Srimad Bhagavatam | Canto 8 | Chapter 23 | Verses

0
3

The Demigods Regain the Heavenly Planets

Text 1

श्रीशुक उवाच
इत्युक्तवन्तं पुरुषं पुरातनं
महानुभावोऽखिलसाधुसम्मत: ।
बद्धाञ्जलिर्बाष्पकलाकुलेक्षणो
भक्त्युत्कलो गद्गदया गिराब्रवीत् ॥ १ ॥

Text 2

श्रीबलिरुवाच
अहो प्रणामाय कृत: समुद्यम:
प्रपन्नभक्तार्थविधौ समाहित: ।
यल्ल‍ोकपालैस्त्वदनुग्रहोऽमरै-
रलब्धपूर्वोऽपसदेऽसुरेऽर्पित: ॥ २ ॥

Text 3

श्रीशुक उवाच
इत्युक्त्वा हरिमानत्य ब्रह्माणं सभवं तत: ।
विवेश सुतलं प्रीतो बलिर्मुक्त: सहासुरै: ॥ ३ ॥

Text 4

एवमिन्द्राय भगवान् प्रत्यानीय त्रिविष्टपम् ।
पूरयित्वादिते: काममशासत् सकलं जगत् ॥ ४ ॥

Text 5

लब्धप्रसादं निर्मुक्तं पौत्रं वंशधरं बलिम् ।
निशाम्य भक्तिप्रवण: प्रह्लाद इदमब्रवीत् ॥ ५ ॥

Text 6

श्रीप्रह्लाद उवाच
नेमं विरिञ्चो लभते प्रसादं
न श्रीर्न शर्व: किमुतापरेऽन्ये ।
यन्नोऽसुराणामसि दुर्गपालो
विश्वाभिवन्द्यैरभिवन्दिताङ्‍‍घ्रि: ॥ ६ ॥

Text 7

यत्पादपद्ममकरन्दनिषेवणेन
ब्रह्मादय: शरणदाश्नुवते विभूती: ।
कस्माद् वयं कुसृतय: खलयोनयस्ते
दाक्षिण्यद‍ृष्टिपदवीं भवत: प्रणीता: ॥ ७ ॥

Text 8

चित्रं तवेहितमहोऽमितयोगमाया-
लीलाविसृष्टभुवनस्य विशारदस्य ।
सर्वात्मन: समद‍ृशोऽविषम: स्वभावो
भक्तप्रियो यदसि कल्पतरुस्वभाव: ॥ ८ ॥

Text 9

श्रीभगवानुवाच
वत्स प्रह्लाद भद्रं ते प्रयाहि सुतलालयम् ।
मोदमान: स्वपौत्रेण ज्ञातीनां सुखमावह ॥ ९ ॥

Text 10

नित्यं द्रष्टासि मां तत्र गदापाणिमवस्थितम् ।
मद्दर्शनमहाह्लादध्वस्तकर्मनिबन्धन: ॥ १० ॥

Texts 11-12

श्रीशुक उवाच
आज्ञां भगवतो राजन्प्रह्लादो बलिना सह ।
बाढमित्यमलप्रज्ञो मूर्ध्‍न्याधाय कृताञ्जलि: ॥ ११ ॥
परिक्रम्यादिपुरुषं सर्वासुरचमूपति: ।
प्रणतस्तदनुज्ञात: प्रविवेश महाबिलम् ॥ १२ ॥

Text 13

अथाहोशनसं राजन्हरिर्नारायणोऽन्तिके ।
आसीनमृत्विजां मध्ये सदसि ब्रह्मवादिनाम् ॥ १३ ॥

Text 14

ब्रह्मन् सन्तनु शिष्यस्य कर्मच्छिद्रं वितन्वत: ।
यत् तत् कर्मसु वैषम्यं ब्रह्मद‍ृष्टं समं भवेत् ॥ १४ ॥

Text 15

श्रीशुक्र उवाच
कुतस्तत्कर्मवैषम्यं यस्य कर्मेश्वरो भवान् ।
यज्ञेशो यज्ञपुरुष: सर्वभावेन पूजित: ॥ १५ ॥

Text 16

मन्त्रतस्तन्त्रतश्छिद्रं देशकालार्हवस्तुत: ।
सर्वं करोति निश्छिद्रमनुसङ्कीर्तनं तव ॥ १६ ॥

Text 17

तथापि वदतो भूमन् करिष्याम्यनुशासनम् ।
एतच्छ्रेय: परं पुंसां यत् तवाज्ञानुपालनम् ॥ १७ ॥

Text 18

श्रीशुक उवाच
प्रतिनन्द्य हरेराज्ञामुशना भगवानिति ।
यज्ञच्छिद्रं समाधत्त बलेर्विप्रर्षिभि: सह ॥ १८ ॥

Text 19

एवं बलेर्महीं राजन् भिक्षित्वा वामनो हरि: ।
ददौ भ्रात्रे महेन्द्राय त्रिदिवं यत्परैर्हृतम् ॥ १९ ॥

Texts 20-21

प्रजापतिपतिर्ब्रह्मा देवर्षिपितृभूमिपै: ।
दक्षभृग्वङ्गिरोमुख्यै: कुमारेण भवेन च ॥ २० ॥
कश्यपस्यादिते: प्रीत्यै सर्वभूतभवाय च ।
लोकानां लोकपालानामकरोद् वामनं पतिम् ॥ २१ ॥

Texts 22-23

वेदानां सर्वदेवानां धर्मस्य यशस: श्रिय: ।
मङ्गलानां व्रतानां च कल्पं स्वर्गापवर्गयो: ॥ २२ ॥
उपेन्द्रं कल्पयांचक्रे पतिं सर्वविभूतये ।
तदा सर्वाणि भूतानि भृशं मुमुदिरे नृप ॥ २३ ॥

Text 24

ततस्त्विन्द्र: पुरस्कृत्य देवयानेन वामनम् ।
लोकपालैर्दिवं निन्ये ब्रह्मणा चानुमोदित: ॥ २४ ॥

Text 25

प्राप्य त्रिभुवनं चेन्द्र उपेन्द्रभुजपालित: ।
श्रिया परमया जुष्टो मुमुदे गतसाध्वस: ॥ २५ ॥

Texts 26-27

ब्रह्मा शर्व: कुमारश्च भृग्वाद्या मुनयो नृप ।
पितर: सर्वभूतानि सिद्धा वैमानिकाश्च ये ॥ २६ ॥
सुमहत् कर्म तद् विष्णोर्गायन्त: परमद्भ‍ुतम् ।
धिष्ण्यानि स्वानि ते जग्मुरदितिं च शशंसिरे ॥ २७ ॥

Text 28

सर्वमेतन्मयाख्यातं भवत: कुलनन्दन ।
उरुक्रमस्य चरितं श्रोतृणामघमोचनम् ॥ २८ ॥

Text 29

पारं महिम्न उरुविक्रमतो गृणानो
य: पार्थिवानि विममे स रजांसि मर्त्य: ।
किं जायमान उत जात उपैति मर्त्य
इत्याह मन्त्रद‍ृगृषि: पुरुषस्य यस्य ॥ २९ ॥

Text 30

य इदं देवदेवस्य हरेरद्भ‍ुतकर्मण: ।
अवतारानुचरितं श‍ृण्वन् याति परां गतिम् ॥ ३० ॥

Text 31

क्रियमाणे कर्मणीदं दैवे पित्र्येऽथ मानुषे ।
यत्र यत्रानुकीर्त्येत तत् तेषां सुकृतं विदु: ॥ ३१ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here