Lord Rāmacandra Rules the World
Text 1
श्रीशुक उवाच
भगवानात्मनात्मानं राम उत्तमकल्पकै: ।
सर्वदेवमयं देवमीजेऽथाचार्यवान् मखै: ॥ १ ॥
Text 2
होत्रेऽददाद् दिशं प्राचीं ब्रह्मणे दक्षिणां प्रभु: ।
अध्वर्यवे प्रतीचीं वा उत्तरां सामगाय स: ॥ २ ॥
Text 3
आचार्याय ददौ शेषां यावती भूस्तदन्तरा ।
मन्यमान इदं कृत्स्नं ब्राह्मणोऽर्हति नि:स्पृह: ॥ ३ ॥
Text 4
इत्ययं तदलङ्कारवासोभ्यामवशेषित: ।
तथा राज्ञ्यपि वैदेही सौमङ्गल्यावशेषिता ॥ ४ ॥
Text 5
ते तु ब्राह्मणदेवस्य वात्सल्यं वीक्ष्य संस्तुतम् ।
प्रीता: क्लिन्नधियस्तस्मै प्रत्यर्प्येदं बभाषिरे ॥ ५ ॥
Text 6
अप्रत्तं नस्त्वया किं नु भगवन् भुवनेश्वर ।
यन्नोऽन्तर्हृदयं विश्य तमो हंसि स्वरोचिषा ॥ ६ ॥
Text 7
नमो ब्रह्मण्यदेवाय रामायाकुण्ठमेधसे ।
उत्तमश्लोकधुर्याय न्यस्तदण्डार्पिताङ्घ्रये ॥ ७ ॥
Text 8
कदाचिल्लोकजिज्ञासुर्गूढो रात्र्यामलक्षित: ।
चरन्वाचोऽशृणोद् रामो भार्यामुद्दिश्य कस्यचित् ॥ ८ ॥
Text 9
नाहं बिभर्मि त्वां दुष्टामसतीं परवेश्मगाम् ।
स्त्रैणो हि बिभृयात् सीतां रामो नाहं भजे पुन: ॥ ९ ॥
Text 10
इति लोकाद् बहुमुखाद् दुराराध्यादसंविद: ।
पत्या भीतेन सा त्यक्ता प्राप्ता प्राचेतसाश्रमम् ॥ १० ॥
Text 11
अन्तर्वत्न्यागते काले यमौ सा सुषुवे सुतौ ।
कुशो लव इति ख्यातौ तयोश्चक्रे क्रिया मुनि: ॥ ११ ॥
Text 12
अङ्गदश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृतौ ।
तक्ष: पुष्कल इत्यास्तां भरतस्य महीपते ॥ १२ ॥
Texts 13-14
सुबाहु: श्रुतसेनश्च शत्रुघ्नस्य बभूवतु: ।
गन्धर्वान् कोटिशो जघ्ने भरतो विजये दिशाम् ॥ १३ ॥
तदीयं धनमानीय सर्वं राज्ञे न्यवेदयत् ।
शत्रुघ्नश्च मधो: पुत्रं लवणं नाम राक्षसम् ।
हत्वा मधुवने चक्रे मथुरां नाम वै पुरीम् ॥ १४ ॥
Text 15
मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता ।
ध्यायन्ती रामचरणौ विवरं प्रविवेश ह ॥ १५ ॥
Text 16
तच्छ्रुत्वा भगवान् रामो रुन्धन्नपि धिया शुच: ।
स्मरंस्तस्या गुणांस्तांस्तान्नाशक्नोद् रोद्धुमीश्वर: ॥ १६ ॥
Text 17
स्त्रीपुंप्रसङ्ग एतादृक्सर्वत्र त्रासमावह: ।
अपीश्वराणां किमुत ग्राम्यस्य गृहचेतस: ॥ १७ ॥
Text 18
तत ऊर्ध्वं ब्रह्मचर्यं धार्यन्नजुहोत् प्रभु: ।
त्रयोदशाब्दसाहस्रमग्निहोत्रमखण्डितम् ॥ १८ ॥
Text 19
स्मरतां हृदि विन्यस्य विद्धं दण्डककण्टकै: ।
स्वपादपल्लवं राम आत्मज्योतिरगात् तत: ॥ १९ ॥
Text 20
नेदं यशो रघुपते: सुरयाच्ञयात्त-
लीलातनोरधिकसाम्यविमुक्तधाम्न: ।
रक्षोवधो जलधिबन्धनमस्त्रपूगै:
किं तस्य शत्रुहनने कपय: सहाया: ॥ २० ॥
Text 21
यस्यामलं नृपसद:सु यशोऽधुनापि
गायन्त्यघघ्नमृषयो दिगिभेन्द्रपट्टम् ।
तं नाकपालवसुपालकिरीटजुष्ट-
पादाम्बुजं रघुपतिं शरणं प्रपद्ये ॥ २१ ॥
Text 22
स यै: स्पृष्टोऽभिदृष्टो वा संविष्टोऽनुगतोऽपि वा ।
कोसलास्ते ययु: स्थानं यत्र गच्छन्ति योगिन: ॥ २२ ॥
Text 23
पुरुषो रामचरितं श्रवणैरुपधारयन् ।
आनृशंस्यपरो राजन् कर्मबन्धैर्विमुच्यते ॥ २३ ॥
Text 24
श्रीराजोवाच
कथं स भगवान् रामो भ्रातृन् वा स्वयमात्मन: ।
तस्मिन् वा तेऽन्ववर्तन्त प्रजा: पौराश्च ईश्वरे ॥ २४ ॥
Text 25
श्रीबादरायणिरुवाच
अथादिशद् दिग्विजये भ्रातृंस्त्रिभुवनेश्वर: ।
आत्मानं दर्शयन् स्वानां पुरीमैक्षत सानुग: ॥ २५ ॥
Text 26
आसिक्तमार्गां गन्धोदै: करिणां मदशीकरै: ।
स्वामिनं प्राप्तमालोक्य मत्तां वा सुतरामिव ॥ २६ ॥
Text 27
प्रासादगोपुरसभाचैत्यदेवगृहादिषु ।
विन्यस्तहेमकलशै: पताकाभिश्च मण्डिताम् ॥ २७ ॥
Text 28
पूगै: सवृन्तै रम्भाभि: पट्टिकाभि: सुवाससाम् ।
आदर्शैरंशुकै: स्रग्भि: कृतकौतुकतोरणाम् ॥ २८ ॥
Text 29
तमुपेयुस्तत्र तत्र पौरा अर्हणपाणय: ।
आशिषो युयुजुर्देव पाहीमां प्राक्त्वयोद्धृताम् ॥ २९ ॥
Text 30
तत: प्रजा वीक्ष्य पतिं चिरागतं
दिदृक्षयोत्सृष्टगृहा: स्त्रियो नरा: ।
आरुह्य हर्म्याण्यरविन्दलोचन-
मतृप्तनेत्रा: कुसुमैरवाकिरन् ॥ ३० ॥
Texts 31-34
अथ प्रविष्ट: स्वगृहं जुष्टं स्वै: पूर्वराजभि: ।
अनन्ताखिलकोषाढ्यमनर्घ्योरुपरिच्छदम् ॥ ३१ ॥
विद्रुमोदुम्बरद्वारैर्वैदूर्यस्तम्भपङ्क्तिभि: ।
स्थलैर्मारकतै: स्वच्छैर्भ्राजत्स्फटिकभित्तिभि: ॥ ३२ ॥
चित्रस्रग्भि: पट्टिकाभिर्वासोमणिगणांशुकै: ।
मुक्ताफलैश्चिदुल्लासै: कान्तकामोपपत्तिभि: ॥ ३३ ॥
धूपदीपै: सुरभिभिर्मण्डितं पुष्पमण्डनै: ।
स्त्रीपुम्भि: सुरसङ्काशैर्जुष्टं भूषणभूषणै: ॥ ३४ ॥
Text 35
तस्मिन्स भगवान् राम: स्निग्धया प्रिययेष्टया ।
रेमे स्वारामधीराणामृषभ: सीतया किल ॥ ३५ ॥
Text 36
बुभुजे च यथाकालं कामान् धर्ममपीडयन् ।
वर्षपूगान् बहून् नृणामभिध्याताङ्घ्रिपल्लव: ॥ ३६ ॥






