Srimad Bhagavatam | Canto 8 | Chapter 20 | Verses

0
3

Bali Mahārāja Surrenders the Universe

Text 1

श्रीशुक उवाच
बलिरेवं गृहपति: कुलाचार्येण भाषित: ।
तूष्णीं भूत्वा क्षणं राजन्नुवाचावहितो गुरुम् ॥ १ ॥

Text 2

श्रीबलिरुवाच
सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम् ।
अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित् ॥ २ ॥

Text 3

स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् ।
प्रतिश्रुत्य ददामीति प्राह्रादि: कितवो यथा ॥ ३ ॥

Text 4

न ह्यसत्यात् परोऽधर्म इति होवाच भूरियम् ।
सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम् ॥ ४ ॥

Text 5

नाहं बिभेमि निरयान्नाधन्यादसुखार्णवात् ।
न स्थानच्यवनान्मृत्योर्यथा विप्रप्रलम्भनात् ॥ ५ ॥

Text 6

यद् यद्धास्यति लोकेऽस्मिन्सम्परेतं धनादिकम् ।
तस्य त्यागे निमित्तं किं विप्रस्तुष्येन्न तेन चेत् ॥ ६ ॥

Text 7

श्रेय: कुर्वन्ति भूतानां साधवो दुस्त्यजासुभि: ।
दध्यङ्‌शिबिप्रभृतय: को विकल्पो धरादिषु ॥ ७ ॥

Text 8

यैरियं बुभुजे ब्रह्मन्दैत्येन्द्रैरनिवर्तिभि: ।
तेषां कालोऽग्रसील्ल‍ोकान् न यशोऽधिगतं भुवि ॥ ८ ॥

Text 9

सुलभा युधि विप्रर्षे ह्यनिवृत्तास्तनुत्यज: ।
न तथा तीर्थ आयाते श्रद्धया ये धनत्यज: ॥ ९ ॥

Text 10

मनस्विन: कारुणिकस्य शोभनं
यदर्थिकामोपनयेन दुर्गति: ।
कुत: पुनर्ब्रह्मविदां भवाद‍ृशां
ततो वटोरस्य ददामि वाञ्छितम् ॥ १० ॥

Text 11

यजन्ति यज्ञंक्रतुभिर्यमाद‍ृता
भवन्त आम्नायविधानकोविदा: ।
स एव विष्णुर्वरदोऽस्तु वा परो
दास्याम्यमुष्मै क्षितिमीप्सितां मुने ॥ ११ ॥

Text 12

यद्यप्यसावधर्मेण मां बध्नीयादनागसम् ।
तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥ १२ ॥

Text 13

एष वा उत्तमश्लोको न जिहासति यद् यश: ।
हत्वा मैनां हरेद् युद्धे शयीत निहतो मया ॥ १३ ॥

Text 14

श्रीशुक उवाच
एवमश्रद्धितं शिष्यमनादेशकरं गुरु: ।
शशाप दैवप्रहित: सत्यसन्धं मनस्विनम् ॥ १४ ॥

Text 15

द‍ृढं पण्डितमान्यज्ञ: स्तब्धोऽस्यस्मदुपेक्षया ।
मच्छासनातिगो यस्त्वमचिराद्भ्रश्यसे श्रिय: ॥ १५ ॥

Text 16

एवं शप्त: स्वगुरुणा सत्यान्न चलितो महान् ।
वामनाय ददावेनामर्चित्वोदकपूर्वकम् ॥ १६ ॥

Text 17

विन्ध्यावलिस्तदागत्य पत्नी जालकमालिनी ।
आनिन्ये कलशं हैममवनेजन्यपां भृतम् ॥ १७ ॥

Text 18

यजमान: स्वयं तस्य श्रीमत् पादयुगं मुदा ।
अवनिज्यावहन्मूर्ध्नि तदपो विश्वपावनी: ॥ १८ ॥

Text 19

तदासुरेन्द्रं दिवि देवतागणा
गन्धर्वविद्याधरसिद्धचारणा: ।
तत्कर्म सर्वेऽपि गृणन्त आर्जवं
प्रसूनवर्षैर्ववृषुर्मुदान्विता: ॥ १९ ॥

Text 20

नेदुर्मुहुर्दुन्दुभय: सहस्रशो
गन्धर्वकिम्पूरुषकिन्नरा जगु: ।
मनस्विनानेन कृतं सुदुष्करं
विद्वानदाद् यद् रिपवे जगत्‍त्रयम् ॥ २० ॥

Text 21

तद् वामनं रूपमवर्धताद्भ‍ुतं
हरेरनन्तस्य गुणत्रयात्मकम् ।
भू: खं दिशो द्यौर्विवरा: पयोधय-
स्तिर्यङ्‌नृदेवा ऋषयो यदासत ॥ २१ ॥

Text 22

काये बलिस्तस्य महाविभूते:
सहर्त्विगाचार्यसदस्य एतत् ।
ददर्श विश्वं त्रिगुणं गुणात्मके
भूतेन्द्रियार्थाशयजीवयुक्तम् ॥ २२ ॥

Text 23

रसामचष्टाङ्‍‍घ्रितलेऽथ पादयो-
र्महीं महीध्रान्पुरुषस्य जङ्घयो: ।
पतत्‍त्रिणो जानुनि विश्वमूर्ते-
रूर्वोर्गणं मारुतमिन्द्रसेन: ॥ २३ ॥

Text 24

सन्ध्यां विभोर्वाससि गुह्य ऐक्षत्
प्रजापतीञ्जघने आत्ममुख्यान् ।
नाभ्यां नभ: कुक्षिषु सप्तसिन्धू-
नुरुक्रमस्योरसि चर्क्षमालाम् ॥ २४ ॥

Texts 25-29

हृद्यङ्ग धर्मं स्तनयोर्मुरारे-
र्ऋतं च सत्यं च मनस्यथेन्दुम् ।
श्रियं च वक्षस्यरविन्दहस्तां
कण्ठे च सामानि समस्तरेफान् ॥ २५ ॥
इन्द्रप्रधानानमरान्भुजेषु
तत्कर्णयो: ककुभो द्यौश्च मूर्ध्नि ।
केशेषु मेघाञ्छ्वसनं नासिकाया-
मक्ष्णोश्च सूर्यं वदने च वह्निम् ॥ २६ ॥
वाण्यां च छन्दांसि रसे जलेशं
भ्रुवोर्निषेधं च विधिं च पक्ष्मसु ।
अहश्च रात्रिं च परस्य पुंसो
मन्युं ललाटेऽधर एव लोभम् ॥ २७ ॥
स्पर्शे च कामं नृप रेतसाम्भ:
पृष्ठे त्वधर्मं क्रमणेषु यज्ञम् ।
छायासु मृत्युं हसिते च मायां
तनूरुहेष्वोषधिजातयश्च ॥ २८ ॥
नदीश्च नाडीषु शिला नखेषु
बुद्धावजं देवगणानृषींश्च ।
प्राणेषु गात्रे स्थिरजङ्गमानि
सर्वाणि भूतानि ददर्श वीर: ॥ २९ ॥

Text 30

सर्वात्मनीदं भुवनं निरीक्ष्य
सर्वेऽसुरा: कश्मलमापुरङ्ग ।
सुदर्शनं चक्रमसह्यतेजो
धनुश्च शार्ङ्गं स्तनयित्नुघोषम् ॥ ३० ॥

Text 31

पर्जन्यघोषो जलज: पाञ्चजन्य:
कौमोदकी विष्णुगदा तरस्विनी ।
विद्याधरोऽसि: शतचन्द्रयुक्त-
स्तूणोत्तमावक्षयसायकौ च ॥ ३१ ॥

Texts 32-33

सुनन्दमुख्या उपतस्थुरीशं
पार्षदमुख्या: सहलोकपाला: ।
स्फुरत्किरीटाङ्गदमीनकुण्डल:
श्रीवत्सरत्नोत्तममेखलाम्बरै: ॥ ३२ ॥
मधुव्रतस्रग्वनमालयावृतो
रराज राजन्भगवानुरुक्रम: ।
क्षितिं पदैकेन बलेर्विचक्रमे
नभ: शरीरेण दिशश्च बाहुभि: ॥ ३३ ॥

Text 34

पदं द्वितीयं क्रमतस्त्रिविष्टपं
न वै तृतीयाय तदीयमण्वपि ।
उरुक्रमस्याङ्‍‍घ्रिरुपर्युपर्यथो
महर्जनाभ्यां तपस: परं गत: ॥ ३४ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here