Lord Vāmanadeva, the Dwarf Incarnation
Text 1
श्रीशुक उवाच
इत्थं विरिञ्चस्तुतकर्मवीर्य:
प्रादुर्बभूवामृतभूरदित्याम् ।
चतुर्भुज: शङ्खगदाब्जचक्र:
पिशङ्गवासा नलिनायतेक्षण: ॥ १ ॥
Text 2
श्यामावदातो झषराजकुण्डल-
त्विषोल्लसच्छ्रीवदनाम्बुज: पुमान् ।
श्रीवत्सवक्षा बलयाङ्गदोल्लस-
त्किरीटकाञ्चीगुणचारुनूपुर: ॥ २ ॥
Text 3
मधुव्रतव्रातविघुष्टया स्वया
विराजित: श्रीवनमालया हरि: ।
प्रजापतेर्वेश्मतम: स्वरोचिषा
विनाशयन् कण्ठनिविष्टकौस्तुभ: ॥ ३ ॥
Text 4
दिश: प्रसेदु: सलिलाशयास्तदा
प्रजा: प्रहृष्टा ऋतवो गुणान्विता: ।
द्यौरन्तरीक्षं क्षितिरग्निजिह्वा
गावो द्विजा: सञ्जहृषुर्नगाश्च ॥ ४ ॥
Text 5
श्रोणायां श्रवणद्वादश्यां मुहूर्तेऽभिजिति प्रभु: ।
सर्वे नक्षत्रताराद्याश्चक्रुस्तज्जन्म दक्षिणम् ॥ ५ ॥
Text 6
द्वादश्यां सवितातिष्ठन्मध्यन्दिनगतो नृप ।
विजयानाम सा प्रोक्ता यस्यां जन्म विदुर्हरे: ॥ ६ ॥
Text 7
शङ्खदुन्दुभयो नेदुर्मृदङ्गपणवानका: ।
चित्रवादित्रतूर्याणां निर्घोषस्तुमुलोऽभवत् ॥ ७ ॥
Text 8
प्रीताश्चाप्सरसोऽनृत्यन्गन्धर्वप्रवरा जगु: ।
तुष्टुवुर्मुनयो देवा मनव: पितरोऽग्नय: ॥ ८ ॥
Texts 9-10
सिद्धविद्याधरगणा: सकिम्पुरुषकिन्नरा: ।
चारणा यक्षरक्षांसि सुपर्णा भुजगोत्तमा: ॥ ९ ॥
गायन्तोऽतिप्रशंसन्तो नृत्यन्तो विबुधानुगा: ।
अदित्या आश्रमपदं कुसुमै: समवाकिरन् ॥ १० ॥
Text 11
दृष्ट्वादितिस्तं निजगर्भसम्भवं
परं पुमांसं मुदमाप विस्मिता ।
गृहीतदेहं निजयोगमायया
प्रजापतिश्चाह जयेति विस्मित: ॥ ११ ॥
Text 12
यत् तद् वपुर्भाति विभूषणायुधै-
रव्यक्तचिद्वयक्तमधारयद्धरि: ।
बभूव तेनैव स वामनो वटु:
सम्पश्यतोर्दिव्यगतिर्यथा नट: ॥ १२ ॥
Text 13
तं वटुं वामनं दृष्ट्वा मोदमाना महर्षय: ।
कर्माणि कारयामासु: पुरस्कृत्य प्रजापतिम् ॥ १३ ॥
Text 14
तस्योपनीयमानस्य सावित्रीं सविताब्रवीत् ।
बृहस्पतिर्ब्रह्मसूत्रं मेखलां कश्यपोऽददात् ॥ १४ ॥
Text 15
ददौ कृष्णाजिनं भूमिर्दण्डं सोमो वनस्पति: ।
कौपीनाच्छादनं माता द्यौश्छत्रं जगत: पते: ॥ १५ ॥
Text 16
कमण्डलुं वेदगर्भ: कुशान्सप्तर्षयो ददु: ।
अक्षमालां महाराज सरस्वत्यव्ययात्मन: ॥ १६ ॥
Text 17
तस्मा इत्युपनीताय यक्षराट् पात्रिकामदात् ।
भिक्षां भगवती साक्षादुमादादम्बिका सती ॥ १७ ॥
Text 18
स ब्रह्मवर्चसेनैवं सभां सम्भावितो वटु: ।
ब्रह्मर्षिगणसञ्जुष्टामत्यरोचत मारिष: ॥ १८ ॥
Text 19
समिद्धमाहितं वह्निं कृत्वा परिसमूहनम् ।
परिस्तीर्य समभ्यर्च्य समिद्भिरजुहोद् द्विज: ॥ १९ ॥
Text 20
श्रुत्वाश्वमेधैर्यजमानमूर्जितं
बलिं भृगूणामुपकल्पितैस्तत: ।
जगाम तत्राखिलसारसम्भृतो
भारेण गां सन्नमयन्पदे पदे ॥ २० ॥
Text 21
तं नर्मदायास्तट उत्तरे बले-
र्य ऋत्विजस्ते भृगुकच्छसंज्ञके ।
प्रवर्तयन्तो भृगव: क्रतूत्तमं
व्यचक्षतारादुदितं यथा रविम् ॥ २१ ॥
Text 22
ते ऋत्विजो यजमान: सदस्या
हतत्विषो वामनतेजसा नृप ।
सूर्य: किलायात्युत वा विभावसु:
सनत्कुमारोऽथ दिदृक्षया क्रतो: ॥ २२ ॥
Text 23
इत्थं सशिष्येषु भृगुष्वनेकधा
वितर्क्यमाणो भगवान्स वामन: ।
छत्रं सदण्डं सजलं कमण्डलुं
विवेश बिभ्रद्धयमेधवाटम् ॥ २३ ॥
Texts 24-25
मौञ्ज्या मेखलया वीतमुपवीताजिनोत्तरम् ।
जटिलं वामनं विप्रं मायामाणवकं हरिम् ॥ २४ ॥
प्रविष्टं वीक्ष्य भृगव: सशिष्यास्ते सहाग्निभि: ।
प्रत्यगृह्णन्समुत्थाय सङ्क्षिप्तास्तस्य तेजसा ॥ २५ ॥
Text 26
यजमान: प्रमुदितो दर्शनीयं मनोरमम् ।
रूपानुरूपावयवं तस्मा आसनमाहरत् ॥ २६ ॥
Text 27
स्वागतेनाभिनन्द्याथ पादौ भगवतो बलि: ।
अवनिज्यार्चयामास मुक्तसङ्गमनोरमम् ॥ २७ ॥
Text 28
तत्पादशौचं जनकल्मषापहं
स धर्मविन्मूर्ध्न्यदधात् सुमङ्गलम् ।
यद् देवदेवो गिरिशश्चन्द्रमौलि-
र्दधार मूर्ध्ना परया च भक्त्या ॥ २८ ॥
Text 29
श्रीबलिरुवाच
स्वागतं ते नमस्तुभ्यं ब्रह्मन्किं करवाम ते ।
ब्रह्मर्षीणां तप: साक्षान्मन्ये त्वार्य वपुर्धरम् ॥ २९ ॥
Text 30
अद्य न: पितरस्तृप्ता अद्य न: पावितं कुलम् ।
अद्य स्विष्ट: क्रतुरयं यद् भवानागतो गृहान् ॥ ३० ॥
Text 31
अद्याग्नयो मे सुहुता यथाविधि
द्विजात्मज त्वच्चरणावनेजनै: ।
हतांहसो वार्भिरियं च भूरहो
तथा पुनीता तनुभि: पदैस्तव ॥ ३१ ॥
Text 32
यद् वटो वाञ्छसि तत्प्रतीच्छ मे
त्वामर्थिनं विप्रसुतानुतर्कये ।
गां काञ्चनं गुणवद् धाम मृष्टं
तथान्नपेयमुत वा विप्रकन्याम् ।
ग्रामान् समृद्धांस्तुरगान् गजान् वा
रथांस्तथार्हत्तम सम्प्रतीच्छ ॥ ३२ ॥






