Srimad Bhagavatam | Canto 7 | Chapter 6 | Verses

0
4

Prahlāda Instructs His Demoniac Schoolmates

Text 1

श्रीप्रह्राद उवाच
कौमार आचरेत्प्राज्ञो धर्मान्भागवतानिह ।
दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम् ॥ १ ॥

Text 2

यथा हि पुरुषस्येह विष्णो: पादोपसर्पणम् ।
यदेष सर्वभूतानां प्रिय आत्मेश्वर: सुहृत् ॥ २ ॥

Text 3

सुखमैन्द्रियकं दैत्या देहयोगेन देहिनाम् ।
सर्वत्र लभ्यते दैवाद्यथा दु:खमयत्नत: ॥ ३ ॥

Text 4

तत्प्रयासो न कर्तव्यो यत आयुर्व्यय: परम् ।
न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम् ॥ ४ ॥

Text 5

ततो यतेत कुशल: क्षेमाय भवमाश्रित: ।
शरीरं पौरुषं यावन्न विपद्येत पुष्कलम् ॥ ५ ॥

Text 6

पुंसो वर्षशतं ह्यायुस्तदर्धं चाजितात्मन: ।
निष्फलं यदसौ रात्र्यां शेतेऽन्धं प्रापितस्तम: ॥ ६ ॥

Text 7

मुग्धस्य बाल्ये कैशोरे क्रीडतो याति विंशति: ।
जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशति: ॥ ७ ॥

Text 8

दुरापूरेण कामेन मोहेन च बलीयसा ।
शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि ॥ ८ ॥

Text 9

को गृहेषु पुमान्सक्तमात्मानमजितेन्द्रिय: ।
स्‍नेहपाशैर्द‍ृढैर्बद्धमुत्सहेत विमोचितुम् ॥ ९ ॥

Text 10

को न्वर्थतृष्णां विसृजेत्प्राणेभ्योऽपि य ईप्सित: ।
यं क्रीणात्यसुभि: प्रेष्ठैस्तस्कर: सेवको वणिक् ॥ १० ॥

Texts 11-13

कथं प्रियाया अनुकम्पिताया:
सङ्गं रहस्यं रुचिरांश्च मन्त्रान् ।
सुहृत्सु तत्स्‍नेहसित: शिशूनां
कलाक्षराणामनुरक्तचित्त: ॥ ११ ॥
पुत्रान्स्मरंस्ता दुहितृर्हृदय्या
भ्रातृन् स्वसृर्वा पितरौ च दीनौ ।
गृहान् मनोज्ञोरुपरिच्छदांश्च
वृत्तीश्च कुल्या: पशुभृत्यवर्गान् ॥ १२ ॥
त्यजेत कोशस्कृदिवेहमान:
कर्माणि लोभादवितृप्तकाम: ।
औपस्थ्यजैह्वं बहुमन्यमान:
कथं विरज्येत दुरन्तमोह: ॥ १३ ॥

Text 14

कुटुम्बपोषाय वियन्निजायु
र्न बुध्यतेऽर्थं विहतं प्रमत्त: ।
सर्वत्र तापत्रयदु:खितात्मा
निर्विद्यते न स्वकुटुम्बराम: ॥ १४ ॥

Text 15

वित्तेषु नित्याभिनिविष्टचेता
विद्वांश्च दोषं परवित्तहर्तु: ।
प्रेत्येह वाथाप्यजितेन्द्रियस्त-
दशान्तकामो हरते कुटुम्बी ॥ १५ ॥

Text 16

विद्वानपीत्थं दनुजा: कुटुम्बं
पुष्णन्स्वलोकाय न कल्पते वै ।
य: स्वीयपारक्यविभिन्नभाव-
स्तम: प्रपद्येत यथा विमूढ: ॥ १६ ॥

Texts 17-18

यतो न कश्चित् क्व‍ च कुत्रचिद् वा
दीन: स्वमात्मानमलं समर्थ: ।
विमोचितुं कामद‍ृशां विहार-
क्रीडामृगो यन्निगडो विसर्ग: ॥ १७ ॥
ततो विदूरात् परिहृत्य दैत्या
दैत्येषु सङ्गं विषयात्मकेषु ।
उपेत नारायणमादिदेवं
स मुक्तसङ्गैरिषितोऽपवर्ग: ॥ १८ ॥

Text 19

न ह्यच्युतं प्रीणयतो बह्वायासोऽसुरात्मजा: ।
आत्मत्वात्सर्वभूतानां सिद्धत्वादिह सर्वत: ॥ १९ ॥

Texts 20-23

परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु ।
भौतिकेषु विकारेषु भूतेष्वथ महत्सु च ॥ २० ॥
गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा ।
एक एव परो ह्यात्मा भगवानीश्वरोऽव्यय: ॥ २१ ॥
प्रत्यगात्मस्वरूपेण द‍ृश्यरूपेण च स्वयम् ।
व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्योऽविकल्पित: ॥ २२ ॥
केवलानुभवानन्दस्वरूप: परमेश्वर: ।
माययान्तर्हितैश्वर्य ईयते गुणसर्गया ॥ २३ ॥

Text 24

तस्मात्सर्वेषु भूतेषु दयां कुरुत सौहृदम् ।
भावमासुरमुन्मुच्य यया तुष्यत्यधोक्षज: ॥ २४ ॥

Text 25

तुष्टे च तत्र किमलभ्यमनन्त आद्ये
किं तैर्गुणव्यतिकरादिह ये स्वसिद्धा: ।
धर्मादय: किमगुणेन च काङ्‌क्षितेन
सारं जुषां चरणयोरुपगायतां न: ॥ २५ ॥

Text 26

धर्मार्थकाम इति योऽभिहितस्त्रिवर्ग
ईक्षा त्रयी नयदमौ विविधा च वार्ता ।
मन्ये तदेतदखिलं निगमस्य सत्यं
स्वात्मार्पणं स्वसुहृद: परमस्य पुंस: ॥ २६ ॥

Text 27

ज्ञानं तदेतदमलं दुरवापमाह
नारायणो नरसख: किल नारदाय ।
एकान्तिनां भगवतस्तदकिञ्चनानां
पादारविन्दरजसाप्लुतदेहिनां स्यात् ॥ २७ ॥

Text 28

श्रुतमेतन्मया पूर्वं ज्ञानं विज्ञानसंयुतम् ।
धर्मं भागवतं शुद्धं नारदाद्देवदर्शनात् ॥ २८ ॥

Texts 29-30

श्रीदैत्यपुत्रा ऊचु:
प्रह्राद त्वं वयं चापि नर्तेऽन्यं विद्महे गुरुम् ।
एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ ॥ २९ ॥
बालस्यान्त:पुरस्थस्य महत्सङ्गो दुरन्वय: ।
छिन्धि न: संशयं सौम्य स्याच्चेद्विस्रम्भकारणम् ॥ ३० ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here