Srimad Bhagavatam | Canto 5 | Chapter 17 | Verses

0
3

The Descent of the River Ganges

Text 1

श्रीशुक उवाच
तत्र भगवत: साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो वामपादाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहविवरेणान्त:प्रविष्टा या बाह्यजलधारा तच्चरणपङ्कजावनेजनारुणकिञ्जल्कोपरञ्जिताखिलजगदघमलापहोपस्पर्शनामला साक्षाद्भ‍गवत्पदीत्यनुपलक्षितवचोऽभिधीयमानातिमहता कालेन युगसहस्रोपलक्षणेन दिवो मूर्धन्यवततार यत्तद्विष्णुपदमाहु: ॥ १ ॥

Text 2

यत्र ह वाव वीरव्रत औत्तानपादि: परमभागवतोऽस्मत्कुलदेवताचरणारविन्दोदकमिति यामनुसवनमुत्कृष्यमाणभगवद्भ‍‌क्‍तियोगेन द‍ृढं क्लिद्यमानान्तर्हृदय औत्कण्ठ्यविवशामीलितलोचनयुगलकुड्‌मलविगलितामलबाष्पकलयाभिव्यज्यमानरोमपुलककुलकोऽधुनापि परमादरेण शिरसा बिभर्ति ॥ २ ॥

Text 3

तत: सप्त ऋषयस्तत्प्रभावाभिज्ञा यां ननु तपसआत्यन्तिकी सिद्धिरेतावती भगवति सर्वात्मनि वासुदेवेऽनुपरतभक्तियोगलाभेनैवोपेक्षितान्यार्थात्मगतयो मुक्तिमिवागतां मुमुक्षव इव सबहुमानमद्यापि जटाजूटैरुद्वहन्ति ॥ ३ ॥

Text 4

ततोऽनेकसहस्रकोटिविमानानीकसङ्कुलदेवयानेनावतरन्तीन्दुमण्डलमावार्य ब्रह्मसदने निपतति ॥ ४ ॥

Text 5

तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतुर्दिशमभिस्पन्दन्ती नदनदीपतिमेवाभिनिविशति सीतालकनन्दा चक्षुर्भद्रेति ॥ ५ ॥

Text 6

सीता तु ब्रह्मसदनात्केसराचलादिगिरिशिखरेभ्योऽधोऽध: प्रस्रवन्ती गन्धमादनमूर्धसु पतित्वान्तरेण भद्राश्ववर्षं प्राच्यां दिशि क्षारसमुद्रमभिप्रविशति ॥ ६ ॥

Text 7

एवं माल्यवच्छिखरान्निष्पतन्ती ततोऽनुपरतवेगा केतुमालमभि चक्षु: प्रतीच्यां दिशि सरित्पतिं प्रविशति ॥ ७ ॥

Text 8

भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखराद्‌गिरिशिखरमतिहाय श‍ृङ्गवत: श‍ृङ्गादवस्यन्दमाना उत्तरांस्तु कुरूनभित उदीच्यां दिशि जलधिमभिप्रविशति ॥ ८ ॥

Text 9

तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद्ब‍हूनि गिरिकूटान्यतिक्रम्य हेमकूटाद्धैमकूटान्यतिरभसतररंहसा लुठयन्ती भारतमभिवर्षं दक्षिणस्यां दिशि जलधिमभिप्रविशति यस्यां स्‍नानार्थं चागच्छत: पुंस: पदे पदेऽश्वमेधराजसूयादीनां फलं न दुर्लभमिति ॥ ९ ॥

Text 10

अन्ये च नदा नद्यश्च वर्षे वर्षे सन्ति बहुशो मेर्वादिगिरिदुहितर: शतश: ॥ १० ॥

Text 11

तत्रापि भारतमेव वर्षं कर्मक्षेत्रमन्यान्यष्ट वर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि भौमानि स्वर्गपदानि व्यपदिशन्ति ॥ ११ ॥

Text 12

एषु पुरुषाणामयुतपुरुषायुर्वर्षाणां देवकल्पानां नागायुतप्राणानां वज्रसंहननबलवयोमोदप्रमुदितमहासौरतमिथुनव्यवायापवर्गवर्षधृतैकगर्भ कलत्राणां तत्र तु त्रेतायुगसम: कालो वर्तते ॥ १२ ॥

Text 13

यत्र ह देवपतय: स्वै: स्वैर्गणनायकैर्विहितमहार्हणा: सर्वर्तुकुसुमस्तबकफलकिसलयश्रियाऽऽनम्यमानविटपलता विटपिभिरुपशुम्भमानरुचिरकाननाश्रमायतनवर्षगिरिद्रोणीषु तथा चामलजलाशयेषु विकचविविधनववनरुहामोदमुदितराजहंसजलकुक्कुटकारण्डवसारसचक्रवाकादिभिर्मधुकरनिकराकृतिभिरुपकूजितेषु जलक्रीडादिभिर्विचित्रविनोदै: सुललितसुरसुन्दरीणां कामकलिलविलासहासलीलावलोकाकृष्टमनोद‍ृष्टय: स्वैरं विहरन्ति ॥ १३ ॥

Text 14

नवस्वपि वर्षेषु भगवान्नारायणो महापुरुष: पुरुषाणां तदनुग्रहायात्मतत्त्वव्यूहेनात्मनाद्यापि सन्निधीयते ॥ १४ ॥

Text 15

इलावृते तु भगवान् भव एक एव पुमान्न ह्यन्यस्तत्रापरो निर्विशति भवान्या: शापनिमित्तज्ञो यत्प्रवेक्ष्यत: स्त्रीभावस्तत्पश्चाद्वक्ष्यामि ॥ १५ ॥

Text 16

भवानीनाथै: स्त्रीगणार्बुदसहस्रैरवरुध्यमानो भगवतश्चतुर्मूर्तेर्महापुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिमात्मन: सङ्कर्षणसंज्ञामात्मसमाधिरूपेण सन्निधाप्यैतदभिगृणन् भव उप-धावति ॥ १६ ॥

Text 17

श्रीभगवानुवाच
ॐ नमो भगवते महापुरुषाय सर्वगुणसङ्ख्यानायानन्तायाव्यक्ताय नम इति ॥ १७ ॥

Text 18

भजे भजन्यारणपादपङ्कजंभगस्य कृत्‍स्‍नस्य परं परायणम् । भक्तेष्वलं भावितभूतभावनंभवापहं त्वा भवभावमीश्वरम् ॥ १८ ॥

Text 19

न यस्य मायागुणचित्तवृत्तिभि-र्निरीक्षतो ह्यण्वपि द‍ृष्टिरज्यते । ईशे यथा नोऽजितमन्युरंहसांकस्तं न मन्येत जिगीषुरात्मन: ॥ १९ ॥

Text 20

असद्‍दृशो य: प्रतिभाति मायया क्षीबेव मध्वासवताम्रलोचन: । न नागवध्वोऽर्हण ईशिरे ह्रियायत्पादयो: स्पर्शनधर्षितेन्द्रिया: ॥ २० ॥

Text 21

यमाहुरस्य स्थितिजन्मसंयमंत्रिभिर्विहीनं यमनन्तमृषय: । न वेद सिद्धार्थमिव क्‍वचित्स्थितंभूमण्डलं मूर्धसहस्रधामसु॒ ॥ २१ ॥

Texts 22-23

यस्याद्य आसीद् गुणविग्रहो महान्विज्ञानधिष्ण्यो भगवानज: किल । यत्सम्भवोऽहं त्रिवृता स्वतेजसावैकारिकं तामसमैन्द्रियं सृजे ॥ २२ ॥ एते वयं यस्य वशे महात्मन:स्थिता: शकुन्ता इव सूत्रयन्त्रिता: । महानहं वैकृततामसेन्द्रिया:सृजाम सर्वे यदनुग्रहादिदम् ॥ २३ ॥

Text 24

यन्निर्मितां कर्ह्यपि कर्मपर्वणींमायां जनोऽयं गुणसर्गमोहित: । न वेद निस्तारणयोगमञ्जसातस्मै नमस्ते विलयोदयात्मने ॥ २४ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here