Instructions for Civilized Human Beings
Text 1
श्रीनारद उवाच
कर्मनिष्ठा द्विजा: केचित्तपोनिष्ठा नृपापरे ।
स्वाध्यायेऽन्ये प्रवचने केचन ज्ञानयोगयो: ॥ १ ॥
Text 2
ज्ञाननिष्ठाय देयानि कव्यान्यानन्त्यमिच्छता ।
दैवे च तदभावे स्यादितरेभ्यो यथार्हत: ॥ २ ॥
Text 3
द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा ।
भोजयेत्सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरम् ॥ ३ ॥
Text 4
देशकालोचितश्रद्धाद्रव्यपात्रार्हणानि च ।
सम्यग्भवन्ति नैतानि विस्तरात्स्वजनार्पणात् ॥ ४ ॥
Text 5
देशे काले च सम्प्राप्ते मुन्यन्नं हरिदैवतम् ।
श्रद्धया विधिवत्पात्रे न्यस्तं कामधुगक्षयम् ॥ ५ ॥
Text 6
देवर्षिपितृभूतेभ्य आत्मने स्वजनाय च ।
अन्नं संविभजन्पश्येत्सर्वं तत्पुरुषात्मकम् ॥ ६ ॥
Text 7
न दद्यादामिषं श्राद्धे न चाद्याद्धर्मतत्त्ववित् ।
मुन्यन्नै: स्यात्परा प्रीतिर्यथा न पशुहिंसया ॥ ७ ॥
Text 8
नैतादृश: परो धर्मो नृणां सद्धर्ममिच्छताम् ।
न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य य: ॥ ८ ॥
Text 9
एके कर्ममयान् यज्ञान् ज्ञानिनो यज्ञवित्तमा: ।
आत्मसंयमनेऽनीहा जुह्वति ज्ञानदीपिते ॥ ९ ॥
Text 10
द्रव्ययज्ञैर्यक्ष्यमाणं दृष्ट्वा भूतानि बिभ्यति ।
एष माकरुणो हन्यादतज्ज्ञो ह्यसुतृप्ध्रुवम् ॥ १० ॥
Text 11
तस्माद्दैवोपपन्नेन मुन्यन्नेनापि धर्मवित् ।
सन्तुष्टोऽहरह: कुर्यान्नित्यनैमित्तिकी: क्रिया: ॥ ११ ॥
Text 12
विधर्म: परधर्मश्च आभास उपमा छल: ।
अधर्मशाखा: पञ्चेमा धर्मज्ञोऽधर्मवत्त्यजेत् ॥ १२ ॥
Text 13
धर्मबाधो विधर्म: स्यात्परधर्मोऽन्यचोदित: ।
उपधर्मस्तु पाखण्डो दम्भो वा शब्दभिच्छल: ॥ १३ ॥
Text 14
यस्त्विच्छया कृत: पुम्भिराभासो ह्याश्रमात्पृथक् ।
स्वभावविहितो धर्म: कस्य नेष्ट: प्रशान्तये ॥ १४ ॥
Text 15
धर्मार्थमपि नेहेत यात्रार्थं वाधनो धनम् ।
अनीहानीहमानस्य महाहेरिव वृत्तिदा ॥ १५ ॥
Text 16
सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत्सुखम् ।
कुतस्तत्कामलोभेन धावतोऽर्थेहया दिश: ॥ १६ ॥
Text 17
सदा सन्तुष्टमनस: सर्वा: शिवमया दिश: ।
शर्कराकण्टकादिभ्यो यथोपानत्पद: शिवम् ॥ १७ ॥
Text 18
सन्तुष्ट: केन वा राजन्न वर्तेतापि वारिणा ।
औपस्थ्यजैह्व्यकार्पण्याद्गृहपालायते जन: ॥ १८ ॥
Text 19
असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यश: ।
स्रवन्तीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते ॥ १९ ॥
Text 20
कामस्यान्तं हि क्षुत्तृड्भ्यां क्रोधस्यैतत्फलोदयात् ।
जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुव: ॥ २० ॥
Text 21
पण्डिता बहवो राजन्बहुज्ञा: संशयच्छिद: ।
सदसस्पतयोऽप्येके असन्तोषात्पतन्त्यध: ॥ २१ ॥
Text 22
असङ्कल्पाज्जयेत्कामं क्रोधं कामविवर्जनात् ।
अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् ॥ २२ ॥
Text 23
आन्वीक्षिक्या शोकमोहौ दम्भं महदुपासया ।
योगान्तरायान्मौनेन हिंसां कामाद्यनीहया ॥ २३ ॥
Text 24
कृपया भूतजं दु:खं दैवं जह्यात्समाधिना ।
आत्मजं योगवीर्येण निद्रां सत्त्वनिषेवया ॥ २४ ॥
Text 25
रजस्तमश्च सत्त्वेन सत्त्वं चोपशमेन च ।
एतत्सर्वं गुरौ भक्त्या पुरुषो ह्यञ्जसा जयेत् ॥ २५ ॥
Text 26
यस्य साक्षाद्भगवति ज्ञानदीपप्रदे गुरौ ।
मर्त्यासद्धी: श्रुतं तस्य सर्वं कुञ्जरशौचवत् ॥ २६ ॥
Text 27
एष वै भगवान्साक्षात् प्रधानपुरुषेश्वर: ।
योगेश्वरैर्विमृग्याङ्घ्रिर्लोको यं मन्यते नरम् ॥ २७ ॥
Text 28
षड्वर्गसंयमैकान्ता: सर्वा नियमचोदना: ।
तदन्ता यदि नो योगानावहेयु: श्रमावहा: ॥ २८ ॥
Text 29
यथा वार्तादयो ह्यर्था योगस्यार्थं न बिभ्रति ।
अनर्थाय भवेयु: स्म पूर्तमिष्टं तथासत: ॥ २९ ॥
Text 30
यश्चित्तविजये यत्त: स्यान्नि:सङ्गोऽपरिग्रह: ।
एको विविक्तशरणो भिक्षुर्भैक्ष्यमिताशन: ॥ ३० ॥
Text 31
देशे शुचौ समे राजन्संस्थाप्यासनमात्मन: ।
स्थिरं सुखं समं तस्मिन्नासीतर्ज्वङ्ग ओमिति ॥ ३१ ॥
Texts 32-33
प्राणापानौ सन्निरुन्ध्यात्पूरकुम्भकरेचकै: ।
यावन्मनस्त्यजेत कामान्स्वनासाग्रनिरीक्षण: ॥ ३२ ॥
यतो यतो नि:सरति मन: कामहतं भ्रमत् ।
ततस्तत उपाहृत्य हृदि रुन्ध्याच्छनैर्बुध: ॥ ३३ ॥
Text 34
एवमभ्यस्यतश्चित्तं कालेनाल्पीयसा यते: ।
अनिशं तस्य निर्वाणं यात्यनिन्धनवह्निवत् ॥ ३४ ॥
Text 35
कामादिभिरनाविद्धं प्रशान्ताखिलवृत्ति यत् ।
चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित् ॥ ३५ ॥
Text 36
य: प्रव्रज्य गृहात्पूर्वं त्रिवर्गावपनात्पुन: ।
यदि सेवेत तान्भिक्षु: स वै वान्ताश्यपत्रप: ॥ ३६ ॥
Text 37
यै: स्वदेह: स्मृतोऽनात्मा मर्त्यो विट्कृमिभस्मवत् ।
त एनमात्मसात्कृत्वा श्लाघयन्ति ह्यसत्तमा: ॥ ३७ ॥
Texts 38-39
गृहस्थस्य क्रियात्यागो व्रतत्यागो वटोरपि ।
तपस्विनो ग्रामसेवा भिक्षोरिन्द्रियलोलता ॥ ३८ ॥
आश्रमापसदा ह्येते खल्वाश्रमविडम्बना: ।
देवमायाविमूढांस्तानुपेक्षेतानुकम्पया ॥ ३९ ॥
Text 40
आत्मानं चेद्विजानीयात्परं ज्ञानधुताशय: ।
किमिच्छन्कस्य वा हेतोर्देहं पुष्णाति लम्पट: ॥ ४० ॥
Text 41
आहु: शरीरं रथमिन्द्रियाणि
हयानभीषून्मन इन्द्रियेशम् ।
वर्त्मानि मात्रा धिषणां च सूतं
सत्त्वं बृहद् बन्धुरमीशसृष्टम् ॥ ४१ ॥
Text 42
अक्षं दशप्राणमधर्मधर्मौ
चक्रेऽभिमानं रथिनं च जीवम् ।
धनुर्हि तस्य प्रणवं पठन्ति
शरं तु जीवं परमेव लक्ष्यम् ॥ ४२ ॥
Texts 43-44
रागो द्वेषश्च लोभश्च शोकमोहौ भयं मद: ।
मानोऽवमानोऽसूया च माया हिंसा च मत्सर: ॥ ४३ ॥
रज: प्रमाद: क्षुन्निद्रा शत्रवस्त्वेवमादय: ।
रजस्तम:प्रकृतय: सत्त्वप्रकृतय: क्वचित् ॥ ४४ ॥ H
Text 45
यावन्नृकायरथमात्मवशोपकल्पं
धत्ते गरिष्ठचरणार्चनया निशातम् ।
ज्ञानासिमच्युतबलो दधदस्तशत्रु:
स्वानन्दतुष्ट उपशान्त इदं विजह्यात् ॥ ४५ ॥
Text 46
नोचेत्प्रमत्तमसदिन्द्रियवाजिसूता
नीत्वोत्पथं विषयदस्युषु निक्षिपन्ति ।
ते दस्यव: सहयसूतममुं तमोऽन्धे
संसारकूप उरुमृत्युभये क्षिपन्ति ॥ ४६ ॥
Text 47
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।
आवर्तते प्रवृत्तेन निवृत्तेनाश्नुतेऽमृतम् ॥ ४७ ॥
Texts 48-49
¨ हिंस्रं द्रव्यमयं काम्यमग्निहोत्राद्यशान्तिदम् ।
दर्शश्च पूर्णमासश्च चातुर्मास्यं पशु: सुत: ॥ ४८ ॥
एतदिष्टं प्रवृत्ताख्यं हुतं प्रहुतमेव च ।
पूर्तं सुरालयारामकूपाजीव्यादिलक्षणम् ॥ ४९ ॥
Texts 50-51
द्रव्यसूक्ष्मविपाकश्च धूमो रात्रिरपक्षय: ।
अयनं दक्षिणं सोमो दर्श ओषधिवीरुध: ॥ ५० ॥
अन्नं रेत इति क्ष्मेश पितृयानं पुनर्भव: ।
एकैकश्येनानुपूर्वं भूत्वा भूत्वेह जायते ॥ ५१ ॥
Text 52
निषेकादिश्मशानान्तै: संस्कारै: संस्कृतो द्विज: ।
इन्द्रियेषु क्रियायज्ञान् ज्ञानदीपेषु जुह्वति ॥ ५२ ॥
Text 53
इन्द्रियाणि मनस्यूर्मौ वाचि वैकारिकं मन: ।
वाचं वर्णसमाम्नाये तमोङ्कारे स्वरे न्यसेत् ।
ओङ्कारं बिन्दौ नादे तं तं तु प्राणे महत्यमुम् ॥ ५३ ॥
Text 54
अग्नि: सूर्यो दिवा प्राह्ण: शुक्लो राकोत्तरं स्वराट् ।
विश्वोऽथ तैजस: प्राज्ञस्तुर्य आत्मा समन्वयात् ॥ ५४ ॥
Text 55
देवयानमिदं प्राहुर्भूत्वा भूत्वानुपूर्वश: ।
आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते ॥ ५५ ॥
Text 56
य एते पितृदेवानामयने वेदनिर्मिते ।
शास्त्रेण चक्षुषा वेद जनस्थोऽपि न मुह्यति ॥ ५६ ॥
Text 57
आदावन्ते जनानां सद् बहिरन्त: परावरम् ।
ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस्त्वयं स्वयम् ॥ ५७ ॥
Text 58
आबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृत: ।
दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम् ॥ ५८ ॥
Text 59
क्षित्यादीनामिहार्थानां छाया न कतमापि हि ।
न सङ्घातो विकारोऽपि न पृथङ्नान्वितो मृषा ॥ ५९ ॥
Text 60
धातवोऽवयवित्वाच्च तन्मात्रावयवैर्विना ।
न स्युर्ह्यसत्यवयविन्यसन्नवयवोऽन्तत: ॥ ६० ॥
Text 61
स्यात्सादृश्यभ्रमस्तावद्विकल्पे सति वस्तुन: ।
जाग्रत्स्वापौ यथा स्वप्ने तथा विधिनिषेधता ॥ ६१ ॥
Text 62
भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथात्मन: ।
वर्तयन्स्वानुभूत्येह त्रीन्स्वप्नान्धुनुते मुनि: ॥ ६२ ॥
Text 63
कार्यकारणवस्त्वैक्यदर्शनं पटतन्तुवत् ।
अवस्तुत्वाद्विकल्पस्य भावाद्वैतं तदुच्यते ॥ ६३ ॥
Text 64
यद् ब्रह्मणि परे साक्षात्सर्वकर्मसमर्पणम् ।
मनोवाक्तनुभि: पार्थ क्रियाद्वैतं तदुच्यते ॥ ६४ ॥
Text 65
आत्मजायासुतादीनामन्येषां सर्वदेहिनाम् ।
यत्स्वार्थकामयोरैक्यं द्रव्याद्वैतं तदुच्यते ॥ ६५ ॥
Text 66
यद् यस्य वानिषिद्धं स्याद्येन यत्र यतो नृप ।
स तेनेहेत कार्याणि नरो नान्यैरनापदि ॥ ६६ ॥
Text 67
एतैरन्यैश्च वेदोक्तैर्वर्तमान: स्वकर्मभि: ।
गृहेऽप्यस्य गतिं यायाद् राजंस्तद्भक्तिभाङ्नर: ॥ ६७ ॥
Text 68
यथा हि यूयं नृपदेव दुस्त्यजा-
दापद्गणादुत्तरतात्मन: प्रभो: ।
यत्पादपङ्केरुहसेवया भवा-
नहारषीन्निर्जितदिग्गज: क्रतून् ॥ ६८ ॥
Text 69
अहं पुराभवं कश्चिद्गन्धर्व उपबर्हण: ।
नाम्नातीते महाकल्पे गन्धर्वाणां सुसम्मत: ॥ ६९ ॥
Text 70
रूपपेशलमाधुर्यसौगन्ध्यप्रियदर्शन: ।
स्त्रीणां प्रियतमो नित्यं मत्त: स्वपुरलम्पट: ॥ ७० ॥
Text 71
एकदा देवसत्रे तु गन्धर्वाप्सरसां गणा: ।
उपहूता विश्वसृग्भिर्हरिगाथोपगायने ॥ ७१ ॥
Text 72
अहं च गायंस्तद्विद्वान् स्त्रीभि: परिवृतो गत: ।
ज्ञात्वा विश्वसृजस्तन्मे हेलनं शेपुरोजसा ।
याहि त्वं शूद्रतामाशु नष्टश्री: कृतहेलन: ॥ ७२ ॥
Text 73
तावद्दास्यामहं जज्ञे तत्रापि ब्रह्मवादिनाम् ।
शुश्रूषयानुषङ्गेण प्राप्तोऽहं ब्रह्मपुत्रताम् ॥ ७३ ॥
Text 74
धर्मस्ते गृहमेधीयो वर्णित: पापनाशन: ।
गृहस्थो येन पदवीमञ्जसा न्यासिनामियात् ॥ ७४ ॥
Text 75
यूयं नृलोके बत भूरिभागा
लोकं पुनाना मुनयोऽभियन्ति ।
येषां गृहानावसतीति साक्षाद्
गूढं परं ब्रह्म मनुष्यलिङ्गम् ॥ ७५ ॥
Text 76
स वा अयं ब्रह्म महद्विमृग्य
कैवल्यनिर्वाणसुखानुभूति: ।
प्रिय: सुहृद् व: खलु मातुलेय
आत्मार्हणीयो विधिकृद्गुरुश्च ॥ ७६ ॥
Text 77
न यस्य साक्षाद्भवपद्मजादिभी
रूपं धिया वस्तुतयोपवर्णितम् ।
मौनेन भक्त्योपशमेन पूजित:
प्रसीदतामेष स सात्वतां पति: ॥ ७७ ॥
Text 78
श्रीशुक उवाच
इति देवर्षिणा प्रोक्तं निशम्य भरतर्षभ: ।
पूजयामास सुप्रीत: कृष्णं च प्रेमविह्वल: ॥ ७८ ॥
Text 79
कृष्णपार्थावुपामन्त्र्य पूजित: प्रययौ मुनि: ।
श्रुत्वा कृष्णं परं ब्रह्म पार्थ: परमविस्मित: ॥ ७९ ॥
Text 80
इति दाक्षायणीनां ते पृथग्वंशा: प्रकीर्तिता: ।
देवासुरमनुष्याद्या लोका यत्र चराचरा: ॥ ८० ॥
सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता ।
नम: कैवल्यनाथाय निर्वाणसुखसंविदे ॥ ११ ॥






