Srimad Bhagavatam | Canto 9 | Chapter 6 | Verses

0
14

The Downfall of Saubhari Muni

Text 1

श्रीशुक उवाच
विरूप: केतुमाञ्छम्भुरम्बरीषसुतास्त्रय: ।
विरूपात् पृषदश्वोऽभूत्तत् पुत्रस्तु रथीतर: ॥ १ ॥

Text 2

रथीतरस्याप्रजस्य भार्यायां तन्तवेऽर्थित: ।
अङ्गिरा जनयामास ब्रह्मवर्चस्विन: सुतान् ॥ २ ॥

Text 3

एते क्षेत्रप्रसूता वै पुनस्त्वाङ्गिरसा: स्मृता: ।
रथीतराणां प्रवरा: क्षेत्रोपेता द्विजातय: ॥ ३ ॥

Text 4

क्षुवतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणत: सुत: ।
तस्य पुत्रशतज्येष्ठा विकुक्षिनिमिदण्डका: ॥ ४ ॥

Text 5

तेषां पुरस्तादभवन्नार्यावर्ते नृपा नृप ।
पञ्चविंशति: पश्चाच्च त्रयो मध्येऽपरेऽन्यत: ॥ ५ ॥

Text 6

स एकदाष्टकाश्राद्धे इक्ष्वाकु: सुतमादिशत् ।
मांसमानीयतां मेध्यं विकुक्षे गच्छ मा चिरम् ॥ ६ ॥

Text 7

तथेति स वनं गत्वा मृगान् हत्वा क्रियार्हणान् ।
श्रान्तो बुभुक्षितो वीर: शशं चाददपस्मृति: ॥ ७ ॥

Text 8

शेषं निवेदयामास पित्रे तेन च तद्गुरु: ।
चोदित: प्रोक्षणायाह दुष्टमेतदकर्मकम् ॥ ८ ॥

Text 9

ज्ञात्वा पुत्रस्य तत् कर्म गुरुणाभिहितं नृप: ।
देशान्नि:सारयामास सुतं त्यक्तविधिं रुषा ॥ ९ ॥

Text 10

स तु विप्रेण संवादं ज्ञापकेन समाचरन् ।
त्यक्त्वा कलेवरं योगी स तेनावाप यत् परम् ॥ १० ॥

Text 11

पितर्युपरतेऽभ्येत्य विकुक्षि: पृथिवीमिमाम् ।
शासदीजे हरिं यज्ञै: शशाद इति विश्रुत: ॥ ११ ॥

Text 12

पुरञ्जयस्तस्य सुत इन्द्रवाह इतीरित: ।
ककुत्स्थ इति चाप्युक्त: श‍ृणु नामानि कर्मभि: ॥ १२ ॥

Text 13

कृतान्त आसीत् समरो देवानां सह दानवै: ।
पार्ष्णिग्राहो वृतो वीरो देवैर्दैत्यपराजितै: ॥ १३ ॥

Text 14

वचनाद् देवदेवस्य विष्णोर्विश्वात्मन: प्रभो: ।
वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृष: ॥ १४ ॥

Texts 15-16

स सन्नद्धो धनुर्दिव्यमादाय विशिखाञ्छितान् ।
स्तूयमानस्तमारुह्य युयुत्सु: ककुदि स्थित: ॥ १५ ॥
तेजसाप्यायितो विष्णो: पुरुषस्य महात्मन: ।
प्रतीच्यां दिशि दैत्यानां न्यरुणत् त्रिदशै: पुरम् ॥ १६ ॥

Text 17

तैस्तस्य चाभूत्प्रधनं तुमुलं लोमहर्षणम् ।
यमाय भल्लैरनयद् दैत्यान् अभिययुर्मृधे ॥ १७ ॥

Text 18

तस्येषुपाताभिमुखं युगान्ताग्निमिवोल्बणम् ।
विसृज्य दुद्रुवुर्दैत्या हन्यमाना: स्वमालयम् ॥ १८ ॥

Text 19

जित्वा पुरं धनं सर्वं सश्रीकं वज्रपाणये ।
प्रत्ययच्छत् स राजर्षिरिति नामभिराहृत: ॥ १९ ॥

Text 20

पुरञ्जयस्य पुत्रोऽभूदनेनास्तत्सुत: पृथु: ।
विश्वगन्धिस्ततश्चन्द्रो युवनाश्वस्तु तत्सुत: ॥ २० ॥

Text 21

श्रावस्तस्तत्सुतो येन श्रावस्ती निर्ममे पुरी ।
बृहदश्वस्तु श्रावस्तिस्तत: कुवलयाश्वक: ॥ २१ ॥

Text 22

य: प्रियार्थमुतङ्कस्य धुन्धुनामासुरं बली ।
सुतानामेकविंशत्या सहस्रैरहनद् वृत: ॥ २२ ॥

Texts 23-24

धुन्धुमार इति ख्यातस्तत्सुतास्ते च जज्वलु: ।
धुन्धोर्मुखाग्निना सर्वे त्रय एवावशेषिता: ॥ २३ ॥
द‍ृढाश्व: कपिलाश्वश्च भद्राश्व इति भारत ।
द‍ृढाश्वपुत्रो हर्यश्वो निकुम्भस्तत्सुत: स्मृत: ॥ २४ ॥

Text 25

बहुलाश्वो निकुम्भस्य कृशाश्वोऽथास्य सेनजित् ।
युवनाश्वोऽभवत् तस्य सोऽनपत्यो वनं गत: ॥ २५ ॥

Text 26

भार्याशतेन निर्विण्ण ऋषयोऽस्य कृपालव: ।
इष्टिं स्म वर्तयांचक्रुरैन्द्रीं ते सुसमाहिता: ॥ २६ ॥

Text 27

राजा तद् यज्ञसदनं प्रविष्टो निशि तर्षित: ।
द‍ृष्ट्वा शयानान् विप्रांस्तान् पपौ मन्त्रजलं स्वयम् ॥ २७ ॥

Text 28

उत्थितास्ते निशम्याथ व्युदकं कलशं प्रभो ।
पप्रच्छु: कस्य कर्मेदं पीतं पुंसवनं जलम् ॥ २८ ॥

Text 29

राज्ञा पीतं विदित्वा वै ईश्वरप्रहितेन ते ।
ईश्वराय नमश्चक्रुरहो दैवबलं बलम् ॥ २९ ॥

Text 30

तत: काल उपावृत्ते कुक्षिं निर्भिद्य दक्षिणम् ।
युवनाश्वस्य तनयश्चक्रवर्ती जजान ह ॥ ३० ॥

Text 31

कं धास्यति कुमारोऽयं स्तन्ये रोरूयते भृशम् ।
मां धाता वत्स मा रोदीरितीन्द्रो देशिनीमदात् ॥ ३१ ॥

Text 32

न ममार पिता तस्य विप्रदेवप्रसादत: ।
युवनाश्वोऽथ तत्रैव तपसा सिद्धिमन्वगात् ॥ ३२ ॥

Texts 33-34

त्रसद्दस्युरितीन्द्रोऽङ्ग विदधे नाम यस्य वै ।
यस्मात् त्रसन्ति ह्युद्विग्ना दस्यवो रावणादय: ॥ ३३ ॥
यौवनाश्वोऽथ मान्धाता चक्रवर्त्यवनीं प्रभु: ।
सप्तद्वीपवतीमेक: शशासाच्युततेजसा ॥ ३४ ॥

Texts 35-36

ईजे च यज्ञं क्रतुभिरात्मविद् भूरिदक्षिणै: ।
सर्वदेवमयं देवं सर्वात्मकमतीन्द्रियम् ॥ ३५ ॥
द्रव्यं मन्त्रो विधिर्यज्ञो यजमानस्तथर्त्विज: ।
धर्मो देशश्च कालश्च सर्वमेतद् यदात्मकम् ॥ ३६ ॥

Text 37

यावत् सूर्य उदेति स्म यावच्च प्रतितिष्ठति ।
तत् सर्वं यौवनाश्वस्य मान्धातु: क्षेत्रमुच्यते ॥ ३७ ॥

Text 38

शशबिन्दोर्दुहितरि बिन्दुमत्यामधान्नृप: ।
पुरुकुत्समम्बरीषं मुचुकुन्दं च योगिनम् ।
तेषां स्वसार: पञ्चाशत् सौभरिं वव्रिरे पतिम् ॥ ३८ ॥

Texts 39-40

यमुनान्तर्जले मग्नस्तप्यमान: परन्तप: ।
निर्वृतिं मीनराजस्य द‍ृष्ट्वा मैथुनधर्मिण: ॥ ३९ ॥
जातस्पृहो नृपं विप्र: कन्यामेकामयाचत ।
सोऽप्याह गृह्यतां ब्रह्मन् कामं कन्या स्वयंवरे ॥ ४० ॥

Texts 41-42

स विचिन्त्याप्रियं स्त्रीणां जरठोऽहमसन्मत: ।
वलीपलित एजत्क इत्यहं प्रत्युदाहृत: ॥ ४१ ॥
साधयिष्ये तथात्मानं सुरस्त्रीणामभीप्सितम् ।
किं पुनर्मनुजेन्द्राणामिति व्यवसित: प्रभु: ॥ ४२ ॥

Text 43

मुनि: प्रवेशित: क्षत्रा कन्यान्त:पुरमृद्धिमत् ।
वृत: स राजकन्याभिरेकं पञ्चाशता वर: ॥ ४३ ॥

Text 44

तासां कलिरभूद् भूयांस्तदर्थेऽपोह्य सौहृदम् ।
ममानुरूपो नायं व इति तद्गतचेतसाम् ॥ ४४ ॥

Texts 45-46

स बह्वऋचस्ताभिरपारणीय-
तप:श्रियानर्घ्यपरिच्छदेषु ।
गृहेषु नानोपवनामलाम्भ:-
सरस्सु सौगन्धिककाननेषु ॥ ४५ ॥
महार्हशय्यासनवस्त्रभूषण-
स्‍नानानुलेपाभ्यवहारमाल्यकै: ।
स्वलङ्‍कृत स्त्रीपुरुषेषु नित्यदा
रेमेऽनुगायद्द्विजभृङ्गवन्दिषु ॥ ४६ ॥

Text 47

यद्गार्हस्थ्यं तु संवीक्ष्य सप्तद्वीपवतीपति: ।
विस्मित: स्तम्भमजहात् सार्वभौमश्रियान्वितम् ॥ ४७ ॥

Text 48

एवं गृहेष्वभिरतो विषयान् विविधै: सुखै: ।
सेवमानो न चातुष्यदाज्यस्तोकैरिवानल: ॥ ४८ ॥

Text 49

स कदाचिदुपासीन आत्मापह्नवमात्मन: ।
ददर्श बह्वृचाचार्यो मीनसङ्गसमुत्थितम् ॥ ४९ ॥

Text 50

अहो इमं पश्यत मे विनाशं
तपस्विन: सच्चरितव्रतस्य ।
अन्तर्जले वारिचरप्रसङ्गात्
प्रच्यावितं ब्रह्म चिरं धृतं यत् ॥ ५० ॥

Text 51

सङ्गं त्यजेत मिथुनव्रतीनां मुमुक्षु:
सर्वात्मना न विसृजेद् बहिरिन्द्रियाणि ।
एकश्चरन् रहसि चित्तमनन्त ईशे
युञ्जीत तद्‍व्रतिषु साधुषु चेत् प्रसङ्ग: ॥ ५१ ॥

Text 52

एकस्तपस्व्यहमथाम्भसि मत्स्यसङ्गात्
पञ्चाशदासमुत पञ्चसहस्रसर्ग: ।
नान्तं व्रजाम्युभयकृत्यमनोरथानां
मायागुणैर्हृतमतिर्विषयेऽर्थभाव: ॥ ५२ ॥

Text 53

एवं वसन् गृहे कालं विरक्तो न्यासमास्थित: ।
वनं जगामानुययुस्तत्पत्‍न्य: पतिदेवता: ॥ ५३ ॥

Text 54

तत्र तप्‍त्वा तपस्तीक्ष्णमात्मदर्शनमात्मवान् ।
सहैवाग्निभिरात्मानं युयोज परमात्मनि ॥ ५४ ॥

Text 55

ता: स्वपत्युर्महाराज निरीक्ष्याध्यात्मिकीं गतिम् ।
अन्वीयुस्तत्प्रभावेण अग्निं शान्तमिवार्चिष: ॥ ५५ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here