Description of Future Manus
Text 1
श्रीशुक उवाच
मनुर्विवस्वत: पुत्र: श्राद्धदेव इति श्रुत: ।
सप्तमो वर्तमानो यस्तदपत्यानि मे शृणु ॥ १ ॥
Texts 2-3
इक्ष्वाकुर्नभगश्चैव धृष्ट: शर्यातिरेव च ।
नरिष्यन्तोऽथ नाभाग: सप्तमो दिष्ट उच्यते ॥ २ ॥
तरूषश्च पृषध्रश्च दशमो वसुमान्स्मृत: ।
मनोर्वैवस्वतस्यैते दशपुत्रा: परन्तप ॥ ३ ॥
Text 4
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणा: ।
अश्विनावृभवो राजन्निन्द्रस्तेषां पुरन्दर: ॥ ४ ॥
Text 5
कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतम: ।
जमदग्निर्भरद्वाज इति सप्तर्षय: स्मृता: ॥ ५ ॥
Text 6
अत्रापि भगवज्जन्म कश्यपाददितेरभूत् ।
आदित्यानामवरजो विष्णुर्वामनरूपधृक् ॥ ६ ॥
Text 7
सङ्क्षेपतो मयोक्तानि सप्तमन्वन्तराणि ते ।
भविष्याण्यथ वक्ष्यामि विष्णो: शक्त्यान्वितानि च ॥ ७ ॥
Text 8
विवस्वतश्च द्वे जाये विश्वकर्मसुते उभे ।
संज्ञा छाया च राजेन्द्र ये प्रागभिहिते तव ॥ ८ ॥
Text 9
तृतीयां वडवामेके तासां संज्ञासुतास्त्रय: ।
यमो यमी श्राद्धदेवश्छायायाश्च सुताञ्छृणु ॥ ९ ॥
Text 10
सावर्णिस्तपती कन्या भार्या संवरणस्य या ।
शनैश्चरस्तृतीयोऽभूदश्विनौ वडवात्मजौ ॥ १० ॥
Text 11
अष्टमेऽन्तर आयाते सावर्णिर्भविता मनु: ।
निर्मोकविरजस्काद्या: सावर्णितनया नृप ॥ ११ ॥
Text 12
तत्र देवा: सुतपसो विरजा अमृतप्रभा: ।
तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति ॥ १२ ॥
Text 13
दत्त्वेमां याचमानाय विष्णवे य: पदत्रयम् ।
राद्धमिन्द्रपदं हित्वा तत: सिद्धिमवाप्स्यति ॥ १३ ॥
Text 14
योऽसौ भगवता बद्ध: प्रीतेन सुतले पुन: ।
निवेशितोऽधिके स्वर्गादधुनास्ते स्वराडिव ॥ १४ ॥
Texts 15-16
गालवो दीप्तिमान्रामो द्रोणपुत्र: कृपस्तथा ।
ऋष्यशृङ्ग: पितास्माकं भगवान्बादरायण: ॥ १५ ॥
इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगत: ।
इदानीमासते राजन् स्वे स्व आश्रममण्डले ॥ १६ ॥
Text 17
देवगुह्यात्सरस्वत्यां सार्वभौम इति प्रभु: ।
स्थानं पुरन्दराद्धृत्वा बलये दास्यतीश्वर: ॥ १७ ॥
Text 18
नवमो दक्षसावर्णिर्मनुर्वरुणसम्भव: ।
भूतकेतुर्दीप्तकेतुरित्याद्यास्तत्सुता नृप ॥ १८ ॥
Text 19
पारामरीचिगर्भाद्या देवा इन्द्रोऽद्भुत: स्मृत: ।
द्युतिमत्प्रमुखास्तत्र भविष्यन्त्यृषयस्तत: ॥ १९ ॥
Text 20
आयुष्मतोऽम्बुधारायामृषभो भगवत्कला ।
भविता येन संराद्धां त्रिलोकीं भोक्ष्यतेऽद्भुत: ॥ २० ॥
Text 21
दशमो ब्रह्मसावर्णिरुपश्लोकसुतो मनु: ।
तत्सुता भूरिषेणाद्या हविष्मत्प्रमुखा द्विजा: ॥ २१ ॥
Text 22
हविष्मान्सुकृत: सत्यो जयो मूर्तिस्तदा द्विजा: ।
सुवासनविरुद्धाद्या देवा: शम्भु: सुरेश्वर: ॥ २२ ॥
Text 23
विष्वक्सेनो विषूच्यां तु शम्भो: सख्यं करिष्यति ।
जात: स्वांशेन भगवान्गृहे विश्वसृजो विभु: ॥ २३ ॥
Text 24
मनुर्वै धर्मसावर्णिरेकादशम आत्मवान् ।
अनागतास्तत्सुताश्च सत्यधर्मादयो दश ॥ २४ ॥
Text 25
विहङ्गमा: कामगमा निर्वाणरुचय: सुरा: ।
इन्द्रश्च वैधृतस्तेषामृषयश्चारुणादय: ॥ २५ ॥
Text 26
आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृत: ।
वैधृतायां हरेरंशस्त्रिलोकीं धारयिष्यति ॥ २६ ॥
Text 27
भविता रुद्रसावर्णी राजन्द्वादशमो मनु: ।
देववानुपदेवश्च देवश्रेष्ठादय: सुता: ॥ २७ ॥
Text 28
ऋतधामा च तत्रेन्द्रो देवाश्च हरितादय: ।
ऋषयश्च तपोमूर्तिस्तपस्व्याग्नीध्रकादय: ॥ २८ ॥
Text 29
स्वधामाख्यो हरेरंश: साधयिष्यति तन्मनो: ।
अन्तरं सत्यसहस: सुनृताया: सुतो विभु: ॥ २९ ॥
Text 30
मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान् ।
चित्रसेनविचित्राद्या देवसावर्णिदेहजा: ॥ ३० ॥
Text 31
देवा: सुकर्मसुत्रामसंज्ञा इन्द्रो दिवस्पति: ।
निर्मोकतत्त्वदर्शाद्या भविष्यन्त्यृषयस्तदा ॥ ३१ ॥
Text 32
देवहोत्रस्य तनय उपहर्ता दिवस्पते: ।
योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति ॥ ३२ ॥
Text 33
मनुर्वा इन्द्रसावर्णिश्चतुर्दशम एष्यति ।
उरुगम्भीरबुधाद्या इन्द्रसावर्णिवीर्यजा: ॥ ३३ ॥
Text 34
पवित्राश्चाक्षुषा देवा: शुचिरिन्द्रो भविष्यति ।
अग्निर्बाहु: शुचि: शुद्धो मागधाद्यास्तपस्विन: ॥ ३४ ॥
Text 35
सत्रायणस्य तनयो बृहद्भानुस्तदा हरि: ।
वितानायां महाराज क्रियातन्तून्वितायिता ॥ ३५ ॥
Text 36
राजंश्चतुर्दशैतानि त्रिकालानुगतानि ते ।
प्रोक्तान्येभिर्मित: कल्पो युगसाहस्रपर्यय: ॥ ३६ ॥






