Nārada Muni Cursed by Prajāpati Dakṣa
Text 1
श्रीशुक उवाच
तस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहित: ।
हर्यश्वसंज्ञानयुतं पुत्रानजनयद्विभु: ॥ १ ॥
Text 2
अपृथग्धर्मशीलास्ते सर्वे दाक्षायणा नृप ।
पित्रा प्रोक्ता: प्रजासर्गे प्रतीचीं प्रययुर्दिशम् ॥ २ ॥
Text 3
तत्र नारायणसरस्तीर्थं सिन्धुसमुद्रयो: ।
सङ्गमो यत्र सुमहन्मुनिसिद्धनिषेवितम् ॥ ३ ॥
Texts 4-5
तदुपस्पर्शनादेव विनिर्धूतमलाशया: ।
धर्मे पारमहंस्ये च प्रोत्पन्नमतयोऽप्युत ॥ ४ ॥
तेपिरे तप एवोग्रं पित्रादेशेन यन्त्रिता: ।
प्रजाविवृद्धये यत्तान् देवर्षिस्तान् ददर्श ह ॥ ५ ॥
Texts 6-8
उवाच चाथ हर्यश्वा: कथं स्रक्ष्यथ वै प्रजा: ।
अदृष्ट्वान्तं भुवो यूयं बालिशा बत पालका: ॥ ६ ॥
तथैकपुरुषं राष्ट्रं बिलं चादृष्टनिर्गमम् ।
बहुरूपां स्त्रियं चापि पुमांसं पुंश्चलीपतिम् ॥ ७ ॥
नदीमुभयतो वाहां पञ्चपञ्चाद्भुतं गृहम् ।
क्वचिद्धंसं चित्रकथं क्षौरपव्यं स्वयं भ्रमि ॥ ८ ॥
Text 9
कथं स्वपितुरादेशमविद्वांसो विपश्चित: ।
अनुरूपमविज्ञाय अहो सर्गं करिष्यथ ॥ ९ ॥
Text 10
श्रीशुक उवाच
तन्निशम्याथ हर्यश्वा औत्पत्तिकमनीषया ।
वाच: कूटं तु देवर्षे: स्वयं विममृशुर्धिया ॥ १० ॥
Text 11
भू: क्षेत्रं जीवसंज्ञं यदनादि निजबन्धनम् ।
अदृष्ट्वा तस्य निर्वाणं किमसत्कर्मभिर्भवेत् ॥ ११ ॥
Text 12
एक एवेश्वरस्तुर्यो भगवान् स्वाश्रय: पर: ।
तमदृष्ट्वाभवं पुंस: किमसत्कर्मभिर्भवेत् ॥ १२ ॥
Text 13
पुमान्नैवैति यद्गत्वा बिलस्वर्गं गतो यथा ।
प्रत्यग्धामाविद इह किमसत्कर्मभिर्भवेत् ॥ १३ ॥
Text 14
नानारूपात्मनो बुद्धि: स्वैरिणीव गुणान्विता ।
तन्निष्ठामगतस्येह किमसत्कर्मभिर्भवेत् ॥ १४ ॥
Text 15
तत्सङ्गभ्रंशितैश्वर्यं संसरन्तं कुभार्यवत् ।
तद्गतीरबुधस्येह किमसत्कर्मभिर्भवेत् ॥ १५ ॥
Text 16
सृष्ट्यप्ययकरीं मायां वेलाकूलान्तवेगिताम् ।
मत्तस्य तामविज्ञस्य किमसत्कर्मभिर्भवेत् ॥ १६ ॥
Text 17
पञ्चविंशतितत्त्वानां पुरुषोऽद्भुतदर्पण: ।
अध्यात्ममबुधस्येह किमसत्कर्मभिर्भवेत् ॥ १७ ॥
Text 18
ऐश्वरं शास्त्रमुत्सृज्य बन्धमोक्षानुदर्शनम् ।
विविक्तपदमज्ञाय किमसत्कर्मभिर्भवेत् ॥ १८ ॥
Text 19
कालचक्रं भ्रमि तीक्ष्णं सर्वं निष्कर्षयज्जगत् ।
स्वतन्त्रमबुधस्येह किमसत्कर्मभिर्भवेत् ॥ १९ ॥
Text 20
शास्त्रस्य पितुरादेशं यो न वेद निवर्तकम् ।
कथं तदनुरूपाय गुणविस्रम्भ्युपक्रमेत् ॥ २० ॥
Text 21
इति व्यवसिता राजन् हर्यश्वा एकचेतस: ।
प्रययुस्तं परिक्रम्य पन्थानमनिवर्तनम् ॥ २१ ॥
Text 22
स्वरब्रह्मणि निर्भातहृषीकेशपदाम्बुजे ।
अखण्डं चित्तमावेश्य लोकाननुचरन्मुनि: ॥ २२ ॥
Text 23
नाशं निशम्य पुत्राणां नारदाच्छीलशालिनाम् ।
अन्वतप्यत क: शोचन् सुप्रजस्त्वं शुचां पदम् ॥ २३ ॥
Text 24
स भूय: पाञ्चजन्यायामजेन परिसान्त्वित: ।
पुत्रानजनयद्दक्ष: सवलाश्वान्सहस्रिण: ॥ २४ ॥
Text 25
ते च पित्रा समादिष्टा: प्रजासर्गे धृतव्रता: ।
नारायणसरो जग्मुर्यत्र सिद्धा: स्वपूर्वजा: ॥ २५ ॥
Text 26
तदुपस्पर्शनादेव विनिर्धूतमलाशया: ।
जपन्तो ब्रह्म परमं तेपुस्तत्र महत्तप: ॥ २६ ॥
Texts 27-28
अब्भक्षा: कतिचिन्मासान् कतिचिद्वायुभोजना: ।
आराधयन् मन्त्रमिममभ्यस्यन्त इडस्पतिम् ॥ २७ ॥
ॐ नमो नारायणाय पुरुषाय महात्मने ।
विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि ॥ २८ ॥
Text 29
इति तानपि राजेन्द्र प्रजासर्गधियो मुनि: ।
उपेत्य नारद: प्राह वाच: कूटानि पूर्ववत् ॥ २९ ॥
Text 30
दाक्षायणा: संशृणुत गदतो निगमं मम ।
अन्विच्छतानुपदवीं भ्रातृणां भ्रातृवत्सला: ॥ ३० ॥
Text 31
भ्रातृणां प्रायणं भ्राता योऽनुतिष्ठति धर्मवित् ।
स पुण्यबन्धु: पुरुषो मरुद्भि: सह मोदते ॥ ३१ ॥
Text 32
एतावदुक्त्वा प्रययौ नारदोऽमोघदर्शन: ।
तेऽपि चान्वगमन् मार्गं भ्रातृणामेव मारिष ॥ ३२ ॥
Text 33
सध्रीचीनं प्रतीचीनं परस्यानुपथं गता: ।
नाद्यापि ते निवर्तन्ते पश्चिमा यामिनीरिव ॥ ३३ ॥
Text 34
एतस्मिन् काल उत्पातान् बहून् पश्यन् प्रजापति: ।
पूर्ववन्नारदकृतं पुत्रनाशमुपाशृणोत् ॥ ३४ ॥
Text 35
चुक्रोध नारदायासौ पुत्रशोकविमूर्च्छित: ।
देवर्षिमुपलभ्याह रोषाद्विस्फुरिताधर: ॥ ३५ ॥
Text 36
श्रीदक्ष उवाच
अहो असाधो साधूनां साधुलिङ्गेन नस्त्वया ।
असाध्वकार्यर्भकाणां भिक्षोर्मार्ग: प्रदर्शित: ॥ ३६ ॥
Text 37
ऋणैस्त्रिभिरमुक्तानाममीमांसितकर्मणाम् ।
विघात: श्रेयस: पाप लोकयोरुभयो: कृत: ॥ ३७ ॥
Text 38
एवं त्वं निरनुक्रोशो बालानां मतिभिद्धरे: ।
पार्षदमध्ये चरसि यशोहा निरपत्रप: ॥ ३८ ॥
Text 39
ननु भागवता नित्यं भूतानुग्रहकातरा: ।
ऋते त्वां सौहृदघ्नं वै वैरङ्करमवैरिणाम् ॥ ३९ ॥
Text 40
नेत्थं पुंसां विराग: स्यात् त्वया केवलिना मृषा ।
मन्यसे यद्युपशमं स्नेहपाशनिकृन्तनम् ॥ ४० ॥
Text 41
नानुभूय न जानाति पुमान् विषयतीक्ष्णताम् ।
निर्विद्यते स्वयं तस्मान्न तथा भिन्नधी: परै: ॥ ४१ ॥
Text 42
यन्नस्त्वं कर्मसन्धानां साधूनां गृहमेधिनाम् ।
कृतवानसि दुर्मर्षं विप्रियं तव मर्षितम् ॥ ४२ ॥
Text 43
तन्तुकृन्तन यन्नस्त्वमभद्रमचर: पुन: ।
तस्माल्लोकेषु ते मूढ न भवेद्भ्रमत: पदम् ॥ ४३ ॥
Text 44
श्रीशुक उवाच
प्रतिजग्राह तद्बाढं नारद: साधुसम्मत: ।
एतावान्साधुवादो हि तितिक्षेतेश्वर: स्वयम् ॥ ४४ ॥



