Srimad Bhagavatam | Canto 6 | Chapter 7 | Verses

0
3

Indra Offends His Spiritual Master, Bṛhaspati.

Text 1

श्रीराजोवाच
कस्य हेतो: परित्यक्ता आचार्येणात्मन: सुरा: ।
एतदाचक्ष्व भगवञ्छिष्याणामक्रमं गुरौ ॥ १ ॥

Texts 2-8

श्रीबादरायणिरुवाच
इन्द्रस्त्रिभुवनैश्वर्यमदोल्लङ्घितसत्पथ: ।
मरुद्भ‍िर्वसुभी रुद्रैरादित्यैर्ऋभुभिर्नृप ॥ २ ॥
विश्वेदेवैश्च साध्यैश्च नासत्याभ्यां परिश्रित: ।
सिद्धचारणगन्धर्वैर्मुनिभिर्ब्रह्मवादिभि: ॥ ३ ॥
विद्याधराप्सरोभिश्च किन्नरै: पतगोरगै: ।
निषेव्यमाणो मघवान्स्तूयमानश्च भारत ॥ ४ ॥
उपगीयमानो ललितमास्थानाध्यासनाश्रित: ।
पाण्डुरेणातपत्रेण चन्द्रमण्डलचारुणा ॥ ५ ॥
युक्तश्चान्यै: पारमेष्ठ्यैश्चामरव्यजनादिभि: ।
विराजमान: पौलम्या सहार्धासनया भृशम् ॥ ६ ॥
स यदा परमाचार्यं देवानामात्मनश्च ह ।
नाभ्यनन्दत सम्प्राप्तं प्रत्युत्थानासनादिभि: ॥ ७ ॥
वाचस्पतिं मुनिवरं सुरासुरनमस्कृतम् ।
नोच्चचालासनादिन्द्र: पश्यन्नपि सभागतम् ॥ ८ ॥

Text 9

ततो निर्गत्य सहसा कविराङ्गिरस: प्रभु: ।
आययौ स्वगृहं तूष्णीं विद्वान्श्रीमदविक्रियाम् ॥ ९ ॥

Text 10

तर्ह्येव प्रतिबुध्येन्द्रो गुरुहेलनमात्मन: ।
गर्हयामास सदसि स्वयमात्मानमात्मना ॥ १० ॥

Text 11

अहो बत मयासाधु कृतं वै दभ्रबुद्धिना ।
यन्मयैश्वर्यमत्तेन गुरु: सदसि कात्कृत: ॥ ११ ॥

Text 12

को गृध्येत्पण्डितो लक्ष्मीं त्रिपिष्टपपतेरपि ।
ययाहमासुरं भावं नीतोऽद्य विबुधेश्वर: ॥ १२ ॥

Text 13

य: पारमेष्ठ्यं धिषणमधितिष्ठन्न कञ्चन ।
प्रत्युत्तिष्ठेदिति ब्रूयुर्धर्मं ते न परं विदु: ॥ १३ ॥

Text 14

तेषां कुपथदेष्टृणां पततां तमसि ह्यध: ।
ये श्रद्दध्युर्वचस्ते वै मज्जन्त्यश्मप्लवा इव ॥ १४ ॥

Text 15

अथाहममराचार्यमगाधधिषणं द्विजम् ।
प्रसादयिष्ये निशठ: शीर्ष्णा तच्चरणं स्पृशन् ॥ १५ ॥

Text 16

एवं चिन्तयतस्तस्य मघोनो भगवान् गृहात् ।
बृहस्पतिर्गतोऽद‍ृष्टां गतिमध्यात्ममायया ॥ १६ ॥

Text 17

गुरोर्नाधिगत: संज्ञां परीक्षन् भगवान् स्वराट् ।
ध्यायन् धिया सुरैर्युक्त: शर्म नालभतात्मन: ॥ १७ ॥

Text 18

तच्छ्रुत्वैवासुरा: सर्व आश्रित्यौशनसं मतम् ।
देवान् प्रत्युद्यमं चक्रुर्दुर्मदा आततायिन: ॥ १८ ॥

Text 19

तैर्विसृष्टेषुभिस्तीक्ष्णैर्निर्भिन्नाङ्गोरुबाहव: ।
ब्रह्माणं शरणं जग्मु: सहेन्द्रा नतकन्धरा: ॥ १९ ॥

Text 20

तांस्तथाभ्यर्दितान्वीक्ष्य भगवानात्मभूरज: ।
कृपया परया देव उवाच परिसान्त्वयन् ॥ २० ॥

Text 21

श्रीब्रह्मोवाच
अहो बत सुरश्रेष्ठा ह्यभद्रं व: कृतं महत् ।
ब्रह्मिष्ठं ब्राह्मणं दान्तमैश्वर्यान्नाभ्यनन्दत ॥ २१ ॥

Text 22

तस्यायमनयस्यासीत् परेभ्यो व: पराभव: ।
प्रक्षीणेभ्य: स्ववैरिभ्य: समृद्धानां च यत्सुरा: ॥ २२ ॥

Text 23

मघवन् द्विषत: पश्य प्रक्षीणान् गुर्वतिक्रमात् ।
सम्प्रत्युपचितान् भूय: काव्यमाराध्य भक्तित: ।
आददीरन्निलयनं ममापि भृगुदेवता: ॥ २३ ॥

Text 24

त्रिपिष्टपं किं गणयन्त्यभेद्य-
मन्त्रा भृगूणामनुशिक्षितार्था: ।
न विप्रगोविन्दगवीश्वराणां
भवन्त्यभद्राणि नरेश्वराणाम् ॥ २४ ॥

Text 25

तद्विश्वरूपं भजताशु विप्रं
तपस्विनं त्वाष्ट्रमथात्मवन्तम् ।
सभाजितोऽर्थान् स विधास्यते वो
यदि क्षमिष्यध्वमुतास्य कर्म ॥ २५ ॥

Text 26

श्रीशुक उवाच
त एवमुदिता राजन् ब्रह्मणा विगतज्वरा: ।
ऋषिं त्वाष्ट्रमुपव्रज्य परिष्वज्येदमब्रुवन् ॥ २६ ॥

Text 27

श्रीदेवा ऊचु:
वयं तेऽतिथय: प्राप्ता आश्रमं भद्रमस्तु ते ।
काम: सम्पाद्यतां तात पितृणां समयोचित: ॥ २७ ॥

Text 28

पुत्राणां हि परो धर्म: पितृशुश्रूषणं सताम् ।
अपि पुत्रवतां ब्रह्मन् किमुत ब्रह्मचारिणाम् ॥ २८ ॥

Texts 29-30

आचार्यो ब्रह्मणो मूर्ति: पिता मूर्ति: प्रजापते: ।
भ्राता मरुत्पतेर्मूर्तिर्माता साक्षात् क्षितेस्तनु: ॥ २९ ॥
दयाया भगिनी मूर्तिर्धर्मस्यात्मातिथि: स्वयम् ।
अग्नेरभ्यागतो मूर्ति: सर्वभूतानि चात्मन: ॥ ३० ॥

Text 31

तस्मात् पितृणामार्तानामार्तिं परपराभवम् ।
तपसापनयंस्तात सन्देशं कर्तुमर्हसि ॥ ३१ ॥

Text 32

वृणीमहे त्वोपाध्यायं ब्रह्मिष्ठं ब्राह्मणं गुरुम् ।
यथाञ्जसा विजेष्याम: सपत्नांस्तव तेजसा ॥ ३२ ॥

Text 33

न गर्हयन्ति ह्यर्थेषु यविष्ठाङ्‌घ्य्रभिवादनम् ।
छन्दोभ्योऽन्यत्र न ब्रह्मन् वयो ज्यैष्ठ्यस्य कारणम् ॥ ३३ ॥

Text 34

श्रीऋषिरुवाच
अभ्यर्थित: सुरगणै: पौरहित्ये महातपा: ।
स विश्वरूपस्तानाह प्रसन्न: श्लक्ष्णया गिरा ॥ ३४ ॥

Text 35

श्रीविश्‍वरूप उवाच
विगर्हितं धर्मशीलैर्ब्रह्मवर्चउपव्ययम् ।
कथं नु मद्विधो नाथा लोकेशैरभियाचितम् ।
प्रत्याख्यास्यति तच्छिष्य: स एव स्वार्थ उच्यते ॥ ३५ ॥

Text 36

अकिञ्चनानां हि धनं शिलोञ्छनं
तेनेह निर्वर्तितसाधुसत्क्रिय: ।
कथं विगर्ह्यं नु करोम्यधीश्वरा:
पौरोधसं हृष्यति येन दुर्मति: ॥ ३६ ॥

Text 37

तथापि न प्रतिब्रूयां गुरुभि: प्रार्थितं कियत् ।
भवतां प्रार्थितं सर्वं प्राणैरर्थैश्च साधये ॥ ३७ ॥

Text 38

श्रीबादरायणिरुवाच
तेभ्य एवं प्रतिश्रुत्य विश्वरूपो महातपा: ।
पौरहित्यं वृतश्चक्रे परमेण समाधिना ॥ ३८ ॥

Text 39

सुरद्विषां श्रियं गुप्तामौशनस्यापि विद्यया ।
आच्छिद्यादान्महेन्द्राय वैष्णव्या विद्यया विभु: ॥ ३९ ॥

Text 40

यया गुप्त: सहस्राक्षो जिग्येऽसुरचमूर्विभु: ।
तां प्राह स महेन्द्राय विश्वरूप उदारधी: ॥ ४० ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here