Srimad Bhagavatam | Canto 8 | Chapter 19 | Verses

0
3

Lord Vāmanadeva Begs Charity from Bali Mahārāja

Text 1

श्रीशुक उवाच
इति वैरोचनेर्वाक्यं धर्मयुक्तं स सूनृतम् ।
निशम्य भगवान्प्रीत: प्रतिनन्द्येदमब्रवीत् ॥ १ ॥

Text 2

श्रीभगवानुवाच
वचस्तवैतज्जनदेव सूनृतं
कुलोचितं धर्मयुतं यशस्करम् ।
यस्य प्रमाणं भृगव: साम्पराये
पितामह: कुलवृद्ध: प्रशान्त: ॥ २ ॥

Text 3

न ह्येतस्मिन्कुले कश्चिन्नि:सत्त्व: कृपण: पुमान् ।
प्रत्याख्याता प्रतिश्रुत्य यो वादाता द्विजातये ॥ ३ ॥

Text 4

न सन्ति तीर्थे युधि चार्थिनार्थिता:
पराङ्‌मुखा ये त्वमनस्विनो नृप ।
युष्मत्कुले यद्यशसामलेन
प्रह्लाद उद्भ‍ाति यथोडुप: खे ॥ ४ ॥

Text 5

यतो जातो हिरण्याक्षश्चरन्नेक इमां महीम् ।
प्रतिवीरं दिग्विजये नाविन्दत गदायुध: ॥ ५ ॥

Text 6

यं विनिर्जित्य कृच्छ्रेण विष्णु: क्ष्मोद्धार आगतम् ।
आत्मानं जयिनं मेने तद्वीर्यं भूर्यनुस्मरन् ॥ ६ ॥

Text 7

निशम्य तद्वधं भ्राता हिरण्यकशिपु: पुरा ।
हन्तुं भ्रातृहणं क्रुद्धो जगाम निलयं हरे: ॥ ७ ॥

Text 8

तमायान्तं समालोक्य शूलपाणिं कृतान्तवत् ।
चिन्तयामास कालज्ञो विष्णुर्मायाविनां वर: ॥ ८ ॥

Text 9

यतो यतोऽहं तत्रासौ मृत्यु: प्राणभृतामिव ।
अतोऽहमस्य हृदयं प्रवेक्ष्यामि पराग्द‍ृश: ॥ ९ ॥

Text 10

एवं स निश्चित्य रिपो: शरीर-
माधावतो निर्विविशेऽसुरेन्द्र ।
श्वासानिलान्तर्हितसूक्ष्मदेह-
स्तत्प्राणरन्ध्रेण विविग्नचेता: ॥ १० ॥

Text 11

स तन्निकेतं परिमृश्य शून्य-
मपश्यमान: कुपितो ननाद ।
क्ष्मां द्यां दिश: खं विवरान्समुद्रान्
विष्णुं विचिन्वन् न ददर्श वीर: ॥ ११ ॥

Text 12

अपश्यन्निति होवाच मयान्विष्टमिदं जगत् ।
भ्रातृहा मे गतो नूनं यतो नावर्तते पुमान् ॥ १२ ॥

Text 13

वैरानुबन्ध एतावानामृत्योरिह देहिनाम् ।
अज्ञानप्रभवो मन्युरहंमानोपबृंहित: ॥ १३ ॥

Text 14

पिता प्रह्लादपुत्रस्ते तद्विद्वान्द्विजवत्सल: ।
स्वमायुर्द्विजलिङ्गेभ्यो देवेभ्योऽदात् स याचित: ॥ १४ ॥

Text 15

भवानाचरितान्धर्मानास्थितो गृहमेधिभि: ।
ब्राह्मणै: पूर्वजै: शूरैरन्यैश्चोद्दामकीर्तिभि: ॥ १५ ॥

Text 16

तस्मात् त्वत्तो महीमीषद् वृणेऽहं वरदर्षभात् ।
पदानि त्रीणि दैत्येन्द्र सम्मितानि पदा मम ॥ १६ ॥

Text 17

नान्यत् ते कामये राजन्वदान्याज्जगदीश्वरात् ।
नैन: प्राप्नोति वै विद्वान्यावदर्थप्रतिग्रह: ॥ १७ ॥

Text 18

श्रीबलिरुवाच
अहो ब्राह्मणदायाद वाचस्ते वृद्धसम्मता: ।
त्वं बालो बालिशमति: स्वार्थं प्रत्यबुधो यथा ॥ १८ ॥

Text 19

मां वचोभि: समाराध्य लोकानामेकमीश्वरम् ।
पदत्रयं वृणीते योऽबुद्धिमान् द्वीपदाशुषम् ॥ १९ ॥

Text 20

न पुमान् मामुपव्रज्य भूयो याचितुमर्हति ।
तस्माद् वृत्तिकरीं भूमिं वटो कामं प्रतीच्छ मे ॥ २० ॥

Text 21

श्रीभगवानुवाच
यावन्तो विषया: प्रेष्ठास्त्रिलोक्यामजितेन्द्रियम् ।
न शक्नुवन्ति ते सर्वे प्रतिपूरयितुं नृप ॥ २१ ॥

Text 22

त्रिभि: क्रमैरसन्तुष्टो द्वीपेनापि न पूर्यते ।
नववर्षसमेतेन सप्तद्वीपवरेच्छया ॥ २२ ॥

Text 23

सप्तद्वीपाधिपतयो नृपा वैन्यगयादय: ।
अर्थै: कामैर्गता नान्तं तृष्णाया इति न: श्रुतम् ॥ २३ ॥

Text 24

यद‍ृच्छयोपपन्नेन सन्तुष्टो वर्तते सुखम् ।
नासन्तुष्टस्त्रिभिर्लोकैरजितात्मोपसादितै: ॥ २४ ॥

Text 25

पुंसोऽयं संसृतेर्हेतुरसन्तोषोऽर्थकामयो: ।
यद‍ृच्छयोपपन्नेन सन्तोषो मुक्तये स्मृत: ॥ २५ ॥

Text 26

यद‍ृच्छालाभतुष्टस्य तेजो विप्रस्य वर्धते ।
तत् प्रशाम्यत्यसन्तोषादम्भसेवाशुशुक्षणि: ॥ २६ ॥

Text 27

तस्मात् त्रीणि पदान्येव वृणे त्वद् वरदर्षभात् ।
एतावतैव सिद्धोऽहं वित्तं यावत्प्रयोजनम् ॥ २७ ॥

Text 28

श्रीशुक उवाच
इत्युक्त: स हसन्नाह वाञ्छात: प्रतिगृह्यताम् ।
वामनाय महीं दातुं जग्राह जलभाजनम् ॥ २८ ॥

Text 29

विष्णवे क्ष्मां प्रदास्यन्तमुशना असुरेश्वरम् ।
जानंश्चिकीर्षितं विष्णो: शिष्यं प्राह विदां वर: ॥ २९ ॥

Text 30

श्रीशुक्र उवाच
एष वैरोचने साक्षाद् भगवान्विष्णुरव्यय: ।
कश्यपाददितेर्जातो देवानां कार्यसाधक: ॥ ३० ॥

Text 31

प्रतिश्रुतं त्वयैतस्मै यदनर्थमजानता ।
न साधु मन्ये दैत्यानां महानुपगतोऽनय: ॥ ३१ ॥

Text 32

एष ते स्थानमैश्वर्यं श्रियं तेजो यश: श्रुतम् ।
दास्यत्याच्छिद्य शक्राय मायामाणवको हरि: ॥ ३२ ॥

Text 33

त्रिभि: क्रमैरिमाल्ल‍ोकान्विश्वकाय: क्रमिष्यति ।
सर्वस्वं विष्णवे दत्त्वा मूढ वर्तिष्यसे कथम् ॥ ३३ ॥

Text 34

क्रमतो गां पदैकेन द्वितीयेन दिवं विभो: ।
खं च कायेन महता तार्तीयस्य कुतो गति: ॥ ३४ ॥

Text 35

निष्ठां ते नरके मन्ये ह्यप्रदातु: प्रतिश्रुतम् ।
प्रतिश्रुतस्य योऽनीश: प्रतिपादयितुं भवान् ॥ ३५ ॥

Text 36

न तद्दानं प्रशंसन्ति येन वृत्तिर्विपद्यते ।
दानं यज्ञस्तप: कर्म लोके वृत्तिमतो यत: ॥ ३६ ॥

Text 37

धर्माय यशसेऽर्थाय कामाय स्वजनाय च ।
पञ्चधा विभजन्वित्तमिहामुत्र च मोदते ॥ ३७ ॥

Text 38

अत्रापि बह्वृचैर्गीतं श‍ृणु मेऽसुरसत्तम ।
सत्यमोमिति यत् प्रोक्तं यन्नेत्याहानृतं हि तत् ॥ ३८ ॥

Text 39

सत्यं पुष्पफलं विद्यादात्मवृक्षस्य गीयते ।
वृक्षेऽजीवति तन्न स्यादनृतं मूलमात्मन: ॥ ३९ ॥

Text 40

तद् यथा वृक्ष उन्मूल: शुष्यत्युद्वर्ततेऽचिरात् ।
एवं नष्टानृत: सद्य आत्मा शुष्येन्न संशय: ॥ ४० ॥

Text 41

पराग् रिक्तमपूर्णं वा अक्षरं यत् तदोमिति ।
यत् किञ्चिदोमिति ब्रूयात् तेन रिच्येत वै पुमान् ।
भिक्षवे सर्वम्ॐ कुर्वन्नालं कामेन चात्मने ॥ ४१ ॥

Text 42

अथैतत् पूर्णमभ्यात्मं यच्च नेत्यनृतं वच: ।
सर्वं नेत्यनृतं ब्रूयात् स दुष्कीर्ति: श्वसन्मृत: ॥ ४२ ॥

Text 43

स्त्रीषु नर्मविवाहे च वृत्त्यर्थे प्राणसङ्कटे ।
गोब्राह्मणार्थे हिंसायां नानृतं स्याज्जुगुप्सितम् ॥ ४३ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here