66

अप्यनाथं वने ब्रह्मन्मा स्मादन्त्यर्भकं वृका: ।
श्रान्तं शयानं क्षुधितं परिम्‍लानमुखाम्बुजम् ॥ ६६ ॥

Text 67

अहो मे बत दौरात्म्यं स्त्रीजितस्योपधारय ।
योऽङ्कं प्रेम्णारुरुक्षन्तं नाभ्यनन्दमसत्तम: ॥ ६७ ॥

Text 68

नारद उवाच
मा मा शुच: स्वतनयं देवगुप्तं विशाम्पते ।
तत्प्रभावमविज्ञाय प्रावृङ्क्ते यद्यशो जगत् ॥ ६८ ॥

Text 69

सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभु: ।
ऐष्यत्यचिरतो राजन् यशो विपुलयंस्तव ॥ ६९ ॥

Text 70

मैत्रेय उवाच
इति देवर्षिणा प्रोक्तं विश्रुत्य जगतीपति: ।
राजलक्ष्मीमनाद‍ृत्य पुत्रमेवान्वचिन्तयत् ॥ ७० ॥

Text 71

तत्राभिषिक्त: प्रयतस्तामुपोष्य विभावरीम् ।
समाहित: पर्यचरद‍ृष्यादेशेन पूरुषम् ॥ ७१ ॥

Text 72

त्रिरात्रान्ते त्रिरात्रान्ते कपित्थबदराशन: ।
आत्मवृत्त्यनुसारेण मासं निन्येऽर्चयन्हरिम् ॥ ७२ ॥

Text 73

द्वितीयं च तथा मासं षष्ठे षष्ठेऽर्भको दिने ।
तृणपर्णादिभि: शीर्णै: कृतान्नोऽभ्यर्चयन्विभुम् ॥ ७३ ॥

Text 74

तृतीयं चानयन्मासं नवमे नवमेऽहनि ।
अब्भक्ष उत्तमश्लोकमुपाधावत्समाधिना ॥ ७४ ॥

Text 75

चतुर्थमपि वै मासं द्वादशे द्वादशेऽहनि ।
वायुभक्षो जितश्वासो ध्यायन्देवमधारयत् ॥ ७५ ॥

Text 76

पञ्चमे मास्यनुप्राप्ते जितश्वासो नृपात्मज: ।
ध्यायन् ब्रह्म पदैकेन तस्थौ स्थाणुरिवाचल: ॥ ७६ ॥

Text 77

सर्वतो मन आकृष्य हृदि भूतेन्द्रियाशयम् ।
ध्यायन्भगवतो रूपं नाद्राक्षीत्किञ्चनापरम् ॥ ७७ ॥

Text 78

आधारं महदादीनां प्रधानपुरुषेश्वरम् ।
ब्रह्म धारयमाणस्य त्रयो लोकाश्चकम्पिरे ॥ ७८ ॥

Text 79

यदैकपादेन स पार्थिवार्भक
स्तस्थौ तदङ्गुष्ठनिपीडिता मही ।
ननाम तत्रार्धमिभेन्द्रधिष्ठिता
तरीव सव्येतरत: पदे पदे ॥ ७९ ॥

Text 80

तस्मिन्नभिध्यायति विश्वमात्मनो
द्वारं निरुध्यासुमनन्यया धिया ।
लोका निरुच्छ्‌वासनिपीडिता भृशं
सलोकपाला: शरणं ययुर्हरिम् ॥ ८० ॥

Text 81

देवा ऊचु:
नैवं विदामो भगवन् प्राणरोधं
चराचरस्याखिलसत्त्वधाम्न: ।
विधेहि तन्नो वृजिनाद्विमोक्षं
प्राप्ता वयं त्वां शरणं शरण्यम् ॥ ८१ ॥

Text 82

श्रीभगवानुवाच
मा भैष्ट बालं तपसो दुरत्यया-
न्निवर्तयिष्ये प्रतियात स्वधाम ।
यतो हि व: प्राणनिरोध आसी-
दौत्तानपादिर्मयि सङ्गतात्मा ॥ ८२ ॥

Srimad Bhagavatam | Canto 4 | Chapter 7 | Verses

0

The Sacrifice Performed by Dakṣa

Text 1

मैत्रेय उवाच
इत्यजेनानुनीतेन भवेन परितुष्यता ।
अभ्यधायि महाबाहो प्रहस्य श्रूयतामिति ॥ १ ॥

Text 2

महादेव उवाच
नाघं प्रजेश बालानां वर्णये नानुचिन्तये ।
देवमायाभिभूतानां दण्डस्तत्र धृतो मया ॥ २ ॥

Text 3

प्रजापतेर्दग्धशीर्ष्णो भवत्वजमुखं शिर: ।
मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भग: ॥ ३ ॥

Text 4

पूषा तु यजमानस्य दद्‌भिर्जक्षतु पिष्टभुक् ।
देवा: प्रकृतसर्वाङ्गा ये म उच्छेषणं ददु: ॥ ४ ॥

Text 5

बाहुभ्यामश्विनो: पूष्णो हस्ताभ्यां कृतबाहव: ।
भवन्‍त्वध्वर्यवश्चान्ये बस्तश्मश्रुर्भृगुर्भवेत् ॥ ५ ॥

Text 6

मैत्रेय उवाच
तदा सर्वाणि भूतानि श्रुत्वा मीढुष्टमोदितम् ।
परितुष्टात्मभिस्तात साधु साध्वित्यथाब्रुवन् ॥ ६ ॥

Text 7

ततो मीढ्‍वांसमामन्‍त्र्‍य शुनासीरा: सहर्षिभि: ।
भूयस्तद्देवयजनं समीढ्‍वद्वेधसो ययु: ॥ ७ ॥

Text 8

विधाय कार्त्स्‍न्येन च तद्यदाह भगवान् भव: ।
सन्दधु: कस्य कायेन सवनीयपशो: शिर: ॥ ८ ॥

Text 9

सन्धीयमाने शिरसि दक्षो रुद्राभिवीक्षित: ।
सद्य: सुप्त इवोत्तस्थौ दद‍ृशे चाग्रतो मृडम् ॥ ९ ॥

Text 10

तदा वृषध्वजद्वेषकलिलात्मा प्रजापति: ।
शिवावलोकादभवच्छरद्‌ध्रद इवामल: ॥ १० ॥

Text 11

भवस्तवाय कृतधीर्नाशक्नोदनुरागत: ।
औत्कण्ठ्याद्बाष्पकलया सम्परेतां सुतां स्मरन् ॥ ११ ॥

Text 12

कृच्छ्रात्संस्तभ्य च मन: प्रेमविह्वलित: सुधी: ।
शशंस निर्व्यलीकेन भावेनेशं प्रजापति: ॥ १२ ॥

Text 13

दक्ष उवाच
भूयाननुग्रह अहो भवता कृतो मे
दण्डस्त्वया मयि भृतो यदपि प्रलब्ध: ।
न ब्रह्मबन्धुषु च वां भगवन्नवज्ञा
तुभ्यं हरेश्च कुत एव धृतव्रतेषु ॥ १३ ॥

Text 14

विद्यातपोव्रतधरान् मुखत: स्म विप्रान्
ब्रह्मात्मतत्त्वमवितुं प्रथमं त्वमस्राक् ।
तद्ब्राह्मणान् परम सर्वविपत्सु पासि
पाल: पशूनिव विभो प्रगृहीतदण्ड: ॥ १४ ॥

Text 15

योऽसौ मयाविदिततत्त्वद‍ृशा सभायां
क्षिप्तो दुरुक्तिविशिखैर्विगणय्य तन्माम् ।
अर्वाक् पतन्तमर्हत्तमनिन्दयापाद्
द‍ृष्टय‍ार्द्रया स भगवान्स्वकृतेन तुष्येत् ॥ १५ ॥

Text 16

मैत्रेय उवाच
क्षमाप्यैवं स मीढ्‍वांसं ब्रह्मणा चानुमन्त्रित: ।
कर्म सन्तानयामास सोपाध्यायर्त्विगादिभि: ॥ १६ ॥

Text 17

वैष्णवं यज्ञसन्तत्यै त्रिकपालं द्विजोत्तमा: ।
पुरोडाशं निरवपन् वीरसंसर्गशुद्धये ॥ १७ ॥

Text 18

अध्वर्युणात्तहविषा यजमानो विशाम्पते ।
धिया विशुद्धया दध्यौ तथा प्रादुरभूद्धरि: ॥ १८ ॥

Text 19

तदा स्वप्रभया तेषां द्योतयन्त्या दिशो दश ।
मुष्णंस्तेज उपानीतस्तार्क्ष्येण स्तोत्रवाजिना ॥ १९ ॥

Text 20

श्यामो हिरण्यरशनोऽर्ककिरीटजुष्टो
नीलालकभ्रमरमण्डितकुण्डलास्य: ।
शङ्खाब्जचक्रशरचापगदासिचर्म-
व्यग्रैर्हिरण्मयभुजैरिव कर्णिकार: ॥ २० ॥

Text 21

वक्षस्यधिश्रितवधूर्वनमाल्युदार
हासावलोककलया रमयंश्च विश्वम् ।
पार्श्वभ्रमद्वय‍जनचामरराजहंस:
श्वेतातपत्रशशिनोपरि रज्यमान: ॥ २१ ॥

Text 22

तमुपागतमालक्ष्य सर्वे सुरगणादय: ।
प्रणेमु: सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायका: ॥ २२ ॥

Text 23

तत्तेजसा हतरुच: सन्नजिह्वा: ससाध्वसा: ।
मूर्ध्ना धृताञ्जलिपुटा उपतस्थुरधोक्षजम् ॥ २३ ॥

Text 24

अप्यर्वाग्वृत्तयो यस्य महि त्वात्मभुवादय: ।
यथामति गृणन्ति स्म कृतानुग्रहविग्रहम् ॥ २४ ॥

Text 25

दक्षो गृहीतार्हणसादनोत्तमं
यज्ञेश्वरं विश्वसृजां परं गुरुम् ।
सुनन्दनन्दाद्यनुगैर्वृतं मुदा
गृणन् प्रपेदे प्रयत: कृताञ्जलि: ॥ २५ ॥

Text 26

दक्ष उवाच
शुद्धं स्वधाम्न्युपरताखिलबुद्ध्यवस्थं
चिन्मात्रमेकमभयं प्रतिषिध्य मायाम् ।
तिष्ठंस्तयैव पुरुषत्वमुपेत्य तस्या-
मास्ते भवानपरिशुद्ध इवात्मतन्त्र: ॥ २६ ॥

Text 27

ऋत्विज ऊचु:
तत्त्वं न ते वयमनञ्जन रुद्रशापात्
कर्मण्यवग्रहधियो भगवन्विदाम: ।
धर्मोपलक्षणमिदं त्रिवृदध्वराख्यं
ज्ञातं यदर्थमधिदैवमदो व्यवस्था: ॥ २७ ॥

Text 28

सदस्या ऊचु:
उत्पत्त्यध्वन्यशरण उरुक्लेशदुर्गेऽन्तकोग्र
व्यालान्विष्टे विषयमृगतृष्यात्मगेहोरुभार: ।
द्वन्द्वश्वभ्रे खलमृगभये शोकदावेऽज्ञसार्थ:
पादौकस्ते शरणद कदा याति कामोपसृष्ट: ॥ २८ ॥

Text 29

रुद्र उवाच
तव वरद वराङ्‌घ्रावाशिषेहाखिलार्थे
ह्यपि मुनिभिरसक्तैरादरेणार्हणीये ।
यदि रचितधियं माविद्यलोकोऽपविद्धं
जपति न गणये तत्त्वत्परानुग्रहेण ॥ २९ ॥

Text 30

भृगुरुवाच
यन्मायया गहनयापहृतात्मबोधा
ब्रह्मादयस्तनुभृतस्तमसि स्वपन्त: ।
नात्मन् श्रितं तव विदन्त्यधुनापि तत्त्वं
सोऽयं प्रसीदतु भवान्प्रणतात्मबन्धु: ॥ ३० ॥

Text 31

ब्रह्मोवाच
नैतत्स्वरूपं भवतोऽसौ पदार्थ
भेदग्रहै: पुरुषो यावदीक्षेत् ।
ज्ञानस्य चार्थस्य गुणस्य चाश्रयो
मायामयाद्वय‍‌तिरिक्तो मतस्त्वम् ॥ ३१ ॥

Text 32

इन्द्र उवाच
इदमप्यच्युत विश्वभावनं
वपुरानन्दकरं मनोद‍ृशाम् ।
सुरविद्विट्‌क्षपणैरुदायुधै
र्भुजदण्डैरुपपन्नमष्टभि: ॥ ३२ ॥

Text 33

पत्‍न्य ऊचु:
यज्ञोऽयं तव यजनाय केन सृष्टो
विध्वस्त: पशुपतिनाद्य दक्षकोपात् ।
तं नस्त्वं शवशयनाभशान्तमेधं
यज्ञात्मन्नलिनरुचा द‍ृशा पुनीहि ॥ ३३ ॥

Text 34

ऋषय ऊचु:
अनन्वितं ते भगवन् विचेष्टितं
यदात्मना चरसि हि कर्म नाज्यसे ।
विभूतये यत उपसेदुरीश्वरीं
न मन्यते स्वयमनुवर्ततीं भवान् ॥ ३४ ॥

Text 35

सिद्धा ऊचु:
अयं त्वत्कथामृष्टपीयूषनद्यां
मनोवारण: क्लेशदावाग्निदग्ध: ।
तृषार्तोऽवगाढो न सस्मार दावं
न निष्क्रामति ब्रह्मसम्पन्नवन्न: ॥ ३५ ॥

Text 36

यजमान्युवाच
स्वागतं ते प्रसीदेश तुभ्यं नम:
श्रीनिवास श्रिया कान्तया त्राहि न: ।
त्वामृतेऽधीश नाङ्गैर्मख: शोभते
शीर्षहीन: कबन्धो यथा पुरुष: ॥ ३६ ॥

Text 37

लोकपाला ऊचु:
द‍ृष्ट: किं नो द‍ृग्भिरसद्ग्रहैस्त्वं
प्रत्यग्द्रष्टा द‍ृश्यते येन विश्वम् ।
माया ह्येषा भवदीया हि भूमन्
यस्त्वं षष्ठ: पञ्चभिर्भासि भूतै: ॥ ३७ ॥

Text 38

योगेश्‍वरा ऊचु
प्रेयान्न तेऽन्योऽस्त्यमुतस्त्वयि प्रभो
विश्वात्मनीक्षेन्न पृथग्य आत्मन: ।
अथापि भक्त्येश तयोपधावता-
मनन्यवृत्त्यानुगृहाण वत्सल ॥ ३८ ॥

Text 39

जगदुद्भवस्थितिलयेषु दैवतो
बहुभिद्यमानगुणयात्ममायया ।
रचितात्मभेदमतये स्वसंस्थया
विनिवर्तितभ्रमगुणात्मने नम: ॥ ३९ ॥

Text 40

ब्रह्मोवाच
नमस्ते श्रितसत्त्वाय धर्मादीनां च सूतये ।
निर्गुणाय च यत्काष्ठां नाहं वेदापरेऽपि च ॥ ४० ॥

Text 41

अग्निरुवाच
यत्तेजसाहं सुसमिद्धतेजा
हव्यं वहे स्वध्वर आज्यसिक्तम् ।
तं यज्ञियं पञ्चविधं च पञ्चभि:
स्विष्टं यजुर्भि: प्रणतोऽस्मि यज्ञम् ॥ ४१ ॥

Text 42

देवा ऊचु:
पुरा कल्पापाये स्वकृतमुदरीकृत्य विकृतं
त्वमेवाद्यस्तस्मिन् सलिल उरगेन्द्राधिशयने ।
पुमान्शेषे सिद्धैर्हृदि विमृशिताध्यात्मपदवि:
स एवाद्याक्ष्णोर्य: पथि चरसि भृत्यानवसि न: ॥ ४२ ॥

Text 43

गन्धर्वा ऊचु:
अंशांशास्ते देव मरीच्यादय एते
ब्रह्मेन्द्राद्या देवगणा रुद्रपुरोगा: ।
क्रीडाभाण्डं विश्वमिदं यस्य विभूमन्
तस्मै नित्यं नाथ नमस्ते करवाम ॥ ४३ ॥

Text 44

विद्याधरा ऊचु:
त्वन्माययार्थमभिपद्य कलेवरेऽस्मिन्
कृत्वा ममाहमिति दुर्मतिरुत्पथै: स्वै: ।
क्षिप्तोऽप्यसद्विषयलालस आत्ममोहं
युष्मत्कथामृतनिषेवक उद्वय‍ुदस्येत् ॥ ४४ ॥

Text 45

ब्राह्मणा ऊचु:
त्वं क्रतुस्त्वं हविस्त्वं हुताश: स्वयंत्वं हि मन्त्र: समिद्दर्भपात्राणि च । त्वं सदस्यर्त्विजो दम्पती देवताअग्निहोत्रं स्वधा सोम आज्यं पशु: ॥ ४५ ॥

Text 46

त्वं पुरा गां रसाया महासूकरो
दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा ।
स्तूयमानो नदल्लीलया योगिभि-
र्व्युज्जहर्थ त्रयीगात्र यज्ञक्रतु: ॥ ४६ ॥

Text 47

स प्रसीद त्वमस्माकमाकाङ्‌क्षतां
दर्शनं ते परिभ्रष्टसत्कर्मणाम् ।
कीर्त्यमाने नृभिर्नाम्नि यज्ञेश ते
यज्ञविघ्ना: क्षयं यान्ति तस्मै नम: ॥ ४७ ॥

Text 48

मैत्रेय उवाच
इति दक्ष: कविर्यज्ञं भद्र रुद्राभिमर्शितम् ।
कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञभावने ॥ ४८ ॥

Text 49

भगवान् स्वेन भागेन सर्वात्मा सर्वभागभुक् ।
दक्षं बभाष आभाष्य प्रीयमाण इवानघ ॥ ४९ ॥

Text 50

श्रीभगवानुवाच
अहं ब्रह्मा च शर्वश्च जगत: कारणं परम् ।
आत्मेश्वर उपद्रष्टा स्वयंद‍ृगविशेषण: ॥ ५० ॥

Text 51

आत्ममायां समाविश्य सोऽहं गुणमयीं द्विज ।
सृजन् रक्षन् हरन् विश्वं दध्रे संज्ञां क्रियोचिताम् ॥ ५१ ॥

Text 52

तस्मिन् ब्रह्मण्यद्वितीये केवले परमात्मनि ।
ब्रह्मरुद्रौ च भूतानि भेदेनाज्ञोऽनुपश्यति ॥ ५२ ॥

Text 53

यथा पुमान्न स्वाङ्गेषु शिर:पाण्यादिषु क्‍वचित् ।
पारक्यबुद्धिं कुरुते एवं भूतेषु मत्पर: ॥ ५३ ॥

Text 54

त्रयाणामेकभावानां यो न पश्यति वै भिदाम् ।
सर्वभूतात्मनां ब्रह्मन् स शान्तिमधिगच्छति ॥ ५४ ॥

Text 55

मैत्रेय उवाच
एवं भगवतादिष्ट: प्रजापतिपतिर्हरिम् ।
अर्चित्वा क्रतुना स्वेन देवानुभयतोऽयजत् ॥ ५५ ॥

Text 56

रुद्रं च स्वेन भागेन ह्युपाधावत्समाहित: ।
कर्मणोदवसानेन सोमपानितरानपि ।
उदवस्य सहर्त्विग्भि: सस्‍नाववभृथं तत: ॥ ५६ ॥

Text 57

तस्मा अप्यनुभावेन स्वेनैवावाप्तराधसे ।
धर्म एव मतिं दत्त्वा त्रिदशास्ते दिवं ययु: ॥ ५७ ॥

Text 58

एवं दाक्षायणी हित्वा सती पूर्वकलेवरम् ।
जज्ञे हिमवत: क्षेत्रे मेनायामिति शुश्रुम ॥ ५८ ॥

Text 59

तमेव दयितं भूय आवृङ्क्ते पतिमम्बिका ।
अनन्यभावैकगतिं शक्ति: सुप्तेव पूरुषम् ॥ ५९ ॥

Text 60

एतद्भगवत: शम्भो: कर्म दक्षाध्वरद्रुह: ।
श्रुतं भागवताच्छिष्यादुद्धवान्मे बृहस्पते: ॥ ६० ॥

Text 61

इदं पवित्रं परमीशचेष्टितं
यशस्यमायुष्यमघौघमर्षणम् ।
यो नित्यदाकर्ण्य नरोऽनुकीर्तयेद्
धुनोत्यघं कौरव भक्तिभावत: ॥ ६१ ॥

Srimad Bhagavatam | Canto 4 | Chapter 6 | Verses

0

Brahmā Satisfies Lord Śiva

Texts 1-2

मैत्रेय उवाच
अथ देवगणा: सर्वे रुद्रानीकै: पराजिता: ।
शूलपट्टिशनिस्त्रिंशगदापरिघमुद्गरै: ॥ १ ॥
सञ्छिन्नभिन्नसर्वाङ्गा: सर्त्विक्सभ्या भयाकुला: ।
स्वयम्भुवे नमस्कृत्य कार्त्स्‍न्येनैतन्न्यवेदयन् ॥ २ ॥

Text 3

उपलभ्य पुरैवैतद्भगवानब्जसम्भव: ।
नारायणश्च विश्वात्मा न कस्याध्वरमीयतु: ॥ ३ ॥

Text 4

तदाकर्ण्य विभु: प्राह तेजीयसि कृतागसि ।
क्षेमाय तत्र सा भूयान्न प्रायेण बुभूषताम् ॥ ४ ॥

Text 5

अथापि यूयं कृतकिल्बिषा भवं
ये बर्हिषो भागभाजं परादु: ।
प्रसादयध्वं परिशुद्धचेतसा
क्षिप्रप्रसादं प्रगृहीताङ्‌घ्रि:पद्मम् ॥ ५ ॥

Text 6

आशासाना जीवितमध्वरस्य
लोक: सपाल: कुपिते न यस्मिन् ।
तमाशु देवं प्रियया विहीनं
क्षमापयध्वं हृदि विद्धं दुरुक्तै: ॥ ६ ॥

Text 7

नाहं न यज्ञो न च यूयमन्ये
ये देहभाजो मुनयश्च तत्त्वम् ।
विदु: प्रमाणं बलवीर्ययोर्वा
यस्यात्मतन्त्रस्य क उपायं विधित्सेत् ॥ ७ ॥

Text 8

स इत्थमादिश्य सुरानजस्तु तै:
समन्वित: पितृभि: सप्रजेशै: ।
ययौ स्वधिष्ण्यान्निलयं पुरद्विष:
कैलासमद्रिप्रवरं प्रियं प्रभो: ॥ ८ ॥

Text 9

जन्मौषधितपोमन्त्रयोगसिद्धैर्नरेतरै: ।
जुष्टं किन्नरगन्धर्वैरप्सरोभिर्वृतं सदा ॥ ९ ॥

Text 10

नानामणिमयै: श‍ृङ्गैर्नानाधातुविचित्रितै: ।
नानाद्रुमलतागुल्मैर्नानामृगगणावृतै: ॥ १० ॥

Text 11

नानामलप्रस्रवणैर्नानाकन्दरसानुभि: ।
रमणं विहरन्तीनां रमणै: सिद्धयोषिताम् ॥ ११ ॥

Text 12

मयूरकेकाभिरुतं मदान्धालिविमूर्च्छितम् ।
प्लावितै रक्तकण्ठानां कूजितैश्च पतत्त्रिणाम् ॥ १२ ॥

Text 13

आह्वयन्तमिवोद्धस्तैर्द्विजान् कामदुघैर्द्रुमै: ।
व्रजन्तमिव मातङ्गैर्गृणन्तमिव निर्झरै: ॥ १३ ॥

Texts 14-15

मन्दारै: पारिजातैश्च सरलैश्चोपशोभितम् ।
तमालै: शालतालैश्च कोविदारासनार्जुनै: ॥ १४ ॥
चूतै: कदम्बैर्नीपैश्च नागपुन्नागचम्पकै: ।
पाटलाशोकबकुलै: कुन्दै: कुरबकैरपि ॥ १५ ॥

Text 16

स्वर्णार्णशतपत्रैश्च वररेणुकजातिभि: ।
कुब्जकैर्मल्लिकाभिश्च माधवीभिश्च मण्डितम् ॥ १६ ॥

Text 17

पनसोदुम्बराश्वत्थप्लक्षन्यग्रोधहिङ्गुभि: ।
भूर्जैरोषधिभि: पूगै राजपूगैश्च जम्बुभि: ॥ १७ ॥

Text 18

खर्जूराम्रातकाम्राद्यै: प्रियालमधुकेङ्गुदै: ।
द्रुमजातिभिरन्यैश्च राजितं वेणुकीचकै: ॥ १८ ॥

Texts 19-20

कुमुदोत्पलकह्लारशतपत्रवनर्द्धिभि: ।
नलिनीषु कलं कूजत्खगवृन्दोपशोभितम् ॥ १९ ॥
मृगै: शाखामृगै: क्रोडैर्मृगेन्द्रैर्ऋ क्षशल्यकै: ।
गवयै: शरभैर्व्याघ्रै रुरुभिर्महिषादिभि: ॥ २० ॥

Text 21

कर्णान्त्रैकपदाश्वास्यैर्निर्जुष्टं वृकनाभिभि: ।
कदलीखण्डसंरुद्धनलिनीपुलिनश्रियम् ॥ २१ ॥

Text 22

पर्यस्तं नन्दया सत्या: स्‍नानपुण्यतरोदया ।
विलोक्य भूतेशगिरिं विबुधा विस्मयं ययु: ॥ २२ ॥

Text 23

दद‍ृशुस्तत्र ते रम्यामलकां नाम वै पुरीम् ।
वनं सौगन्धिकं चापि यत्र तन्नाम पङ्कजम् ॥ २३ ॥

Text 24

नन्दा चालकनन्दा च सरितौ बाह्यत: पुर: ।
तीर्थपादपदाम्भोजरजसातीव पावने ॥ २४ ॥

Text 25

ययो: सुरस्त्रिय: क्षत्तरवरुह्य स्वधिष्ण्यत: ।
क्रीडन्ति पुंस: सिञ्चन्त्यो विगाह्य रतिकर्शिता: ॥ २५ ॥

Text 26

ययोस्तत्स्‍नानविभ्रष्टनवकुङ्कुमपिञ्जरम् ।
वितृषोऽपि पिबन्त्यम्भ: पाययन्तो गजा गजी: ॥ २६ ॥

Text 27

तारहेममहारत्नविमानशतसङ्कुलाम् ।
जुष्टां पुण्यजनस्त्रीभिर्यथा खं सतडिद्घनम् ॥ २७ ॥

Text 28

हित्वा यक्षेश्वरपुरीं वनं सौगन्धिकं च तत् ।
द्रुमै: कामदुघैर्हृद्यं चित्रमाल्यफलच्छदै: ॥ २८ ॥

Text 29

रक्तकण्ठखगानीकस्वरमण्डितषट्पदम् ।
कलहंसकुलप्रेष्ठं खरदण्डजलाशयम् ॥ २९ ॥

Text 30

वनकुञ्जरसङ्घृष्टहरिचन्दनवायुना ।
अधि पुण्यजनस्त्रीणां मुहुरुन्मथयन्मन: ॥ ३० ॥

Text 31

वैदूर्यकृतसोपाना वाप्य उत्पलमालिनी: ।
प्राप्तं किम्पुरुषैर्दृष्ट्वा त आराद्दद‍ृशुर्वटम् ॥ ३१ ॥

Text 32

स योजनशतोत्सेध: पादोनविटपायत: ।
पर्यक्‍कृताचलच्छायो निर्नीडस्तापवर्जित: ॥ ३२ ॥

Text 33

तस्मिन्महायोगमये मुमुक्षुशरणे सुरा: ।
दद‍ृशु: शिवमासीनं त्यक्तामर्षमिवान्तकम् ॥ ३३ ॥

Text 34

सनन्दनाद्यैर्महासिद्धै: शान्तै: संशान्तविग्रहम् ।
उपास्यमानं सख्या च भर्त्रा गुह्यकरक्षसाम् ॥ ३४ ॥

Text 35

विद्यातपोयोगपथमास्थितं तमधीश्वरम् ।
चरन्तं विश्वसुहृदं वात्सल्याल्लोकमङ्गलम् ॥ ३५ ॥

Text 36

लिङ्गं च तापसाभीष्टं भस्मदण्डजटाजिनम् ।
अङ्गेन सन्ध्याभ्ररुचा चन्द्रलेखां च बिभ्रतम् ॥ ३६ ॥

Text 37

उपविष्टं दर्भमय्यां बृस्यां ब्रह्म सनातनम् ।
नारदाय प्रवोचन्तं पृच्छते श‍ृण्वतां सताम् ॥ ३७ ॥

Text 38

कृत्वोरौ दक्षिणे सव्यं पादपद्मं च जानुनि ।
बाहुं प्रकोष्ठेऽक्षमालाम् आसीनं तर्कमुद्रया ॥ ३८ ॥

Text 39

तं ब्रह्मनिर्वाणसमाधिमाश्रितं
व्युपाश्रितं गिरिशं योगकक्षाम् ।
सलोकपाला मुनयो मनूनाम्
आद्यं मनुं प्राञ्जलय: प्रणेमु: ॥ ३९ ॥

Text 40

स तूपलभ्यागतमात्मयोनिं
सुरासुरेशैरभिवन्दिताङ्‌घ्रि: ।
उत्थाय चक्रे शिरसाभिवन्दन-
मर्हत्तम: कस्य यथैव विष्णु: ॥ ४० ॥

Text 41

तथापरे सिद्धगणा महर्षिभि-
र्ये वै समन्तादनु नीललोहितम् ।
नमस्कृत: प्राह शशाङ्कशेखरं
कृतप्रणामं प्रहसन्निवात्मभू: ॥ ४१ ॥

Text 42

ब्रह्मोवाच
जाने त्वामीशं विश्वस्य जगतो योनिबीजयो: ।
शक्ते: शिवस्य च परं यत्तद्ब्रह्म निरन्तरम् ॥ ४२ ॥

Text 43

त्वमेव भगवन्नेतच्छिवशक्त्यो: स्वरूपयो: ।
विश्वं सृजसि पास्यत्सि क्रीडन्नूर्णपटो यथा ॥ ४३ ॥

Text 44

त्वमेव धर्मार्थदुघाभिपत्तये
दक्षेण सूत्रेण ससर्जिथाध्वरम् ।
त्वयैव लोकेऽवसिताश्च सेतवो
यान्ब्राह्मणा: श्रद्दधते धृतव्रता: ॥ ४४ ॥

Text 45

त्वं कर्मणां मङ्गल मङ्गलानां
कर्तु: स्वलोकं तनुषे स्व: परं वा ।
अमङ्गलानां च तमिस्रमुल्बणं
विपर्यय: केन तदेव कस्यचित् ॥ ४५ ॥

Text 46

न वै सतां त्वच्चरणार्पितात्मनां
भूतेषु सर्वेष्वभिपश्यतां तव ।
भूतानि चात्मन्यपृथग्दिद‍ृक्षतां
प्रायेण रोषोऽभिभवेद्यथा पशुम् ॥ ४६ ॥

Text 47

पृथग्धिय: कर्मद‍ृशो दुराशया:
परोदयेनार्पितहृद्रुजोऽनिशम् ।
परान् दुरुक्तैर्वितुदन्त्यरुन्तुदा-
स्तान्मावधीद्दैववधान्भवद्विध: ॥ ४७ ॥

Text 48

यस्मिन्यदा पुष्करनाभमायया
दुरन्तया स्पृष्टधिय: पृथग्दृश: ।
कुर्वन्ति तत्र ह्यनुकम्पया कृपां
न साधवो दैवबलात्कृते क्रमम् ॥ ४८ ॥

Text 49

भवांस्तु पुंस: परमस्य मायया
दुरन्तयास्पृष्टमति: समस्तद‍ृक् ।
तया हतात्मस्वनुकर्मचेत:-
स्वनुग्रहं कर्तुमिहार्हसि प्रभो ॥ ४९ ॥

Text 50

कुर्वध्वरस्योद्धरणं हतस्य भो:
त्वयासमाप्तस्य मनो प्रजापते: ।
न यत्र भागं तव भागिनो ददु:
कुयाजिनो येन मखो निनीयते ॥ ५० ॥

Text 51

जीवताद्यजमानोऽयं प्रपद्येताक्षिणी भग: ।
भृगो: श्मश्रूणि रोहन्तु पूष्णो दन्ताश्च पूर्ववत् ॥ ५१ ॥

Text 52

देवानां भग्नगात्राणामृत्विजां चायुधाश्मभि: ।
भवतानुगृहीतानामाशु मन्योऽस्त्वनातुरम् ॥ ५२ ॥

Text 53

एष ते रुद्र भागोऽस्तु यदुच्छिष्टोऽध्वरस्य वै ।
यज्ञस्ते रुद्रभागेन कल्पतामद्य यज्ञहन् ॥ ५३ ॥

Srimad Bhagavatam | Canto 4 | Chapter 5 | Verses

0

Frustration of the Sacrifice of Dakṣa

Text 1

मैत्रेय उवाच
भवो भवान्या निधनं प्रजापते-
रसत्कृताया अवगम्य नारदात् ।
स्वपार्षदसैन्यं च तदध्वरर्भुभि-
र्विद्रावितं क्रोधमपारमादधे ॥ १ ॥

Text 2

क्रुद्ध: सुदष्टौष्ठपुट: स धूर्जटि-
र्जटां तडिद्वह्निसटोग्ररोचिषम् ।
उत्कृत्य रुद्र: सहसोत्थितो हसन्
गम्भीरनादो विससर्ज तां भुवि ॥ २ ॥

Text 3

ततोऽतिकायस्तनुवा स्पृशन्दिवं
सहस्रबाहुर्घनरुक् त्रिसूर्यद‍ृक् ।
करालदंष्ट्रो ज्वलदग्निमूर्धज:
कपालमाली विविधोद्यतायुध: ॥ ३ ॥

Text 4

तं किं करोमीति गृणन्तमाह
बद्धाञ्जलिं भगवान् भूतनाथ: ।
दक्षं सयज्ञं जहि मद्भटानां
त्वमग्रणी रुद्र भटांशको मे ॥ ४ ॥

Text 5

आज्ञप्त एवं कुपितेन मन्युना
स देवदेवं परिचक्रमे विभुम् ।
मेने तदात्मानमसङ्गरंहसा
महीयसां तात सह: सहिष्णुम् ॥ ५ ॥

Text 6

अन्वीयमान: स तु रुद्रपार्षदै-
र्भृशं नदद्‌भिर्व्यनदत्सुभैरवम् ।
उद्यम्य शूलं जगदन्तकान्तकं
सम्प्राद्रवद् घोषणभूषणाङ्‌घ्रि: ॥ ६ ॥

Text 7

अथर्त्विजो यजमान: सदस्या:
ककुभ्युदीच्यां प्रसमीक्ष्य रेणुम् ।
तम: किमेतत्कुत एतद्रजोऽभू-
दिति द्विजा द्विजपत्‍न्यश्च दध्यु: ॥ ७ ॥

Text 8

वाता न वान्ति न हि सन्ति दस्यव:
प्राचीनबर्हिर्जीवति होग्रदण्ड: ।
गावो न काल्यन्त इदं कुतो रजो
लोकोऽधुना किं प्रलयाय कल्पते ॥ ८ ॥

Text 9

प्रसूतिमिश्रा: स्त्रिय उद्विग्नचित्ता
ऊचुर्विपाको वृजिनस्यैव तस्य ।
यत्पश्यन्तीनां दुहितृणां प्रजेश:
सुतां सतीमवदध्यावनागाम् ॥ ९ ॥

Text 10

यस्त्वन्तकाले व्युप्तजटाकलाप:
स्वशूलसूच्यर्पितदिग्गजेन्द्र: ।
वितत्य नृत्यत्युदितास्त्रदोर्ध्वजान्
उच्चाट्टहासस्तनयित्नुभिन्नदिक् ॥ १० ॥

Text 11

अमर्षयित्वा तमसह्यतेजसं
मन्युप्लुतं दुर्निरीक्ष्यं भ्रुकुट्या ।
करालदंष्ट्राभिरुदस्तभागणं
स्यात्स्वस्ति किं कोपयतो विधातु: ॥ ११ ॥

Text 12

बह्वेवमुद्विग्नद‍ृशोच्यमाने
जनेन दक्षस्य मुहुर्महात्मन: ।
उत्पेतुरुत्पाततमा: सहस्रशो
भयावहा दिवि भूमौ च पर्यक् ॥ १२ ॥

Text 13

तावत्स रुद्रानुचरैर्महामखो
नानायुधैर्वामनकैरुदायुधै: ।
पिङ्गै: पिशङ्गैर्मकरोदराननै:
पर्याद्रवद्‌भिर्विदुरान्वरुध्यत ॥ १३ ॥

Text 14

केचिद्बभञ्जु: प्राग्वंशं पत्नीशालां तथापरे ।
सद आग्नीध्रशालां च तद्विहारं महानसम् ॥ १४ ॥

Text 15

रुरुजुर्यज्ञपात्राणि तथैकेऽग्नीननाशयन् ।
कुण्डेष्वमूत्रयन् केचिद्‌बिभिदुर्वेदिमेखला: ॥ १५ ॥

Text 16

अबाधन्त मुनीनन्ये एके पत्नीरतर्जयन् ।
अपरे जगृहुर्देवान् प्रत्यासन्नान् पलायितान् ॥ १६ ॥

Text 17

भृगुं बबन्ध मणिमान् वीरभद्र: प्रजापतिम् ।
चण्डेश: पूषणं देवं भगं नन्दीश्वरोऽग्रहीत् ॥ १७ ॥

Text 18

सर्व एवर्त्विजो दृष्ट्वा सदस्या: सदिवौकस: ।
तैरर्द्यमाना: सुभृशं ग्रावभिर्नैकधाद्रवन् ॥ १८ ॥

Text 19

जुह्वत: स्रुवहस्तस्य श्मश्रूणि भगवान् भव: ।
भृगोर्लुलुञ्चे सदसि योऽहसच्छ्‌मश्रु दर्शयन् ॥ १९ ॥

Text 20

भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि ।
उज्जहार सदस्थोऽक्ष्णा य: शपन्तमसूसुचत् ॥ २० ॥

Text 21

पूष्णो ह्यपातयद्दन्तान् कालिङ्गस्य यथा बल: ।
शप्यमाने गरिमणि योऽहसद्दर्शयन्दत: ॥ २१ ॥

Text 22

आक्रम्योरसि दक्षस्य शितधारेण हेतिना ।
छिन्दन्नपि तदुद्धर्तुं नाशक्नोत् त्र्यम्बकस्तदा ॥ २२ ॥

Text 23

शस्त्रैरस्त्रान्वितैरेवमनिर्भिन्नत्वचं हर: ।
विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम् ॥ २३ ॥

Text 24

दृष्ट्वा संज्ञपनं योगं पशूनां स पतिर्मखे ।
यजमानपशो: कस्य कायात्तेनाहरच्छिर: ॥ २४ ॥

Text 25

साधुवादस्तदा तेषां कर्म तत्तस्य पश्यताम् ।
भूतप्रेतपिशाचानां अन्येषां तद्विपर्यय: ॥ २५ ॥

Text 26

जुहावैतच्छिरस्तस्मिन्दक्षिणाग्नावमर्षित: ।
तद्देवयजनं दग्ध्वा प्रातिष्ठद् गुह्यकालयम् ॥ २६ ॥

Stay Connected

16,985FansLike
12,500FollowersFollow
61,453SubscribersSubscribe