The Progeny of the Daughters of Dakṣa
Text 1
श्रीशुक उवाच
तत: प्राचेतसोऽसिक्न्यामनुनीत: स्वयम्भुवा ।
षष्टिं सञ्जनयामास दुहितृ: पितृवत्सला: ॥ १ ॥
Text 2
दश धर्माय कायादाद्द्विषट्त्रिणव चेन्दवे ।
भूताङ्गिर:कृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापरा: ॥ २ ॥
Text 3
नामधेयान्यमूषां त्वं सापत्यानां च मे शृणु ।
यासां प्रसूतिप्रसवैर्लोका आपूरितास्त्रय: ॥ ३ ॥
Text 4
भानुर्लम्बा ककुद्यामिर्विश्वा साध्या मरुत्वती ।
वसुर्मुहूर्ता सङ्कल्पा धर्मपत्न्य: सुताञ्शृणु ॥ ४ ॥
Text 5
भानोस्तु देवऋषभ इन्द्रसेनस्ततो नृप ।
विद्योत आसील्लम्बायास्ततश्च स्तनयित्नव: ॥ ५ ॥
Text 6
ककुद: सङ्कटस्तस्य कीकटस्तनयो यत: ।
भुवो दुर्गाणि यामेय: स्वर्गो नन्दिस्ततोऽभवत् ॥ ६ ॥
Text 7
विश्वेदेवास्तु विश्वाया अप्रजांस्तान् प्रचक्षते ।
साध्योगणश्च साध्याया अर्थसिद्धिस्तु तत्सुत: ॥ ७ ॥
Text 8
मरुत्वांश्च जयन्तश्च मरुत्वत्या बभूवतु: ।
जयन्तो वासुदेवांश उपेन्द्र इति यं विदु: ॥ ८ ॥
Text 9
मौहूर्तिका देवगणा मुहूर्तायाश्च जज्ञिरे ।
ये वै फलं प्रयच्छन्ति भूतानां स्वस्वकालजम् ॥ ९ ॥
Texts 10-11
सङ्कल्पायास्तु सङ्कल्प: काम: सङ्कल्पज: स्मृत: ।
वसवोऽष्टौ वसो: पुत्रास्तेषां नामानि मे शृणु ॥ १० ॥
द्रोण: प्राणो ध्रुवोऽर्कोऽग्निर्दोषो वास्तुर्विभावसु: ।
द्रोणस्याभिमते: पत्न्या हर्षशोकभयादय: ॥ ११ ॥
Text 12
प्राणस्योर्जस्वती भार्या सह आयु: पुरोजव: ।
ध्रुवस्य भार्या धरणिरसूत विविधा: पुर: ॥ १२ ॥
Text 13
अर्कस्य वासना भार्या पुत्रास्तर्षादय: स्मृता: ।
अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादय: ॥ १३ ॥
Text 14
स्कन्दश्च कृत्तिकापुत्रो ये विशाखादयस्तत: ।
दोषस्य शर्वरीपुत्र: शिशुमारो हरे: कला ॥ १४ ॥
Text 15
वास्तोराङ्गिरसीपुत्रो विश्वकर्माकृतीपति: ।
ततो मनुश्चाक्षुषोऽभूद् विश्वे साध्या मनो: सुता: ॥ १५ ॥
Text 16
विभावसोरसूतोषा व्युष्टं रोचिषमातपम् ।
पञ्चयामोऽथ भूतानि येन जाग्रति कर्मसु ॥ १६ ॥
Texts 17-18
सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिश: ।
रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपि: ॥ १७ ॥
अजैकपादहिर्ब्रध्नो बहुरूपो महानिति ।
रुद्रस्य पार्षदाश्चान्ये घोरा: प्रेतविनायका: ॥ १८ ॥
Text 19
प्रजापतेरङ्गिरस: स्वधा पत्नी पितृनथ ।
अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत् सती ॥ १९ ॥
Text 20
कृशाश्वोऽर्चिषि भार्यायां धूमकेतुमजीजनत् ।
धिषणायां वेदशिरो देवलं वयुनं मनुम् ॥ २० ॥
Texts 21-22
तार्क्ष्यस्य विनता कद्रू: पतङ्गी यामिनीति च ।
पतङ्गयसूत पतगान्यामिनी शलभानथ ॥ २१ ॥
सुपर्णासूत गरुडं साक्षाद् यज्ञेशवाहनम् ।
सूर्यसूतमनूरुं च कद्रूर्नागाननेकश: ॥ २२ ॥
Text 23
कृत्तिकादीनि नक्षत्राणीन्दो: पत्न्यस्तु भारत ।
दक्षशापात् सोऽनपत्यस्तासु यक्ष्मग्रहार्दित: ॥ २३ ॥
Texts 24-26
पुन: प्रसाद्य तं सोम: कला लेभे क्षये दिता: ।
शृणु नामानि लोकानां मातृणां शङ्कराणि च ॥ २४ ॥
अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत् ।
अदितिर्दितिर्दनु: काष्ठा अरिष्टा सुरसा इला ॥ २५ ॥
मुनि: क्रोधवशा ताम्रा सुरभि: सरमा तिमि: ।
तिमेर्यादोगणा आसन् श्वापदा: सरमासुता: ॥ २६ ॥
Text 27
सुरभेर्महिषा गावो ये चान्ये द्विशफा नृप ।
ताम्राया: श्येनगृध्राद्या मुनेरप्सरसां गणा: ॥ २७ ॥
Text 28
दन्दशूकादय: सर्पा राजन् क्रोधवशात्मजा: ।
इलाया भूरुहा: सर्वे यातुधानाश्च सौरसा: ॥ २८ ॥
Texts 29-31
अरिष्टायास्तु गन्धर्वा: काष्ठाया द्विशफेतरा: ।
सुता दनोरेकषष्टिस्तेषां प्राधानिकाञ् शृणु ॥ २९ ॥
द्विमूर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसु: ।
अयोमुख: शङ्कुशिरा: स्वर्भानु: कपिलोऽरुण: ॥ ३० ॥
पुलोमा वृषपर्वा च एकचक्रोऽनुतापन: ।
धूम्रकेशो विरूपाक्षो विप्रचित्तिश्च दुर्जय: ॥ ३१ ॥
Text 32
स्वर्भानो: सुप्रभां कन्यामुवाह नमुचि: किल ।
वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली ॥ ३२ ॥
Texts 33-36
वैश्वानरसुता याश्च चतस्रश्चारुदर्शना: ।
उपदानवी हयशिरा पुलोमा कालका तथा ॥ ३३ ॥
उपदानवीं हिरण्याक्ष: क्रतुर्हयशिरां नृप ।
पुलोमां कालकां च द्वे वैश्वानरसुते तु क: ॥ ३४ ॥
उपयेमेऽथ भगवान् कश्यपो ब्रह्मचोदित: ।
पौलोमा: कालकेयाश्च दानवा युद्धशालिन: ॥ ३५ ॥
तयो: षष्टिसहस्राणि यज्ञघ्नांस्ते पितु: पिता ।
जघान स्वर्गतो राजन्नेक इन्द्रप्रियङ्कर: ॥ ३६ ॥
Text 37
विप्रचित्ति: सिंहिकायां शतं चैकमजीजनत् ।
राहुज्येष्ठं केतुशतं ग्रहत्वं य उपागता: ॥ ३७ ॥
Texts 38-39
अथात: श्रूयतां वंशो योऽदितेरनुपूर्वश: ।
यत्र नारायणो देव: स्वांशेनावातरद्विभु: ॥ ३८ ॥
विवस्वानर्यमा पूषा त्वष्टाथ सविता भग: ।
धाता विधाता वरुणो मित्र: शत्रु उरुक्रम: ॥ ३९ ॥
Text 40
विवस्वत: श्राद्धदेवं संज्ञासूयत वै मनुम् ।
मिथुनं च महाभागा यमं देवं यमीं तथा ।
सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि ॥ ४० ॥
Text 41
छाया शनैश्चरं लेभे सावर्णिं च मनुं तत: ।
कन्यां च तपतीं या वै वव्रे संवरणं पतिम् ॥ ४१ ॥
Text 42
अर्यम्णो मातृका पत्नी तयोश्चर्षणय: सुता: ।
यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता ॥ ४२ ॥
Text 43
पूषानपत्य: पिष्टादो भग्नदन्तोऽभवत्पुरा ।
योऽसौ दक्षाय कुपितं जहास विवृतद्विज: ॥ ४३ ॥
Text 44
त्वष्टुर्दैत्यात्मजा भार्या रचना नाम कन्यका ।
सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्यवान् ॥ ४४ ॥
Text 45
तं वव्रिरे सुरगणा स्वस्रीयं द्विषतामपि ।
विमतेन परित्यक्ता गुरुणाङ्गिरसेन यत् ॥ ४५ ॥



