Mail ID: contact@vedavarsity.com

Contact: +91 9634998911

Google search engineGoogle search engine
Home Blog Page 12

Srimad Bhagavatam | Canto 8 | Chapter 17 | Verses

0

The Supreme Lord Agrees to Become Aditi’s Son

Text 1

श्रीशुक उवाच
इत्युक्ता सादिती राजन्स्वभर्त्रा कश्यपेन वै ।
अन्वतिष्ठद् व्रतमिदं द्वादशाहमतन्द्रिता ॥ १ ॥

Texts 2-3

चिन्तयन्त्येकया बुद्ध्या महापुरुषमीश्वरम् ।
प्रगृह्येन्द्रियदुष्टाश्वान्मनसा बुद्धिसारथि: ॥ २ ॥
मनश्चैकाग्रया बुद्ध्या भगवत्यखिलात्मनि ।
वासुदेवे समाधाय चचार ह पयोव्रतम् ॥ ३ ॥

Text 4

तस्या: प्रादुरभूत्तात भगवानादिपुरुष: ।
पीतवासाश्चतुर्बाहु: शङ्खचक्रगदाधर: ॥ ४ ॥

Text 5

तं नेत्रगोचरं वीक्ष्य सहसोत्थाय सादरम् ।
ननाम भुवि कायेन दण्डवत् प्रीतिविह्वला ॥ ५ ॥

Text 6

सोत्थाय बद्धाञ्जलिरीडितुं स्थिता
नोत्सेह आनन्दजलाकुलेक्षणा ।
बभूव तूष्णीं पुलकाकुलाकृति-
स्तद्दर्शनात्युत्सवगात्रवेपथु: ॥ ६ ॥

Text 7

प्रीत्या शनैर्गद्गदया गिरा हरिं
तुष्टाव सा देव्यदिति: कुरूद्वह ।
उद्वीक्षती सा पिबतीव चक्षुषा
रमापतिं यज्ञपतिं जगत्पतिम् ॥ ७ ॥

Text 8

श्रीअदितिरुवाच
यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद
तीर्थश्रव: श्रवणमङ्गलनामधेय ।
आपन्नलोकवृजिनोपशमोदयाद्य
शं न: कृधीश भगवन्नसि दीननाथ: ॥ ८ ॥

Text 9

विश्वाय विश्वभवनस्थितिसंयमाय
स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने ।
स्वस्थाय शश्वदुपबृंहितपूर्णबोध-
व्यापादितात्मतमसे हरये नमस्ते ॥ ९ ॥

Text 10

आयु: परं वपुरभीष्टमतुल्यलक्ष्मी-
र्द्योभूरसा: सकलयोगगुणास्त्रिवर्ग: ।
ज्ञानं च केवलमनन्त भवन्ति तुष्टात्
त्वत्तो नृणां किमु सपत्नजयादिराशी: ॥ १० ॥

Text 11

श्रीशुक उवाच
अदित्यैवं स्तुतो राजन्भगवान्पुष्करेक्षण: ।
क्षेत्रज्ञ: सर्वभूतानामिति होवाच भारत ॥ ११ ॥

Text 12

श्रीभगवानुवाच
देवमातर्भवत्या मे विज्ञातं चिरकाङ्‌क्षितम् ।
यत् सपत्नैर्हृतश्रीणां च्यावितानां स्वधामत: ॥ १२ ॥

Text 13

तान्विनिर्जित्य समरे दुर्मदानसुरर्षभान् ।
प्रतिलब्धजयश्रीभि: पुत्रैरिच्छस्युपासितुम् ॥ १३ ॥

Text 14

इन्द्रज्येष्ठै: स्वतनयैर्हतानां युधि विद्विषाम् ।
स्त्रियो रुदन्तीरासाद्य द्रष्टुमिच्छसि दु:खिता: ॥ १४ ॥

Text 15

आत्मजान्सुसमृद्धांस्त्वं प्रत्याहृतयश:श्रिय: ।
नाकपृष्ठमधिष्ठाय क्रीडतो द्रष्टुमिच्छसि ॥ १५ ॥

Text 16

प्रायोऽधुना तेऽसुरयूथनाथा
अपारणीया इति देवि मे मति: ।
यत्तेऽनुकूलेश्वरविप्रगुप्ता
न विक्रमस्तत्र सुखं ददाति ॥ १६ ॥

Text 17

अथाप्युपायो मम देवि चिन्त्य:
सन्तोषितस्य व्रतचर्यया ते ।
ममार्चनं नार्हति गन्तुमन्यथा
श्रद्धानुरूपं फलहेतुकत्वात् ॥ १७ ॥

Text 18

त्वयार्चितश्चाहमपत्यगुप्तये
पयोव्रतेनानुगुणं समीडित: ।
स्वांशेन पुत्रत्वमुपेत्य ते सुतान्
गोप्तास्मि मारीचतपस्यधिष्ठित: ॥ १८ ॥

Text 19

उपधाव पतिं भद्रे प्रजापतिमकल्मषम् ।
मां च भावयती पत्यावेवंरूपमवस्थितम् ॥ १९ ॥

Text 20

नैतत् परस्मा आख्येयं पृष्टयापि कथञ्चन ।
सर्वं सम्पद्यते देवि देवगुह्यं सुसंवृतम् ॥ २० ॥

Text 21

श्रीशुक उवाच
एतावदुक्त्वा भगवांस्तत्रैवान्तरधीयत ।
अदितिर्दुर्लभं लब्ध्वा हरेर्जन्मात्मनि प्रभो: ।
उपाधावत् पतिं भक्त्या परया कृतकृत्यवत् ॥ २१ ॥

Text 22

स वै समाधियोगेन कश्यपस्तदबुध्यत ।
प्रविष्टमात्मनि हरेरंशं ह्यवितथेक्षण: ॥ २२ ॥

Text 23

सोऽदित्यां वीर्यमाधत्त तपसा चिरसम्भृतम् ।
समाहितमना राजन्दारुण्यग्निं यथानिल: ॥ २३ ॥

Text 24

अदितेर्धिष्ठितं गर्भं भगवन्तं सनातनम् ।
हिरण्यगर्भो विज्ञाय समीडे गुह्यनामभि: ॥ २४ ॥

Text 25

श्रीब्रह्मोवाच
जयोरुगाय भगवन्नुरुक्रम नमोऽस्तु ते ।
नमो ब्रह्मण्यदेवाय त्रिगुणाय नमो नम: ॥ २५ ॥

Text 26

नमस्ते पृश्निगर्भाय वेदगर्भाय वेधसे ।
त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे ॥ २६ ॥

Text 27

त्वमादिरन्तो भुवनस्य मध्य-
मनन्तशक्तिं पुरुषं यमाहु: ।
कालो भवानाक्षिपतीश विश्वं
स्रोतो यथान्त:पतितं गभीरम् ॥ २७ ॥

Text 28

त्वं वै प्रजानां स्थिरजङ्गमानां
प्रजापतीनामसि सम्भविष्णु: ।
दिवौकसां देव दिवश्‍च्युतानां
परायणं नौरिव मज्जतोऽप्सु ॥ २८ ॥

Srimad Bhagavatam | Canto 8 | Chapter 16 | Verses

0

Executing the Payo-vrata Process of Worship

Text 1

श्रीशुक उवाच
एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा ।
हृते त्रिविष्टपे दैत्यै: पर्यतप्यदनाथवत् ॥ १ ॥

Text 2

एकदा कश्यपस्तस्या आश्रमं भगवानगात् ।
निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् ॥ २ ॥

Text 3

स पत्नीं दीनवदनां कृतासनपरिग्रह: ।
सभाजितो यथान्यायमिदमाह कुरूद्वह ॥ ३ ॥

Text 4

अप्यभद्रं न विप्राणां भद्रे लोकेऽधुनागतम् ।
न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिन: ॥ ४ ॥

Text 5

अपि वाकुशलं किञ्चिद् गृहेषु गृहमेधिनि ।
धर्मस्यार्थस्य कामस्य यत्र योगो ह्ययोगिनाम् ॥ ५ ॥

Text 6

अपि वातिथयोऽभ्येत्य कुटुम्बासक्तया त्वया ।
गृहादपूजिता याता: प्रत्युत्थानेन वा क्‍वचित् ॥ ६ ॥

Text 7

गृहेषु येष्वतिथयो नार्चिता: सलिलैरपि ।
यदि निर्यान्ति ते नूनं फेरुराजगृहोपमा: ॥ ७ ॥

Text 8

अप्यग्नयस्तु वेलायां न हुता हविषा सति ।
त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित् ॥ ८ ॥

Text 9

यत्पूजया कामदुघान्याति लोकान्गृहान्वित: ।
ब्राह्मणोऽग्निश्च वै विष्णो: सर्वदेवात्मनो मुखम् ॥ ९ ॥

Text 10

अपि सर्वे कुशलिनस्तव पुत्रा मनस्विनि ।
लक्षयेऽस्वस्थमात्मानं भवत्या लक्षणैरहम् ॥ १० ॥

Text 11

श्रीअदितिरुवाच
भद्रं द्विजगवां ब्रह्मन्धर्मस्यास्य जनस्य च ।
त्रिवर्गस्य परं क्षेत्रं गृहमेधिन्गृहा इमे ॥ ११ ॥

Text 12

अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सव: ।
सर्वं भगवतो ब्रह्मन्ननुध्यानान्न रिष्यति ॥ १२ ॥

Text 13

को नु मे भगवन्कामो न सम्पद्येत मानस: ।
यस्या भवान्प्रजाध्यक्ष एवं धर्मान्प्रभाषते ॥ १३ ॥

Text 14

तवैव मारीच मन:शरीरजा:
प्रजा इमा: सत्त्वरजस्तमोजुष: ।
समो भवांस्तास्वसुरादिषु प्रभो
तथापि भक्तं भजते महेश्वर: ॥ १४ ॥

Text 15

तस्मादीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत ।
हृतश्रियो हृतस्थानान्सपत्नै: पाहि न: प्रभो ॥ १५ ॥

Text 16

परैर्विवासिता साहं मग्ना व्यसनसागरे ।
ऐश्वर्यं श्रीर्यश: स्थानं हृतानि प्रबलैर्मम ॥ १६ ॥

Text 17

यथा तानि पुन: साधो प्रपद्येरन् ममात्मजा: ।
तथा विधेहि कल्याणं धिया कल्याणकृत्तम ॥ १७ ॥

Text 18

श्रीशुक उवाच
एवमभ्यर्थितोऽदित्या कस्तामाह स्मयन्निव ।
अहो मायाबलं विष्णो: स्‍नेहबद्धमिदं जगत् ॥ १८ ॥

Text 19

क्‍व देहो भौतिकोऽनात्मा क्‍व चात्मा प्रकृते: पर: ।
कस्य के पतिपुत्राद्या मोह एव हि कारणम् ॥ १९ ॥

Text 20

उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम् ।
सर्वभूतगुहावासं वासुदेवं जगद्गुरुम् ॥ २० ॥

Text 21

स विधास्यति ते कामान्हरिर्दीनानुकम्पन: ।
अमोघा भगवद्भ‍क्तिर्नेतरेति मतिर्मम ॥ २१ ॥

Text 22

श्रीअदितिरुवाच
केनाहं विधिना ब्रह्मन्नुपस्थास्ये जगत्पतिम् ।
यथा मे सत्यसङ्कल्पो विदध्यात् स मनोरथम् ॥ २२ ॥

Text 23

आदिश त्वं द्विजश्रेष्ठ विधिं तदुपधावनम् ।
आशु तुष्यति मे देव: सीदन्त्या: सह पुत्रकै: ॥ २३ ॥

Text 24

श्रीकश्यप उवाच
एतन्मे भगवान्पृष्ट: प्रजाकामस्य पद्मज: ।
यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् ॥ २४ ॥

Text 25

फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम् ।
अर्चयेदरविन्दाक्षं भक्त्या परमयान्वित: ॥ २५ ॥

Text 26

सिनीवाल्यां मृदालिप्य स्‍नायात् क्रोडविदीर्णया ।
यदि लभ्येत वै स्रोतस्येतं मन्त्रमुदीरयेत् ॥ २६ ॥

Text 27

त्वं देव्यादिवराहेण रसाया: स्थानमिच्छता ।
उद्‌धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय ॥ २७ ॥

Text 28

निर्वर्तितात्मनियमो देवमर्चेत् समाहित: ।
अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरावपि ॥ २८ ॥

Text 29

नमस्तुभ्यं भगवते पुरुषाय महीयसे ।
सर्वभूतनिवासाय वासुदेवाय साक्षिणे ॥ २९ ॥

Text 30

नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च ।
चतुर्विंशद्गुणज्ञाय गुणसङ्ख्यानहेतवे ॥ ३० ॥

Text 31

नमो द्विशीर्ष्णे त्रिपदे चतु:श‍ृङ्गाय तन्तवे ।
सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नम: ॥ ३१ ॥

Text 32

नम: शिवाय रुद्राय नम: शक्तिधराय च ।
सर्वविद्याधिपतये भूतानां पतये नम: ॥ ३२ ॥

Text 33

नमो हिरण्यगर्भाय प्राणाय जगदात्मने ।
योगैश्वर्यशरीराय नमस्ते योगहेतवे ॥ ३३ ॥

Text 34

नमस्त आदिदेवाय साक्षिभूताय ते नम: ।
नारायणाय ऋषये नराय हरये नम: ॥ ३४ ॥

Text 35

नमो मरकतश्यामवपुषेऽधिगतश्रिये ।
केशवाय नमस्तुभ्यं नमस्ते पीतवाससे ॥ ३५ ॥

Text 36

त्वं सर्ववरद: पुंसां वरेण्य वरदर्षभ ।
अतस्ते श्रेयसे धीरा: पादरेणुमुपासते ॥ ३६ ॥

Text 37

अन्ववर्तन्त यं देवा: श्रीश्च तत्पादपद्मयो: ।
स्पृहयन्त इवामोदं भगवान्मे प्रसीदताम् ॥ ३७ ॥

Text 38

एतैर्मन्त्रैर्हृषीकेशमावाहनपुरस्कृतम् ।
अर्चयेच्छ्रद्धया युक्त: पाद्योपस्पर्शनादिभि: ॥ ३८ ॥

Text 39

अर्चित्वा गन्धमाल्याद्यै: पयसा स्‍नपयेद् विभुम् ।
वस्त्रोपवीताभरणपाद्योपस्पर्शनैस्तत: ।
गन्धधूपादिभिश्चार्चेद्‌द्वादशाक्षरविद्यया ॥ ३९ ॥

Text 40

श‍ृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति ।
ससर्पि: सगुडं दत्त्वा जुहुयान्मूलविद्यया ॥ ४० ॥

Text 41

निवेदितं तद्भ‍क्ताय दद्याद्भ‍ुञ्जीत वा स्वयम् ।
दत्त्वाचमनमर्चित्वा ताम्बूलं च निवेदयेत् ॥ ४१ ॥

Text 42

जपेदष्टोत्तरशतं स्तुवीत स्तुतिभि: प्रभुम् ।
कृत्वा प्रदक्षिणं भूमौ प्रणमेद् दण्डवन्मुदा ॥ ४२ ॥

Text 43

कृत्वा शिरसि तच्छेषां देवमुद्वासयेत् तत: ।
द्वय‍वरान्भोजयेद् विप्रान्पायसेन यथोचितम् ॥ ४३ ॥

Texts 44-45

भुञ्जीत तैरनुज्ञात: सेष्ट: शेषं सभाजितै: ।
ब्रह्मचार्यथ तद्रात्र्यां श्वोभूते प्रथमेऽहनि ॥ ४४ ॥
स्‍नात: शुचिर्यथोक्तेन विधिना सुसमाहित: ।
पयसा स्‍नापयित्वार्चेद् यावद्‌व्रतसमापनम् ॥ ४५ ॥

Text 46

पयोभक्षो व्रतमिदं चरेद् विष्णवर्चनाद‍ृत: ।
पूर्ववज्जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् ॥ ४६ ॥

Text 47

एवं त्वहरह: कुर्याद्‌द्वादशाहं पयोव्रतम् ।
हरेराराधनं होममर्हणं द्विजतर्पणम् ॥ ४७ ॥

Text 48

प्रतिपद्दिनमारभ्य यावच्छुक्लत्रयोदशीम् ।
ब्रह्मचर्यमध:स्वप्नं स्‍नानं त्रिषवणं चरेत् ॥ ४८ ॥

Text 49

वर्जयेदसदालापं भोगानुच्चावचांस्तथा ।
अहिंस्र: सर्वभूतानां वासुदेवपरायण: ॥ ४९ ॥

Text 50

त्रयोदश्यामथो विष्णो: स्‍नपनं पञ्चकैर्विभो: ।
कारयेच्छास्त्रद‍ृष्टेन विधिना विधिकोविदै: ॥ ५० ॥

Texts 51-52

पूजां च महतीं कुर्याद् वित्तशाठ्यविवर्जित: ।
चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे ॥ ५१ ॥
सूक्तेन तेन पुरुषं यजेत सुसमाहित: ।
नैवेद्यं चातिगुणवद् दद्यात्पुरुषतुष्टिदम् ॥ ५२ ॥

Text 53

आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभि: ।
तोषयेद‍ृत्विजश्चैव तद्विद्ध्याराधनं हरे: ॥ ५३ ॥

Text 54

भोजयेत् तान्गुणवता सदन्नेन शुचिस्मिते ।
अन्यांश्च ब्राह्मणाञ्छक्त्या ये च तत्र समागता: ॥ ५४ ॥

Text 55

दक्षिणां गुरवे दद्याद‍ृत्विग्भ्यश्च यथार्हत: ।
अन्नाद्येनाश्वपाकांश्च प्रीणयेत्समुपागतान् ॥ ५५ ॥

Text 56

भुक्तवत्सु च सर्वेषु दीनान्धकृपणादिषु ।
विष्णोस्तत्प्रीणनं विद्वान्भुञ्जीत सह बन्धुभि: ॥ ५६ ॥

Text 57

नृत्यवादित्रगीतैश्च स्तुतिभि: स्वस्तिवाचकै: ।
कारयेत्तत्कथाभिश्च पूजां भगवतोऽन्वहम् ॥ ५७ ॥

Text 58

एतत्पयोव्रतं नाम पुरुषाराधनं परम् ।
पितामहेनाभिहितं मया ते समुदाहृतम् ॥ ५८ ॥

Text 59

त्वं चानेन महाभागे सम्यक्‌चीर्णेन केशवम् ।
आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् ॥ ५९ ॥

Text 60

अयं वै सर्वयज्ञाख्य: सर्वव्रतमिति स्मृतम् ।
तप:सारमिदं भद्रे दानं चेश्वरतर्पणम् ॥ ६० ॥

Text 61

त एव नियमा: साक्षात्त एव च यमोत्तमा: ।
तपो दानं व्रतं यज्ञो येन तुष्यत्यधोक्षज: ॥ ६१ ॥

Text 62

तस्मादेतद्‌व्रतं भद्रे प्रयता श्रद्धयाचर ।
भगवान्परितुष्टस्ते वरानाशु विधास्यति ॥ ६२ ॥

Srimad Bhagavatam | Canto 8 | Chapter 24 | Verses

0

Matsya, the Lord’s Fish Incarnation

Text 1

śrī-rājovāca
bhagavañ chrotum icchāmi
harer adbhuta-karmaṇaḥ
avatāra-kathām ādyāṁ
māyā-matsya-viḍambanam

Texts 2-3

yad-artham adadhād rūpaṁ
mātsyaṁ loka-jugupsitam
tamaḥ-prakṛti-durmarṣaṁ
karma-grasta iveśvaraḥ

etan no bhagavan sarvaṁ
yathāvad vaktum arhasi
uttamaśloka-caritaṁ
sarva-loka-sukhāvaham

Text 4

śrī-sūta uvāca
ity ukto viṣṇu-rātena
bhagavān bādarāyaṇiḥ
uvāca caritaṁ viṣṇor
matsya-rūpeṇa yat kṛtam

Text 5

śrī-śuka uvāca
go-vipra-sura-sādhūnāṁ
chandasām api ceśvaraḥ
rakṣām icchaṁs tanūr dhatte
dharmasyārthasya caiva hi

Text 6

uccāvaceṣu bhūteṣu
caran vāyur iveśvaraḥ
noccāvacatvaṁ bhajate
nirguṇatvād dhiyo guṇaiḥ

Text 7

āsīd atīta-kalpānte
brāhmo naimittiko layaḥ
samudropaplutās tatra
lokā bhūr-ādayo nṛpa

Text 8

kālenāgata-nidrasya
dhātuḥ śiśayiṣor balī
mukhato niḥsṛtān vedān
hayagrīvo ’ntike ’harat

Text 9

jñātvā tad dānavendrasya
hayagrīvasya ceṣṭitam
dadhāra śapharī-rūpaṁ
bhagavān harir īśvaraḥ

Text 10

tatra rāja-ṛṣiḥ kaścin
nāmnā satyavrato mahān
nārāyaṇa-paro ’tapat
tapaḥ sa salilāśanaḥ

Text 11

yo ’sāv asmin mahā-kalpe
tanayaḥ sa vivasvataḥ
śrāddhadeva iti khyāto
manutve hariṇārpitaḥ

Text 12

ekadā kṛtamālāyāṁ
kurvato jala-tarpaṇam
tasyāñjaly-udake kācic
chaphary ekābhyapadyata

Text 13

satyavrato ’ñjali-gatāṁ
saha toyena bhārata
utsasarja nadī-toye
śapharīṁ draviḍeśvaraḥ

Text 14

tam āha sātikaruṇaṁ
mahā-kāruṇikaṁ nṛpam
yādobhyo jñāti-ghātibhyo
dīnāṁ māṁ dīna-vatsala
kathaṁ visṛjase rājan
bhītām asmin sarij-jale

Text 15

tam ātmano ’nugrahārthaṁ
prītyā matsya-vapur-dharam
ajānan rakṣaṇārthāya
śapharyāḥ sa mano dadhe

Text 16

tasyā dīnataraṁ vākyam
āśrutya sa mahīpatiḥ
kalaśāpsu nidhāyaināṁ
dayālur ninya āśramam

Text 17

sā tu tatraika-rātreṇa
vardhamānā kamaṇḍalau
alabdhvātmāvakāśaṁ vā
idam āha mahīpatim

Text 18

nāhaṁ kamaṇḍalāv asmin
kṛcchraṁ vastum ihotsahe
kalpayaukaḥ suvipulaṁ
yatrāhaṁ nivase sukham

Text 19

sa enāṁ tata ādāya
nyadhād audañcanodake
tatra kṣiptā muhūrtena
hasta-trayam avardhata

Text 20

na ma etad alaṁ rājan
sukhaṁ vastum udañcanam
pṛthu dehi padaṁ mahyaṁ
yat tvāhaṁ śaraṇaṁ gatā

Text 21

tata ādāya sā rājñā
kṣiptā rājan sarovare
tad āvṛtyātmanā so ’yaṁ
mahā-mīno ’nvavardhata

Text 22

naitan me svastaye rājann
udakaṁ salilaukasaḥ
nidhehi rakṣā-yogena
hrade mām avidāsini

Text 23

ity uktaḥ so ’nayan matsyaṁ
tatra tatrāvidāsini
jalāśaye ’sammitaṁ taṁ
samudre prākṣipaj jhaṣam

Text 24

kṣipyamāṇas tam āhedam
iha māṁ makarādayaḥ
adanty atibalā vīra
māṁ nehotsraṣṭum arhasi

Text 25

evaṁ vimohitas tena
vadatā valgu-bhāratīm
tam āha ko bhavān asmān
matsya-rūpeṇa mohayan

Text 26

naivaṁ vīryo jalacaro
dṛṣṭo ’smābhiḥ śruto ’pi vā
yo bhavān yojana-śatam
ahnābhivyānaśe saraḥ

Text 27

nūnaṁ tvaṁ bhagavān sākṣād
dharir nārāyaṇo ’vyayaḥ
anugrahāya bhūtānāṁ
dhatse rūpaṁ jalaukasām

Text 28

namas te puruṣa-śreṣṭha
sthity-utpatty-apyayeśvara
bhaktānāṁ naḥ prapannānāṁ
mukhyo hy ātma-gatir vibho

Text 29

sarve līlāvatārās te
bhūtānāṁ bhūti-hetavaḥ
jñātum icchāmy ado rūpaṁ
yad-arthaṁ bhavatā dhṛtam

Text 30

na te ’ravindākṣa padopasarpaṇaṁ
mṛṣā bhavet sarva-suhṛt-priyātmanaḥ
yathetareṣāṁ pṛthag-ātmanāṁ satām
adīdṛśo yad vapur adbhutaṁ hi naḥ

Text 31

śrī-śuka uvāca
iti bruvāṇaṁ nṛpatiṁ jagat-patiḥ
satyavrataṁ matsya-vapur yuga-kṣaye
vihartu-kāmaḥ pralayārṇave ’bravīc
cikīrṣur ekānta-jana-priyaḥ priyam

Text 32

śrī-bhagavān uvāca
saptame hy adyatanād ūrdhvam
ahany etad arindama
nimaṅkṣyaty apyayāmbhodhau
trailokyaṁ bhūr-bhuvādikam

Text 33

tri-lokyāṁ līyamānāyāṁ
saṁvartāmbhasi vai tadā
upasthāsyati nauḥ kācid
viśālā tvāṁ mayeritā

Texts 34-35

tvaṁ tāvad oṣadhīḥ sarvā
bījāny uccāvacāni ca
saptarṣibhiḥ parivṛtaḥ
sarva-sattvopabṛṁhitaḥ

āruhya bṛhatīṁ nāvaṁ
vicariṣyasy aviklavaḥ
ekārṇave nirāloke
ṛṣīṇām eva varcasā

Text 36

dodhūyamānāṁ tāṁ nāvaṁ
samīreṇa balīyasā
upasthitasya me śṛṅge
nibadhnīhi mahāhinā

Text 37

ahaṁ tvām ṛṣibhiḥ sārdhaṁ
saha-nāvam udanvati
vikarṣan vicariṣyāmi
yāvad brāhmī niśā prabho

Text 38

madīyaṁ mahimānaṁ ca
paraṁ brahmeti śabditam
vetsyasy anugṛhītaṁ me
sampraśnair vivṛtaṁ hṛdi

Text 39

ittham ādiśya rājānaṁ
harir antaradhīyata
so ’nvavaikṣata taṁ kālaṁ
yaṁ hṛṣīkeśa ādiśat

Text 40

āstīrya darbhān prāk-kūlān
rājarṣiḥ prāg-udaṅ-mukhaḥ
niṣasāda hareḥ pādau
cintayan matsya-rūpiṇaḥ

Text 41

tataḥ samudra udvelaḥ
sarvataḥ plāvayan mahīm
vardhamāno mahā-meghair
varṣadbhiḥ samadṛśyata

Text 42

dhyāyan bhagavad-ādeśaṁ
dadṛśe nāvam āgatām
tām āruroha viprendrair
ādāyauṣadhi-vīrudhaḥ

Text 43

tam ūcur munayaḥ prītā
rājan dhyāyasva keśavam
sa vai naḥ saṅkaṭād asmād
avitā śaṁ vidhāsyati

Text 44

so ’nudhyātas tato rājñā
prādurāsīn mahārṇave
eka-śṛṅga-dharo matsyo
haimo niyuta-yojanaḥ

Text 45

nibadhya nāvaṁ tac-chṛṅge
yathokto hariṇā purā
varatreṇāhinā tuṣṭas
tuṣṭāva madhusūdanam

Text 46

śrī-rājovāca
anādy-avidyopahatātma-saṁvidas
tan-mūla-saṁsāra-pariśramāturāḥ
yadṛcchayopasṛtā yam āpnuyur
vimuktido naḥ paramo gurur bhavān

Text 47

jano ’budho ’yaṁ nija-karma-bandhanaḥ
sukhecchayā karma samīhate ’sukham
yat-sevayā tāṁ vidhunoty asan-matiṁ
granthiṁ sa bhindyād dhṛdayaṁ sa no guruḥ

Text 48

yat-sevayāgner iva rudra-rodanaṁ
pumān vijahyān malam ātmanas tamaḥ
bhajeta varṇaṁ nijam eṣa so ’vyayo
bhūyāt sa īśaḥ paramo guror guruḥ

Text 49

na yat-prasādāyuta-bhāga-leśam
anye ca devā guravo janāḥ svayam
kartuṁ sametāḥ prabhavanti puṁsas
tam īśvaraṁ tvāṁ śaraṇaṁ prapadye

Text 50

acakṣur andhasya yathāgraṇīḥ kṛtas
tathā janasyāviduṣo ’budho guruḥ
tvam arka-dṛk sarva-dṛśāṁ samīkṣaṇo
vṛto gurur naḥ sva-gatiṁ bubhutsatām

Text 51

jano janasyādiśate ’satīṁ gatiṁ
yayā prapadyeta duratyayaṁ tamaḥ
tvaṁ tv avyayaṁ jñānam amogham añjasā
prapadyate yena jano nijaṁ padam

Text 52

tvaṁ sarva-lokasya suhṛt priyeśvaro
hy ātmā gurur jñānam abhīṣṭa-siddhiḥ
tathāpi loko na bhavantam andha-dhīr
jānāti santaṁ hṛdi baddha-kāmaḥ

Text 53

tvaṁ tvām ahaṁ deva-varaṁ vareṇyaṁ
prapadya īśaṁ pratibodhanāya
chindhy artha-dīpair bhagavan vacobhir
granthīn hṛdayyān vivṛṇu svam okaḥ

Text 54

śrī-śuka uvāca
ity uktavantaṁ nṛpatiṁ
bhagavān ādi-pūruṣaḥ
matsya-rūpī mahāmbhodhau
viharaṁs tattvam abravīt

Text 55

purāṇa-saṁhitāṁ divyāṁ
sāṅkhya-yoga-kriyāvatīm
satyavratasya rājarṣer
ātma-guhyam aśeṣataḥ

Text 56

aśrauṣīd ṛṣibhiḥ sākam
ātma-tattvam asaṁśayam
nāvy āsīno bhagavatā
proktaṁ brahma sanātanam

Text 57

atīta-pralayāpāya
utthitāya sa vedhase
hatvāsuraṁ hayagrīvaṁ
vedān pratyāharad dhariḥ

Text 58

sa tu satyavrato rājā
jñāna-vijñāna-saṁyutaḥ
viṣṇoḥ prasādāt kalpe ’sminn
āsīd vaivasvato manuḥ

Text 59

satyavratasya rājarṣer
māyā-matsyasya śārṅgiṇaḥ
saṁvādaṁ mahad-ākhyānaṁ
śrutvā mucyeta kilbiṣāt

Text 60

avatāraṁ harer yo ’yaṁ
kīrtayed anvahaṁ naraḥ
saṅkalpās tasya sidhyanti
sa yāti paramāṁ gatim

Text 61

pralaya-payasi dhātuḥ supta-śakter mukhebhyaḥ
śruti-gaṇam apanītaṁ pratyupādatta hatvā
ditijam akathayad yo brahma satyavratānāṁ
tam aham akhila-hetuṁ jihma-mīnaṁ nato ’smi

Srimad Bhagavatam | Canto 8 | Chapter 23 | Verses

0

The Demigods Regain the Heavenly Planets

Text 1

śrī-śuka uvāca
ity uktavantaṁ puruṣaṁ purātanaṁ
mahānubhāvo ’khila-sādhu-sammataḥ
baddhāñjalir bāṣpa-kalākulekṣaṇo
bhakty-utkalo gadgadayā girābravīt

Text 2

śrī-balir uvāca
aho praṇāmāya kṛtaḥ samudyamaḥ
prapanna-bhaktārtha-vidhau samāhitaḥ
yal loka-pālais tvad-anugraho ’marair
alabdha-pūrvo ’pasade ’sure ’rpitaḥ

Text 3

śrī-śuka uvāca
ity uktvā harim ānatya
brahmāṇaṁ sabhavaṁ tataḥ
viveśa sutalaṁ prīto
balir muktaḥ sahāsuraiḥ

Text 4

evam indrāya bhagavān
pratyānīya triviṣṭapam
pūrayitvāditeḥ kāmam
aśāsat sakalaṁ jagat

Text 5

labdha-prasādaṁ nirmuktaṁ
pautraṁ vaṁśa-dharaṁ balim
niśāmya bhakti-pravaṇaḥ
prahrāda idam abravīt

Text 6

śrī-prahrāda uvāca
nemaṁ viriñco labhate prasādaṁ
na śrīr na śarvaḥ kim utāpare ’nye
yan no ’surāṇām asi durga-pālo
viśvābhivandyair abhivanditāṅghriḥ

Text 7

yat-pāda-padma-makaranda-niṣevaṇena
brahmādayaḥ śaraṇadāśnuvate vibhūtīḥ
kasmād vayaṁ kusṛtayaḥ khala-yonayas te
dākṣiṇya-dṛṣṭi-padavīṁ bhavataḥ praṇītāḥ

Text 8

citraṁ tavehitam aho ’mita-yoga-māyā-
līlā-visṛṣṭa-bhuvanasya viśāradasya
sarvātmanaḥ samadṛśo ’viṣamaḥ svabhāvo
bhakta-priyo yad asi kalpataru-svabhāvaḥ

Text 9

śrī-bhagavān uvāca
vatsa prahrāda bhadraṁ te
prayāhi sutalālayam
modamānaḥ sva-pautreṇa
jñātīnāṁ sukham āvaha

Text 10

nityaṁ draṣṭāsi māṁ tatra
gadā-pāṇim avasthitam
mad-darśana-mahāhlāda-
dhvasta-karma-nibandhanaḥ

Texts 11-12

śrī-śuka uvāca
ājñāṁ bhagavato rājan
prahrādo balinā saha
bāḍham ity amala-prajño
mūrdhny ādhāya kṛtāñjaliḥ

parikramyādi-puruṣaṁ
sarvāsura-camūpatiḥ
praṇatas tad-anujñātaḥ
praviveśa mahā-bilam

Text 13

athāhośanasaṁ rājan
harir nārāyaṇo ’ntike
āsīnam ṛtvijāṁ madhye
sadasi brahma-vādinām

Text 14

brahman santanu śiṣyasya
karma-cchidraṁ vitanvataḥ
yat tat karmasu vaiṣamyaṁ
brahma-dṛṣṭaṁ samaṁ bhavet

Text 15

śrī-śukra uvāca
kutas tat-karma-vaiṣamyaṁ
yasya karmeśvaro bhavān
yajñeśo yajña-puruṣaḥ
sarva-bhāvena pūjitaḥ

Text 16

mantratas tantrataś chidraṁ
deśa-kālārha-vastutaḥ
sarvaṁ karoti niśchidram
anusaṅkīrtanaṁ tava

Text 17

tathāpi vadato bhūman
kariṣyāmy anuśāsanam
etac chreyaḥ paraṁ puṁsāṁ
yat tavājñānupālanam

Text 18

śrī-śuka uvāca
pratinandya harer ājñām
uśanā bhagavān iti
yajña-cchidraṁ samādhatta
baler viprarṣibhiḥ saha

Text 19

evaṁ baler mahīṁ rājan
bhikṣitvā vāmano hariḥ
dadau bhrātre mahendrāya
tridivaṁ yat parair hṛtam

Texts 20-21

prajāpati-patir brahmā
devarṣi-pitṛ-bhūmipaiḥ
dakṣa-bhṛgv-aṅgiro-mukhyaiḥ
kumāreṇa bhavena ca

kaśyapasyāditeḥ prītyai
sarva-bhūta-bhavāya ca
lokānāṁ loka-pālānām
akarod vāmanaṁ patim

Texts 22-23

vedānāṁ sarva-devānāṁ
dharmasya yaśasaḥ śriyaḥ
maṅgalānāṁ vratānāṁ ca
kalpaṁ svargāpavargayoḥ

upendraṁ kalpayāṁ cakre
patiṁ sarva-vibhūtaye
tadā sarvāṇi bhūtāni
bhṛśaṁ mumudire nṛpa

Text 24

tatas tv indraḥ puraskṛtya
deva-yānena vāmanam
loka-pālair divaṁ ninye
brahmaṇā cānumoditaḥ

Text 25

prāpya tri-bhuvanaṁ cendra
upendra-bhuja-pālitaḥ
śriyā paramayā juṣṭo
mumude gata-sādhvasaḥ

Texts 26-27

brahmā śarvaḥ kumāraś ca
bhṛgv-ādyā munayo nṛpa
pitaraḥ sarva-bhūtāni
siddhā vaimānikāś ca ye

sumahat karma tad viṣṇor
gāyantaḥ param adbhutam
dhiṣṇyāni svāni te jagmur
aditiṁ ca śaśaṁsire

Text 28

sarvam etan mayākhyātaṁ
bhavataḥ kula-nandana
urukramasya caritaṁ
śrotṝṇām agha-mocanam

Text 29

pāraṁ mahimna uruvikramato gṛṇāno
yaḥ pārthivāni vimame sa rajāṁsi martyaḥ
kiṁ jāyamāna uta jāta upaiti martya
ity āha mantra-dṛg ṛṣiḥ puruṣasya yasya

Text 30

ya idaṁ deva-devasya
harer adbhuta-karmaṇaḥ
avatārānucaritaṁ
śṛṇvan yāti parāṁ gatim

Text 31

kriyamāṇe karmaṇīdaṁ
daive pitrye ’tha mānuṣe
yatra yatrānukīrtyeta
tat teṣāṁ sukṛtaṁ viduḥ

Srimad Bhagavatam | Canto 8 | Chapter 22 | Verses

0

Bali Mahārāja Surrenders His Life

Text 1

śrī-śuka uvāca
evaṁ viprakṛto rājan
balir bhagavatāsuraḥ
bhidyamāno ’py abhinnātmā
pratyāhāviklavaṁ vacaḥ

Text 2

śrī-balir uvāca
yady uttamaśloka bhavān mameritaṁ
vaco vyalīkaṁ sura-varya manyate
karomy ṛtaṁ tan na bhavet pralambhanaṁ
padaṁ tṛtīyaṁ kuru śīrṣṇi me nijam

Text 3

bibhemi nāhaṁ nirayāt pada-cyuto
na pāśa-bandhād vyasanād duratyayāt
naivārtha-kṛcchrād bhavato vinigrahād
asādhu-vādād bhṛśam udvije yathā

Text 4

puṁsāṁ ślāghyatamaṁ manye
daṇḍam arhattamārpitam
yaṁ na mātā pitā bhrātā
suhṛdaś cādiśanti hi

Text 5

tvaṁ nūnam asurāṇāṁ naḥ
parokṣaḥ paramo guruḥ
yo no ’neka-madāndhānāṁ
vibhraṁśaṁ cakṣur ādiśat

Texts 6-7

yasmin vairānubandhena
vyūḍhena vibudhetarāḥ
bahavo lebhire siddhiṁ
yām u haikānta-yoginaḥ

tenāhaṁ nigṛhīto ’smi
bhavatā bhūri-karmaṇā
baddhaś ca vāruṇaiḥ pāśair
nātivrīḍe na ca vyathe

Text 8

pitāmaho me bhavadīya-sammataḥ
prahrāda āviṣkṛta-sādhu-vādaḥ
bhavad-vipakṣeṇa vicitra-vaiśasaṁ
samprāpitas tvaṁ paramaḥ sva-pitrā

Text 9

kim ātmanānena jahāti yo ’ntataḥ
kiṁ riktha-hāraiḥ svajanākhya-dasyubhiḥ
kiṁ jāyayā saṁsṛti-hetu-bhūtayā
martyasya gehaiḥ kim ihāyuṣo vyayaḥ

Text 10

itthaṁ sa niścitya pitāmaho mahān
agādha-bodho bhavataḥ pāda-padmam
dhruvaṁ prapede hy akutobhayaṁ janād
bhītaḥ svapakṣa-kṣapaṇasya sattama

Text 11

athāham apy ātma-ripos tavāntikaṁ
daivena nītaḥ prasabhaṁ tyājita-śrīḥ
idaṁ kṛtāntāntika-varti jīvitaṁ
yayādhruvaṁ stabdha-matir na budhyate

Text 12

śrī-śuka uvāca
tasyetthaṁ bhāṣamāṇasya
prahrādo bhagavat-priyaḥ
ājagāma kuru-śreṣṭha
rākā-patir ivotthitaḥ

Text 13

tam indra-senaḥ sva-pitāmahaṁ śriyā
virājamānaṁ nalināyatekṣaṇam
prāṁśuṁ piśaṅgāmbaram añjana-tviṣaṁ
pralamba-bāhuṁ śubhagarṣabham aikṣata

Text 14

tasmai balir vāruṇa-pāśa-yantritaḥ
samarhaṇaṁ nopajahāra pūrvavat
nanāma mūrdhnāśru-vilola-locanaḥ
sa-vrīḍa-nīcīna-mukho babhūva ha

Text 15

sa tatra hāsīnam udīkṣya sat-patiṁ
hariṁ sunandādy-anugair upāsitam
upetya bhūmau śirasā mahā-manā
nanāma mūrdhnā pulakāśru-viklavaḥ

Text 16

śrī-prahrāda uvāca
tvayaiva dattaṁ padam aindram ūrjitaṁ
hṛtaṁ tad evādya tathaiva śobhanam
manye mahān asya kṛto hy anugraho
vibhraṁśito yac chriya ātma-mohanāt

Text 17

yayā hi vidvān api muhyate yatas
tat ko vicaṣṭe gatim ātmano yathā
tasmai namas te jagad-īśvarāya vai
nārāyaṇāyākhila-loka-sākṣiṇe

Text 18

śrī-śuka uvāca
tasyānuśṛṇvato rājan
prahrādasya kṛtāñjaleḥ
hiraṇyagarbho bhagavān
uvāca madhusūdanam

Text 19

baddhaṁ vīkṣya patiṁ sādhvī
tat-patnī bhaya-vihvalā
prāñjaliḥ praṇatopendraṁ
babhāṣe ’vāṅ-mukhī nṛpa

Text 20

śrī-vindhyāvalir uvāca
krīḍārtham ātmana idaṁ tri-jagat kṛtaṁ te
svāmyaṁ tu tatra kudhiyo ’para īśa kuryuḥ
kartuḥ prabhos tava kim asyata āvahanti
tyakta-hriyas tvad-avaropita-kartṛ-vādāḥ

Text 21

śrī-brahmovāca
bhūta-bhāvana bhūteśa
deva-deva jaganmaya
muñcainaṁ hṛta-sarvasvaṁ
nāyam arhati nigraham

Text 22

kṛtsnā te ’nena dattā bhūr
lokāḥ karmārjitāś ca ye
niveditaṁ ca sarvasvam
ātmāviklavayā dhiyā

Text 23

yat-pādayor aśaṭha-dhīḥ salilaṁ pradāya
dūrvāṅkurair api vidhāya satīṁ saparyām
apy uttamāṁ gatim asau bhajate tri-lokīṁ
dāśvān aviklava-manāḥ katham ārtim ṛcchet

Text 24

śrī-bhagavān uvāca
brahman yam anugṛhṇāmi
tad-viśo vidhunomy aham
yan-madaḥ puruṣaḥ stabdho
lokaṁ māṁ cāvamanyate

Text 25

yadā kadācij jīvātmā
saṁsaran nija-karmabhiḥ
nānā-yoniṣv anīśo ’yaṁ
pauruṣīṁ gatim āvrajet

Text 26

janma-karma-vayo-rūpa-
vidyaiśvarya-dhanādibhiḥ
yady asya na bhavet stambhas
tatrāyaṁ mad-anugrahaḥ

Text 27

māna-stambha-nimittānāṁ
janmādīnāṁ samantataḥ
sarva-śreyaḥ-pratīpānāṁ
hanta muhyen na mat-paraḥ

Text 28

eṣa dānava-daityānām
agranīḥ kīrti-vardhanaḥ
ajaiṣīd ajayāṁ māyāṁ
sīdann api na muhyati

Texts 29-30

kṣīṇa-rikthaś cyutaḥ sthānāt
kṣipto baddhaś ca śatrubhiḥ
jñātibhiś ca parityakto
yātanām anuyāpitaḥ

guruṇā bhartsitaḥ śapto
jahau satyaṁ na suvrataḥ
chalair ukto mayā dharmo
nāyaṁ tyajati satya-vāk

Text 31

eṣa me prāpitaḥ sthānaṁ
duṣprāpam amarair api
sāvarṇer antarasyāyaṁ
bhavitendro mad-āśrayaḥ

Text 32

tāvat sutalam adhyāstāṁ
viśvakarma-vinirmitam
yad ādhayo vyādhayaś ca
klamas tandrā parābhavaḥ
nopasargā nivasatāṁ
sambhavanti mamekṣayā

Text 33

indrasena mahārāja
yāhi bho bhadram astu te
sutalaṁ svargibhiḥ prārthyaṁ
jñātibhiḥ parivāritaḥ

Text 34

na tvām abhibhaviṣyanti
lokeśāḥ kim utāpare
tvac-chāsanātigān daityāṁś
cakraṁ me sūdayiṣyati

Text 35

rakṣiṣye sarvato ’haṁ tvāṁ
sānugaṁ saparicchadam
sadā sannihitaṁ vīra
tatra māṁ drakṣyate bhavān

Text 36

tatra dānava-daityānāṁ
saṅgāt te bhāva āsuraḥ
dṛṣṭvā mad-anubhāvaṁ vai
sadyaḥ kuṇṭho vinaṅkṣyati

Srimad Bhagavatam | Canto 8 | Chapter 21 | Verses

0

Bali Mahārāja Arrested by the Lord

Text 1

śrī-śuka uvāca
satyaṁ samīkṣyābja-bhavo nakhendubhir
hata-svadhāma-dyutir āvṛto ’bhyagāt
marīci-miśrā ṛṣayo bṛhad-vratāḥ
sanandanādyā nara-deva yoginaḥ

Texts 2-3

vedopavedā niyamā yamānvitās
tarketihāsāṅga-purāṇa-saṁhitāḥ
ye cāpare yoga-samīra-dīpita-
jñānāgninā randhita-karma-kalmaṣāḥ

vavandire yat-smaraṇānubhāvataḥ
svāyambhuvaṁ dhāma gatā akarmakam
athāṅghraye pronnamitāya viṣṇor
upāharat padma-bhavo ’rhaṇodakam
samarcya bhaktyābhyagṛṇāc chuci-śravā
yan-nābhi-paṅkeruha-sambhavaḥ svayam

Text 4

dhātuḥ kamaṇḍalu-jalaṁ tad urukramasya
pādāvanejana-pavitratayā narendra
svardhuny abhūn nabhasi sā patatī nimārṣṭi
loka-trayaṁ bhagavato viśadeva kīrtiḥ

Text 5

brahmādayo loka-nāthāḥ
sva-nāthāya samādṛtāḥ
sānugā balim ājahruḥ
saṅkṣiptātma-vibhūtaye

Texts 6-7

toyaiḥ samarhaṇaiḥ sragbhir
divya-gandhānulepanaiḥ
dhūpair dīpaiḥ surabhibhir
lājākṣata-phalāṅkuraiḥ

stavanair jaya-śabdaiś ca
tad-vīrya-mahimāṅkitaiḥ
nṛtya-vāditra-gītaiś ca
śaṅkha-dundubhi-niḥsvanaiḥ

Text 8

jāmbavān ṛkṣa-rājas tu
bherī-śabdair mano-javaḥ
vijayaṁ dikṣu sarvāsu
mahotsavam aghoṣayat

Text 9

mahīṁ sarvāṁ hṛtāṁ dṛṣṭvā
tripada-vyāja-yācñayā
ūcuḥ sva-bhartur asurā
dīkṣitasyātyamarṣitāḥ

Text 10

na vāyaṁ brahma-bandhur
viṣṇur māyāvināṁ varaḥ
dvija-rūpa-praticchanno
deva-kāryaṁ cikīrṣati

Text 11

anena yācamānena
śatruṇā vaṭu-rūpiṇā
sarvasvaṁ no hṛtaṁ bhartur
nyasta-daṇḍasya barhiṣi

Text 12

satya-vratasya satataṁ
dīkṣitasya viśeṣataḥ
nānṛtaṁ bhāṣituṁ śakyaṁ
brahmaṇyasya dayāvataḥ

Text 13

tasmād asya vadho dharmo
bhartuḥ śuśrūṣaṇaṁ ca naḥ
ity āyudhāni jagṛhur
baler anucarāsurāḥ

Text 14

te sarve vāmanaṁ hantuṁ
śūla-paṭṭiśa-pāṇayaḥ
anicchanto bale rājan
prādravañ jāta-manyavaḥ

Text 15

tān abhidravato dṛṣṭvā
ditijānīkapān nṛpa
prahasyānucarā viṣṇoḥ
pratyaṣedhann udāyudhāḥ

Texts 16-17

nandaḥ sunando ’tha jayo
vijayaḥ prabalo balaḥ
kumudaḥ kumudākṣaś ca
viṣvaksenaḥ patattrirāṭ

jayantaḥ śrutadevaś ca
puṣpadanto ’tha sātvataḥ
sarve nāgāyuta-prāṇāś
camūṁ te jaghnur āsurīm

Text 18

hanyamānān svakān dṛṣṭvā
puruṣānucarair baliḥ
vārayām āsa saṁrabdhān
kāvya-śāpam anusmaran

Text 19

he vipracitte he rāho
he neme śrūyatāṁ vacaḥ
mā yudhyata nivartadhvaṁ
na naḥ kālo ’yam artha-kṛt

Text 20

yaḥ prabhuḥ sarva-bhūtānāṁ
sukha-duḥkhopapattaye
taṁ nātivartituṁ daityāḥ
pauruṣair īśvaraḥ pumān

Text 21

yo no bhavāya prāg āsīd
abhavāya divaukasām
sa eva bhagavān adya
vartate tad-viparyayam

Text 22

balena sacivair buddhyā
durgair mantrauṣadhādibhiḥ
sāmādibhir upāyaiś ca
kālaṁ nātyeti vai janaḥ

Text 23

bhavadbhir nirjitā hy ete
bahuśo ’nucarā hareḥ
daivenarddhais ta evādya
yudhi jitvā nadanti naḥ

Text 24

etān vayaṁ vijeṣyāmo
yadi daivaṁ prasīdati
tasmāt kālaṁ pratīkṣadhvaṁ
yo no ’rthatvāya kalpate

Text 25

śrī-śuka uvāca
patyur nigaditaṁ śrutvā
daitya-dānava-yūthapāḥ
rasāṁ nirviviśū rājan
viṣṇu-pārṣada tāḍitāḥ

Text 26

atha tārkṣya-suto jñātvā
virāṭ prabhu-cikīrṣitam
babandha vāruṇaiḥ pāśair
baliṁ sūtye ’hani kratau

Text 27

hāhākāro mahān āsīd
rodasyoḥ sarvato diśam
nigṛhyamāṇe ’sura-patau
viṣṇunā prabhaviṣṇunā

Text 28

taṁ baddhaṁ vāruṇaiḥ pāśair
bhagavān āha vāmanaḥ
naṣṭa-śriyaṁ sthira-prajñam
udāra-yaśasaṁ nṛpa

Text 29

padāni trīṇi dattāni
bhūmer mahyaṁ tvayāsura
dvābhyāṁ krāntā mahī sarvā
tṛtīyam upakalpaya

Text 30

yāvat tapaty asau gobhir
yāvad induḥ sahoḍubhiḥ
yāvad varṣati parjanyas
tāvatī bhūr iyaṁ tava

Text 31

padaikena mayākrānto
bhūrlokaḥ khaṁ diśas tanoḥ
svarlokas te dvitīyena
paśyatas te svam ātmanā

Text 32

pratiśrutam adātus te
niraye vāsa iṣyate
viśa tvaṁ nirayaṁ tasmād
guruṇā cānumoditaḥ

Text 33

vṛthā manorathas tasya
dūraḥ svargaḥ pataty adhaḥ
pratiśrutasyādānena
yo ’rthinaṁ vipralambhate

Text 34

vipralabdho dadāmīti
tvayāhaṁ cāḍhya-māninā
tad vyalīka-phalaṁ bhuṅkṣva
nirayaṁ katicit samāḥ

Srimad Bhagavatam | Canto 8 | Chapter 20 | Verses

0

Bali Mahārāja Surrenders the Universe

Text 1

śrī-śuka uvāca
balir evaṁ gṛha-patiḥ
kulācāryeṇa bhāṣitaḥ
tūṣṇīṁ bhūtvā kṣaṇaṁ rājann
uvācāvahito gurum

Text 2

śrī-balir uvāca
satyaṁ bhagavatā proktaṁ
dharmo ’yaṁ gṛhamedhinām
arthaṁ kāmaṁ yaśo vṛttiṁ
yo na bādheta karhicit

Text 3

sa cāhaṁ vitta-lobhena
pratyācakṣe kathaṁ dvijam
pratiśrutya dadāmīti
prāhrādiḥ kitavo yathā

Text 4

na hy asatyāt paro ’dharma
iti hovāca bhūr iyam
sarvaṁ soḍhum alaṁ manye
ṛte ’līka-paraṁ naram

Text 5

nāhaṁ bibhemi nirayān
nādhanyād asukhārṇavāt
na sthāna-cyavanān mṛtyor
yathā vipra-pralambhanāt

Text 6

yad yad dhāsyati loke ’smin
samparetaṁ dhanādikam
tasya tyāge nimittaṁ kiṁ
vipras tuṣyen na tena cet

Text 7

śreyaḥ kurvanti bhūtānāṁ
sādhavo dustyajāsubhiḥ
dadhyaṅ-śibi-prabhṛtayaḥ
ko vikalpo dharādiṣu

Text 8

yair iyaṁ bubhuje brahman
daityendrair anivartibhiḥ
teṣāṁ kālo ’grasīl lokān
na yaśo ’dhigataṁ bhuvi

Text 9

sulabhā yudhi viprarṣe
hy anivṛttās tanu-tyajaḥ
na tathā tīrtha āyāte
śraddhayā ye dhana-tyajaḥ

Text 10

manasvinaḥ kāruṇikasya śobhanaṁ
yad arthi-kāmopanayena durgatiḥ
kutaḥ punar brahma-vidāṁ bhavādṛśāṁ
tato vaṭor asya dadāmi vāñchitam

Text 11

yajanti yajñaṁ kratubhir yam ādṛtā
bhavanta āmnāya-vidhāna-kovidāḥ
sa eva viṣṇur varado ’stu vā paro
dāsyāmy amuṣmai kṣitim īpsitāṁ mune

Text 12

yadyapy asāv adharmeṇa
māṁ badhnīyād anāgasam
tathāpy enaṁ na hiṁsiṣye
bhītaṁ brahma-tanuṁ ripum

Text 13

eṣa vā uttamaśloko
na jihāsati yad yaśaḥ
hatvā maināṁ hared yuddhe
śayīta nihato mayā

Text 14

śrī-śuka uvāca
evam aśraddhitaṁ śiṣyam
anādeśakaraṁ guruḥ
śaśāpa daiva-prahitaḥ
satya-sandhaṁ manasvinam

Text 15

dṛḍhaṁ paṇḍita-māny ajñaḥ
stabdho ’sy asmad-upekṣayā
mac-chāsanātigo yas tvam
acirād bhraśyase śriyaḥ

Text 16

evaṁ śaptaḥ sva-guruṇā
satyān na calito mahān
vāmanāya dadāv enām
arcitvodaka-pūrvakam

Text 17

vindhyāvalis tadāgatya
patnī jālaka-mālinī
āninye kalaśaṁ haimam
avanejany-apāṁ bhṛtam

Text 18

yajamānaḥ svayaṁ tasya
śrīmat pāda-yugaṁ mudā
avanijyāvahan mūrdhni
tad apo viśva-pāvanīḥ

Text 19

tadāsurendraṁ divi devatā-gaṇā
gandharva-vidyādhara-siddha-cāraṇāḥ
tat karma sarve ’pi gṛṇanta ārjavaṁ
prasūna-varṣair vavṛṣur mudānvitāḥ

Text 20

nedur muhur dundubhayaḥ sahasraśo
gandharva-kimpūruṣa-kinnarā jaguḥ
manasvinānena kṛtaṁ suduṣkaraṁ
vidvān adād yad ripave jagat-trayam

Text 21

tad vāmanaṁ rūpam avardhatādbhutaṁ
harer anantasya guṇa-trayātmakam
bhūḥ khaṁ diśo dyaur vivarāḥ payodhayas
tiryaṅ-nṛ-devā ṛṣayo yad-āsata

Text 22

kāye balis tasya mahā-vibhūteḥ
sahartvig-ācārya-sadasya etat
dadarśa viśvaṁ tri-guṇaṁ guṇātmake
bhūtendriyārthāśaya-jīva-yuktam

Text 23

rasām acaṣṭāṅghri-tale ’tha pādayor
mahīṁ mahīdhrān puruṣasya jaṅghayoḥ
patattriṇo jānuni viśva-mūrter
ūrvor gaṇaṁ mārutam indrasenaḥ

Text 24

sandhyāṁ vibhor vāsasi guhya aikṣat
prajāpatīñ jaghane ātma-mukhyān
nābhyāṁ nabhaḥ kukṣiṣu sapta-sindhūn
urukramasyorasi carkṣa-mālām

Texts 25-29

hṛdy aṅga dharmaṁ stanayor murārer
ṛtaṁ ca satyaṁ ca manasy athendum
śriyaṁ ca vakṣasy aravinda-hastāṁ
kaṇṭhe ca sāmāni samasta-rephān

indra-pradhānān amarān bhujeṣu
tat-karṇayoḥ kakubho dyauś ca mūrdhni
keśeṣu meghāñ chvasanaṁ nāsikāyām
akṣṇoś ca sūryaṁ vadane ca vahnim

vāṇyāṁ ca chandāṁsi rase jaleśaṁ
bhruvor niṣedhaṁ ca vidhiṁ ca pakṣmasu
ahaś ca rātriṁ ca parasya puṁso
manyuṁ lalāṭe ’dhara eva lobham

sparśe ca kāmaṁ nṛpa retasāmbhaḥ
pṛṣṭhe tv adharmaṁ kramaṇeṣu yajñam
chāyāsu mṛtyuṁ hasite ca māyāṁ
tanū-ruheṣv oṣadhi-jātayaś ca

nadīś ca nāḍīṣu śilā nakheṣu
buddhāv ajaṁ deva-gaṇān ṛṣīṁś ca
prāṇeṣu gātre sthira-jaṅgamāni
sarvāṇi bhūtāni dadarśa vīraḥ

Text 30

sarvātmanīdaṁ bhuvanaṁ nirīkṣya
sarve ’surāḥ kaśmalam āpur aṅga
sudarśanaṁ cakram asahya-tejo
dhanuś ca śārṅgaṁ stanayitnu-ghoṣam

Text 31

parjanya-ghoṣo jalajaḥ pāñcajanyaḥ
kaumodakī viṣṇu-gadā tarasvinī
vidyādharo ’siḥ śata-candra-yuktas
tūṇottamāv akṣayasāyakau ca

Texts 32-33

sunanda-mukhyā upatasthur īśaṁ
pārṣada-mukhyāḥ saha-loka-pālāḥ
sphurat-kirīṭāṅgada-mīna-kuṇḍalaḥ
śrīvatsa-ratnottama-mekhalāmbaraiḥ

madhuvrata-srag-vanamālayāvṛto
rarāja rājan bhagavān urukramaḥ
kṣitiṁ padaikena baler vicakrame
nabhaḥ śarīreṇa diśaś ca bāhubhiḥ

Text 34

padaṁ dvitīyaṁ kramatas triviṣṭapaṁ
na vai tṛtīyāya tadīyam aṇv api
urukramasyāṅghrir upary upary atho
mahar-janābhyāṁ tapasaḥ paraṁ gataḥ

Srimad Bhagavatam | Canto 8 | Chapter 19 | Verses

0

Lord Vāmanadeva Begs Charity from Bali Mahārāja

Text 1

śrī-śuka uvāca
iti vairocaner vākyaṁ
dharma-yuktaṁ sa sūnṛtam
niśamya bhagavān prītaḥ
pratinandyedam abravīt

Text 2

śrī-bhagavān uvāca
vacas tavaitaj jana-deva sūnṛtaṁ
kulocitaṁ dharma-yutaṁ yaśas-karam
yasya pramāṇaṁ bhṛgavaḥ sāmparāye
pitāmahaḥ kula-vṛddhaḥ praśāntaḥ

Text 3

na hy etasmin kule kaścin
niḥsattvaḥ kṛpaṇaḥ pumān
pratyākhyātā pratiśrutya
yo vādātā dvijātaye

Text 4

na santi tīrthe yudhi cārthinārthitāḥ
parāṅmukhā ye tv amanasvino nṛpa
yuṣmat-kule yad yaśasāmalena
prahrāda udbhāti yathoḍupaḥ khe

Text 5

yato jāto hiraṇyākṣaś
carann eka imāṁ mahīm
prativīraṁ dig-vijaye
nāvindata gadāyudhaḥ

Text 6

yaṁ vinirjitya kṛcchreṇa
viṣṇuḥ kṣmoddhāra āgatam
ātmānaṁ jayinaṁ mene
tad-vīryaṁ bhūry anusmaran

Text 7

niśamya tad-vadhaṁ bhrātā
hiraṇyakaśipuḥ purā
hantuṁ bhrātṛ-haṇaṁ kruddho
jagāma nilayaṁ hareḥ

Text 8

tam āyāntaṁ samālokya
śūla-pāṇiṁ kṛtāntavat
cintayām āsa kāla-jño
viṣṇur māyāvināṁ varaḥ

Text 9

yato yato ’haṁ tatrāsau
mṛtyuḥ prāṇa-bhṛtām iva
ato ’ham asya hṛdayaṁ
pravekṣyāmi parāg-dṛśaḥ

Text 10

evaṁ sa niścitya ripoḥ śarīram
ādhāvato nirviviśe ’surendra
śvāsānilāntarhita-sūkṣma-dehas
tat-prāṇa-randhreṇa vivigna-cetāḥ

Text 11

sa tan-niketaṁ parimṛśya śūnyam
apaśyamānaḥ kupito nanāda
kṣmāṁ dyāṁ diśaḥ khaṁ vivarān samudrān
viṣṇuṁ vicinvan na dadarśa vīraḥ

Text 12

apaśyann iti hovāca
mayānviṣṭam idaṁ jagat
bhrātṛ-hā me gato nūnaṁ
yato nāvartate pumān

Text 13

vairānubandha etāvān
āmṛtyor iha dehinām
ajñāna-prabhavo manyur
ahaṁ-mānopabṛṁhitaḥ

Text 14

pitā prahrāda-putras te
tad-vidvān dvija-vatsalaḥ
svam āyur dvija-liṅgebhyo
devebhyo ’dāt sa yācitaḥ

Text 15

bhavān ācaritān dharmān
āsthito gṛhamedhibhiḥ
brāhmaṇaiḥ pūrvajaiḥ śūrair
anyaiś coddāma-kīrtibhiḥ

Text 16

tasmāt tvatto mahīm īṣad
vṛṇe ’haṁ varadarṣabhāt
padāni trīṇi daityendra
sammitāni padā mama

Text 17

nānyat te kāmaye rājan
vadānyāj jagad-īśvarāt
nainaḥ prāpnoti vai vidvān
yāvad-artha-pratigrahaḥ

Text 18

śrī-balir uvāca
aho brāhmaṇa-dāyāda
vācas te vṛddha-sammatāḥ
tvaṁ bālo bāliśa-matiḥ
svārthaṁ praty abudho yathā

Text 19

māṁ vacobhiḥ samārādhya
lokānām ekam īśvaram
pada-trayaṁ vṛṇīte yo
’buddhimān dvīpa-dāśuṣam

Text 20

na pumān mām upavrajya
bhūyo yācitum arhati
tasmād vṛttikarīṁ bhūmiṁ
vaṭo kāmaṁ pratīccha me

Text 21

śrī-bhagavān uvāca
yāvanto viṣayāḥ preṣṭhās
tri-lokyām ajitendriyam
na śaknuvanti te sarve
pratipūrayituṁ nṛpa

Text 22

tribhiḥ kramair asantuṣṭo
dvīpenāpi na pūryate
nava-varṣa-sametena
sapta-dvīpa-varecchayā

Text 23

sapta-dvīpādhipatayo
nṛpā vaiṇya-gayādayaḥ
arthaiḥ kāmair gatā nāntaṁ
tṛṣṇāyā iti naḥ śrutam

Text 24

yadṛcchayopapannena
santuṣṭo vartate sukham
nāsantuṣṭas tribhir lokair
ajitātmopasāditaiḥ

Text 25

puṁso ’yaṁ saṁsṛter hetur
asantoṣo ’rtha-kāmayoḥ
yadṛcchayopapannena
santoṣo muktaye smṛtaḥ

Text 26

yadṛcchā-lābha-tuṣṭasya
tejo viprasya vardhate
tat praśāmyaty asantoṣād
ambhasevāśuśukṣaṇiḥ

Text 27

tasmāt trīṇi padāny eva
vṛṇe tvad varadarṣabhāt
etāvataiva siddho ’haṁ
vittaṁ yāvat prayojanam

Text 28

śrī-śuka uvāca
ity uktaḥ sa hasann āha
vāñchātaḥ pratigṛhyatām
vāmanāya mahīṁ dātuṁ
jagrāha jala-bhājanam

Text 29

viṣṇave kṣmāṁ pradāsyantam
uśanā asureśvaram
jānaṁś cikīrṣitaṁ viṣṇoḥ
śiṣyaṁ prāha vidāṁ varaḥ

Text 30

śrī-śukra uvāca
eṣa vairocane sākṣād
bhagavān viṣṇur avyayaḥ
kaśyapād aditer jāto
devānāṁ kārya-sādhakaḥ

Text 31

pratiśrutaṁ tvayaitasmai
yad anartham ajānatā
na sādhu manye daityānāṁ
mahān upagato ’nayaḥ

Text 32

eṣa te sthānam aiśvaryaṁ
śriyaṁ tejo yaśaḥ śrutam
dāsyaty ācchidya śakrāya
māyā-māṇavako hariḥ

Text 33

tribhiḥ kramair imāl lokān
viśva-kāyaḥ kramiṣyati
sarvasvaṁ viṣṇave dattvā
mūḍha vartiṣyase katham

Text 34

kramato gāṁ padaikena
dvitīyena divaṁ vibhoḥ
khaṁ ca kāyena mahatā
tārtīyasya kuto gatiḥ

Text 35

niṣṭhāṁ te narake manye
hy apradātuḥ pratiśrutam
pratiśrutasya yo ’nīśaḥ
pratipādayituṁ bhavān

Text 36

na tad dānaṁ praśaṁsanti
yena vṛttir vipadyate
dānaṁ yajñas tapaḥ karma
loke vṛttimato yataḥ

Text 37

dharmāya yaśase ’rthāya
kāmāya sva-janāya ca
pañcadhā vibhajan vittam
ihāmutra ca modate

Text 38

atrāpi bahvṛcair gītaṁ
śṛṇu me ’sura-sattama
satyam om iti yat proktaṁ
yan nety āhānṛtaṁ hi tat

Text 39

satyaṁ puṣpa-phalaṁ vidyād
ātma-vṛkṣasya gīyate
vṛkṣe ’jīvati tan na syād
anṛtaṁ mūlam ātmanaḥ

Text 40

tad yathā vṛkṣa unmūlaḥ
śuṣyaty udvartate ’cirāt
evaṁ naṣṭānṛtaḥ sadya
ātmā śuṣyen na saṁśayaḥ

Text 41

parāg riktam apūrṇaṁ vā
akṣaraṁ yat tad om iti
yat kiñcid om iti brūyāt
tena ricyeta vai pumān
bhikṣave sarvam oṁ kurvan
nālaṁ kāmena cātmane

Text 42

athaitat pūrṇam abhyātmaṁ
yac ca nety anṛtaṁ vacaḥ
sarvaṁ nety anṛtaṁ brūyāt
sa duṣkīrtiḥ śvasan mṛtaḥ

Text 43

strīṣu narma-vivāhe ca
vṛtty-arthe prāṇa-saṅkaṭe
go-brāhmaṇārthe hiṁsāyāṁ
nānṛtaṁ syāj jugupsitam

Srimad Bhagavatam | Canto 8 | Chapter 18 | Verses

0

Lord Vāmanadeva, the Dwarf Incarnation

Text 1

śrī-śuka uvāca
itthaṁ viriñca-stuta-karma-vīryaḥ
prādurbabhūvāmṛta-bhūr adityām
catur-bhujaḥ śaṅkha-gadābja-cakraḥ
piśaṅga-vāsā nalināyatekṣaṇaḥ

Text 2

śyāmāvadāto jhaṣa-rāja-kuṇḍala-
tviṣollasac-chrī-vadanāmbujaḥ pumān
śrīvatsa-vakṣā balayāṅgadollasat-
kirīṭa-kāñcī-guṇa-cāru-nūpuraḥ

Text 3

madhu-vrata-vrāta-vighuṣṭayā svayā
virājitaḥ śrī-vanamālayā hariḥ
prajāpater veśma-tamaḥ svarociṣā
vināśayan kaṇṭha-niviṣṭa-kaustubhaḥ

Text 4

diśaḥ praseduḥ salilāśayās tadā
prajāḥ prahṛṣṭā ṛtavo guṇānvitāḥ
dyaur antarīkṣaṁ kṣitir agni-jihvā
gāvo dvijāḥ sañjahṛṣur nagāś ca

Text 5

śroṇāyāṁ śravaṇa-dvādaśyāṁ
muhūrte ’bhijiti prabhuḥ
sarve nakṣatra-tārādyāś
cakrus taj-janma dakṣiṇam

Text 6

dvādaśyāṁ savitātiṣṭhan
madhyandina-gato nṛpa
vijayā-nāma sā proktā
yasyāṁ janma vidur hareḥ

Text 7

śaṅkha-dundubhayo nedur
mṛdaṅga-paṇavānakāḥ
citra-vāditra-tūryāṇāṁ
nirghoṣas tumulo ’bhavat

Text 8

prītāś cāpsaraso ’nṛtyan
gandharva-pravarā jaguḥ
tuṣṭuvur munayo devā
manavaḥ pitaro ’gnayaḥ

Texts 9-10

siddha-vidyādhara-gaṇāḥ
sakimpuruṣa-kinnarāḥ
cāraṇā yakṣa-rakṣāṁsi
suparṇā bhujagottamāḥ

gāyanto ’tipraśaṁsanto
nṛtyanto vibudhānugāḥ
adityā āśrama-padaṁ
kusumaiḥ samavākiran

Text 11

dṛṣṭvāditis taṁ nija-garbha-sambhavaṁ
paraṁ pumāṁsaṁ mudam āpa vismitā
gṛhīta-dehaṁ nija-yoga-māyayā
prajāpatiś cāha jayeti vismitaḥ

Text 12

yat tad vapur bhāti vibhūṣaṇāyudhair
avyakta-cid-vyaktam adhārayad dhariḥ
babhūva tenaiva sa vāmano vaṭuḥ
sampaśyator divya-gatir yathā naṭaḥ

Text 13

taṁ vaṭuṁ vāmanaṁ dṛṣṭvā
modamānā maharṣayaḥ
karmāṇi kārayām āsuḥ
puraskṛtya prajāpatim

Text 14

tasyopanīyamānasya
sāvitrīṁ savitābravīt
bṛhaspatir brahma-sūtraṁ
mekhalāṁ kaśyapo ’dadāt

Text 15

dadau kṛṣṇājinaṁ bhūmir
daṇḍaṁ somo vanaspatiḥ
kaupīnācchādanaṁ mātā
dyauś chatraṁ jagataḥ pateḥ

Text 16

kamaṇḍaluṁ veda-garbhaḥ
kuśān saptarṣayo daduḥ
akṣa-mālāṁ mahārāja
sarasvaty avyayātmanaḥ

Text 17

tasmā ity upanītāya
yakṣa-rāṭ pātrikām adāt
bhikṣāṁ bhagavatī sākṣād
umādād ambikā satī

Text 18

sa brahma-varcasenaivaṁ
sabhāṁ sambhāvito vaṭuḥ
brahmarṣi-gaṇa-sañjuṣṭām
atyarocata māriṣaḥ

Text 19

samiddham āhitaṁ vahniṁ
kṛtvā parisamūhanam
paristīrya samabhyarcya
samidbhir ajuhod dvijaḥ

Text 20

śrutvāśvamedhair yajamānam ūrjitaṁ
baliṁ bhṛgūṇām upakalpitais tataḥ
jagāma tatrākhila-sāra-sambhṛto
bhāreṇa gāṁ sannamayan pade pade

Text 21

taṁ narmadāyās taṭa uttare baler
ya ṛtvijas te bhṛgukaccha-saṁjñake
pravartayanto bhṛgavaḥ kratūttamaṁ
vyacakṣatārād uditaṁ yathā ravim

Text 22

te ṛtvijo yajamānaḥ sadasyā
hata-tviṣo vāmana-tejasā nṛpa
sūryaḥ kilāyāty uta vā vibhāvasuḥ
sanat-kumāro ’tha didṛkṣayā kratoḥ

Text 23

itthaṁ saśiṣyeṣu bhṛguṣv anekadhā
vitarkyamāṇo bhagavān sa vāmanaḥ
chatraṁ sadaṇḍaṁ sajalaṁ kamaṇḍaluṁ
viveśa bibhrad dhayamedha-vāṭam

Texts 24-25

mauñjyā mekhalayā vītam
upavītājinottaram
jaṭilaṁ vāmanaṁ vipraṁ
māyā-māṇavakaṁ harim

praviṣṭaṁ vīkṣya bhṛgavaḥ
saśiṣyās te sahāgnibhiḥ
pratyagṛhṇan samutthāya
saṅkṣiptās tasya tejasā

Text 26

yajamānaḥ pramudito
darśanīyaṁ manoramam
rūpānurūpāvayavaṁ
tasmā āsanam āharat

Text 27

svāgatenābhinandyātha
pādau bhagavato baliḥ
avanijyārcayām āsa
mukta-saṅga-manoramam

Text 28

tat-pāda-śaucaṁ jana-kalmaṣāpahaṁ
sa dharma-vin mūrdhny adadhāt sumaṅgalam
yad deva-devo giriśaś candra-maulir
dadhāra mūrdhnā parayā ca bhaktyā

Text 29

śrī-balir uvāca
svāgataṁ te namas tubhyaṁ
brahman kiṁ karavāma te
brahmarṣīṇāṁ tapaḥ sākṣān
manye tvārya vapur-dharam

Text 30

adya naḥ pitaras tṛptā
adya naḥ pāvitaṁ kulam
adya sviṣṭaḥ kratur ayaṁ
yad bhavān āgato gṛhān

Text 31

adyāgnayo me suhutā yathā-vidhi
dvijātmaja tvac-caraṇāvanejanaiḥ
hatāṁhaso vārbhir iyaṁ ca bhūr aho
tathā punītā tanubhiḥ padais tava

Text 32

yad yad vaṭo vāñchasi tat pratīccha me
tvām arthinaṁ vipra-sutānutarkaye
gāṁ kāñcanaṁ guṇavad dhāma mṛṣṭaṁ
tathānna-peyam uta vā vipra-kanyām
grāmān samṛddhāṁs turagān gajān vā
rathāṁs tathārhattama sampratīccha

Srimad Bhagavatam | Canto 8 | Chapter 17 | Verses

0

The Supreme Lord Agrees to Become Aditi’s Son

Text 1

śrī-śuka uvāca
ity uktā sāditī rājan
sva-bhartrā kaśyapena vai
anv atiṣṭhad vratam idaṁ
dvādaśāham atandritā

Texts 2-3

cintayanty ekayā buddhyā
mahā-puruṣam īśvaram
pragṛhyendriya-duṣṭāśvān
manasā buddhi-sārathiḥ

manaś caikāgrayā buddhyā
bhagavaty akhilātmani
vāsudeve samādhāya
cacāra ha payo-vratam

Text 4

tasyāḥ prādurabhūt tāta
bhagavān ādi-puruṣaḥ
pīta-vāsāś catur-bāhuḥ
śaṅkha-cakra-gadā-dharaḥ

Text 5

taṁ netra-gocaraṁ vīkṣya
sahasotthāya sādaram
nanāma bhuvi kāyena
daṇḍavat-prīti-vihvalā

Text 6

sotthāya baddhāñjalir īḍituṁ sthitā
notseha ānanda-jalākulekṣaṇā
babhūva tūṣṇīṁ pulakākulākṛtis
tad-darśanātyutsava-gātra-vepathuḥ

Text 7

prītyā śanair gadgadayā girā hariṁ
tuṣṭāva sā devy aditiḥ kurūdvaha
udvīkṣatī sā pibatīva cakṣuṣā
ramā-patiṁ yajña-patiṁ jagat-patim

Text 8

śrī-aditir uvāca
yajñeśa yajña-puruṣācyuta tīrtha-pāda
tīrtha-śravaḥ śravaṇa-maṅgala-nāmadheya
āpanna-loka-vṛjinopaśamodayādya
śaṁ naḥ kṛdhīśa bhagavann asi dīna-nāthaḥ

Text 9

viśvāya viśva-bhavana-sthiti-saṁyamāya
svairaṁ gṛhīta-puru-śakti-guṇāya bhūmne
sva-sthāya śaśvad-upabṛṁhita-pūrṇa-bodha-
vyāpāditātma-tamase haraye namas te

Text 10

āyuḥ paraṁ vapur abhīṣṭam atulya-lakṣmīr
dyo-bhū-rasāḥ sakala-yoga-guṇās tri-vargaḥ
jñānaṁ ca kevalam ananta bhavanti tuṣṭāt
tvatto nṛṇāṁ kim u sapatna-jayādir āśīḥ

Text 11

śrī-śuka uvāca
adityaivaṁ stuto rājan
bhagavān puṣkarekṣaṇaḥ
kṣetra-jñaḥ sarva-bhūtānām
iti hovāca bhārata

Text 12

śrī-bhagavān uvāca
deva-mātar bhavatyā me
vijñātaṁ cira-kāṅkṣitam
yat sapatnair hṛta-śrīṇāṁ
cyāvitānāṁ sva-dhāmataḥ

Text 13

tān vinirjitya samare
durmadān asurarṣabhān
pratilabdha-jaya-śrībhiḥ
putrair icchasy upāsitum

Text 14

indra-jyeṣṭhaiḥ sva-tanayair
hatānāṁ yudhi vidviṣām
striyo rudantīr āsādya
draṣṭum icchasi duḥkhitāḥ

Text 15

ātmajān susamṛddhāṁs tvaṁ
pratyāhṛta-yaśaḥ-śriyaḥ
nāka-pṛṣṭham adhiṣṭhāya
krīḍato draṣṭum icchasi

Text 16

prāyo ’dhunā te ’sura-yūtha-nāthā
apāraṇīyā iti devi me matiḥ
yat te ’nukūleśvara-vipra-guptā
na vikramas tatra sukhaṁ dadāti

Text 17

athāpy upāyo mama devi cintyaḥ
santoṣitasya vrata-caryayā te
mamārcanaṁ nārhati gantum anyathā
śraddhānurūpaṁ phala-hetukatvāt

Text 18

tvayārcitaś cāham apatya-guptaye
payo-vratenānuguṇaṁ samīḍitaḥ
svāṁśena putratvam upetya te sutān
goptāsmi mārīca-tapasy adhiṣṭhitaḥ

Text 19

upadhāva patiṁ bhadre
prajāpatim akalmaṣam
māṁ ca bhāvayatī patyāv
evaṁ rūpam avasthitam

Text 20

naitat parasmā ākhyeyaṁ
pṛṣṭayāpi kathañcana
sarvaṁ sampadyate devi
deva-guhyaṁ susaṁvṛtam

Text 21

śrī-śuka uvāca
etāvad uktvā bhagavāṁs
tatraivāntaradhīyata
aditir durlabhaṁ labdhvā
harer janmātmani prabhoḥ
upādhāvat patiṁ bhaktyā
parayā kṛta-kṛtyavat

Text 22

sa vai samādhi-yogena
kaśyapas tad abudhyata
praviṣṭam ātmani harer
aṁśaṁ hy avitathekṣaṇaḥ

Text 23

so ’dityāṁ vīryam ādhatta
tapasā cira-sambhṛtam
samāhita-manā rājan
dāruṇy agniṁ yathānilaḥ

Text 24

aditer dhiṣṭhitaṁ garbhaṁ
bhagavantaṁ sanātanam
hiraṇyagarbho vijñāya
samīḍe guhya-nāmabhiḥ

Text 25

śrī-brahmovāca
jayorugāya bhagavann
urukrama namo ’stu te
namo brahmaṇya-devāya
tri-guṇāya namo namaḥ

Text 26

namas te pṛśni-garbhāya
veda-garbhāya vedhase
tri-nābhāya tri-pṛṣṭhāya
śipi-viṣṭāya viṣṇave

Text 27

tvam ādir anto bhuvanasya madhyam
ananta-śaktiṁ puruṣaṁ yam āhuḥ
kālo bhavān ākṣipatīśa viśvaṁ
sroto yathāntaḥ patitaṁ gabhīram

Text 28

tvaṁ vai prajānāṁ sthira-jaṅgamānāṁ
prajāpatīnām asi sambhaviṣṇuḥ
divaukasāṁ deva divaś cyutānāṁ
parāyaṇaṁ naur iva majjato ’psu

Stay Connected

16,985FansLike
12,500FollowersFollow
61,453SubscribersSubscribe