Mail ID: contact@vedavarsity.com

Contact: +91 9634998911

Google search engineGoogle search engine
Home Blog Page 9

Srimad Bhagavatam | Canto 9 | Chapter 10 | Verses

0

The Pastimes of the Supreme Lord, Rāmacandra

Text 1

श्रीशुक उवाच
खट्‍वाङ्गाद् दीर्घबाहुश्च रघुस्तस्मात् पृथुश्रवा: ।
अजस्ततो महाराजस्तस्माद् दशरथोऽभवत् ॥ १ ॥

Text 2

तस्यापि भगवानेष साक्षाद् ब्रह्ममयो हरि: ।
अंशांशेन चतुर्धागात् पुत्रत्वं प्रार्थित: सुरै: ।
रामलक्ष्मणभरतशत्रुघ्ना इति संज्ञया ॥ २ ॥

Text 3

तस्यानुचरितं राजन्नृषिभिस्तत्त्वदर्शिभि: ।
श्रुतं हि वर्णितं भूरि त्वया सीतापतेर्मुहु: ॥ ३ ॥

Text 4

गुर्वर्थे त्यक्तराज्यो व्यचरदनुवनं पद्मपद्भ्यां प्रियाया:
पाणिस्पर्शाक्षमाभ्यां मृजितपथरुजो यो हरीन्द्रानुजाभ्याम् ।
वैरूप्याच्छूर्पणख्या: प्रियविरहरुषारोपितभ्रूविजृम्भ-
त्रस्ताब्धिर्बद्धसेतु: खलदवदहन: कोसलेन्द्रोऽवतान्न: ॥ ४ ॥

Text 5

विश्वामित्राध्वरे येन मारीचाद्या निशाचरा: ।
पश्यतो लक्ष्मणस्यैव हता नैर्ऋतपुङ्गवा: ॥ ५ ॥

Texts 6-7

यो लोकवीरसमितौ धनुरैशमुग्रं
सीतास्वयंवरगृहे त्रिशतोपनीतम् ।
आदाय बालगजलील इवेक्षुयष्टिं
सज्ज्यीकृतं नृप विकृष्य बभञ्ज मध्ये ॥ ६ ॥
जित्वानुरूपगुणशीलवयोऽङ्गरूपां
सीताभिधां श्रियमुरस्यभिलब्धमानाम् ।
मार्गे व्रजन् भृगुपतेर्व्यनयत् प्ररूढं
दर्पं महीमकृत यस्त्रिरराजबीजाम् ॥ ७ ॥

Text 8

य: सत्यपाशपरिवीतपितुर्निदेशं
स्त्रैणस्य चापि शिरसा जगृहे सभार्य: ।
राज्यं श्रियं प्रणयिन: सुहृदो निवासं
त्यक्त्वा ययौ वनमसूनिव मुक्तसङ्ग: ॥ ८ ॥

Text 9

रक्ष:स्वसुर्व्यकृत रूपमशुद्धबुद्धे-
स्तस्या: खरत्रिशिरदूषणमुख्यबन्धून् ।
जघ्ने चतुर्दशसहस्रमपारणीय-
कोदण्डपाणिरटमान उवास कृच्छ्रम् ॥ ९ ॥

Text 10

सीताकथाश्रवणदीपितहृच्छयेन
सृष्टं विलोक्य नृपते दशकन्धरेण ।
जघ्नेऽद्भ‍ुतैणवपुषाश्रमतोऽपकृष्टो
मारीचमाशु विशिखेन यथा कमुग्र: ॥ १० ॥

Text 11

रक्षोऽधमेन वृकवद् विपिनेऽसमक्षं
वैदेहराजदुहितर्यपयापितायाम् ।
भ्रात्रा वने कृपणवत् प्रियया वियुक्त:
स्त्रीसङ्गिनां गतिमिति प्रथयंश्चचार ॥ ११ ॥

Text 12

दग्ध्वात्मकृत्यहतकृत्यमहन् कबन्धं
सख्यं विधाय कपिभिर्दयितागतिं तै: ।
बुद्ध्वाथ वालिनि हते प्लवगेन्द्रसैन्यै-
र्वेलामगात् स मनुजोऽजभवार्चिताङ्‌घ्रि: ॥ १२ ॥

Text 13

यद्रोषविभ्रमविवृत्तकटाक्षपात-
सम्भ्रान्तनक्रमकरो भयगीर्णघोष: ।
सिन्धु: शिरस्यर्हणं परिगृह्य रूपी
पादारविन्दमुपगम्य बभाष एतत् ॥ १३ ॥

Text 14

न त्वां वयं जडधियो नु विदाम भूमन्
कूटस्थमादिपुरुषं जगतामधीशम् ।
यत्सत्त्वत: सुरगणा रजस: प्रजेशा
मन्योश्च भूतपतय: स भवान् गुणेश: ॥ १४ ॥

Text 15

कामं प्रयाहि जहि विश्रवसोऽवमेहं
त्रैलोक्यरावणमवाप्नुहि वीर पत्नीम् ।
बध्नीहि सेतुमिह ते यशसो वितत्यै
गायन्ति दिग्विजयिनो यमुपेत्य भूपा: ॥ १५ ॥

Text 16

बद्ध्वोदधौ रघुपतिर्विविधाद्रिकूटै:
सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गै: ।
सुग्रीवनीलहनुमत्प्रमुखैरनीकै-
र्लङ्कां विभीषणद‍ृशाविशदग्रदग्धाम् ॥ १६ ॥

Text 17

सा वानरेन्द्रबलरुद्धविहारकोष्ठ-
श्रीद्वारगोपुरसदोवलभीविटङ्का ।
निर्भज्यमानधिषणध्वजहेमकुम्भ-
श‍ृङ्गाटका गजकुलैर्ह्रदिनीव घूर्णा ॥ १७ ॥

Text 18

रक्ष:पतिस्तदवलोक्य निकुम्भकुम्भ-
धूम्राक्षदुर्मुखसुरान्तकनरान्तकादीन् ।
पुत्रं प्रहस्तमतिकायविकम्पनादीन्
सर्वानुगान् समहिनोदथ कुम्भकर्णम् ॥ १८ ॥

Text 19

तां यातुधानपृतनामसिशूलचाप-
प्रासर्ष्टिशक्तिशरतोमरखड्‌गदुर्गाम् ।
सुग्रीवलक्ष्मणमरुत्सुतगन्धमाद-
नीलाङ्गदर्क्षपनसादिभिरन्वितोऽगात् ॥ १९ ॥

Text 20

तेऽनीकपा रघुपतेरभिपत्य सर्वे
द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधै: ।
जघ्नुर्द्रुमैर्गिरिगदेषुभिरङ्गदाद्या:
सीताभिमर्षहतमङ्गलरावणेशान् ॥ २० ॥

Text 21

रक्ष:पति: स्वबलनष्टिमवेक्ष्य रुष्ट
आरुह्य यानकमथाभिससार रामम् ।
स्व:स्यन्दने द्युमति मातलिनोपनीते
विभ्राजमानमहनन्निशितै: क्षुरप्रै: ॥ २१ ॥

Text 22

रामस्तमाह पुरुषादपुरीष यन्न:
कान्तासमक्षमसतापहृता श्ववत् ते ।
त्यक्तत्रपस्य फलमद्य जुगुप्सितस्य
यच्छामि काल इव कर्तुरलङ्‍घ्यवीर्य: ॥ २२ ॥

Text 23

एवं क्षिपन् धनुषि संधितमुत्ससर्ज
बाणं स वज्रमिव तद्‍धृदयं बिभेद ।
सोऽसृग् वमन् दशमुखैर्न्यपतद् विमाना-
द्धाहेति जल्पति जने सुकृतीव रिक्त: ॥ २३ ॥

Text 24

ततो निष्क्रम्य लङ्काया यातुधान्य: सहस्रश: ।
मन्दोदर्या समं तत्र प्ररुदन्त्य उपाद्रवन् ॥ २४ ॥

Text 25

स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मणेषुभिरर्दितान् ।
रुरुदु: सुस्वरं दीना घ्नन्त्य आत्मानमात्मना ॥ २५ ॥

Text 26

हा हता: स्म वयं नाथ लोकरावण रावण ।
कं यायाच्छरणं लङ्का त्वद्विहीना परार्दिता ॥ २६ ॥

Text 27

न वै वेद महाभाग भवान् कामवशं गत: ।
तेजोऽनुभावं सीताया येन नीतो दशामिमाम् ॥ २७ ॥

Text 28

कृतैषा विधवा लङ्का वयं च कुलनन्दन ।
देह: कृतोऽन्नं गृध्राणामात्मा नरकहेतवे ॥ २८ ॥

Text 29

श्रीशुक उवाच
स्वानां विभीषणश्चक्रे कोसलेन्द्रानुमोदित: ।
पितृमेधविधानेन यदुक्तं साम्परायिकम् ॥ २९ ॥

Text 30

ततो ददर्श भगवानशोकवनिकाश्रमे ।
क्षामां स्वविरहव्याधिं शिंशपामूलमाश्रिताम् ॥ ३० ॥

Text 31

राम: प्रियतमां भार्यां दीनां वीक्ष्यान्वकम्पत ।
आत्मसन्दर्शनाह्लादविकसन्मुखपङ्कजाम् ॥ ३१ ॥

Text 32

आरोप्यारुरुहे यानं भ्रातृभ्यां हनुमद्युत: ।
विभीषणाय भगवान् दत्त्वा रक्षोगणेशताम् ।
लङ्कामायुश्च कल्पान्तं ययौ चीर्णव्रत: पुरीम् ॥ ३२ ॥

Text 33

अवकीर्यमाण: सुकुसुमैर्लोकपालार्पितै: पथि ।
उपगीयमानचरित: शतधृत्यादिभिर्मुदा ॥ ३३ ॥

Text 34

गोमूत्रयावकं श्रुत्वा भ्रातरं वल्कलाम्बरम् ।
महाकारुणिकोऽतप्यज्जटिलं स्थण्डिलेशयम् ॥ ३४ ॥

Texts 35-38

भरत: प्राप्तमाकर्ण्य पौरामात्यपुरोहितै: ।
पादुके शिरसि न्यस्य रामं प्रत्युद्यतोऽग्रजम् ॥ ३५ ॥
नन्दिग्रामात् स्वशिबिराद् गीतवादित्रनि:स्वनै: ।
ब्रह्मघोषेण च मुहु: पठद्भ‍िर्ब्रह्मवादिभि: ॥ ३६ ॥
स्वर्णकक्षपताकाभिर्हैमैश्चित्रध्वजै रथै: ।
सदश्वै रुक्‍मसन्नाहैर्भटै: पुरटवर्मभि: ॥ ३७ ॥
श्रेणीभिर्वारमुख्याभिर्भृत्यैश्चैव पदानुगै: ।
पारमेष्ठ्यान्युपादाय पण्यान्युच्चावचानि च ।
पादयोर्न्यपतत् प्रेम्णा प्रक्लिन्नहृदयेक्षण: ॥ ३८ ॥

Texts 39-40

पादुके न्यस्य पुरत: प्राञ्जलिर्बाष्पलोचन: ।
तमाश्लिष्य चिरं दोर्भ्यां स्‍नापयन् नेत्रजैर्जलै: ॥ ३९ ॥
रामो लक्ष्मणसीताभ्यां विप्रेभ्यो येऽर्हसत्तमा: ।
तेभ्य: स्वयं नमश्चक्रे प्रजाभिश्च नमस्कृत: ॥ ४० ॥

Text 41

धुन्वन्त उत्तरासङ्गान् पतिं वीक्ष्य चिरागतम् ।
उत्तरा: कोसला माल्यै: किरन्तो ननृतुर्मुदा ॥ ४१ ॥

Texts 42-43

पादुके भरतोऽगृह्णाच्चामरव्यजनोत्तमे ।
विभीषण: ससुग्रीव: श्वेतच्छत्रं मरुत्सुत: ॥ ४२ ॥
धनुर्निषङ्गाञ्छत्रुघ्न: सीता तीर्थकमण्डलुम् ।
अबिभ्रदङ्गद: खड्‍गं हैमं चर्मर्क्षराण्नृप ॥ ४३ ॥

Text 44

पुष्पकस्थो नुत: स्त्रीभि: स्तूयमानश्च वन्दिभि: ।
विरेजे भगवान् राजन् ग्रहैश्चन्द्र इवोदित: ॥ ४४ ॥

Texts 45-46

भ्रात्राभिनन्दित: सोऽथ सोत्सवां प्राविशत् पुरीम् ।
प्रविश्य राजभवनं गुरुपत्नी: स्वमातरम् ॥ ४५ ॥
गुरून् वयस्यावरजान् पूजित: प्रत्यपूजयत् ।
वैदेही लक्ष्मणश्चैव यथावत् समुपेयतु: ॥ ४६ ॥

Text 47

पुत्रान् स्वमातरस्तास्तु प्राणांस्तन्व इवोत्थिता: ।
आरोप्याङ्केऽभिषिञ्चन्त्यो बाष्पौघैर्विजहु: शुच: ॥ ४७ ॥

Text 48

जटा निर्मुच्य विधिवत् कुलवृद्धै: समं गुरु: ।
अभ्यषिञ्चद् यथैवेन्द्रं चतु:सिन्धुजलादिभि: ॥ ४८ ॥

Text 49

एवं कृतशिर:स्‍नान: सुवासा: स्रग्व्यलङ्‍कृत: ।
स्वलङ्‍कृतै: सुवासोभिर्भ्रातृभिर्भार्यया बभौ ॥ ४९ ॥

Text 50

अग्रहीदासनं भ्रात्रा प्रणिपत्य प्रसादित: ।
प्रजा: स्वधर्मनिरता वर्णाश्रमगुणान्विता: ।
जुगोप पितृवद् रामो मेनिरे पितरं च तम् ॥ ५० ॥

Text 51

त्रेतायां वर्तमानायां काल: कृतसमोऽभवत् ।
रामे राजनि धर्मज्ञे सर्वभूतसुखावहे ॥ ५१ ॥

Text 52

वनानि नद्यो गिरयो वर्षाणि द्वीपसिन्धव: ।
सर्वे कामदुघा आसन् प्रजानां भरतर्षभ ॥ ५२ ॥

Text 53

नाधिव्याधिजराग्लानिदु:खशोकभयक्लमा: ।
मृत्युश्चानिच्छतां नासीद् रामे राजन्यधोक्षजे ॥ ५३ ॥

Text 54

एकपत्नीव्रतधरो राजर्षिचरित: शुचि: ।
स्वधर्मं गृहमेधीयं शिक्षयन् स्वयमाचरत् ॥ ५४ ॥

Text 55

प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती ।
भिया ह्रिया च भावज्ञा भर्तु: सीताहरन्मन: ॥ ५५ ॥

Srimad Bhagavatam | Canto 9 | Chapter 9 | Verses

0

The Dynasty of Aṁśumān

Text 1

श्रीशुक उवाच
अंशुमांश्च तपस्तेपे गङ्गानयनकाम्यया ।
कालं महान्तं नाशक्नोत् तत: कालेन संस्थित: ॥ १ ॥

Text 2

दिलीपस्तत्सुतस्तद्वदशक्त: कालमेयिवान् ।
भगीरथस्तस्य सुतस्तेपे स सुमहत् तप: ॥ २ ॥

Text 3

दर्शयामास तं देवी प्रसन्ना वरदास्मि ते ।
इत्युक्त: स्वमभिप्रायं शशंसावनतो नृप: ॥ ३ ॥

Text 4

कोऽपि धारयिता वेगं पतन्त्या मे महीतले ।
अन्यथा भूतलं भित्त्वा नृप यास्ये रसातलम् ॥ ४ ॥

Text 5

किं चाहं न भुवं यास्ये नरा मय्यामृजन्त्यघम् ।
मृजामि तदघं क्‍वाहं राजंस्तत्र विचिन्त्यताम् ॥ ५ ॥

Text 6

श्रीभगीरथ उवाच
साधवो न्यासिन: शान्ता ब्रह्मिष्ठा लोकपावना: ।
हरन्त्यघं तेऽङ्गसङ्गात् तेष्वास्ते ह्यघभिद्धरि: ॥ ६ ॥

Text 7

धारयिष्यति ते वेगं रुद्रस्त्वात्मा शरीरिणाम् ।
यस्मिन्नोतमिदं प्रोतं विश्वं शाटीव तन्तुषु ॥ ७ ॥

Text 8

इत्युक्त्वा स नृपो देवं तपसातोषयच्छिवम् ।
कालेनाल्पीयसा राजंस्तस्येशश्चाश्वतुष्यत ॥ ८ ॥

Text 9

तथेति राज्ञाभिहितं सर्वलोकहित: शिव: ।
दधारावहितो गङ्गां पादपूतजलां हरे: ॥ ९ ॥

Text 10

भगीरथ: स राजर्षिर्निन्ये भुवनपावनीम् ।
यत्र स्वपितृणां देहा भस्मीभूता: स्म शेरते ॥ १० ॥

Text 11

रथेन वायुवेगेन प्रयान्तमनुधावती ।
देशान्पुनन्ती निर्दग्धानासिञ्चत्सगरात्मजान् ॥ ११ ॥

Text 12

यज्जलस्पर्शमात्रेण ब्रह्मदण्डहता अपि ।
सगरात्मजा दिवं जग्मु: केवलं देहभस्मभि: ॥ १२ ॥

Text 13

भस्मीभूताङ्गसङ्गेन स्वर्याता: सगरात्मजा: ।
किं पुन: श्रद्धया देवीं सेवन्ते ये धृतव्रता: ॥ १३ ॥

Text 14

न ह्येतत् परमाश्चर्यं स्वर्धुन्या यदिहोदितम् ।
अनन्तचरणाम्भोजप्रसूताया भवच्छिद: ॥ १४ ॥

Text 15

सन्निवेश्य मनो यस्मिञ्छ्रद्धया मुनयोऽमला: ।
त्रैगुण्यं दुस्त्यजं हित्वा सद्यो यातास्तदात्मताम् ॥ १५ ॥

Texts 16-17

श्रुतो भगीरथाज्जज्ञे तस्य नाभोऽपरोऽभवत् ।
सिन्धुद्वीपस्ततस्तस्मादयुतायुस्ततोऽभवत् ॥ १६ ॥
ऋतूपर्णो नलसखो योऽश्वविद्यामयान्नलात् ।
दत्त्वाक्षहृदयं चास्मै सर्वकामस्तु तत्सुतम् ॥ १७ ॥

Text 18

तत: सुदासस्तत्पुत्रो दमयन्तीपतिर्नृप: ।
आहुर्मित्रसहं यं वै कल्माषाङ्‌घ्रिमुत क्‍वचित् ।
वसिष्ठशापाद् रक्षोऽभूदनपत्य: स्वकर्मणा ॥ १८ ॥

Text 19

श्रीराजोवाच
किं निमित्तो गुरो: शाप: सौदासस्य महात्मन: ।
एतद् वेदितुमिच्छाम: कथ्यतां न रहो यदि ॥ १९ ॥

Texts 20-21

श्रीशुक उवाच
सौदासो मृगयां किञ्चिच्चरन् रक्षो जघान ह ।
मुमोच भ्रातरं सोऽथ गत: प्रतिचिकीर्षया ॥ २० ॥
सञ्चिन्तयन्नघं राज्ञ: सूदरूपधरो गृहे ।
गुरवे भोक्तुकामाय पक्त्वा निन्ये नरामिषम् ॥ २१ ॥

Text 22

परिवेक्ष्यमाणं भगवान् विलोक्याभक्ष्यमञ्जसा ।
राजानमशपत् क्रुद्धो रक्षो ह्येवं भविष्यसि ॥ २२ ॥

Texts 23-24

रक्ष:कृतं तद् विदित्वा चक्रे द्वादशवार्षिकम् ।
सोऽप्यपोऽञ्जलिमादाय गुरुं शप्तुं समुद्यत: ॥ २३ ॥
वारितो मदयन्त्यापो रुशती: पादयोर्जहौ ।
दिश: खमवनीं सर्वं पश्यञ्जीवमयं नृप: ॥ २४ ॥

Text 25

राक्षसं भावमापन्न: पादे कल्माषतां गत: ।
व्यवायकाले दद‍ृशे वनौकोदम्पती द्विजौ ॥ २५ ॥

Texts 26-27

क्षुधार्तो जगृहे विप्रं तत्पत्‍न्याहाकृतार्थवत् ।
न भवान् राक्षस: साक्षादिक्ष्वाकूणां महारथ: ॥ २६ ॥
मदयन्त्या: पतिर्वीर नाधर्मं कर्तुमर्हसि ।
देहि मेऽपत्यकामाया अकृतार्थं पतिं द्विजम् ॥ २७ ॥

Text 28

देहोऽयं मानुषो राजन् पुरुषस्याखिलार्थद: ।
तस्मादस्य वधो वीर सर्वार्थवध उच्यते ॥ २८ ॥

Text 29

एष हि ब्राह्मणो विद्वांस्तप:शीलगुणान्वित: ।
आरिराधयिषुर्ब्रह्म महापुरुषसंज्ञितम् ।
सर्वभूतात्मभावेन भूतेष्वन्तर्हितं गुणै: ॥ २९ ॥

Text 30

सोऽयं ब्रह्मर्षिवर्यस्ते राजर्षिप्रवराद् विभो ।
कथमर्हति धर्मज्ञ वधं पितुरिवात्मज: ॥ ३० ॥

Text 31

तस्य साधोरपापस्य भ्रूणस्य ब्रह्मवादिन: ।
कथं वधं यथा बभ्रोर्मन्यते सन्मतो भवान् ॥ ३१ ॥

Text 32

यद्ययं क्रियते भक्ष्यस्तर्हि मां खाद पूर्वत: ।
न जीविष्ये विना येन क्षणं च मृतकं यथा ॥ ३२ ॥

Text 33

एवं करुणभाषिण्या विलपन्त्या अनाथवत् ।
व्याघ्र: पशुमिवाखादत् सौदास: शापमोहित: ॥ ३३ ॥

Text 34

ब्राह्मणी वीक्ष्य दिधिषुं पुरुषादेन भक्षितम् ।
शोचन्त्यात्मानमुर्वीशमशपत् कुपिता सती ॥ ३४ ॥

Text 35

यस्मान्मे भक्षित: पाप कामार्ताया: पतिस्त्वया ।
तवापि मृत्युराधानादकृतप्रज्ञ दर्शित: ॥ ३५ ॥

Text 36

एवं मित्रसहं शप्‍त्वा पतिलोकपरायणा ।
तदस्थीनि समिद्धेऽग्नौ प्रास्य भर्तुर्गतिं गता ॥ ३६ ॥

Text 37

विशापो द्वादशाब्दान्ते मैथुनाय समुद्यत: ।
विज्ञाप्य ब्राह्मणीशापं महिष्या स निवारित: ॥ ३७ ॥

Text 38

अत ऊर्ध्वं स तत्याज स्त्रीसुखं कर्मणाप्रजा: ।
वसिष्ठस्तदनुज्ञातो मदयन्त्यां प्रजामधात् ॥ ३८ ॥

Text 39

सा वै सप्त समा गर्भमबिभ्रन्न व्यजायत ।
जघ्नेऽश्मनोदरं तस्या: सोऽश्मकस्तेन कथ्यते ॥ ३९ ॥

Text 40

अश्मकाद्ब‍ालिको जज्ञे य: स्त्रीभि: परिरक्षित: ।
नारीकवच इत्युक्तो नि:क्षत्रे मूलकोऽभवत् ॥ ४० ॥

Text 41

ततो दशरथस्तस्मात् पुत्र ऐडविडिस्तत: ।
राजा विश्वसहो यस्य खट्‍वाङ्गश्चक्रवर्त्यभूत् ॥ ४१ ॥

Text 42

यो देवैरर्थितो दैत्यानवधीद् युधि दुर्जय: ।
मुहूर्तमायुर्ज्ञात्वैत्य स्वपुरं सन्दधे मन: ॥ ४२ ॥

Text 43

न मे ब्रह्मकुलात् प्राणा: कुलदैवान्न चात्मजा: ।
न श्रियो न मही राज्यं न दाराश्चातिवल्लभा: ॥ ४३ ॥

Text 44

न बाल्येऽपि मतिर्मह्यमधर्मे रमते क्‍वचित् ।
नापश्यमुत्तमश्लोकादन्यत् किञ्चन वस्त्वहम् ॥ ४४ ॥

Text 45

देवै: कामवरो दत्तो मह्यं त्रिभुवनेश्वरै: ।
न वृणे तमहं कामं भूतभावनभावन: ॥ ४५ ॥

Text 46

ये विक्षिप्तेन्द्रियधियो देवास्ते स्वहृदि स्थितम् ।
न विन्दन्ति प्रियं शश्वदात्मानं किमुतापरे ॥ ४६ ॥

Text 47

अथेशमायारचितेषु सङ्गं
गुणेषु गन्धर्वपुरोपमेषु ।
रूढं प्रकृत्यात्मनि विश्वकर्तु-
र्भावेन हित्वा तमहं प्रपद्ये ॥ ४७ ॥

Text 48

इति व्यवसितो बुद्ध्या नारायणगृहीतया ।
हित्वान्यभावमज्ञानं तत: स्वं भावमास्थित: ॥ ४८ ॥

Text 49

यत् तद् ब्रह्म परं सूक्ष्ममशून्यं शून्यकल्पितम् ।
भगवान् वासुदेवेति यं गृणन्ति हि सात्वता: ॥ ४९ ॥

Srimad Bhagavatam | Canto 9 | Chapter 8 | Verses

0

The Sons of Sagara Meet Lord Kapiladeva

Text 1

श्रीशुक उवाच
हरितो रोहितसुतश्चम्पस्तस्माद् विनिर्मिता ।
चम्पापुरी सुदेवोऽतो विजयो यस्य चात्मज: ॥ १ ॥

Text 2

भरुकस्तत्सुतस्तस्माद् वृकस्तस्यापि बाहुक: ।
सोऽरिभिर्हृतभू राजा सभार्यो वनमाविशत् ॥ २ ॥

Text 3

वृद्धं तं पञ्चतां प्राप्तं महिष्यनुमरिष्यती ।
और्वेण जानतात्मानं प्रजावन्तं निवारिता ॥ ३ ॥

Text 4

आज्ञायास्यै सपत्नीभिर्गरो दत्तोऽन्धसा सह ।
सह तेनैव सञ्जात: सगराख्यो महायशा: ।
सगरश्चक्रवर्त्यासीत् सागरो यत्सुतै: कृत: ॥ ४ ॥

Texts 5-6

यस्तालजङ्घान् यवनाञ्छकान् हैहयबर्बरान् ।
नावधीद् गुरुवाक्येन चक्रे विकृतवेषिण: ॥ ५ ॥
मुण्डाञ्छ्मश्रुधरान् कांश्चिन्मुक्तकेशार्धमुण्डितान् ।
अनन्तर्वासस: कांश्चिदबहिर्वाससोऽपरान् ॥ ६ ॥

Text 7

सोऽश्वमेधैरयजत सर्ववेदसुरात्मकम् ।
और्वोपदिष्टयोगेन हरिमात्मानमीश्वरम् ।
तस्योत्सृष्टं पशुं यज्ञे जहाराश्वं पुरन्दर: ॥ ७ ॥

Text 8

सुमत्यास्तनया द‍ृप्ता: पितुरादेशकारिण: ।
हयमन्वेषमाणास्ते समन्तान्न्यखनन् महीम् ॥ ८ ॥

Texts 9-10

प्रागुदीच्यां दिशि हयं दद‍ृशु: कपिलान्तिके ।
एष वाजिहरश्चौर आस्ते मीलितलोचन: ॥ ९ ॥
हन्यतां हन्यतां पाप इति षष्टिसहस्रिण: ।
उदायुधा अभिययुरुन्मिमेष तदा मुनि: ॥ १० ॥

Text 11

स्वशरीराग्निना तावन्महेन्द्रहृतचेतस: ।
महद्‌व्य‌तिक्रमहता भस्मसादभवन् क्षणात् ॥ ११ ॥

Text 12

न साधुवादो मुनिकोपभर्जिता
नृपेन्द्रपुत्रा इति सत्त्वधामनि ।
कथं तमो रोषमयं विभाव्यते
जगत्पवित्रात्मनि खे रजो भुव: ॥ १२ ॥

Text 13

यस्येरिता साङ्ख्यमयी द‍ृढेह नौ-
र्यया मुमुक्षुस्तरते दुरत्ययम् ।
भवार्णवं मृत्युपथं विपश्चित:
परात्मभूतस्य कथं पृथङ्‌मति: ॥ १३ ॥

Text 14

योऽसमञ्जस इत्युक्त: स केशिन्या नृपात्मज: ।
तस्य पुत्रोशुमान् नाम पितामहहिते रत: ॥ १४ ॥

Texts 15-16

असमञ्जस आत्मानं दर्शयन्नसमञ्जसम् ।
जातिस्मर: पुरा सङ्गाद् योगी योगाद् विचालित: ॥ १५ ॥
आचरन् गर्हितं लोके ज्ञातीनां कर्म विप्रियम् ।
सरय्वां क्रीडतो बालान्प्रास्यदुद्वेजयञ्जनम् ॥ १६ ॥

Text 17

एवं वृत्त: परित्यक्त: पित्रा स्‍नेहमपोह्य वै ।
योगैश्वर्येण बालांस्तान् दर्शयित्वा ततो ययौ ॥ १७ ॥

Text 18

अयोध्यावासिन: सर्वे बालकान् पुनरागतान् ।
द‍ृष्ट्वा विसिस्मिरे राजन् राजा चाप्यन्वतप्यत ॥ १८ ॥

Text 19

अंशुमांश्चोदितो राज्ञा तुरगान्वेषणे ययौ ।
पितृव्यखातानुपथं भस्मान्ति दद‍ृशे हयम् ॥ १९ ॥

Text 20

तत्रासीनं मुनिं वीक्ष्य कपिलाख्यमधोक्षजम् ।
अस्तौत् समाहितमना: प्राञ्जलि: प्रणतो महान् ॥ २० ॥

Text 21

अंशुमानुवाच
न पश्यति त्वां परमात्मनोऽजनो
न बुध्यतेऽद्यापि समाधियुक्तिभि: ।
कुतोऽपरे तस्य मन:शरीरधी-
विसर्गसृष्टा वयमप्रकाशा: ॥ २१ ॥

Text 22

ये देहभाजस्त्रिगुणप्रधाना
गुणान् विपश्यन्त्युत वा तमश्च ।
यन्मायया मोहितचेतसस्त्वां
विदु: स्वसंस्थं न बहि:प्रकाशा: ॥ २२ ॥

Text 23

तं त्वामहं ज्ञानघनं स्वभाव-
प्रध्वस्तमायागुणभेदमोहै: ।
सनन्दनाद्यैर्मुनिभिर्विभाव्यं
कथं विमूढ: परिभावयामि ॥ २३ ॥

Text 24

प्रशान्त मायागुणकर्मलिङ्ग-
मनामरूपं सदसद्विमुक्तम् ।
ज्ञानोपदेशाय गृहीतदेहं
नमामहे त्वां पुरुषं पुराणम् ॥ २४ ॥

Text 25

त्वन्मायारचिते लोके वस्तुबुद्ध्या गृहादिषु ।
भ्रमन्ति कामलोभेर्ष्यामोहविभ्रान्तचेतस: ॥ २५ ॥

Text 26

अद्य न: सर्वभूतात्मन् कामकर्मेन्द्रियाशय: ।
मोहपाशो द‍ृढश्छिन्नो भगवंस्तव दर्शनात् ॥ २६ ॥

Text 27

श्रीशुक उवाच
इत्थंगीतानुभावस्तं भगवान्कपिलो मुनि: ।
अंशुमन्तमुवाचेदमनुग्राह्य धिया नृप ॥ २७ ॥

Text 28

श्रीभगवानुवाच
अश्वोऽयं नीयतां वत्स पितामहपशुस्तव ।
इमे च पितरो दग्धा गङ्गाम्भोऽर्हन्ति नेतरत् ॥ २८ ॥

Text 29

तं परिक्रम्य शिरसा प्रसाद्य हयमानयत् ।
सगरस्तेन पशुना यज्ञशेषं समापयत् ॥ २९ ॥

Text 30

राज्यमंशुमते न्यस्य नि:स्पृहो मुक्तबन्धन: ।
और्वोपदिष्टमार्गेण लेभे गतिमनुत्तमाम् ॥ ३० ॥

Srimad Bhagavatam | Canto 9 | Chapter 7 | Verses

0

The Descendants of King Māndhātā

Text 1

श्रीशुक उवाच
मान्धातु: पुत्रप्रवरो योऽम्बरीष: प्रकीर्तित: ।
पितामहेन प्रवृतो यौवनाश्वस्तु तत्सुत: ।
हारीतस्तस्य पुत्रोऽभून्मान्धातृप्रवरा इमे ॥ १ ॥

Text 2

नर्मदा भ्रातृभिर्दत्ता पुरुकुत्साय योरगै: ।
तया रसातलं नीतो भुजगेन्द्रप्रयुक्तया ॥ २ ॥

Text 3

गन्धर्वानवधीत् तत्र वध्यान् वै विष्णुशक्तिधृक् ।
नागाल्लब्धवर: सर्पादभयं स्मरतामिदम् ॥ ३ ॥

Text 4

त्रसद्दस्यु: पौरुकुत्सो योऽनरण्यस्य देहकृत् ।
हर्यश्वस्तत्सुतस्तस्मात्प्रारुणोऽथ त्रिबन्धन: ॥ ४ ॥

Texts 5-6

तस्य सत्यव्रत: पुत्रस्त्रिशङ्कुरिति विश्रुत: ।
प्राप्तश्चाण्डालतां शापाद् गुरो: कौशिकतेजसा ॥ ५ ॥
सशरीरो गत: स्वर्गमद्यापि दिवि द‍ृश्यते ।
पातितोऽवाक् शिरा देवैस्तेनैव स्तम्भितो बलात् ॥ ६ ॥

Text 7

त्रैशङ्कवो हरिश्चन्द्रो विश्वामित्रवसिष्ठयो: ।
यन्निमित्तमभूद् युद्धं पक्षिणोर्बहुवार्षिकम् ॥ ७ ॥

Text 8

सोऽनपत्यो विषण्णात्मा नारदस्योपदेशत: ।
वरुणं शरणं यात: पुत्रो मे जायतां प्रभो ॥ ८ ॥

Text 9

यदि वीरो महाराज तेनैव त्वां यजे इति ।
तथेति वरुणेनास्य पुत्रो जातस्तु रोहित: ॥ ९ ॥

Text 10

जात: सुतो ह्यनेनाङ्ग मां यजस्वेति सोऽब्रवीत् ।
यदा पशुर्निर्दश: स्यादथ मेध्यो भवेदिति ॥ १० ॥

Text 11

निर्दशे च स आगत्य यजस्वेत्याह सोऽब्रवीत् ।
दन्ता: पशोर्यज्जायेरन्नथ मेध्यो भवेदिति ॥ ११ ॥

Text 12

दन्ता जाता यजस्वेति स प्रत्याहाथ सोऽब्रवीत् ।
यदा पतन्त्यस्य दन्ता अथ मेध्यो भवेदिति ॥ १२ ॥

Text 13

पशोर्निपतिता दन्ता यजस्वेत्याह सोऽब्रवीत् ।
यदा पशो: पुनर्दन्ता जायन्तेऽथ पशु: शुचि: ॥ १३ ॥

Text 14

पुनर्जाता यजस्वेति स प्रत्याहाथ सोऽब्रवीत् ।
सान्नाहिको यदा राजन् राजन्योऽथ पशु: शुचि: ॥ १४ ॥

Text 15

इति पुत्रानुरागेण स्‍नेहयन्त्रितचेतसा ।
कालं वञ्चयता तं तमुक्तो देवस्तमैक्षत ॥ १५ ॥

Text 16

रोहितस्तदभिज्ञाय पितु: कर्म चिकीर्षितम् ।
प्राणप्रेप्सुर्धनुष्पाणिररण्यं प्रत्यपद्यत ॥ १६ ॥

Text 17

पितरं वरुणग्रस्तं श्रुत्वा जातमहोदरम् ।
रोहितो ग्राममेयाय तमिन्द्र: प्रत्यषेधत ॥ १७ ॥

Text 18

भूमे: पर्यटनं पुण्यं तीर्थक्षेत्रनिषेवणै: ।
रोहितायादिशच्छक्र: सोऽप्यरण्येऽवसत् समाम् ॥ १८ ॥

Text 19

एवं द्वितीये तृतीये चतुर्थे पञ्चमे तथा ।
अभ्येत्याभ्येत्य स्थविरो विप्रो भूत्वाह वृत्रहा ॥ १९ ॥

Text 20

षष्ठं संवत्सरं तत्र चरित्वा रोहित: पुरीम् ।
उपव्रजन्नजीगर्तादक्रीणान्मध्यमं सुतम् ।
शुन:शेफं पशुं पित्रे प्रदाय समवन्दत ॥ २० ॥

Text 21

तत: पुरुषमेधेन हरिश्चन्द्रो महायशा: ।
मुक्तोदरोऽयजद् देवान् वरुणादीन् महत्कथ: ॥ २१ ॥

Text 22

विश्वामित्रोऽभवत् तस्मिन् होता चाध्वर्युरात्मवान् ।
जमदग्निरभूद् ब्रह्मा वसिष्ठोऽयास्य: सामग: ॥ २२ ॥

Text 23

तस्मै तुष्टो ददाविन्द्र: शातकौम्भमयं रथम् ।
शुन:शेफस्य माहात्म्यमुपरिष्टात् प्रचक्ष्यते ॥ २३ ॥

Text 24

सत्यं सारं धृतिं द‍ृष्ट्वा सभार्यस्य च भूपते: ।
विश्वामित्रो भृशं प्रीतो ददावविहतां गतिम् ॥ २४ ॥

Texts 25-26

मन: पृथिव्यां तामद्भ‍िस्तेजसापोऽनिलेन तत् ।
खे वायुं धारयंस्तच्च भूतादौ तं महात्मनि ।
तस्मिञ्ज्ञानकलां ध्यात्वा तयाज्ञानं विनिर्दहन् ॥ २५ ॥
हित्वा तां स्वेन भावेन निर्वाणसुखसंविदा ।
अनिर्देश्याप्रतर्क्येण तस्थौ विध्वस्तबन्धन: ॥ २६ ॥

Srimad Bhagavatam | Canto 9 | Chapter 6 | Verses

0

The Downfall of Saubhari Muni

Text 1

श्रीशुक उवाच
विरूप: केतुमाञ्छम्भुरम्बरीषसुतास्त्रय: ।
विरूपात् पृषदश्वोऽभूत्तत् पुत्रस्तु रथीतर: ॥ १ ॥

Text 2

रथीतरस्याप्रजस्य भार्यायां तन्तवेऽर्थित: ।
अङ्गिरा जनयामास ब्रह्मवर्चस्विन: सुतान् ॥ २ ॥

Text 3

एते क्षेत्रप्रसूता वै पुनस्त्वाङ्गिरसा: स्मृता: ।
रथीतराणां प्रवरा: क्षेत्रोपेता द्विजातय: ॥ ३ ॥

Text 4

क्षुवतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणत: सुत: ।
तस्य पुत्रशतज्येष्ठा विकुक्षिनिमिदण्डका: ॥ ४ ॥

Text 5

तेषां पुरस्तादभवन्नार्यावर्ते नृपा नृप ।
पञ्चविंशति: पश्चाच्च त्रयो मध्येऽपरेऽन्यत: ॥ ५ ॥

Text 6

स एकदाष्टकाश्राद्धे इक्ष्वाकु: सुतमादिशत् ।
मांसमानीयतां मेध्यं विकुक्षे गच्छ मा चिरम् ॥ ६ ॥

Text 7

तथेति स वनं गत्वा मृगान् हत्वा क्रियार्हणान् ।
श्रान्तो बुभुक्षितो वीर: शशं चाददपस्मृति: ॥ ७ ॥

Text 8

शेषं निवेदयामास पित्रे तेन च तद्गुरु: ।
चोदित: प्रोक्षणायाह दुष्टमेतदकर्मकम् ॥ ८ ॥

Text 9

ज्ञात्वा पुत्रस्य तत् कर्म गुरुणाभिहितं नृप: ।
देशान्नि:सारयामास सुतं त्यक्तविधिं रुषा ॥ ९ ॥

Text 10

स तु विप्रेण संवादं ज्ञापकेन समाचरन् ।
त्यक्त्वा कलेवरं योगी स तेनावाप यत् परम् ॥ १० ॥

Text 11

पितर्युपरतेऽभ्येत्य विकुक्षि: पृथिवीमिमाम् ।
शासदीजे हरिं यज्ञै: शशाद इति विश्रुत: ॥ ११ ॥

Text 12

पुरञ्जयस्तस्य सुत इन्द्रवाह इतीरित: ।
ककुत्स्थ इति चाप्युक्त: श‍ृणु नामानि कर्मभि: ॥ १२ ॥

Text 13

कृतान्त आसीत् समरो देवानां सह दानवै: ।
पार्ष्णिग्राहो वृतो वीरो देवैर्दैत्यपराजितै: ॥ १३ ॥

Text 14

वचनाद् देवदेवस्य विष्णोर्विश्वात्मन: प्रभो: ।
वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृष: ॥ १४ ॥

Texts 15-16

स सन्नद्धो धनुर्दिव्यमादाय विशिखाञ्छितान् ।
स्तूयमानस्तमारुह्य युयुत्सु: ककुदि स्थित: ॥ १५ ॥
तेजसाप्यायितो विष्णो: पुरुषस्य महात्मन: ।
प्रतीच्यां दिशि दैत्यानां न्यरुणत् त्रिदशै: पुरम् ॥ १६ ॥

Text 17

तैस्तस्य चाभूत्प्रधनं तुमुलं लोमहर्षणम् ।
यमाय भल्लैरनयद् दैत्यान् अभिययुर्मृधे ॥ १७ ॥

Text 18

तस्येषुपाताभिमुखं युगान्ताग्निमिवोल्बणम् ।
विसृज्य दुद्रुवुर्दैत्या हन्यमाना: स्वमालयम् ॥ १८ ॥

Text 19

जित्वा पुरं धनं सर्वं सश्रीकं वज्रपाणये ।
प्रत्ययच्छत् स राजर्षिरिति नामभिराहृत: ॥ १९ ॥

Text 20

पुरञ्जयस्य पुत्रोऽभूदनेनास्तत्सुत: पृथु: ।
विश्वगन्धिस्ततश्चन्द्रो युवनाश्वस्तु तत्सुत: ॥ २० ॥

Text 21

श्रावस्तस्तत्सुतो येन श्रावस्ती निर्ममे पुरी ।
बृहदश्वस्तु श्रावस्तिस्तत: कुवलयाश्वक: ॥ २१ ॥

Text 22

य: प्रियार्थमुतङ्कस्य धुन्धुनामासुरं बली ।
सुतानामेकविंशत्या सहस्रैरहनद् वृत: ॥ २२ ॥

Texts 23-24

धुन्धुमार इति ख्यातस्तत्सुतास्ते च जज्वलु: ।
धुन्धोर्मुखाग्निना सर्वे त्रय एवावशेषिता: ॥ २३ ॥
द‍ृढाश्व: कपिलाश्वश्च भद्राश्व इति भारत ।
द‍ृढाश्वपुत्रो हर्यश्वो निकुम्भस्तत्सुत: स्मृत: ॥ २४ ॥

Text 25

बहुलाश्वो निकुम्भस्य कृशाश्वोऽथास्य सेनजित् ।
युवनाश्वोऽभवत् तस्य सोऽनपत्यो वनं गत: ॥ २५ ॥

Text 26

भार्याशतेन निर्विण्ण ऋषयोऽस्य कृपालव: ।
इष्टिं स्म वर्तयांचक्रुरैन्द्रीं ते सुसमाहिता: ॥ २६ ॥

Text 27

राजा तद् यज्ञसदनं प्रविष्टो निशि तर्षित: ।
द‍ृष्ट्वा शयानान् विप्रांस्तान् पपौ मन्त्रजलं स्वयम् ॥ २७ ॥

Text 28

उत्थितास्ते निशम्याथ व्युदकं कलशं प्रभो ।
पप्रच्छु: कस्य कर्मेदं पीतं पुंसवनं जलम् ॥ २८ ॥

Text 29

राज्ञा पीतं विदित्वा वै ईश्वरप्रहितेन ते ।
ईश्वराय नमश्चक्रुरहो दैवबलं बलम् ॥ २९ ॥

Text 30

तत: काल उपावृत्ते कुक्षिं निर्भिद्य दक्षिणम् ।
युवनाश्वस्य तनयश्चक्रवर्ती जजान ह ॥ ३० ॥

Text 31

कं धास्यति कुमारोऽयं स्तन्ये रोरूयते भृशम् ।
मां धाता वत्स मा रोदीरितीन्द्रो देशिनीमदात् ॥ ३१ ॥

Text 32

न ममार पिता तस्य विप्रदेवप्रसादत: ।
युवनाश्वोऽथ तत्रैव तपसा सिद्धिमन्वगात् ॥ ३२ ॥

Texts 33-34

त्रसद्दस्युरितीन्द्रोऽङ्ग विदधे नाम यस्य वै ।
यस्मात् त्रसन्ति ह्युद्विग्ना दस्यवो रावणादय: ॥ ३३ ॥
यौवनाश्वोऽथ मान्धाता चक्रवर्त्यवनीं प्रभु: ।
सप्तद्वीपवतीमेक: शशासाच्युततेजसा ॥ ३४ ॥

Texts 35-36

ईजे च यज्ञं क्रतुभिरात्मविद् भूरिदक्षिणै: ।
सर्वदेवमयं देवं सर्वात्मकमतीन्द्रियम् ॥ ३५ ॥
द्रव्यं मन्त्रो विधिर्यज्ञो यजमानस्तथर्त्विज: ।
धर्मो देशश्च कालश्च सर्वमेतद् यदात्मकम् ॥ ३६ ॥

Text 37

यावत् सूर्य उदेति स्म यावच्च प्रतितिष्ठति ।
तत् सर्वं यौवनाश्वस्य मान्धातु: क्षेत्रमुच्यते ॥ ३७ ॥

Text 38

शशबिन्दोर्दुहितरि बिन्दुमत्यामधान्नृप: ।
पुरुकुत्समम्बरीषं मुचुकुन्दं च योगिनम् ।
तेषां स्वसार: पञ्चाशत् सौभरिं वव्रिरे पतिम् ॥ ३८ ॥

Texts 39-40

यमुनान्तर्जले मग्नस्तप्यमान: परन्तप: ।
निर्वृतिं मीनराजस्य द‍ृष्ट्वा मैथुनधर्मिण: ॥ ३९ ॥
जातस्पृहो नृपं विप्र: कन्यामेकामयाचत ।
सोऽप्याह गृह्यतां ब्रह्मन् कामं कन्या स्वयंवरे ॥ ४० ॥

Texts 41-42

स विचिन्त्याप्रियं स्त्रीणां जरठोऽहमसन्मत: ।
वलीपलित एजत्क इत्यहं प्रत्युदाहृत: ॥ ४१ ॥
साधयिष्ये तथात्मानं सुरस्त्रीणामभीप्सितम् ।
किं पुनर्मनुजेन्द्राणामिति व्यवसित: प्रभु: ॥ ४२ ॥

Text 43

मुनि: प्रवेशित: क्षत्रा कन्यान्त:पुरमृद्धिमत् ।
वृत: स राजकन्याभिरेकं पञ्चाशता वर: ॥ ४३ ॥

Text 44

तासां कलिरभूद् भूयांस्तदर्थेऽपोह्य सौहृदम् ।
ममानुरूपो नायं व इति तद्गतचेतसाम् ॥ ४४ ॥

Texts 45-46

स बह्वऋचस्ताभिरपारणीय-
तप:श्रियानर्घ्यपरिच्छदेषु ।
गृहेषु नानोपवनामलाम्भ:-
सरस्सु सौगन्धिककाननेषु ॥ ४५ ॥
महार्हशय्यासनवस्त्रभूषण-
स्‍नानानुलेपाभ्यवहारमाल्यकै: ।
स्वलङ्‍कृत स्त्रीपुरुषेषु नित्यदा
रेमेऽनुगायद्द्विजभृङ्गवन्दिषु ॥ ४६ ॥

Text 47

यद्गार्हस्थ्यं तु संवीक्ष्य सप्तद्वीपवतीपति: ।
विस्मित: स्तम्भमजहात् सार्वभौमश्रियान्वितम् ॥ ४७ ॥

Text 48

एवं गृहेष्वभिरतो विषयान् विविधै: सुखै: ।
सेवमानो न चातुष्यदाज्यस्तोकैरिवानल: ॥ ४८ ॥

Text 49

स कदाचिदुपासीन आत्मापह्नवमात्मन: ।
ददर्श बह्वृचाचार्यो मीनसङ्गसमुत्थितम् ॥ ४९ ॥

Text 50

अहो इमं पश्यत मे विनाशं
तपस्विन: सच्चरितव्रतस्य ।
अन्तर्जले वारिचरप्रसङ्गात्
प्रच्यावितं ब्रह्म चिरं धृतं यत् ॥ ५० ॥

Text 51

सङ्गं त्यजेत मिथुनव्रतीनां मुमुक्षु:
सर्वात्मना न विसृजेद् बहिरिन्द्रियाणि ।
एकश्चरन् रहसि चित्तमनन्त ईशे
युञ्जीत तद्‍व्रतिषु साधुषु चेत् प्रसङ्ग: ॥ ५१ ॥

Text 52

एकस्तपस्व्यहमथाम्भसि मत्स्यसङ्गात्
पञ्चाशदासमुत पञ्चसहस्रसर्ग: ।
नान्तं व्रजाम्युभयकृत्यमनोरथानां
मायागुणैर्हृतमतिर्विषयेऽर्थभाव: ॥ ५२ ॥

Text 53

एवं वसन् गृहे कालं विरक्तो न्यासमास्थित: ।
वनं जगामानुययुस्तत्पत्‍न्य: पतिदेवता: ॥ ५३ ॥

Text 54

तत्र तप्‍त्वा तपस्तीक्ष्णमात्मदर्शनमात्मवान् ।
सहैवाग्निभिरात्मानं युयोज परमात्मनि ॥ ५४ ॥

Text 55

ता: स्वपत्युर्महाराज निरीक्ष्याध्यात्मिकीं गतिम् ।
अन्वीयुस्तत्प्रभावेण अग्निं शान्तमिवार्चिष: ॥ ५५ ॥

Srimad Bhagavatam | Canto 9 | Chapter 5 | Verses

0

Durvāsā Muni’s Life Spared

Text 1

श्रीशुक उवाच
एवं भगवतादिष्टो दुर्वासश्चक्रतापित: ।
अम्बरीषमुपावृत्य तत्पादौ दु:खितोऽग्रहीत् ॥ १ ॥

Text 2

तस्य सोद्यममावीक्ष्य पादस्पर्शविलज्जित: ।
अस्तावीत् तद्धरेरस्त्रं कृपया पीडितो भृशम् ॥ २ ॥

Text 3

अम्बरीष उवाच
त्वमग्निर्भगवान् सूर्यस्त्वं सोमो ज्योतिषां पति: ।
त्वमापस्त्वं क्षितिर्व्योम वायुर्मात्रेन्द्रियाणि च ॥ ३ ॥

Text 4

सुदर्शन नमस्तुभ्यं सहस्राराच्युतप्रिय ।
सर्वास्त्रघातिन् विप्राय स्वस्ति भूया इडस्पते ॥ ४ ॥

Text 5

त्वं धर्मस्त्वमृतं सत्यं त्वं यज्ञोऽखिलयज्ञभुक् ।
त्वं लोकपाल: सर्वात्मा त्वं तेज: पौरुषं परम् ॥ ५ ॥

Text 6

नम: सुनाभाखिलधर्मसेतवे
ह्यधर्मशीलासुरधूमकेतवे ।
त्रैलोक्यगोपाय विशुद्धवर्चसे
मनोजवायाद्भ‍ुतकर्मणे गृणे ॥ ६ ॥

Text 7

त्वत्तेजसा धर्ममयेन संहृतं
तम: प्रकाशश्च द‍ृशो महात्मनाम् ।
दुरत्ययस्ते महिमा गिरां पते
त्वद्रूपमेतत् सदसत् परावरम् ॥ ७ ॥

Text 8

यदा विसृष्टस्त्वमनञ्जनेन वै
बलं प्रविष्टोऽजित दैत्यदानवम् ।
बाहूदरोर्वङ्‌घ्रिशिरोधराणि
वृश्चन्नजस्रं प्रधने विराजसे ॥ ८ ॥

Text 9

स त्वं जगत् त्राण खलप्रहाणये
निरूपित: सर्वसहो गदाभृता ।
विप्रस्य चास्मत्कुलदैवहेतवे
विधेहि भद्रं तदनुग्रहो हि न: ॥ ९ ॥

Text 10

यद्यस्ति दत्तमिष्टं वा स्वधर्मो वा स्वनुष्ठित: ।
कुलं नो विप्रदैवं चेद् द्विजो भवतु विज्वर: ॥ १० ॥

Text 11

यदि नो भगवान् प्रीत एक: सर्वगुणाश्रय: ।
सर्वभूतात्मभावेन द्विजो भवतु विज्वर: ॥ ११ ॥

Text 12

श्रीशुक उवाच
इति संस्तुवतो राज्ञो विष्णुचक्रं सुदर्शनम् ।
अशाम्यत् सर्वतो विप्रं प्रदहद् राजयाञ्चया ॥ १२ ॥

Text 13

स मुक्तोऽस्त्राग्नितापेन दुर्वास: स्वस्तिमांस्तत: ।
प्रशशंस तमुर्वीशं युञ्जान: परमाशिष: ॥ १३ ॥

Text 14

दुर्वासा उवाच
अहो अनन्तदासानां महत्त्वं द‍ृष्टमद्य मे ।
कृतागसोऽपि यद् राजन् मङ्गलानि समीहसे ॥ १४ ॥

Text 15

दुष्कर: को नु साधूनां दुस्त्यजो वा महात्मनाम् ।
यै: संगृहीतो भगवान् सात्वतामृषभो हरि: ॥ १५ ॥

Text 16

यन्नामश्रुतिमात्रेण पुमान् भवति निर्मल: ।
तस्य तीर्थपद: किं वा दासानामवशिष्यते ॥ १६ ॥

Text 17

राजन्ननुगृहीतोऽहं त्वयातिकरुणात्मना ।
मदघं पृष्ठत: कृत्वा प्राणा यन्मेऽभिरक्षिता: ॥ १७ ॥

Text 18

राजा तमकृताहार: प्रत्यागमनकाङ्क्षuया ।
चरणावुपसङ्गृह्य प्रसाद्य समभोजयत् ॥ १८ ॥

Text 19

सोऽशित्वाद‍ृतमानीतमातिथ्यं सार्वकामिकम् ।
तृप्तात्मा नृपतिं प्राह भुज्यतामिति सादरम् ॥ १९ ॥

Text 20

प्रीतोऽस्म्यनुगृहीतोऽस्मि तव भागवतस्य वै ।
दर्शनस्पर्शनालापैरातिथ्येनात्ममेधसा ॥ २० ॥

Text 21

कर्मावदातमेतत् ते गायन्ति स्व:स्त्रियो मुहु: ।
कीर्तिं परमपुण्यां च कीर्तयिष्यति भूरियम् ॥ २१ ॥

Text 22

श्रीशुक उवाच
एवं सङ्कीर्त्य राजानं दुर्वास: परितोषित: ।
ययौ विहायसामन्‍त्र्य ब्रह्मलोकमहैतुकम् ॥ २२ ॥

Text 23

संवत्सरोऽत्यगात् तावद् यावता नागतो गत: ।
मुनिस्तद्दर्शनाकाङ्क्षोत राजाब्भक्षो बभूव ह ॥ २३ ॥

Text 24

गतेऽथ दुर्वाससि सोऽम्बरीषो
द्विजोपयोगातिपवित्रमाहरत् ।
ऋषेर्विमोक्षं व्यसनं च वीक्ष्य
मेने स्ववीर्यं च परानुभावम् ॥ २४ ॥

Text 25

एवं विधानेकगुण: स राजा
परात्मनि ब्रह्मणि वासुदेवे ।
क्रियाकलापै: समुवाह भक्तिं
ययाविरिञ्‍च्यान् निरयांश्चकार ॥ २५ ॥

Text 26

श्रीशुक उवाच
अथाम्बरीषस्तनयेषु राज्यं
समानशीलेषु विसृज्य धीर: ।
वनं विवेशात्मनि वासुदेवे
मनो दधद् ध्वस्तगुणप्रवाह: ॥ २६ ॥

Text 27

इत्येतत् पुण्यमाख्यानमम्बरीषस्य भूपते ।
सङ्कीर्तयन्ननुध्यायन् भक्तो भगवतो भवेत् ॥ २७ ॥

Text 28

अम्बरीषस्यचरितं येश‍ृण्वन्तिमहात्मन: ।
मुक्तिं प्रयान्तितेसर्वेभक्त्याविष्णो: प्रसादत: ॥ २८ ॥

Srimad Bhagavatam | Canto 9 | Chapter 4 | Verses

0

Ambarīṣa Mahārāja Offended by Durvāsā Muni

Text 1

श्रीशुक उवाच
नाभागो नभगापत्यं यं ततं भ्रातर: कविम् ।
यविष्ठं व्यभजन् दायं ब्रह्मचारिणमागतम् ॥ १ ॥

Text 2

भ्रातरोऽभाङ्क्त किं मह्यं भजाम पितरं तव ।
त्वां ममार्यास्तताभाङ्‍क्षुर्मा पुत्रक तदाद‍ृथा: ॥ २ ॥

Text 3

इमे अङ्गिरस: सत्रमासतेऽद्य सुमेधस: ।
षष्ठं षष्ठमुपेत्याह: कवे मुह्यन्ति कर्मणि ॥ ३ ॥

Texts 4-5

तांस्त्वं शंसय सूक्ते द्वे वैश्वदेवे महात्मन: ।
ते स्वर्यन्तो धनं सत्रपरिशेषितमात्मन: ॥ ४ ॥
दास्यन्ति तेऽथ तान्गच्छ तथा स कृतवान् यथा ।
तस्मै दत्त्वा ययु: स्वर्गं ते सत्रपरिशेषणम् ॥ ५ ॥

Text 6

तं कश्चित् स्वीकरिष्यन्तं पुरुष: कृष्णदर्शन: ।
उवाचोत्तरतोऽभ्येत्य ममेदं वास्तुकं वसु ॥ ६ ॥

Text 7

ममेदमृषिभिर्दत्तमिति तर्हि स्म मानव: ।
स्यान्नौ ते पितरि प्रश्न‍: पृष्टवान् पितरं यथा ॥ ७ ॥

Text 8

यज्ञवास्तुगतं सर्वमुच्छिष्टमृषय: क्‍वचित् ।
चक्रुर्हि भागं रुद्राय स देव: सर्वमर्हति ॥ ८ ॥

Text 9

नाभागस्तं प्रणम्याह तवेश किल वास्तुकम् ।
इत्याह मे पिता ब्रह्मञ्छिरसा त्वां प्रसादये ॥ ९ ॥

Text 10

यत् ते पितावदद् धर्मं त्वं च सत्यं प्रभाषसे ।
ददामि ते मन्त्रद‍ृशो ज्ञानं ब्रह्म सनातनम् ॥ १० ॥

Text 11

गृहाण द्रविणं दत्तं मत्सत्रपरिशेषितम् ।
इत्युक्त्वान्तर्हितो रुद्रो भगवान् धर्मवत्सल: ॥ ११ ॥

Text 12

य एतत् संस्मरेत् प्रात: सायं च सुसमाहित: ।
कविर्भवति मन्त्रज्ञो गतिं चैव तथात्मन: ॥ १२ ॥

Text 13

नाभागादम्बरीषोऽभून्महाभागवत: कृती ।
नास्पृशद् ब्रह्मशापोऽपि यं न प्रतिहत: क्‍वचित् ॥ १३ ॥

Text 14

श्रीराजोवाच
भगवञ्छ्रोतुमिच्छामि राजर्षेस्तस्य धीमत: ।
न प्राभूद् यत्र निर्मुक्तो ब्रह्मदण्डो दुरत्यय: ॥ १४ ॥

Texts 15-16

श्रीशुक उवाच
अम्बरीषो महाभाग: सप्तद्वीपवतीं महीम् ।
अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि ॥ १५ ॥
मेनेऽतिदुर्लभं पुंसां सर्वं तत् स्वप्नसंस्तुतम् ।
विद्वान् विभवनिर्वाणं तमो विशति यत् पुमान् ॥ १६ ॥

Text 17

वासुदेवे भगवति तद्भक्तेषु च साधुषु ।
प्राप्तो भावं परं विश्वं येनेदं लोष्ट्रवत् स्मृतम् ॥ १७ ॥

Texts 18-20

स वै मन: कृष्णपदारविन्दयो-
र्वचांसि वैकुण्ठगुणानुवर्णने ।
करौ हरेर्मन्दिरमार्जनादिषु
श्रुतिं चकाराच्युतसत्कथोदये ॥ १८ ॥
मुकुन्दलिङ्गालयदर्शने द‍ृशौ
तद्भृत्यगात्रस्पर्शेऽङ्गसङ्गमम् ।
घ्राणं च तत्पादसरोजसौरभे
श्रीमत्तुलस्या रसनां तदर्पिते ॥ १९ ॥
पादौ हरे: क्षेत्रपदानुसर्पणे
शिरो हृषीकेशपदाभिवन्दने ।
कामं च दास्ये न तु कामकाम्यया
यथोत्तमश्लोकजनाश्रया रति: ॥ २० ॥

Text 21

एवं सदा कर्मकलापमात्मन:
परेऽधियज्ञे भगवत्यधोक्षजे ।
सर्वात्मभावं विदधन्महीमिमां
तन्निष्ठविप्राभिहित: शशास ह ॥ २१ ॥

Text 22

ईजेऽश्वमेधैरधियज्ञमीश्वरं
महाविभूत्योपचिताङ्गदक्षिणै: ।
ततैर्वसिष्ठासितगौतमादिभि-
र्धन्वन्यभिस्रोतमसौ सरस्वतीम् ॥ २२ ॥

Text 23

यस्य क्रतुषु गीर्वाणै: सदस्या ऋत्विजो जना: ।
तुल्यरूपाश्चानिमिषा व्यद‍ृश्यन्त सुवासस: ॥ २३ ॥

Text 24

स्वर्गो न प्रार्थितो यस्य मनुजैरमरप्रिय: ।
श‍ृण्वद्भिरुपगायद्भिरुत्तमश्लोकचेष्टितम् ॥ २४ ॥

Text 25

संवर्धयन्ति यत् कामा: स्वाराज्यपरिभाविता: ।
दुर्लभा नापि सिद्धानां मुकुन्दं हृदि पश्यत: ॥ २५ ॥

Text 26

स इत्थं भक्तियोगेन तपोयुक्तेन पार्थिव: ।
स्वधर्मेण हरिं प्रीणन् सर्वान् कामान्शनैर्जहौ ॥ २६ ॥

Text 27

गृहेषु दारेषु सुतेषु बन्धुषु
द्विपोत्तमस्यन्दनवाजिवस्तुषु ।
अक्षय्यरत्नाभरणाम्बरादि-
ष्वनन्तकोशेष्वकरोदसन्मतिम् ॥ २७ ॥

Text 28

तस्मा अदाद्धरिश्चक्रं प्रत्यनीकभयावहम् ।
एकान्तभक्तिभावेन प्रीतो भक्ताभिरक्षणम् ॥ २८ ॥

Text 29

आरिराधयिषु: कृष्णं महिष्या तुल्यशीलया ।
युक्त: सांवत्सरं वीरो दधार द्वादशीव्रतम् ॥ २९ ॥

Text 30

व्रतान्ते कार्तिके मासि त्रिरात्रं समुपोषित: ।
स्‍नात: कदाचित् कालिन्द्यां हरिं मधुवनेऽर्चयत् ॥ ३० ॥

Texts 31-32

महाभिषेकविधिना सर्वोपस्करसम्पदा ।
अभिषिच्याम्बराकल्पैर्गन्धमाल्यार्हणादिभि: ॥ ३१ ॥
तद्गतान्तरभावेन पूजयामास केशवम् ।
ब्राह्मणांश्च महाभागान् सिद्धार्थानपि भक्तित: ॥ ३२ ॥

Texts 33-35

गवां रुक्‍मविषाणीनां रूप्याङ्घ्रीणां सुवाससाम् ।
पय:शीलवयोरूपवत्सोपस्करसम्पदाम् ॥ ३३ ॥
प्राहिणोत् साधुविप्रेभ्यो गृहेषु न्यर्बुदानि षट् ।
भोजयित्वा द्विजानग्रे स्वाद्वन्नं गुणवत्तमम् ॥ ३४ ॥
लब्धकामैरनुज्ञात: पारणायोपचक्रमे ।
तस्य तर्ह्यतिथि: साक्षाद् दुर्वास भगवानभूत् ॥ ३५ ॥

Text 36

तमानर्चातिथिं भूप: प्रत्युत्थानासनार्हणै: ।
ययाचेऽभ्यवहाराय पादमूलमुपागत: ॥ ३६ ॥

Text 37

प्रतिनन्द्य स तां याञ्चां कर्तुमावश्यकं गत: ।
निममज्ज बृहद् ध्यायन् कालिन्दीसलिले शुभे ॥ ३७ ॥

Text 38

मुहूर्तार्धावशिष्टायां द्वादश्यां पारणं प्रति ।
चिन्तयामास धर्मज्ञो द्विजैस्तद्धर्मसङ्कटे ॥ ३८ ॥

Texts 39-40

ब्राह्मणातिक्रमे दोषो द्वादश्यां यदपारणे ।
यत् कृत्वा साधु मे भूयादधर्मो वा न मां स्पृशेत् ॥ ३९ ॥
अम्भसा केवलेनाथ करिष्ये व्रतपारणम् ।
आहुरब्भक्षणं विप्रा ह्यशितं नाशितं च तत् ॥ ४० ॥

Text 41

इत्यप: प्राश्य राजर्षिश्चिन्तयन् मनसाच्युतम् ।
प्रत्यचष्ट कुरुश्रेष्ठ द्विजागमनमेव स: ॥ ४१ ॥

Text 42

दुर्वास यमुनाकूलात् कृतावश्यक आगत: ।
राज्ञाभिनन्दितस्तस्य बुबुधे चेष्टितं धिया ॥ ४२ ॥

Text 43

मन्युना प्रचलद्गात्रो भ्रुकुटीकुटिलानन: ।
बुभुक्षितश्च सुतरां कृताञ्जलिमभाषत ॥ ४३ ॥

Text 44

अहो अस्य नृशंसस्य श्रियोन्मत्तस्य पश्यत ।
धर्मव्यतिक्रमं विष्णोरभक्तस्येशमानिन: ॥ ४४ ॥

Text 45

यो मामतिथिमायातमातिथ्येन निमन्‍त्र्य च ।
अदत्त्वा भुक्तवांस्तस्य सद्यस्ते दर्शये फलम् ॥ ४५ ॥

Text 46

एवं ब्रुवाण उत्कृत्य जटां रोषप्रदीपित: ।
तया स निर्ममे तस्मै कृत्यां कालानलोपमाम् ॥ ४६ ॥

Text 47

तामापतन्तीं ज्वलतीमसिहस्तां पदा भुवम् ।
वेपयन्तीं समुद्वीक्ष्य न चचाल पदान्नृप: ॥ ४७ ॥

Text 48

प्राग्दिष्टं भृत्यरक्षायां पुरुषेण महात्मना ।
ददाह कृत्यां तां चक्रं क्रुद्धाहिमिव पावक: ॥ ४८ ॥

Text 49

तदभिद्रवदुद्वीक्ष्य स्वप्रयासं च निष्फलम् ।
दुर्वास दुद्रुवे भीतो दिक्षु प्राणपरीप्सया ॥ ४९ ॥

Text 50

तमन्वधावद् भगवद्रथाङ्गं
दावाग्निरुद्धूतशिखो यथाहिम् ।
तथानुषक्तं मुनिरीक्षमाणो
गुहां विविक्षु: प्रससार मेरो: ॥ ५० ॥

Text 51

दिशो नभ: क्ष्मां विवरान्समुद्रान्
लोकान् सपालांस्त्रिदिवं गत: स: ।
यतो यतो धावति तत्र तत्र
सुदर्शनं दुष्प्रसहं ददर्श ॥ ५१ ॥

Text 52

अलब्धनाथ: स सदा कुतश्चित्
सन्त्रस्तचित्तोऽरणमेषमाण: ।
देवं विरिञ्चं समगाद्विधात-
स्त्राह्यात्मयोनेऽजिततेजसो माम् ॥ ५२ ॥

Texts 53-54

श्रीब्रह्मोवाच
स्थानं मदीयं सहविश्वमेतत्
क्रीडावसाने द्विपरार्धसंज्ञे ।
भ्रूभङ्गमात्रेण हि सन्दिधक्षो:
कालात्मनो यस्य तिरोभविष्यति ॥ ५३ ॥
अहं भवो दक्षभृगुप्रधाना:
प्रजेशभूतेशसुरेशमुख्या: ।
सर्वे वयं यन्नियमं प्रपन्ना
मूर्ध्‍न्यार्पितं लोकहितं वहाम: ॥ ५४ ॥

Text 55

प्रत्याख्यातो विरिञ्चेन विष्णुचक्रोपतापित: ।
दुर्वास: शरणं यात: शर्वं कैलासवासिनम् ॥ ५५ ॥

Text 56

श्रीशङ्कर उवाच
वयं न तात प्रभवाम भूम्नि
यस्मिन् परेऽन्येऽप्यजजीवकोशा: ।
भवन्ति काले न भवन्ति हीद‍ृशा:
सहस्रशो यत्र वयं भ्रमाम: ॥ ५६ ॥

Texts 57-59

अहं सनत्कुमारश्च नारदो भगवानज: ।
कपिलोऽपान्तरतमो देवलो धर्म आसुरि: ॥ ५७ ॥
मरीचिप्रमुखाश्चान्ये सिद्धेशा: पारदर्शना: ।
विदाम न वयं सर्वे यन्मायां माययावृता: ॥ ५८ ॥
तस्य विश्वेश्वरस्येदं शस्त्रं दुर्विषहं हि न: ।
तमेवं शरणं याहि हरिस्ते शं विधास्यति ॥ ५९ ॥

Text 60

ततो निराशो दुर्वास: पदं भगवतो ययौ ।
वैकुण्ठाख्यं यदध्यास्ते श्रीनिवास: श्रिया सह ॥ ६० ॥

Text 61

सन्दह्यमानोऽजितशस्त्रवह्निना
तत्पादमूले पतित: सवेपथु: ।
आहाच्युतानन्त सदीप्सित प्रभो
कृतागसं माव हि विश्वभावन ॥ ६१ ॥

Text 62

अजानता ते परमानुभावं
कृतं मयाघं भवत: प्रियाणाम् ।
विधेहि तस्यापचितिं विधात-
र्मुच्येत यन्नाम्न्युदिते नारकोऽपि ॥ ६२ ॥

Text 63

श्रीभगवानुवाच
अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज ।
साधुभिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रिय: ॥ ६३ ॥

Text 64

नाहमात्मानमाशासे मद्भक्तै: साधुभिर्विना ।
श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिरहं परा ॥ ६४ ॥

Text 65

ये दारागारपुत्राप्तप्राणान् वित्तमिमं परम् ।
हित्वा मां शरणं याता: कथं तांस्त्यक्तुमुत्सहे ॥ ६५ ॥

Text 66

मयि निर्बद्धहृदया: साधव: समदर्शना: ।
वशीकुर्वन्ति मां भक्त्या सत्स्त्रिय: सत्पतिं यथा ॥ ६६ ॥

Text 67

मत्सेवया प्रतीतं ते सालोक्यादिचतुष्टयम् ।
नेच्छन्ति सेवया पूर्णा: कुतोऽन्यत् कालविप्लुतम् ॥ ६७ ॥

Text 68

साधवो हृदयं मह्यं साधूनां हृदयं त्वहम् ।
मदन्यत् ते न जानन्ति नाहं तेभ्यो मनागपि ॥ ६८ ॥

Text 69

उपायं कथयिष्यामि तव विप्र श‍ृणुष्व तत् ।
अयं ह्यात्माभिचारस्ते यतस्तं याहि मा चिरम् ।
साधुषु प्रहितं तेज: प्रहर्तु: कुरुतेऽशिवम् ॥ ६९ ॥

Text 70

तपो विद्या च विप्राणां नि:श्रेयसकरे उभे ।
ते एव दुर्विनीतस्य कल्पेते कर्तुरन्यथा ॥ ७० ॥

Text 71

ब्रह्मंस्तद् गच्छ भद्रं ते नाभागतनयं नृपम् ।
क्षमापय महाभागं तत: शान्तिर्भविष्यति ॥ ७१ ॥

Srimad Bhagavatam | Canto 9 | Chapter 3 | Verses

0

The Marriage of Sukanyā and Cyavana Muni

Text 1

श्रीशुक उवाच
शर्यातिर्मानवो राजा ब्रह्मिष्ठ: सम्बभूव ह ।
यो वा अङ्गिरसां सत्रे द्वितीयमहरूचिवान् ॥ १ ॥

Text 2

सुकन्या नाम तस्यासीत् कन्या कमललोचना ।
तया सार्धं वनगतो ह्यगमच्च्यवनाश्रमम् ॥ २ ॥

Text 3

सा सखीभि: परिवृता विचिन्वन्त्यङ्‌घ्रिपान् वने ।
वल्मीकरन्ध्रे दद‍ृशे खद्योते इव ज्योतिषी ॥ ३ ॥

Text 4

ते दैवचोदिता बाला ज्योतिषी कण्टकेन वै ।
अविध्यन्मुग्धभावेन सुस्रावासृक् ततो बहि: ॥ ४ ॥

Text 5

शकृन्मूत्रनिरोधोऽभूत् सैनिकानां च तत्क्षणात् ।
राजर्षिस्तमुपालक्ष्य पुरुषान् विस्मितोऽब्रवीत् ॥ ५ ॥

Text 6

अप्यभद्रं न युष्माभिर्भार्गवस्य विचेष्टितम् ।
व्यक्तं केनापि नस्तस्य कृतमाश्रमदूषणम् ॥ ६ ॥

Text 7

सुकन्या प्राह पितरं भीता किञ्चित् कृतं मया ।
द्वे ज्योतिषी अजानन्त्या निर्भिन्ने कण्टकेन वै ॥ ७ ॥

Text 8

दुहितुस्तद् वच: श्रुत्वा शर्यातिर्जातसाध्वस: ।
मुनिं प्रसादयामास वल्मीकान्तर्हितं शनै: ॥ ८ ॥

Text 9

तदभिप्रायमाज्ञाय प्रादाद् दुहितरं मुने: ।
कृच्छ्रान्मुक्तस्तमामन्‍त्र्य पुरं प्रायात् समाहित: ॥ ९ ॥

Text 10

सुकन्या च्यवनं प्राप्य पतिं परमकोपनम् ।
प्रीणयामास चित्तज्ञा अप्रमत्तानुवृत्तिभि: ॥ १० ॥

Text 11

कस्यचित् त्वथ कालस्य नासत्यावाश्रमागतौ ।
तौ पूजयित्वा प्रोवाच वयो मे दत्तमीश्वरौ ॥ ११ ॥

Text 12

ग्रहं ग्रहीष्ये सोमस्य यज्ञे वामप्यसोमपो: ।
क्रियतां मे वयो रूपं प्रमदानां यदीप्सितम् ॥ १२ ॥

Text 13

बाढमित्यूचतुर्विप्रमभिनन्द्य भिषक्तमौ ।
निमज्जतां भवानस्मिन् ह्रदे सिद्धविनिर्मिते ॥ १३ ॥

Text 14

इत्युक्तो जरया ग्रस्तदेहो धमनिसन्तत: ।
ह्रदं प्रवेशितोऽश्विभ्यां वलीपलितविग्रह: ॥ १४ ॥

Text 15

पुरुषास्त्रय उत्तस्थुरपीव्या वनिताप्रिया: ।
पद्मस्रज: कुण्डलिनस्तुल्यरूपा: सुवासस: ॥ १५ ॥

Text 16

तान् निरीक्ष्य वरारोहा सरूपान् सूर्यवर्चस: ।
अजानती पतिं साध्वी अश्विनौ शरणं ययौ ॥ १६ ॥

Text 17

दर्शयित्वा पतिं तस्यै पातिव्रत्येन तोषितौ ।
ऋषिमामन्‍त्र्य ययतुर्विमानेन त्रिविष्टपम् ॥ १७ ॥

Text 18

यक्ष्यमाणोऽथ शर्यातिश्‍च्यवनस्याश्रमं गत: ।
ददर्श दुहितु: पार्श्वे पुरुषं सूर्यवर्चसम् ॥ १८ ॥

Text 19

राजा दुहितरं प्राह कृतपादाभिवन्दनाम् ।
आशिषश्चाप्रयुञ्जानो नातिप्रीतिमना इव ॥ १९ ॥

Text 20

चिकीर्षितं ते किमिदं पतिस्त्वया
प्रलम्भितो लोकनमस्कृतो मुनि: ।
यत् त्वं जराग्रस्तमसत्यसम्मतं
विहाय जारं भजसेऽमुमध्वगम् ॥ २० ॥

Text 21

कथं मतिस्तेऽवगतान्यथा सतां
कुलप्रसूते कुलदूषणं त्विदम् ।
बिभर्षि जारं यदपत्रपा कुलं
पितुश्च भर्तुश्च नयस्यधस्तम: ॥ २१ ॥

Text 22

एवं ब्रुवाणं पितरं स्मयमाना शुचिस्मिता ।
उवाच तात जामाता तवैष भृगुनन्दन: ॥ २२ ॥

Text 23

शशंस पित्रे तत् सर्वं वयोरूपाभिलम्भनम् ।
विस्मित: परमप्रीतस्तनयां परिषस्वजे ॥ २३ ॥

Text 24

सोमेन याजयन् वीरं ग्रहं सोमस्य चाग्रहीत् ।
असोमपोरप्यश्विनोश्‍च्यवन: स्वेन तेजसा ॥ २४ ॥

Text 25

हन्तुं तमाददे वज्रं सद्योमन्युरमर्षित: ।
सवज्रं स्तम्भयामास भुजमिन्द्रस्य भार्गव: ॥ २५ ॥

Text 26

अन्वजानंस्तत: सर्वे ग्रहं सोमस्य चाश्विनो: ।
भिषजाविति यत् पूर्वं सोमाहुत्या बहिष्कृतौ ॥ २६ ॥

Text 27

उत्तानबर्हिरानर्तो भूरिषेण इति त्रय: ।
शर्यातेरभवन् पुत्रा आनर्ताद् रेवतोऽभवत् ॥ २७ ॥

Text 28

सोऽन्त:समुद्रे नगरीं विनिर्माय कुशस्थलीम् ।
आस्थितोऽभुङ्क्त विषयानानर्तादीनरिन्दम ।
तस्य पुत्रशतं जज्ञे ककुद्मिज्येष्ठमुत्तमम् ॥ २८ ॥

Text 29

ककुद्मी रेवतीं कन्यां स्वामादाय विभुं गत: ।
पुत्र्यावरं परिप्रष्टुं ब्रह्मलोकमपावृतम् ॥ २९ ॥

Text 30

आवर्तमाने गान्धर्वे स्थितोऽलब्धक्षण: क्षणम् ।
तदन्त आद्यमानम्य स्वाभिप्रायं न्यवेदयत् ॥ ३० ॥

Text 31

तच्छ्रुत्वा भगवान् ब्रह्मा प्रहस्य तमुवाच ह ।
अहो राजन् निरुद्धास्ते कालेन हृदि ये कृता: ॥ ३१ ॥

Text 32

तत्पुत्रपौत्रनप्तृणां गोत्राणि च न श‍ृण्महे ।
कालोऽभियातस्त्रिणवचतुर्युगविकल्पित: ॥ ३२ ॥

Text 33

तद् गच्छ देवदेवांशो बलदेवो महाबल: ।
कन्यारत्नमिदं राजन् नररत्नाय देहि भो: ॥ ३३ ॥

Text 34

भुवो भारावताराय भगवान् भूतभावन: ।
अवतीर्णो निजांशेन पुण्यश्रवणकीर्तन: ॥ ३४ ॥

Text 35

इत्यादिष्टोऽभिवन्द्याजं नृप: स्वपुरमागत: ।
त्यक्तं पुण्यजनत्रासाद् भ्रातृभिर्दिक्ष्ववस्थितै: ॥ ३५ ॥

Text 36

सुतां दत्त्वानवद्याङ्गीं बलाय बलशालिने ।
बदर्याख्यं गतो राजा तप्तुं नारायणाश्रमम् ॥ ३६ ॥

Srimad Bhagavatam | Canto 9 | Chapter 2 | Verses

0

The Dynasties of the Sons of Manu

Text 1

श्रीशुक उवाच
एवं गतेऽथ सुद्युम्ने मनुर्वैवस्वत: सुते ।
पुत्रकामस्तपस्तेपे यमुनायां शतं समा: ॥ १ ॥

Text 2

ततोऽयजन्मनुर्देवमपत्यार्थं हरिं प्रभुम् ।
इक्ष्वाकुपूर्वजान् पुत्रान्लेभे स्वसद‍ृशान् दश ॥ २ ॥

Text 3

पृषध्रस्तु मनो: पुत्रो गोपालो गुरुणा कृत: ।
पालयामास गा यत्तो रात्र्यां वीरासनव्रत: ॥ ३ ॥

Text 4

एकदा प्राविशद् गोष्ठं शार्दूलो निशि वर्षति ।
शयाना गाव उत्थाय भीतास्ता बभ्रमुर्व्रजे ॥ ४ ॥

Texts 5-6

एकां जग्राह बलवान् सा चुक्रोश भयातुरा ।
तस्यास्तु क्रन्दितं श्रुत्वा पृषध्रोऽनुससार ह ॥ ५ ॥
खड्‌गमादाय तरसा प्रलीनोडुगणे निशि ।
अजानन्नच्छिनोद् बभ्रो: शिर: शार्दूलशङ्कया ॥ ६ ॥

Text 7

व्याघ्रोऽपि वृक्णश्रवणो निस्त्रिंशाग्राहतस्तत: ।
निश्चक्राम भृशं भीतो रक्तं पथि समुत्सृजन् ॥ ७ ॥

Text 8

मन्यमानो हतं व्याघ्रं पृषध्र: परवीरहा ।
अद्राक्षीत् स्वहतां बभ्रुं व्युष्टायां निशि दु:खित: ॥ ८ ॥

Text 9

तं शशाप कुलाचार्य: कृतागसमकामत: ।
न क्षत्रबन्धु: शूद्रस्त्वं कर्मणा भवितामुना ॥ ९ ॥

Text 10

एवं शप्तस्तु गुरुणा प्रत्यगृह्णात् कृताञ्जलि: ।
अधारयद् व्रतं वीर ऊर्ध्वरेता मुनिप्रियम् ॥ १० ॥

Texts 11-13

वासुदेवे भगवति सर्वात्मनि परेऽमले ।
एकान्तित्वं गतो भक्त्या सर्वभूतसुहृत् सम: ॥ ११ ॥
विमुक्तसङ्ग: शान्तात्मा संयताक्षोऽपरिग्रह: ।
यद‍ृच्छयोपपन्नेन कल्पयन् वृत्तिमात्मन: ॥ १२ ॥
आत्मन्यात्मानमाधाय ज्ञानतृप्त: समाहित: ।
विचचार महीमेतां जडान्धबधिराकृति: ॥ १३ ॥

Text 14

एवं वृत्तो वनं गत्वा दृष्ट्वा दावाग्निमुत्थितम् ।
तेनोपयुक्तकरणो ब्रह्म प्राप परं मुनि: ॥ १४ ॥

Text 15

कवि: कनीयान् विषयेषु नि:स्पृहो
विसृज्य राज्यं सह बन्धुभिर्वनम् ।
निवेश्य चित्ते पुरुषं स्वरोचिषं
विवेश कैशोरवया: परं गत: ॥ १५ ॥

Text 16

करूषोन्मानवादासन् कारूषो: क्षत्रजातय: ।
उत्तरापथगोप्तारो ब्रह्मण्या धर्मवत्सला: ॥ १६ ॥

Text 17

धृष्टाद् धार्ष्टमभूत् क्षत्रं ब्रह्मभूयं गतं क्षितौ ।
नृगस्य वंश: सुमतिर्भूतज्योतिस्ततो वसु: ॥ १७ ॥

Text 18

वसो: प्रतीकस्तत्पुत्र ओघवानोघवत्पिता ।
कन्या चौघवती नाम सुदर्शन उवाह ताम् ॥ १८ ॥

Text 19

चित्रसेनो नरिष्यन्ताद‍ृक्षस्तस्य सुतोऽभवत् ।
तस्य मीढ्‍वांस्तत: पूर्ण इन्द्रसेनस्तु तत्सुत: ॥ १९ ॥

Text 20

वीतिहोत्रस्त्विन्द्रसेनात् तस्य सत्यश्रवा अभूत् ।
उरुश्रवा: सुतस्तस्य देवदत्तस्ततोऽभवत् ॥ २० ॥

Text 21

ततोऽग्निवेश्यो भगवानग्नि: स्वयमभूत् सुत: ।
कानीन इति विख्यातो जातूकर्ण्यो महानृषि: ॥ २१ ॥

Text 22

ततो ब्रह्मकुलं जातमाग्निवेश्यायनं नृप ।
नरिष्यन्तान्वय: प्रोक्तो दिष्टवंशमत: श‍ृणु ॥ २२ ॥

Texts 23-24

नाभागो दिष्टपुत्रोऽन्य: कर्मणा वैश्यतां गत: ।
भलन्दन: सुतस्तस्य वत्सप्रीतिर्भलन्दनात् ॥ २३ ॥
वत्सप्रीते: सुत: प्रांशुस्तत्सुतं प्रमतिं विदु: ।
खनित्र: प्रमतेस्तस्माच्चाक्षुषोऽथ विविंशति: ॥ २४ ॥

Text 25

विविंशते: सुतो रम्भ: खनीनेत्रोऽस्य धार्मिक: ।
करन्धमो महाराज तस्यासीदात्मजो नृप ॥ २५ ॥

Text 26

तस्यावीक्षित् सुतो यस्य मरुत्तश्चक्रवर्त्यभूत् ।
संवर्तोऽयाजयद् यं वै महायोग्यङ्गिर:सुत: ॥ २६ ॥

Text 27

मरुत्तस्य यथा यज्ञो न तथान्योऽस्ति कश्चन ।
सर्वं हिरण्मयं त्वासीद् यत् किञ्चिच्चास्य शोभनम् ॥ २७ ॥

Text 28

अमाद्यदिन्द्र: सोमेन दक्षिणाभिर्द्विजातय: ।
मरुत: परिवेष्टारो विश्वेदेवा: सभासद: ॥ २८ ॥

Text 29

मरुत्तस्य दम: पुत्रस्तस्यासीद् राज्यवर्धन: ।
सुधृतिस्तत्सुतो जज्ञे सौधृतेयो नर: सुत: ॥ २९ ॥

Text 30

तत्सुत: केवलस्तस्माद् धुन्धुमान्वेगवांस्तत: ।
बुधस्तस्याभवद् यस्य तृणबिन्दुर्महीपति: ॥ ३० ॥

Text 31

तं भेजेऽलम्बुषा देवी भजनीयगुणालयम् ।
वराप्सरा यत: पुत्रा: कन्या चेलविलाभवत् ॥ ३१ ॥

Text 32

यस्यामुत्पादयामास विश्रवा धनदं सुतम् ।
प्रादाय विद्यां परमामृषिर्योगेश्वर: पितु: ॥ ३२ ॥

Text 33

विशाल: शून्यबन्धुश्च धूम्रकेतुश्च तत्सुता: ।
विशालो वंशकृद् राजा वैशालीं निर्ममे पुरीम् ॥ ३३ ॥

Text 34

हेमचन्द्र: सुतस्तस्य धूम्राक्षस्तस्य चात्मज: ।
तत्पुत्रात् संयमादासीत् कृशाश्व: सहदेवज: ॥ ३४ ॥

Texts 35-36

कृशाश्वात् सोमदत्तोऽभूद् योऽश्वमेधैरिडस्पतिम् ।
इष्ट्वा पुरुषमापाग्र्यां गतिं योगेश्वराश्रिताम् ॥ ३५ ॥
सौमदत्तिस्तु सुमतिस्तत्पुत्रो जनमेजय: ।
एते वैशालभूपालास्तृणबिन्दोर्यशोधरा: ॥ ३६ ॥

Srimad Bhagavatam | Canto 9 | Chapter 1 | Verses

0

King Sudyumna Becomes a Woman

Text 1

श्रीराजोवाच
मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे ।
वीर्याण्यनन्तवीर्यस्य हरेस्तत्र कृतानि च ॥ १ ॥

Texts 2-3

योऽसौ सत्यव्रतो नाम राजर्षिर्द्रविडेश्वर: ।
ज्ञानं योऽतीतकल्पान्ते लेभे पुरुषसेवया ॥ २ ॥
स वै विवस्वत: पुत्रो मनुरासीदिति श्रुतम् ।
त्वत्तस्तस्य सुता:प्रोक्ता इक्ष्वाकुप्रमुखा नृपा: ॥ ३ ॥

Text 4

तेषां वंशं पृथग् ब्रह्मन् वंशानुचरितानि च ।
कीर्तयस्व महाभाग नित्यं शुश्रूषतां हि न: ॥ ४ ॥

Text 5

ये भूता ये भविष्याश्च भवन्त्यद्यतनाश्च ये ।
तेषां न: पुण्यकीर्तीनां सर्वेषां वद विक्रमान् ॥ ५ ॥

Text 6

श्रीसूत उवाच
एवं परीक्षिता राज्ञा सदसि ब्रह्मवादिनाम् ।
पृष्ट: प्रोवाच भगवाञ्छुक: परमधर्मवित् ॥ ६ ॥

Text 7

श्रीशुक उवाच
श्रूयतां मानवो वंश: प्राचुर्येण परन्तप ।
न शक्यते विस्तरतो वक्तुं वर्षशतैरपि ॥ ७ ॥

Text 8

परावरेषां भूतानामात्मा य: पुरुष: पर: ।
स एवासीदिदं विश्वं कल्पान्तेऽन्यन्न किञ्चन ॥ ८ ॥

Text 9

तस्य नाभे: समभवत् पद्मकोषो हिरण्मय: ।
तस्मिञ्जज्ञे महाराज स्वयम्भूश्चतुरानन: ॥ ९ ॥

Text 10

मरीचिर्मनसस्तस्य जज्ञे तस्यापि कश्यप: ।
दाक्षायण्यां ततोऽदित्यां विवस्वानभवत् सुत: ॥ १० ॥

Texts 11-12

ततो मनु: श्राद्धदेव: संज्ञायामास भारत ।
श्रद्धायां जनयामास दश पुत्रान् स आत्मवान् ॥ ११ ॥
इक्ष्वाकुनृगशर्यातिदिष्टधृष्टकरूषकान् ।
नरिष्यन्तं पृषध्रं च नभगं च कविं विभु: ॥ १२ ॥

Text 13

अप्रजस्य मनो: पूर्वं वसिष्ठो भगवान् किल ।
मित्रावरुणयोरिष्टिं प्रजार्थमकरोद् विभु: ॥ १३ ॥

Text 14

तत्र श्रद्धा मनो: पत्नी होतारं समयाचत ।
दुहित्रर्थमुपागम्य प्रणिपत्य पयोव्रता ॥ १४ ॥

Text 15

प्रेषितोऽध्वर्युणा होता व्यचरत् तत् समाहित: ।
गृहीते हविषि वाचा वषट्कारं गृणन्द्विज: ॥ १५ ॥

Text 16

होतुस्तद्‌व्यभिचारेण कन्येला नाम साभवत् ।
तां विलोक्य मनु: प्राह नातितुष्टमना गुरुम् ॥ १६ ॥

Text 17

भगवन् किमिदं जातं कर्म वो ब्रह्मवादिनाम् ।
विपर्ययमहो कष्टं मैवं स्याद् ब्रह्मविक्रिया ॥ १७ ॥

Text 18

यूयं ब्रह्मविदो युक्तास्तपसा दग्धकिल्बिषा: ।
कुत: सङ्कल्पवैषम्यमनृतं विबुधेष्विव ॥ १८ ॥

Text 19

निशम्य तद् वचस्तस्य भगवान् प्रपितामह: ।
होतुर्व्यतिक्रमं ज्ञात्वा बभाषे रविनन्दनम् ॥ १९ ॥

Text 20

एतत् सङ्कल्पवैषम्यं होतुस्ते व्यभिचारत: ।
तथापि साधयिष्ये ते सुप्रजास्त्वं स्वतेजसा ॥ २० ॥

Text 21

एवं व्यवसितो राजन् भगवान् स महायशा: ।
अस्तौषीदादिपुरुषमिलाया: पुंस्त्वकाम्यया ॥ २१ ॥

Text 22

तस्मै कामवरं तुष्टो भगवान् हरिरीश्वर: ।
ददाविलाभवत् तेन सुद्युम्न: पुरुषर्षभ: ॥ २२ ॥

Texts 23-24

स एकदा महाराज विचरन् मृगयां वने ।
वृत: कतिपयामात्यैरश्वमारुह्य सैन्धवम् ॥ २३ ॥
प्रगृह्य रुचिरं चापं शरांश्च परमाद्भ‍ुतान् ।
दंशितोऽनुमृगं वीरो जगाम दिशमुत्तराम् ॥ २४ ॥

Text 25

सुकुमारवनं मेरोरधस्तात् प्रविवेश ह ।
यत्रास्ते भगवाञ्छर्वो रममाण: सहोमया ॥ २५ ॥

Text 26

तस्मिन् प्रविष्ट एवासौ सुद्युम्न: परवीरहा ।
अपश्यत् स्रियमात्मानमश्वं च वडवां नृप ॥ २६ ॥

Text 27

तथा तदनुगा: सर्वे आत्मलिङ्गविपर्ययम् ।
दृष्ट्वा विमनसोऽभूवन् वीक्षमाणा: परस्परम् ॥ २७ ॥

Text 28

श्रीराजोवाच
कथमेवं गुणो देश: केन वा भगवन् कृत: ।
प्रश्न‍मेनं समाचक्ष्व परं कौतूहलं हि न: ॥ २८ ॥

Text 29

श्रीशुक उवाच
एकदा गिरिशं द्रष्टुमृषयस्तत्र सुव्रता: ।
दिशो वितिमिराभासा: कुर्वन्त: समुपागमन् ॥ २९ ॥

Text 30

तान् विलोक्याम्बिका देवी विवासा व्रीडिता भृशम् ।
भर्तुरङ्कात् समुत्थाय नीवीमाश्वथ पर्यधात् ॥ ३० ॥

Text 31

ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयो: ।
निवृत्ता: प्रययुस्तस्मान्नरनारायणाश्रमम् ॥ ३१ ॥

Text 32

तदिदं भगवानाह प्रियाया: प्रियकाम्यया ।
स्थानं य: प्रविशेदेतत् स वै योषिद् भवेदिति ॥ ३२ ॥

Text 33

तत ऊर्ध्वं वनं तद् वै पुरुषा वर्जयन्ति हि ।
सा चानुचरसंयुक्ता विचचार वनाद् वनम् ॥ ३३ ॥

Text 34

अथ तामाश्रमाभ्याशे चरन्तीं प्रमदोत्तमाम् ।
स्रीभि: परिवृतां वीक्ष्य चकमे भगवान् बुध: ॥ ३४ ॥

Text 35

सापि तं चकमे सुभ्रू: सोमराजसुतं पतिम् ।
स तस्यां जनयामास पुरूरवसमात्मजम् ॥ ३५ ॥

Text 36

एवं स्रीत्वमनुप्राप्त: सुद्युम्नो मानवो नृप: ।
सस्मार स कुलाचार्यं वसिष्ठमिति शुश्रुम ॥ ३६ ॥

Text 37

स तस्य तां दशां दृष्ट्वा कृपया भृशपीडित: ।
सुद्युम्नस्याशयन् पुंस्त्वमुपाधावत शङ्करम् ॥ ३७ ॥

Texts 38-39

तुष्टस्तस्मै स भगवानृषये प्रियमावहन् ।
स्वां च वाचमृतां कुर्वन्निदमाह विशाम्पते ॥ ३८ ॥
मासं पुमान् स भविता मासं स्री तव गोत्रज: ।
इत्थं व्यवस्थया कामं सुद्युम्नोऽवतु मेदिनीम् ॥ ३९ ॥

Text 40

आचार्यानुग्रहात् कामं लब्ध्वा पुंस्त्वं व्यवस्थया ।
पालयामास जगतीं नाभ्यनन्दन् स्म तं प्रजा: ॥ ४० ॥

Text 41

तस्योत्कलो गयो राजन् विमलश्च त्रय: सुता: ।
दक्षिणापथराजानो बभूवुर्धर्मवत्सला: ॥ ४१ ॥

Text 42

तत: परिणते काले प्रतिष्ठानपति: प्रभु: ।
पुरूरवस उत्सृज्य गां पुत्राय गतो वनम् ॥ ४२ ॥

Stay Connected

16,985FansLike
12,500FollowersFollow
61,453SubscribersSubscribe