Srimad Bhagavatam | Canto 7 | Chapter 12 | Verses

0
2

The Perfect Society: Four Spiritual Classes

Text 1

श्रीनारद उवाच
ब्रह्मचारी गुरुकुले वसन्दान्तो गुरोर्हितम् ।
आचरन्दासवन्नीचो गुरौ सुद‍ृढसौहृद: ॥ १ ॥

Text 2

सायं प्रातरुपासीत गुर्वग्‍न्यर्कसुरोत्तमान् ।
सन्ध्ये उभे च यतवाग्जपन्ब्रह्म समाहित: ॥ २ ॥

Text 3

छन्दांस्यधीयीत गुरोराहूतश्चेत् सुयन्त्रित: ।
उपक्रमेऽवसाने च चरणौ शिरसा नमेत् ॥ ३ ॥

Text 4

मेखलाजिनवासांसि जटादण्डकमण्डलून् ।
बिभृयादुपवीतं च दर्भपाणिर्यथोदितम् ॥ ४ ॥

Text 5

सायं प्रातश्चरेद्भ‍ैक्ष्यं गुरवे तन्निवेदयेत् ।
भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत् क्‍वचित् ॥ ५ ॥

Text 6

सुशीलो मितभुग्दक्ष: श्रद्दधानो जितेन्द्रिय: ।
यावदर्थं व्यवहरेत् स्त्रीषु स्त्रीनिर्जितेषु च ॥ ६ ॥

Text 7

वर्जयेत्प्रमदागाथामगृहस्थो बृहद्‌व्रत: ।
इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मन: ॥ ७ ॥

Text 8

केशप्रसाधनोन्मर्दस्‍नपनाभ्यञ्जनादिकम् ।
गुरुस्त्रीभिर्युवतिभि: कारयेन्नात्मनो युवा ॥ ८ ॥

Text 9

नन्वग्नि: प्रमदा नाम घृतकुम्भसम: पुमान् ।
सुतामपि रहो जह्यादन्यदा यावदर्थकृत् ॥ ९ ॥

Text 10

कल्पयित्वात्मना यावदाभासमिदमीश्वर: ।
द्वैतं तावन्न विरमेत्ततो ह्यस्य विपर्यय: ॥ १० ॥

Text 11

एतत्सर्वं गृहस्थस्य समाम्नातं यतेरपि ।
गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिन: ॥ ११ ॥

Text 12

अञ्जनाभ्यञ्जनोन्मर्दस्त्र्यवलेखामिषं मधु ।
स्रग्गन्धलेपालङ्कारांस्त्यजेयुर्ये बृहद्‌व्रता: ॥ १२ ॥

Texts 13-14

उषित्वैवं गुरुकुले द्विजोऽधीत्यावबुध्य च ।
त्रयीं साङ्गोपनिषदं यावदर्थं यथाबलम् ॥ १३ ॥
दत्त्वा वरमनुज्ञातो गुरो: कामं यदीश्वर: ।
गृहं वनं वा प्रविशेत्प्रव्रजेत्तत्र वा वसेत् ॥ १४ ॥

Text 15

अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम् ।
भूतै: स्वधामभि: पश्येदप्रविष्टं प्रविष्टवत् ॥ १५ ॥

Text 16

एवं विधो ब्रह्मचारी वानप्रस्थो यतिर्गृही ।
चरन्विदितविज्ञान: परं ब्रह्माधिगच्छति ॥ १६ ॥

Text 17

वानप्रस्थस्य वक्ष्यामि नियमान्मुनिसम्मतान् ।
यानास्थाय मुनिर्गच्छेद‍ृषिलोकमुहाञ्जसा ॥ १७ ॥

Text 18

न कृष्टपच्यमश्नीयादकृष्टं चाप्यकालत: ।
अग्निपक्व‍मथामं वा अर्कपक्व‍मुताहरेत् ॥ १८ ॥

Text 19

वन्यैश्चरुपुरोडाशान् निर्वपेत् कालचोदितान् ।
लब्धे नवे नवेऽन्नाद्ये पुराणं च परित्यजेत् ॥ १९ ॥

Text 20

अग्‍न्यर्थमेव शरणमुटजं वाद्रिकन्दरम् ।
श्रयेत हिमवाय्वग्निवर्षार्कातपषाट्‌स्वयम् ॥ २० ॥

Text 21

केशरोमनखश्मश्रुमलानि जटिलो दधत् ।
कमण्डल्वजिने दण्डवल्कलाग्निपरिच्छदान् ॥ २१ ॥

Text 22

चरेद्वने द्वादशाब्दानष्टौ वा चतुरो मुनि: ।
द्वावेकं वा यथा बुद्धिर्न विपद्येत कृच्छ्रत: ॥ २२ ॥

Text 23

यदाकल्प: स्वक्रियायां व्याधिभिर्जरयाथवा ।
आन्वीक्षिक्यां वा विद्यायां कुर्यादनशनादिकम् ॥ २३ ॥

Text 24

आत्मन्यग्नीन् समारोप्य सन्न्यस्याहं ममात्मताम् ।
कारणेषु न्यसेत् सम्यक्सङ्घातं तु यथार्हत: ॥ २४ ॥

Text 25

खे खानि वायौ निश्वासांस्तेज:सूष्माणमात्मवान् ।
अप्स्वसृक्‍श्लेष्मपूयानि क्षितौ शेषं यथोद्भ‍वम् ॥ २५ ॥

Texts 26-28

वाचमग्नौ सवक्तव्यामिन्द्रे शिल्पं करावपि ।
पदानि गत्या वयसि रत्योपस्थं प्रजापतौ ॥ २६ ॥
मृत्यौ पायुं विसर्गं च यथास्थानं विनिर्दिशेत् ।
दिक्षु श्रोत्रं सनादेन स्पर्शेनाध्यात्मनि त्वचम् ॥ २७ ॥
रूपाणि चक्षुषा राजन् ज्योतिष्यभिनिवेशयेत् ।
अप्सु प्रचेतसा जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत् ॥ २८ ॥

Texts 29-30

मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यै: कवौ परे ।
कर्माण्यध्यात्मना रुद्रे यदहं ममताक्रिया ।
सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे ॥ २९ ॥
अप्सु क्षितिमपो ज्योतिष्यदो वायौ नभस्यमुम् ।
कूटस्थे तच्च महति तदव्यक्तेऽक्षरे च तत् ॥ ३० ॥

Text 31

इत्यक्षरतयात्मानं चिन्मात्रमवशेषितम् ।
ज्ञात्वाद्वयोऽथ विरमेद् दग्धयोनिरिवानल: ॥ ३१ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here