Srimad Bhagavatam | Canto 7 | Chapter 5 | Verses

0
3

Prahlāda Mahārāja, the Saintly Son of Hiraṇyakaśipu

Text 1

श्रीनारद उवाच
पौरोहित्याय भगवान्वृत: काव्य: किलासुरै: ।
षण्डामर्कौ सुतौ तस्य दैत्यराजगृहान्तिके ॥ १ ॥

Text 2

तौ राज्ञा प्रापितं बालं प्रह्लादं नयकोविदम् ।
पाठयामासतु: पाठ्यानन्यांश्चासुरबालकान् ॥ २ ॥

Text 3

यत्तत्र गुरुणा प्रोक्तं शुश्रुवेऽनुपपाठ च ।
न साधु मनसा मेने स्वपरासद्ग्रहाश्रयम् ॥ ३ ॥

Text 4

एकदासुरराट् पुत्रमङ्कमारोप्य पाण्डव ।
पप्रच्छ कथ्यतां वत्स मन्यते साधु यद्भ‍वान् ॥ ४ ॥

Text 5

श्रीप्रह्लाद उवाच
तत्साधु मन्येऽसुरवर्य देहिनां
सदा समुद्विग्नधियामसद्ग्रहात् ।
हित्वात्मपातं गृहमन्धकूपं
वनं गतो यद्धरिमाश्रयेत ॥ ५ ॥

Text 6

श्रीनारद उवाच
श्रुत्वा पुत्रगिरो दैत्य: परपक्षसमाहिता: ।
जहास बुद्धिर्बालानां भिद्यते परबुद्धिभि: ॥ ६ ॥

Text 7

सम्यग्विधार्यतां बालो गुरुगेहे द्विजातिभि: ।
विष्णुपक्षै: प्रतिच्छन्नैर्न भिद्येतास्य धीर्यथा ॥ ७ ॥

Text 8

गृहमानीतमाहूय प्रह्रादं दैत्ययाजका: ।
प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभि: ॥ ८ ॥

Text 9

वत्स प्रह्राद भद्रं ते सत्यं कथय मा मृषा ।
बालानति कुतस्तुभ्यमेष बुद्धिविपर्यय: ॥ ९ ॥

Text 10

बुद्धिभेद: परकृत उताहो ते स्वतोऽभवत् ।
भण्यतां श्रोतुकामानां गुरूणां कुलनन्दन ॥ १० ॥

Text 11

श्रीप्रह्राद उवाच
पर: स्वश्चेत्यसद्ग्राह: पुंसां यन्मायया कृत: ।
विमोहितधियां द‍ृष्टस्तस्मै भगवते नम: ॥ ११ ॥

Text 12

स यदानुव्रत: पुंसां पशुबुद्धिर्विभिद्यते ।
अन्य एष तथान्योऽहमिति भेदगतासती ॥ १२ ॥

Text 13

स एष आत्मा स्वपरेत्यबुद्धिभि-
र्दुरत्ययानुक्रमणो निरूप्यते ।
मुह्यन्ति यद्वर्त्मनि वेदवादिनो
ब्रह्मादयो ह्येष भिनत्ति मे मतिम् ॥ १३ ॥

Text 14

यथा भ्राम्यत्ययो ब्रह्मन् स्वयमाकर्षसन्निधौ ।
तथा मे भिद्यते चेतश्चक्रपाणेर्यद‍ृच्छया ॥ १४ ॥

Text 15

श्रीनारद उवाच
एतावद्ब्राह्मणायोक्त्वा विरराम महामति: ।
तं सन्निभर्त्स्य कुपित: सुदीनो राजसेवक: ॥ १५ ॥

Text 16

आनीयतामरे वेत्रमस्माकमयशस्कर: ।
कुलाङ्गारस्य दुर्बुद्धेश्चतुर्थोऽस्योदितो दम: ॥ १६ ॥

Text 17

दैतेयचन्दनवने जातोऽयं कण्टकद्रुम: ।
यन्मूलोन्मूलपरशोर्विष्णोर्नालायितोऽर्भक: ॥ १७ ॥

Text 18

इति तं विविधोपायैर्भीषयंस्तर्जनादिभि: ।
प्रह्रादं ग्राहयामास त्रिवर्गस्योपपादनम् ॥ १८ ॥

Text 19

तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम् ।
दैत्येन्द्रं दर्शयामास मातृमृष्टमलङ्‌कृतम् ॥ १९ ॥

Text 20

पादयो: पतितं बालं प्रतिनन्द्याशिषासुर: ।
परिष्वज्य चिरं दोर्भ्यां परमामाप निर्वृतिम् ॥ २० ॥

Text 21

आरोप्याङ्कमवघ्राय मूर्धन्यश्रुकलाम्बुभि: ।
आसिञ्चन् विकसद्वक्त्रमिदमाह युधिष्ठिर ॥ २१ ॥

Text 22

हिरण्यकशिपुरुवाच
प्रह्रादानूच्यतां तात स्वधीतं किञ्चिदुत्तमम् ।
कालेनैतावतायुष्मन् यदशिक्षद्गुरोर्भवान् ॥ २२ ॥

Texts 23-24

श्रीप्रह्राद उवाच
श्रवणं कीर्तनं विष्णो: स्मरणं पादसेवनम् ।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ २३ ॥
इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा ।
क्रियेत भगवत्यद्धा तन्मन्येऽधीतमुत्तमम् ॥ २४ ॥

Text 25

निशम्यैतत्सुतवचो हिरण्यकशिपुस्तदा ।
गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधर: ॥ २५ ॥

Text 26

ब्रह्मबन्धो किमेतत्ते विपक्षं श्रयतासता ।
असारं ग्राहितो बालो मामनाद‍ृत्य दुर्मते ॥ २६ ॥

Text 27

सन्ति ह्यसाधवो लोके दुर्मैत्राश्छद्मवेषिण: ।
तेषामुदेत्यघं काले रोग: पातकिनामिव ॥ २७ ॥

Text 28

श्रीगुरुपुत्र उवाच
न मत्प्रणीतं न परप्रणीतं
सुतो वदत्येष तवेन्द्रशत्रो ।
नैसर्गिकीयं मतिरस्य राजन्
नियच्छ मन्युं कददा: स्म मा न: ॥ २८ ॥

Text 29

श्रीनारद उवाच
गुरुणैवं प्रतिप्रोक्तो भूय आहासुर: सुतम् ।
न चेद्गुरुमुखीयं ते कुतोऽभद्रासती मति: ॥ २९ ॥

Text 30

श्रीप्रह्राद उवाच
मतिर्न कृष्णे परत: स्वतो वा
मिथोऽभिपद्येत गृहव्रतानाम् ।
अदान्तगोभिर्विशतां तमिस्रं
पुन: पुनश्चर्वितचर्वणानाम् ॥ ३० ॥

Text 31

न ते विदु: स्वार्थगतिं हि विष्णुं
दुराशया ये बहिरर्थमानिन: ।
अन्धा यथान्धैरुपनीयमाना-
स्तेऽपीशतन्‍त्र्यामुरुदाम्नि बद्धा: ॥ ३१ ॥

Text 32

नैषां मतिस्तावदुरुक्रमाङ्‌घ्रिं
स्पृशत्यनर्थापगमो यदर्थ: ।
महीयसां पादरजोऽभिषेकं
निष्किञ्चनानां न वृणीत यावत् ॥ ३२ ॥

Text 33

इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपू रुषा ।
अन्धीकृतात्मा स्वोत्सङ्गान्निरस्यत महीतले ॥ ३३ ॥

Text 34

आहामर्षरुषाविष्ट: कषायीभूतलोचन: ।
वध्यतामाश्वयं वध्यो नि:सारयत नैर्ऋताः ॥ ३४ ॥

Text 35

अयं मे भ्रातृहा सोऽयं हित्वा स्वान् सुहृदोऽधम: ।
पितृव्यहन्तु: पादौ यो विष्णोर्दासवदर्चति ॥ ३५ ॥

Text 36

विष्णोर्वा साध्वसौ किं नु करिष्यत्यसमञ्जस: ।
सौहृदं दुस्त्यजं पित्रोरहाद्य: पञ्चहायन: ॥ ३६ ॥

Text 37

परोऽप्यपत्यं हितकृद्यथौषधं
स्वदेहजोऽप्यामयवत्सुतोऽहित: ।
छिन्द्यात्तदङ्गं यदुतात्मनोऽहितं
शेषं सुखं जीवति यद्विवर्जनात् ॥ ३७ ॥

Text 38

सर्वैरुपायैर्हन्तव्य: सम्भोजशयनासनै: ।
सुहृल्लिङ्गधर: शत्रुर्मुनेर्दुष्टमिवेन्द्रियम् ॥ ३८ ॥

Texts 39-40

नैऋर्तास्ते समादिष्टा भर्त्रा वै शूलपाणय: ।
तिग्मदंष्ट्रकरालास्यास्ताम्रश्मश्रुशिरोरुहा: ॥ ३९ ॥
नदन्तो भैरवं नादं छिन्धि भिन्धीति वादिन: ।
आसीनं चाहनञ्शूलै: प्रह्रादं सर्वमर्मसु ॥ ४० ॥

Text 41

परे ब्रह्मण्यनिर्देश्ये भगवत्यखिलात्मनि ।
युक्तात्मन्यफला आसन्नपुण्यस्येव सत्क्रिया: ॥ ४१ ॥

Text 42

प्रयासेऽपहते तस्मिन्दैत्येन्द्र: परिशङ्कित: ।
चकार तद्वधोपायान्निर्बन्धेन युधिष्ठिर ॥ ४२ ॥

Texts 43-44

दिग्गजैर्दन्दशूकेन्द्रैरभिचारावपातनै: ।
मायाभि: सन्निरोधैश्च गरदानैरभोजनै: ।
हिमवाय्वग्निसलिलै: पर्वताक्रमणैरपि ॥ ४३ ॥
न शशाक यदा हन्तुमपापमसुर: सुतम् ।
चिन्तां दीर्घतमां प्राप्तस्तत्कर्तुं नाभ्यपद्यत ॥ ४४ ॥

Text 45

एष मे बह्वसाधूक्तो वधोपायाश्च निर्मिता: ।
तैस्तैर्द्रोहैरसद्धर्मैर्मुक्त: स्वेनैव तेजसा ॥ ४५ ॥

Text 46

वर्तमानोऽविदूरे वै बालोऽप्यजडधीरयम् ।
न विस्मरति मेऽनार्यं शुन: शेप इव प्रभु: ॥ ४६ ॥

Text 47

अप्रमेयानुभावोऽयमकुतश्चिद्भ‍योऽमर: ।
नूनमेतद्विरोधेन मृत्युर्मे भविता न वा ॥ ४७ ॥

Text 48

इति तच्चिन्तया किञ्चिन्‍म्‍लानश्रियमधोमुखम् ।
षण्डामर्कावौशनसौ विविक्त इति होचतु: ॥ ४८ ॥

Text 49

जितं त्वयैकेन जगत्‍त्रयं भ्रुवोर्
विजृम्भणत्रस्तसमस्तधिष्ण्यपम् ।
न तस्य चिन्त्यं तव नाथ चक्ष्वहे
न वै शिशूनां गुणदोषयो: पदम् ॥ ४९ ॥

Text 50

इमं तु पाशैर्वरुणस्य बद्ध्वा
निधेहि भीतो न पलायते यथा ।
बुद्धिश्च पुंसो वयसार्यसेवया
यावद्गुरुर्भार्गव आगमिष्यति ॥ ५० ॥

Text 51

तथेति गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत् ।
धर्मो ह्यस्योपदेष्टव्यो राज्ञां यो गृहमेधिनाम् ॥ ५१ ॥

Text 52

धर्ममर्थं च कामं च नितरां चानुपूर्वश: ।
प्रह्रादायोचतू राजन्प्रश्रितावनताय च ॥ ५२ ॥

Text 53

यथा त्रिवर्गं गुरुभिरात्मने उपशिक्षितम् ।
न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम् ॥ ५३ ॥

Text 54

यदाचार्य: परावृत्तो गृहमेधीयकर्मसु ।
वयस्यैर्बालकैस्तत्र सोपहूत: कृतक्षणै: ॥ ५४ ॥

Text 55

अथ ताञ्श्लक्ष्णया वाचा प्रत्याहूय महाबुध: ।
उवाच विद्वांस्तन्निष्ठां कृपया प्रहसन्निव ॥ ५५ ॥

Texts 56-57

ते तु तद्गौरवात्सर्वे त्यक्तक्रीडापरिच्छदा: ।
बाला अदूषितधियो द्वन्द्वारामेरितेहितै: ॥ ५६ ॥
पर्युपासत राजेन्द्र तन्न्यस्तहृदयेक्षणा: ।
तानाह करुणो मैत्रो महाभागवतोऽसुर: ॥ ५७ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here