Srimad Bhagavatam | Canto 7 | Chapter 7 | Verses

0
2

What Prahlāda Learned in the Womb

Text 1

श्रीनारद उवाच
एवं दैत्यसुतै: पृष्टो महाभागवतोऽसुर: ।
उवाच तान्स्मयमान: स्मरन् मदनुभाषितम् ॥ १ ॥

Text 2

श्रीप्रह्राद उवाच
पितरि प्रस्थितेऽस्माकं तपसे मन्दराचलम् ।
युद्धोद्यमं परं चक्रुर्विबुधा दानवान्प्रति ॥ २ ॥ H

Text 3

पिपीलिकैरहिरिव दिष्टय‍ा लोकोपतापन: ।
पापेन पापोऽभक्षीति वदन्तो वासवादय: ॥ ३ ॥

Texts 4-5

तेषामतिबलोद्योगं निशम्यासुरयूथपा: ।
वध्यमाना: सुरैर्भीता दुद्रुवु: सर्वतो दिशम् ॥ ४ ॥
कलत्रपुत्रवित्ताप्तान्गृहान्पशुपरिच्छदान् ।
नावेक्ष्यमाणास्त्वरिता: सर्वे प्राणपरीप्सव: ॥ ५ ॥

Text 6

व्यलुम्पन् राजशिबिरममरा जयकाङ्‌क्षिण: ।
इन्द्रस्तु राजमहिषीं मातरं मम चाग्रहीत् ॥ ६ ॥

Text 7

नीयमानां भयोद्विग्नां रुदतीं कुररीमिव ।
यद‍ृच्छयागतस्तत्र देवर्षिर्दद‍ृशे पथि ॥ ७ ॥

Text 8

प्राह नैनां सुरपते नेतुमर्हस्यनागसम् ।
मुञ्च मुञ्च महाभाग सतीं परपरिग्रहम् ॥ ८ ॥

Text 9

श्रीइन्द्र उवाच
आस्तेऽस्या जठरे वीर्यमविषह्यं सुरद्विष: ।
आस्यतां यावत्प्रसवं मोक्ष्येऽर्थपदवीं गत: ॥ ९ ॥

Text 10

श्रीनारद उवाच
अयं निष्किल्बिष: साक्षान्महाभागवतो महान् ।
त्वया न प्राप्स्यते संस्थामनन्तानुचरो बली ॥ १० ॥

Text 11

इत्युक्तस्तां विहायेन्द्रो देवर्षेर्मानयन्वच: ।
अनन्तप्रियभक्त्यैनां परिक्रम्य दिवं ययौ ॥ ११ ॥

Text 12

ततो मे मातरमृषि: समानीय निजाश्रमे ।
आश्वास्येहोष्यतां वत्से यावत्ते भर्तुरागम: ॥ १२ ॥

Text 13

तथेत्यवात्सीद्देवर्षेरन्तिके साकुतोभया ।
यावद्दैत्यपतिर्घोरात्तपसो न न्यवर्तत ॥ १३ ॥

Text 14

ऋषिं पर्यचरत्तत्र भक्त्या परमया सती ।
अन्तर्वत्नी स्वगर्भस्य क्षेमायेच्छाप्रसूतये ॥ १४ ॥

Text 15

ऋषि: कारुणिकस्तस्या: प्रादादुभयमीश्वर: ।
धर्मस्य तत्त्वं ज्ञानं च मामप्युद्दिश्य निर्मलम् ॥ १५ ॥

Text 16

तत्तु कालस्य दीर्घत्वात् स्त्रीत्वान्मातुस्तिरोदधे ।
ऋषिणानुगृहीतं मां नाधुनाप्यजहात्स्मृति: ॥ १६ ॥

Text 17

भवतामपि भूयान्मे यदि श्रद्दधते वच: ।
वैशारदी धी: श्रद्धात: स्त्रीबालानां च मे यथा ॥ १७ ॥

Text 18

जन्माद्या: षडिमे भावा द‍ृष्टा देहस्य नात्मन: ।
फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना ॥ १८ ॥

Texts 19-20

आत्मा नित्योऽव्यय: शुद्ध एक: क्षेत्रज्ञ आश्रय: ।
अविक्रिय: स्वद‍ृग् हेतुर्व्यापकोऽसङ्‌‌ग्यनावृत: ॥ १९ ॥
एतैर्द्वादशभिर्विद्वानात्मनो लक्षणै: परै: ।
अहं ममेत्यसद्भ‍ावं देहादौ मोहजं त्यजेत् ॥ २० ॥

Text 21

स्वर्णं यथा ग्रावसु हेमकार:
क्षेत्रेषु योगैस्तदभिज्ञ आप्नुयात् ।
क्षेत्रेषु देहेषु तथात्मयोगै-
रध्यात्मविद् ब्रह्मगतिं लभेत ॥ २१ ॥

Text 22

अष्टौ प्रकृतय: प्रोक्तास्त्रय एव हि तद्गुणा: ।
विकारा: षोडशाचार्यै: पुमानेक: समन्वयात् ॥ २२ ॥

Text 23

देहस्तु सर्वसङ्घातो जगत्तस्थुरिति द्विधा ।
अत्रैव मृग्य: पुरुषो नेति नेतीत्यतत्त्यजन् ॥ २३ ॥

Text 24

अन्वयव्यतिरेकेण विवेकेनोशतात्मना ।
स्वर्गस्थानसमाम्नायैर्विमृशद्भ‍िरसत्वरै: ॥ २४ ॥

Text 25

बुद्धेर्जागरणं स्वप्न: सुषुप्तिरिति वृत्तय: ।
ता येनैवानुभूयन्ते सोऽध्यक्ष: पुरुष: पर: ॥ २५ ॥

Text 26

एभिस्त्रिवर्णै: पर्यस्तैर्बुद्धिभेदै: क्रियोद्भ‍वै: ।
स्वरूपमात्मनो बुध्येद् गन्धैर्वायुमिवान्वयात् ॥ २६ ॥

Text 27

एतद्‌द्वारो हि संसारो गुणकर्मनिबन्धन: ।
अज्ञानमूलोऽपार्थोऽपि पुंस: स्वप्न इवार्प्यते ॥ २७ ॥

Text 28

तस्माद्भ‍वद्भ‍ि: कर्तव्यं कर्मणां त्रिगुणात्मनाम् ।
बीजनिर्हरणं योग: प्रवाहोपरमो धिय: ॥ २८ ॥

Text 29

तत्रोपायसहस्राणामयं भगवतोदित: ।
यदीश्वरे भगवति यथा यैरञ्जसा रति: ॥ २९ ॥

Texts 30-31

गुरुशुश्रूषया भक्त्या सर्वलब्धार्पणेन च ।
सङ्गेन साधुभक्तानामीश्वराराधनेन च ॥ ३० ॥
श्रद्धया तत्कथायां च कीर्तनैर्गुणकर्मणाम् ।
तत्पादाम्बुरुहध्यानात तल्लिङ्गेक्षार्हणादिभि: ॥ ३१ ॥

Text 32

हरि: सर्वेषु भूतेषु भगवानास्त ईश्वर: ।
इति भूतानि मनसा कामैस्तै: साधु मानयेत् ॥ ३२ ॥

Text 33

एवं निर्जितषड्‌‌वर्गै: क्रियते भक्तिरीश्वरे ।
वासुदेवे भगवति यया संलभ्यते रति: ॥ ३३ ॥

Text 34

निशम्य कर्माणि गुणानतुल्यान्
वीर्याणि लीलातनुभि: कृतानि ।
यदातिहर्षोत्पुलकाश्रुगद्गदं
प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥ ३४ ॥

Text 35

यदा ग्रहग्रस्त इव क्‍वचिद्धस-
त्याक्रन्दते ध्यायति वन्दते जनम् ।
मुहु: श्वसन्वक्ति हरे जगत्पते
नारायणेत्यात्ममतिर्गतत्रप: ॥ ३५ ॥

Text 36

तदा पुमान्मुक्तसमस्तबन्धन-
स्तद्भ‍ावभावानुकृताशयाकृति: ।
निर्दग्धबीजानुशयो महीयसा
भक्तिप्रयोगेण समेत्यधोक्षजम् ॥ ३६ ॥

Text 37

अधोक्षजालम्भमिहाशुभात्मन:
शरीरिण: संसृतिचक्रशातनम् ।
तद् ब्रह्मनिर्वाणसुखं विदुर्बुधा-
स्ततो भजध्वं हृदये हृदीश्वरम् ॥ ३७ ॥

Text 38

कोऽतिप्रयासोऽसुरबालका हरे-
रुपासने स्वे हृदि छिद्रवत् सत: ।
स्वस्यात्मन: सख्युरशेषदेहिनां
सामान्यत: किं विषयोपपादनै: ॥ ३८ ॥

Text 39

राय: कलत्रं पशव: सुतादयो
गृहा मही कुञ्जरकोशभूतय: ।
सर्वेऽर्थकामा: क्षणभङ्गुरायुष:
कुर्वन्ति मर्त्यस्य कियत् प्रियं चला: ॥ ३९ ॥

Text 40

एवं हि लोका: क्रतुभि: कृता अमी
क्षयिष्णव: सातिशया न निर्मला: ।
तस्मादद‍ृष्टश्रुतदूषणं परं
भक्त्योक्तयेशं भजतात्मलब्धये ॥ ४० ॥

Text 41

यदर्थ इह कर्माणि विद्वन्मान्यसकृन्नर: ।
करोत्यतो विपर्यासममोघं विन्दते फलम् ॥ ४१ ॥

Text 42

सुखाय दु:खमोक्षाय सङ्कल्प इह कर्मिण: ।
सदाप्नोतीहया दु:खमनीहाया: सुखावृत: ॥ ४२ ॥

Text 43

कामान्कामयते काम्यैर्यदर्थमिह पूरुष: ।
स वै देहस्तु पारक्यो भङ्गुरो यात्युपैति च ॥ ४३ ॥

Text 44

किमु व्यवहितापत्यदारागारधनादय: ।
राज्यकोशगजामात्यभृत्याप्ता ममतास्पदा: ॥ ४४ ॥

Text 45

किमेतैरात्मनस्तुच्छै: सह देहेन नश्वरै: ।
अनर्थैरर्थसङ्काशैर्नित्यानन्दरसोदधे: ॥ ४५ ॥

Text 46

निरूप्यतामिह स्वार्थ: कियान्देहभृतोऽसुरा: ।
निषेकादिष्ववस्थासु क्लिश्यमानस्य कर्मभि: ॥ ४६ ॥

Text 47

कर्माण्यारभते देही देहेनात्मानुवर्तिना ।
कर्मभिस्तनुते देहमुभयं त्वविवेकत: ॥ ४७ ॥

Text 48

तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रया: ।
भजतानीहयात्मानमनीहं हरिमीश्वरम् ॥ ४८ ॥

Text 49

सर्वेषामपि भूतानां हरिरात्मेश्वर: प्रिय: ।
भूतैर्महद्भ‍ि: स्वकृतै: कृतानां जीवसंज्ञित: ॥ ४९ ॥

Text 50

देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वा ।
भजन्मुकुन्दचरणं स्वस्तिमान् स्याद्यथा वयम् ॥ ५० ॥

Texts 51-52

नालं द्विजत्वं देवत्वमृषित्वं वासुरात्मजा: ।
प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता ॥ ५१ ॥
न दानं न तपो नेज्या न शौचं न व्रतानि च ।
प्रीयतेऽमलया भक्त्या हरिरन्यद् विडम्बनम् ॥ ५२ ॥

Text 53

ततो हरौ भगवति भक्तिं कुरुत दानवा: ।
आत्मौपम्येन सर्वत्र सर्वभूतात्मनीश्वरे ॥ ५३ ॥

Text 54

दैतेया यक्षरक्षांसि स्त्रिय: शूद्रा व्रजौकस: ।
खगा मृगा: पापजीवा: सन्ति ह्यच्युततां गता: ॥ ५४ ॥

Text 55

एतावानेव लोकेऽस्मिन्पुंस: स्वार्थ: पर: स्मृत: ।
एकान्तभक्तिर्गोविन्दे यत्सर्वत्र तदीक्षणम् ॥ ५५ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here