The Perfect Society: Four Social Classes
Text 1
श्रीशुक उवाच
श्रुत्वेहितं साधु सभासभाजितं
महत्तमाग्रण्य उरुक्रमात्मन: ।
युधिष्ठिरो दैत्यपतेर्मुदान्वित:
पप्रच्छ भूयस्तनयं स्वयम्भुव: ॥ १ ॥
Text 2
श्रीयुधिष्ठिर उवाच
भगवन् श्रोतुमिच्छामि नृणां धर्मं सनातनम् ।
वर्णाश्रमाचारयुतं यत्पुमान्विन्दते परम् ॥ २ ॥
Text 3
भवान्प्रजापते: साक्षादात्मज: परमेष्ठिन: ।
सुतानां सम्मतो ब्रह्मंस्तपोयोगसमाधिभि: ॥ ३ ॥
Text 4
नारायणपरा विप्रा धर्मं गुह्यं परं विदु: ।
करुणा: साधव: शान्तास्त्वद्विधा न तथापरे ॥ ४ ॥
Text 5
श्रीनारद उवाच
नत्वा भगवतेऽजाय लोकानां धर्मसेतवे ।
वक्ष्ये सनातनं धर्मं नारायणमुखाच्छ्रुतम् ॥ ५ ॥
Text 6
योऽवतीर्यात्मनोंऽशेन दाक्षायण्यां तु धर्मत: ।
लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे ॥ ६ ॥
Text 7
धर्ममूलं हि भगवान्सर्ववेदमयो हरि: ।
स्मृतं च तद्विदां राजन्येन चात्मा प्रसीदति ॥ ७ ॥
Texts 8-12
सत्यं दया तप: शौचं तितिक्षेक्षा शमो दम: ।
अहिंसा ब्रह्मचर्यं च त्याग: स्वाध्याय आर्जवम् ॥ ८ ॥
सन्तोष: समदृक्सेवा ग्राम्येहोपरम: शनै: ।
नृणां विपर्ययेहेक्षा मौनमात्मविमर्शनम् ॥ ९ ॥
अन्नाद्यादे: संविभागो भूतेभ्यश्च यथार्हत: ।
तेष्वात्मदेवताबुद्धि: सुतरां नृषु पाण्डव ॥ १० ॥
श्रवणं कीर्तनं चास्य स्मरणं महतां गते: ।
सेवेज्यावनतिर्दास्यं सख्यमात्मसमर्पणम् ॥ ११ ॥
नृणामयं परो धर्म: सर्वेषां समुदाहृत: ।
त्रिंशल्लक्षणवान् राजन्सर्वात्मा येन तुष्यति ॥ १२ ॥
Text 13
संस्कारा यत्राविच्छिन्ना: स द्विजोऽजो जगाद यम् ।
इज्याध्ययनदानानि विहितानि द्विजन्मनाम् ।
जन्मकर्मावदातानां क्रियाश्चाश्रमचोदिता: ॥ १३ ॥
Text 14
विप्रस्याध्ययनादीनि षडन्यस्याप्रतिग्रह: ।
राज्ञो वृत्ति: प्रजागोप्तुरविप्राद्वा करादिभि: ॥ १४ ॥
Text 15
वैश्यस्तु वार्तावृत्ति: स्यान्नित्यं ब्रह्मकुलानुग: ।
शूद्रस्य द्विजशुश्रूषा वृत्तिश्च स्वामिनो भवेत् ॥ १५ ॥
Text 16
वार्ता विचित्रा शालीनयायावरशिलोञ्छनम् ।
विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा ॥ १६ ॥
Text 17
जघन्यो नोत्तमां वृत्तिमनापदि भजेन्नर: ।
ऋते राजन्यमापत्सु सर्वेषामपि सर्वश: ॥ १७ ॥
Texts 18-20
ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा ।
सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन ॥ १८ ॥
ऋतमुञ्छशिलं प्रोक्तममृतं यदयाचितम् ।
मृतं तु नित्ययाच्ञा स्यात्प्रमृतं कर्षणं स्मृतम् ॥ १९ ॥
सत्यानृतं च वाणिज्यं श्ववृत्तिर्नीचसेवनम् ।
वर्जयेत्तां सदा विप्रो राजन्यश्च जुगुप्सिताम् ।
सर्ववेदमयो विप्र: सर्वदेवमयो नृप: ॥ २० ॥
Text 21
शमो दमस्तप: शौचं सन्तोष: क्षान्तिरार्जवम् ।
ज्ञानं दयाच्युतात्मत्वं सत्यं च ब्रह्मलक्षणम् ॥ २१ ॥
Text 22
शौर्यं वीर्यं धृतिस्तेजस्त्यागश्चात्मजय: क्षमा ।
ब्रह्मण्यता प्रसादश्च सत्यं च क्षत्रलक्षणम् ॥ २२ ॥
Text 23
देवगुर्वच्युते भक्तिस्त्रिवर्गपरिपोषणम् ।
आस्तिक्यमुद्यमो नित्यं नैपुण्यं वैश्यलक्षणम् ॥ २३ ॥
Text 24
शूद्रस्य सन्नति: शौचं सेवा स्वामिन्यमायया ।
अमन्त्रयज्ञो ह्यस्तेयं सत्यं गोविप्ररक्षणम् ॥ २४ ॥
Text 25
स्त्रीणां च पतिदेवानां तच्छुश्रूषानुकूलता ।
तद्बन्धुष्वनुवृत्तिश्च नित्यं तद्व्रतधारणम् ॥ २५ ॥
Texts 26-27
सम्मार्जनोपलेपाभ्यां गृहमण्डनवर्तनै: ।
स्वयं च मण्डिता नित्यं परिमृष्टपरिच्छदा ॥ २६ ॥
कामैरुच्चावचै: साध्वी प्रश्रयेण दमेन च ।
वाक्यै: सत्यै: प्रियै: प्रेम्णा काले काले भजेत्पतिम् ॥ २७ ॥
Text 28
सन्तुष्टालोलुपा दक्षा धर्मज्ञा प्रियसत्यवाक् ।
अप्रमत्ता शुचि: स्निग्धा पतिं त्वपतितं भजेत् ॥ २८ ॥
Text 29
या पतिं हरिभावेन भजेत् श्रीरिव तत्परा ।
हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते ॥ २९ ॥
Text 30
वृत्ति: सङ्करजातीनां तत्तत्कुलकृता भवेत् ।
अचौराणामपापानामन्त्यजान्तेवसायिनाम् ॥ ३० ॥
Text 31
प्राय: स्वभावविहितो नृणां धर्मो युगे युगे ।
वेददृग्भि: स्मृतो राजन्प्रेत्य चेह च शर्मकृत् ॥ ३१ ॥
Text 32
वृत्त्या स्वभावकृतया वर्तमान: स्वकर्मकृत् ।
हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात् ॥ ३२ ॥
Texts 33-34
उप्यमानं मुहु: क्षेत्रं स्वयं निर्वीर्यतामियात् ।
न कल्पते पुन: सूत्यै उप्तं बीजं च नश्यति ॥ ३३ ॥
एवं कामाशयं चित्तं कामानामतिसेवया ।
विरज्येत यथा राजन्नग्निवत् कामबिन्दुभि: ॥ ३४ ॥
Text 35
यस्य यल्लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् ।
यदन्यत्रापि दृश्येत तत्तेनैव विनिर्दिशेत् ॥ ३५ ॥






