Srimad Bhagavatam | Canto 8 | Chapter 8 | Verses

0
4

The Churning of the Milk Ocean

Text 1

श्रीशुक उवाच
पीते गरे वृषाङ्केण प्रीतास्तेऽमरदानवा: ।
ममन्थुस्तरसा सिन्धुं हविर्धानी ततोऽभवत् ॥ १ ॥

Text 2

तामग्निहोत्रीमृषयो जगृहुर्ब्रह्मवादिन: ।
यज्ञस्य देवयानस्य मेध्याय हविषे नृप ॥ २ ॥

Text 3

तत उच्चै:श्रवा नाम हयोऽभूच्चन्द्रपाण्डुर: ।
तस्मिन्बलि: स्पृहां चक्रे नेन्द्र ईश्वरशिक्षया ॥ ३ ॥

Text 4

तत ऐरावतो नाम वारणेन्द्रो विनिर्गत: ।
दन्तैश्चतुर्भि: श्वेताद्रेर्हरन्भगवतो महिम् ॥ ४ ॥

Text 5

ऐरावणादयस्त्वष्टौ दिग् गजा अभवंस्तत: ।
अभ्रमुप्रभृतयोऽष्टौ च करिण्यस्त्वभवन्नृप ॥ ५ ॥

Text 6

कौस्तुभाख्यमभूद् रत्नं पद्मरागो महोदधे: ।
तस्मिन् मणौ स्पृहां चक्रे वक्षोऽलङ्करणे हरि: ।
ततोऽभवत् पारिजात: सुरलोकविभूषणम् ।
पूरयत्यर्थिनो योऽर्थै: शश्वद् भुवि यथा भवान् ॥ ६ ॥

Text 7

ततश्चाप्सरसो जाता निष्ककण्ठ्य: सुवासस: ।
रमण्य: स्वर्गिणां वल्गुगतिलीलावलोकनै: ॥ ७ ॥

Text 8

ततश्चाविरभूत् साक्षाच्छ्री रमा भगवत्परा ।
रञ्जयन्ती दिश: कान्त्या विद्युत् सौदामनी यथा ॥ ८ ॥

Text 9

तस्यां चक्रु: स्पृहां सर्वे ससुरासुरमानवा: ।
रूपौदार्यवयोवर्णमहिमाक्षिप्तचेतस: ॥ ९ ॥

Text 10

तस्या आसनमानिन्ये महेन्द्रो महदद्भ‍ुतम् ।
मूर्तिमत्य: सरिच्छ्रेष्ठा हेमकुम्भैर्जलं शुचि ॥ १० ॥

Text 11

आभिषेचनिका भूमिराहरत् सकलौषधी: ।
गाव: पञ्च पवित्राणि वसन्तो मधुमाधवौ ॥ ११ ॥

Text 12

ऋषय: कल्पयांचक्रुराभिषेकं यथाविधि ।
जगुर्भद्राणि गन्धर्वा नट्यश्च ननृतुर्जगु: ॥ १२ ॥

Text 13

मेघा मृदङ्गपणवमुरजानकगोमुखान् ।
व्यनादयन् शङ्खवेणुवीणास्तुमुलनि:स्वनान् ॥ १३ ॥

Text 14

ततोऽभिषिषिचुर्देवीं श्रियं पद्मकरां सतीम् ।
दिगिभा: पूर्णकलशै: सूक्तवाक्यैर्द्विजेरितै: ॥ १४ ॥

Text 15

समुद्र: पीतकौशेयवाससी समुपाहरत् ।
वरुण: स्रजं वैजयन्तीं मधुना मत्तषट्पदाम् ॥ १५ ॥

Text 16

भूषणानि विचित्राणि विश्वकर्मा प्रजापति: ।
हारं सरस्वती पद्ममजो नागाश्च कुण्डले ॥ १६ ॥

Text 17

तत: कृतस्वस्त्ययनोत्पलस्रजं
नदद्‌द्विरेफां परिगृह्य पाणिना ।
चचाल वक्त्रं सुकपोलकुण्डलं
सव्रीडहासं दधती सुशोभनम् ॥ १७ ॥

Text 18

स्तनद्वयं चातिकृशोदरी समं
निरन्तरं चन्दनकुङ्कुमोक्षितम् ।
ततस्ततो नूपुरवल्गुशिञ्जितै-
र्विसर्पती हेमलतेव सा बभौ ॥ १८ ॥

Text 19

विलोकयन्ती निरवद्यमात्मन:
पदं ध्रुवं चाव्यभिचारिसद्गुणम् ।
गन्धर्वसिद्धासुरयक्षचारण-
त्रैपिष्टपेयादिषु नान्वविन्दत ॥ १९ ॥

Text 20

नूनं तपो यस्य न मन्युनिर्जयो
ज्ञानं क्‍वचित् तच्च न सङ्गवर्जितम् ।
कश्चिन्महांस्तस्य न कामनिर्जय:
स ईश्वर: किं परतोव्यपाश्रय: ॥ २० ॥

Text 21

धर्म: क्‍वचित् तत्र न भूतसौहृदं
त्याग: क्‍वचित् तत्र न मुक्तिकारणम् ।
वीर्यं न पुंसोऽस्त्यजवेगनिष्कृतं
न हि द्वितीयो गुणसङ्गवर्जित: ॥ २१ ॥

Text 22

क्‍वचिच्चिरायुर्न हि शीलमङ्गलं
क्‍वचित् तदप्यस्ति न वेद्यमायुष: ।
यत्रोभयं कुत्र च सोऽप्यमङ्गल:
सुमङ्गल: कश्च न काङ्‌क्षते हि माम् ॥ २२ ॥

Text 23

एवं विमृश्याव्यभिचारिसद्गुणै-
र्वरं निजैकाश्रयतयागुणाश्रयम् ।
वव्रे वरं सर्वगुणैरपेक्षितं
रमा मुकुन्दं निरपेक्षमीप्सितम् ॥ २३ ॥

Text 24

तस्यांसदेश उशतीं नवकञ्जमालां
माद्यन्मधुव्रतवरूथगिरोपघुष्टाम् ।
तस्थौ निधाय निकटे तदुर: स्वधाम
सव्रीडहासविकसन्नयनेन याता ॥ २४ ॥

Text 25

तस्या: श्रियस्त्रिजगतो जनको जनन्या
वक्षोनिवासमकरोत् परमं विभूते: ।
श्री: स्वा: प्रजा: सकरुणेन निरीक्षणेन
यत्र स्थितैधयत साधिपतींस्त्रिलोकान् ॥ २५ ॥

Text 26

शङ्खतूर्यमृदङ्गानां वादित्राणां पृथु: स्वन: ।
देवानुगानां सस्त्रीणां नृत्यतां गायतामभूत् ॥ २६ ॥

Text 27

ब्रह्मरुद्राङ्गिरोमुख्या: सर्वे विश्वसृजो विभुम् ।
ईडिरेऽवितथैर्मन्त्रैस्तल्ल‍िङ्गै: पुष्पवर्षिण: ॥ २७ ॥

Text 28

श्रियावलोकिता देवा: सप्रजापतय: प्रजा: ।
शीलादिगुणसम्पन्ना लेभिरे निर्वृतिं पराम् ॥ २८ ॥

Text 29

नि:सत्त्वा लोलुपा राजन् निरुद्योगा गतत्रपा: ।
यदा चोपेक्षिता लक्ष्म्या बभूवुर्दैत्यदानवा: ॥ २९ ॥

Text 30

अथासीद् वारुणी देवी कन्या कमललोचना ।
असुरा जगृहुस्तां वै हरेरनुमतेन ते ॥ ३० ॥

Text 31

अथोदधेर्मथ्यमानात् काश्यपैरमृतार्थिभि: ।
उदतिष्ठन्महाराज पुरुष: परमाद्भ‍ुत: ॥ ३१ ॥

Text 32

दीर्घपीवरदोर्दण्ड: कम्बुग्रीवोऽरुणेक्षण: ।
श्यामलस्तरुण: स्रग्वी सर्वाभरणभूषित: ॥ ३२ ॥

Text 33

पीतवासा महोरस्क: सुमृष्टमणिकुण्डल: ।
स्‍निग्धकुञ्चितकेशान्तसुभग: सिंहविक्रम: ।
अमृतापूर्णकलसं बिभ्रद् वलयभूषित: ॥ ३३ ॥

Text 34

स वै भगवत: साक्षाद्विष्णोरंशांशसम्भव: ।
धन्वन्तरिरिति ख्यात आयुर्वेदद‍ृगिज्यभाक् ॥ ३४ ॥

Text 35

तमालोक्यासुरा: सर्वे कलसं चामृताभृतम् ।
लिप्सन्त: सर्ववस्तूनि कलसं तरसाहरन् ॥ ३५ ॥

Text 36

नीयमानेऽसुरैस्तस्मिन्कलसेऽमृतभाजने ।
विषण्णमनसो देवा हरिं शरणमाययु: ॥ ३६ ॥

Text 37

इति तद्दैन्यमालोक्य भगवान्भृत्यकामकृत् ।
मा खिद्यत मिथोऽर्थं व: साधयिष्ये स्वमायया ॥ ३७ ॥

Text 38

मिथ: कलिरभूत्तेषां तदर्थे तर्षचेतसाम् ।
अहं पूर्वमहं पूर्वं न त्वं न त्वमिति प्रभो ॥ ३८ ॥

Texts 39-40

देवा: स्वं भागमर्हन्ति ये तुल्यायासहेतव: ।
सत्रयाग इवैतस्मिन्नेष धर्म: सनातन: ॥ ३९ ॥
इति स्वान्प्रत्यषेधन्वै दैतेया जातमत्सरा: ।
दुर्बला: प्रबलान् राजन्गृहीतकलसान् मुहु: ॥ ४० ॥

Texts 41-46

एतस्मिन्नन्तरे विष्णु: सर्वोपायविदीश्वर: ।
योषिद्रूपमनिर्देश्यं दधार परमाद्भ‍ुतम् ॥ ४१ ॥
प्रेक्षणीयोत्पलश्यामं सर्वावयवसुन्दरम् ।
समानकर्णाभरणं सुकपोलोन्नसाननम् ॥ ४२ ॥
नवयौवननिर्वृत्तस्तनभारकृशोदरम् ।
मुखामोदानुरक्तालिझङ्कारोद्विग्नलोचनम् ॥ ४३ ॥
बिभ्रत् सुकेशभारेण मालामुत्फुल्ल‍मल्ल‍िकाम् ।
सुग्रीवकण्ठाभरणं सुभुजाङ्गदभूषितम् ॥ ४४ ॥
विरजाम्बरसंवीतनितम्बद्वीपशोभया ।
काञ्‍च्या प्रविलसद्वल्गुचलच्चरणनूपुरम् ॥ ४५ ॥
सव्रीडस्मितविक्षिप्तभ्रूविलासावलोकनै: ।
दैत्ययूथपचेत:सु काममुद्दीपयन् मुहु: ॥ ४६ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here