Srimad Bhagavatam | Canto 6 | Chapter 19 | Verses

0
2

Performing the Puṁsavana Ritualistic Ceremony

Text 1

श्रीराजोवाच
व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम् ।
तस्य वेदितुमिच्छामि येन विष्णु: प्रसीदति ॥ १ ॥

Texts 2-3

श्रीशुक उवाच
शुक्ले मार्गशिरे पक्षे योषिद्भ‍‌र्तुरनुज्ञया ।
आरभेत व्रतमिदं सार्वकामिकमादित: ॥ २ ॥
निशम्य मरुतां जन्म ब्राह्मणाननुमन्‍त्र्‍य च ।
स्‍नात्वा शुक्लदती शुक्ले वसीतालङ्‌कृताम्बरे ।
पूजयेत्प्रातराशात्प्राग्भगवन्तं श्रिया सह ॥ ३ ॥

Text 4

अलं ते निरपेक्षाय पूर्णकाम नमोऽस्तु ते ।
महाविभूतिपतये नम: सकलसिद्धये ॥ ४ ॥

Text 5

यथा त्वं कृपया भूत्या तेजसा महिमौजसा ।
जुष्ट ईश गुणै: सर्वैस्ततोऽसि भगवान् प्रभु: ॥ ५ ॥

Text 6

विष्णुपत्नि महामाये महापुरुषलक्षणे ।
प्रीयेथा मे महाभागे लोकमातर्नमोऽस्तु ते ॥ ६ ॥

Text 7

ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सह महाविभूतिभिर्बलिमुपहरामीति । अनेनाहरहर्मन्त्रेण विष्णोरावाहनार्घ्यपाद्योपस्पर्शनस्‍नानवासउपवीतविभूषणगन्धपुष्पधूप दीपोपहाराद्युपचारान् सुसमाहितोपाहरेत् ॥ ७ ॥

Text 8

हवि:शेषं च जुहुयादनले द्वादशाहुती: ।
ॐ नमो भगवते महापुरुषाय महाविभूतिपतये स्वाहेति ॥ ८ ॥

Text 9

श्रियं विष्णुं च वरदावाशिषां प्रभवावुभौ ।
भक्त्या सम्पूजयेन्नित्यं यदीच्छेत्सर्वसम्पद: ॥ ९ ॥

Text 10

प्रणमेद्दण्डवद्भ‍ूमौ भक्तिप्रह्वेण चेतसा ।
दशवारं जपेन्मन्त्रं तत: स्तोत्रमुदीरयेत् ॥ १० ॥

Text 11

युवां तु विश्वस्य विभू जगत: कारणं परम् ।
इयं हि प्रकृति: सूक्ष्मा मायाशक्तिर्दुरत्यया ॥ ११ ॥

Text 12

तस्या अधीश्वर: साक्षात्त्वमेव पुरुष: पर: ।
त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग्भवान् ॥ १२ ॥

Text 13

गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग्भवान् ।
त्वं हि सर्वशरीर्यात्मा श्री: शरीरेन्द्रियाशया: ।
नामरूपे भगवती प्रत्ययस्त्वमपाश्रय: ॥ १३ ॥

Text 14

यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ ।
तथा म
उत्तमश्लोक सन्तु सत्या महाशिष: ॥ १४ ॥

Text 15

इत्यभिष्टूय वरदं श्रीनिवासं श्रिया सह ।
तन्नि:सार्योपहरणं
दत्त्वाचमनमर्चयेत् ॥ १५ ॥

Text 16

तत: स्तुवीत स्तोत्रेण भक्तिप्रह्वेण
चेतसा ।
यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद्धरिम् ॥ १६ ॥

Text 17

पतिं च परया भक्त्या महापुरुषचेतसा ।
प्रियैस्तैस्तैरुपनमेत् प्रेमशील: स्वयं पति: ।
बिभृयात् सर्वकर्माणि पत्‍न्या उच्चावचानि च ॥ १७ ॥

Text 18

कृतमेकतरेणापि दम्पत्योरुभयोरपि ।
पत्‍न्‍यां कुर्यादनर्हायां पतिरेतत् समाहित: ॥ १८ ॥

Texts 19-20

विष्णोर्व्रतमिदं बिभ्रन्न विहन्यात्कथञ्चन ।
विप्रान् स्त्रियो वीरवती: स्रग्गन्धबलिमण्डनै: ।
अर्चेदहरहर्भक्त्या देवं नियममास्थिता ॥ १९ ॥
उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रत: ।
अद्यादात्मविशुद्ध्यर्थं सर्वकामसमृद्धये ॥ २० ॥

Text 21

एतेन पूजाविधिना मासान् द्वादश हायनम् ।
नीत्वाथोपरमेत्साध्वी कार्तिके चरमेऽहनि ॥ २१ ॥

Text 22

श्वोभूतेऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्ववत् ।
पय:श‍ृतेन जुहुयाच्चरुणा सह सर्पिषा ।
पाकयज्ञविधानेन द्वादशैवाहुती: पति: ॥ २२ ॥

Text 23

आशिष: शिरसादाय द्विजै: प्रीतै: समीरिता: ।
प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया ॥ २३ ॥

Text 24

आचार्यमग्रत: कृत्वा वाग्यत: सह बन्धुभि: ।
दद्यात्पत्‍न्यै चरो: शेषं सुप्रजास्त्वं सुसौभगम् ॥ २४ ॥

Text 25

एतच्चरित्वा विधिवद्‌व्रतं विभो
रभीप्सितार्थं लभते पुमानिह ।
स्त्री चैतदास्थाय लभेत सौभगं
श्रियं प्रजां जीवपतिं यशो गृहम् ॥ २५ ॥

Texts 26-28

कन्या च विन्देत समग्रलक्षणं
पतिं त्ववीरा हतकिल्बिषां गतिम् ।
मृतप्रजा जीवसुता धनेश्वरी
सुदुर्भगा सुभगा रूपमग्र्यम् ॥ २६ ॥
विन्देद्विरूपा विरुजा विमुच्यते
य आमयावीन्द्रियकल्यदेहम् ।
एतत्पठन्नभ्युदये च कर्म-
ण्यनन्ततृप्ति: पितृदेवतानाम् ॥ २७ ॥
तुष्टा: प्रयच्छन्ति समस्तकामान्
होमावसाने हुतभुक् श्रीहरिश्च ।
राजन् महन्मरुतां जन्म पुण्यं
दितेर्व्रतं चाभिहितं महत्ते ॥ २८ ॥
नैवोद्विजे पर दुरत्ययवैतरण्या-
स्त्वद्वीर्यगायनमहामृतमग्नचित्त: ।
शोचे ततो विमुखचेतस इन्द्रियार्थ-
मायासुखाय भरमुद्वहतो विमूढान् ॥ ४३ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here