The Haṁsa-guhya Prayers Offered to the Lord by Prajāpati Dakṣa
Texts 1-2
श्रीराजोवाच
देवासुरनृणां सर्गो नागानां मृगपक्षिणाम् ।
सामासिकस्त्वया प्रोक्तो यस्तु स्वायम्भुवेऽन्तरे ॥ १ ॥
तस्यैव व्यासमिच्छामि ज्ञातुं ते भगवन् यथा ।
अनुसर्गं यया शक्त्या ससर्ज भगवान् पर: ॥ २ ॥
Text 3
श्रीसूत उवाच
इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणि: ।
प्रतिनन्द्य महायोगी जगाद मुनिसत्तमा: ॥ ३ ॥
Text 4
श्रीशुक उवाच
यदा प्रचेतस: पुत्रा दश प्राचीनबर्हिष: ।
अन्त:समुद्रादुन्मग्ना ददृशुर्गां द्रुमैर्वृताम् ॥ ४ ॥
Text 5
द्रुमेभ्य: क्रुध्यमानास्ते तपोदीपितमन्यव: ।
मुखतो वायुमग्निं च ससृजुस्तद्दिधक्षया ॥ ५ ॥
Text 6
ताभ्यां निर्दह्यमानांस्तानुपलभ्य कुरूद्वह ।
राजोवाच महान् सोमो मन्युं प्रशमयन्निव ॥ ६ ॥
Text 7
न द्रुमेभ्यो महाभागा दीनेभ्यो द्रोग्धुमर्हथ ।
विवर्धयिषवो यूयं प्रजानां पतय: स्मृता: ॥ ७ ॥
Text 8
अहो प्रजापतिपतिर्भगवान् हरिरव्यय: ।
वनस्पतीनोषधीश्च ससर्जोर्जमिषं विभु: ॥ ८ ॥
Text 9
अन्नं चराणामचरा ह्यपद: पादचारिणाम् ।
अहस्ता हस्तयुक्तानां द्विपदां च चतुष्पद: ॥ ९ ॥
Text 10
यूयं च पित्रान्वादिष्टा देवदेवेन चानघा: ।
प्रजासर्गाय हि कथं वृक्षान्निर्दग्धुमर्हथ ॥ १० ॥
Text 11
आतिष्ठत सतां मार्गं कोपं यच्छत दीपितम् ।
पित्रा पितामहेनापि जुष्टं व: प्रपितामहै: ॥ ११ ॥
Text 12
तोकानां पितरौ बन्धू दृश: पक्ष्म स्त्रिया: पति: ।
पति: प्रजानां भिक्षूणां गृह्यज्ञानां बुध: सुहृत् ॥ १२ ॥
Text 13
अन्तर्देहेषु भूतानामात्मास्ते हरिरीश्वर: ।
सर्वं तद्धिष्ण्यमीक्षध्वमेवं वस्तोषितो ह्यसौ ॥ १३ ॥
Text 14
य: समुत्पतितं देह आकाशान्मन्युमुल्बणम् ।
आत्मजिज्ञासया यच्छेत्स गुणानतिवर्तते ॥ १४ ॥
Text 15
अलं दग्धैर्द्रुमैर्दीनै: खिलानां शिवमस्तु व: ।
वार्क्षी ह्येषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम् ॥ १५ ॥
Text 16
इत्यामन्त्र्य वरारोहां कन्यामाप्सरसीं नृप ।
सोमो राजा ययौ दत्त्वा ते धर्मेणोपयेमिरे ॥ १६ ॥
Text 17
तेभ्यस्तस्यां समभवद् दक्ष: प्राचेतस: किल ।
यस्य प्रजाविसर्गेण लोका आपूरितास्त्रय: ॥ १७ ॥
Text 18
यथा ससर्ज भूतानि दक्षो दुहितृवत्सल: ।
रेतसा मनसा चैव तन्ममावहित: शृणु ॥ १८ ॥
Text 19
मनसैवासृजत्पूर्वं प्रजापतिरिमा: प्रजा: ।
देवासुरमनुष्यादीन्नभ:स्थलजलौकस: ॥ १९ ॥
Text 20
तमबृंहितमालोक्य प्रजासर्गं प्रजापति: ।
विन्ध्यपादानुपव्रज्य सोऽचरद्दुष्करं तप: ॥ २० ॥
Text 21
तत्राघमर्षणं नाम तीर्थं पापहरं परम् ।
उपस्पृश्यानुसवनं तपसातोषयद्धरिम् ॥ २१ ॥
Text 22
अस्तौषीद्धंसगुह्येन भगवन्तमधोक्षजम् ।
तुभ्यं तदभिधास्यामि कस्यातुष्यद्यथा हरि: ॥ २२ ॥
Text 23
श्रीप्रजापतिरुवाच
नम: परायावितथानुभूतये
गुणत्रयाभासनिमित्तबन्धवे ।
अदृष्टधाम्ने गुणतत्त्वबुद्धिभि-
र्निवृत्तमानाय दधे स्वयम्भुवे ॥ २३ ॥
Text 24
न यस्य सख्यं पुरुषोऽवैति सख्यु:
सखा वसन् संवसत: पुरेऽस्मिन् ।
गुणो यथा गुणिनो व्यक्तदृष्टे-
स्तस्मै महेशाय नमस्करोमि ॥ २४ ॥
Text 25
देहोऽसवोऽक्षा मनवो भूतमात्रा-
मात्मानमन्यं च विदु: परं यत् ।
सर्वं पुमान् वेद गुणांश्च तज्ज्ञो
न वेद सर्वज्ञमनन्तमीडे ॥ २५ ॥
Text 26
यदोपरामो मनसो नामरूप-
रूपस्य दृष्टस्मृतिसम्प्रमोषात् ।
य ईयते केवलया स्वसंस्थया
हंसाय तस्मै शुचिसद्मने नम: ॥ २६ ॥
Texts 27-28
मनीषिणोऽन्तर्हृदि सन्निवेशितं
स्वशक्तिभिर्नवभिश्च त्रिवृद्भि: ।
वह्निं यथा दारुणि पाञ्चदश्यं
मनीषया निष्कर्षन्ति गूढम् ॥ २७ ॥
स वै ममाशेषविशेषमाया
निषेधनिर्वाणसुखानुभूति: ।
स सर्वनामा स च विश्वरूप:
प्रसीदतामनिरुक्तात्मशक्ति: ॥ २८ ॥
Text 29
यद्यन्निरुक्तं वचसा निरूपितं
धियाक्षभिर्वा मनसोत यस्य ।
मा भूत्स्वरूपं गुणरूपं हि तत्तत्
स वै गुणापायविसर्गलक्षण: ॥ २९ ॥
Text 30
यस्मिन्यतो येन च यस्य यस्मै
यद्यो यथा कुरुते कार्यते च ।
परावरेषां परमं प्राक् प्रसिद्धं
तद् ब्रह्म तद्धेतुरनन्यदेकम् ॥ ३० ॥
Text 31
यच्छक्तयो वदतां वादिनां वै
विवादसंवादभुवो भवन्ति ।
कुर्वन्ति चैषां मुहुरात्ममोहं
तस्मै नमोऽनन्तगुणाय भूम्ने ॥ ३१ ॥
Text 32
अस्तीति नास्तीति च वस्तुनिष्ठयो-
रेकस्थयोर्भिन्नविरुद्धधर्मणो: ।
अवेक्षितं किञ्चन योगसाङ्ख्ययो:
समं परं ह्यनुकूलं बृहत्तत् ॥ ३२ ॥
Text 33
योऽनुग्रहार्थं भजतां पादमूल-
मनामरूपो भगवाननन्त: ।
नामानि रूपाणि च जन्मकर्मभि-
र्भेजे स मह्यं परम: प्रसीदतु ॥ ३३ ॥
Text 34
य: प्राकृतैर्ज्ञानपथैर्जनानां
यथाशयं देहगतो विभाति ।
यथानिल: पार्थिवमाश्रितो गुणं
स ईश्वरो मे कुरुतां मनोरथम् ॥ ३४ ॥
Texts 35-39
श्रीशुक उवाच
इति स्तुत: संस्तुवत: स तस्मिन्नघमर्षणे ।
प्रादुरासीत्कुरुश्रेष्ठ भगवान् भक्तवत्सल: ॥ ३५ ॥
कृतपाद: सुपर्णांसे प्रलम्बाष्टमहाभुज: ।
चक्रशङ्खासिचर्मेषुधनु:पाशगदाधर: ॥ ३६ ॥
पीतवासा घनश्याम: प्रसन्नवदनेक्षण: ।
वनमालानिवीताङ्गो लसच्छ्रीवत्सकौस्तुभ: ॥ ३७ ॥
महाकिरीटकटक: स्फुरन्मकरकुण्डल: ।
काञ्च्यङ्गुलीयवलयनूपुराङ्गदभूषित: ॥ ३८ ॥
त्रैलोक्यमोहनं रूपं बिभ्रत् त्रिभुवनेश्वर: ।
वृतो नारदनन्दाद्यै: पार्षदै: सुरयूथपै: ।
स्तूयमानोऽनुगायद्भि: सिद्धगन्धर्वचारणै: ॥ ३९ ॥
Text 40
रूपं तन्महदाश्चर्यं विचक्ष्यागतसाध्वस: ।
ननाम दण्डवद्भूमौ प्रहृष्टात्मा प्रजापति: ॥ ४० ॥
Text 41
न किञ्चनोदीरयितुमशकत् तीव्रया मुदा ।
आपूरितमनोद्वारैर्ह्रदिन्य इव निर्झरै: ॥ ४१ ॥
Text 42
तं तथावनतं भक्तं प्रजाकामं प्रजापतिम् ।
चित्तज्ञ: सर्वभूतानामिदमाह जनार्दन: ॥ ४२ ॥
Text 43
श्रीभगवानुवाच
प्राचेतस महाभाग संसिद्धस्तपसा भवान् ।
यच्छ्रद्धया मत्परया मयि भावं परं गत: ॥ ४३ ॥
Text 44
प्रीतोऽहं ते प्रजानाथ यत्तेऽस्योद्बृंहणं तप: ।
ममैष कामो भूतानां यद्भूयासुर्विभूतय: ॥ ४४ ॥
Text 45
ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वरा: ।
विभूतयो मम ह्येता भूतानां भूतिहेतव: ॥ ४५ ॥
Text 46
तपो मे हृदयं ब्रह्मंस्तनुर्विद्या क्रियाकृति: ।
अङ्गानि क्रतवो जाता धर्म आत्मासव: सुरा: ॥ ४६ ॥
Text 47
अहमेवासमेवाग्रे नान्यत् किञ्चान्तरं बहि: ।
संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वत: ॥ ४७ ॥
Text 48
मय्यनन्तगुणेऽनन्ते गुणतो गुणविग्रह: ।
यदासीत्तत एवाद्य: स्वयम्भू: समभूदज: ॥ ४८ ॥
Texts 49-50
स वै यदा महादेवो मम वीर्योपबृंहित: ।
मेने खिलमिवात्मानमुद्यत: स्वर्गकर्मणि ॥ ४९ ॥
अथ मेऽभिहितो देवस्तपोऽतप्यत दारुणम् ।
नव विश्वसृजो युष्मान् येनादावसृजद्विभु: ॥ ५० ॥
Text 51
एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापते: ।
असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ॥ ५१ ॥
Text 52
मिथुनव्यवायधर्मस्त्वं प्रजासर्गमिमं पुन: ।
मिथुनव्यवायधर्मिण्यां भूरिशो भावयिष्यसि ॥ ५२ ॥
Text 53
त्वत्तोऽधस्तात्प्रजा: सर्वा मिथुनीभूय मायया ।
मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम् ॥ ५३ ॥
Text 54
श्रीशुक उवाच
इत्युक्त्वा मिषतस्तस्य भगवान् विश्वभावन: ।
स्वप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरि: ॥ ५४ ॥



