Mail ID: contact@vedavarsity.com

Contact: +91 9634998911

Google search engineGoogle search engine
Home Blog Page 27

Srimad Bhagavatam | Canto 5 | Chapter 16 | Verses

0

A Description of Jambūdvīpa

Text 1

राजोवाच
उक्तस्त्वया भूमण्डलायामविशेषो यावदादित्यस्तपति यत्र चासौ ज्योतिषां गणैश्चन्द्रमा वा सह द‍ृश्यते ॥ १ ॥

Text 2

तत्रापि प्रियव्रतरथचरणपरिखातै: सप्तभि: सप्त सिन्धव उपक्‍ल‍ृप्ता यत एतस्या: सप्तद्वीपविशेषविकल्पस्त्वया भगवन् खलु सूचित एतदेवाखिलमहं मानतो लक्षणतश्च सर्वं विजिज्ञासामि ॥ २ ॥

Text 3

भगवतो गुणमये स्थूलरूप आवेशितं मनो ह्यगुणेऽपि सूक्ष्मतम आत्मज्योतिषि परे ब्रह्मणि भगवति वासुदेवाख्ये क्षममावेशितुं तदु हैतद् गुरोऽर्हस्यनुवर्णयितुमिति ॥ ३ ॥

Text 4

ऋषिरुवाच
न वै महाराज भगवतो मायागुणविभूते: काष्ठां मनसा वचसा वाधिगन्तुमलं विबुधायुषापि पुरुषस्तस्मात्प्राधान्येनैव भूगोलकविशेषं नामरूप मानलक्षणतो व्याख्यास्याम: ॥ ४ ॥

Text 5

यो वायं द्वीप: कुवलयकमलकोशाभ्यन्तरकोशो नियुतयोजन विशाल: समवर्तुलो यथा पुष्करपत्रम् ॥ ५ ॥

Text 6

यस्मिन्नव वर्षाणि नवयोजनसहस्रायामान्यष्टभिर्मर्यादागिरिभि: सुविभक्तानि भवन्ति ॥ ६ ॥

Text 7

एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थित: सर्वत: सौवर्ण: कुलगिरिराजो मेरुर्द्वीपायामसमुन्नाह: कर्णिकाभूत: कुवलयकमलस्य मूर्धनि द्वात्रिंशत् सहस्रयोजनविततो मूले षोडशसहस्रं तावतान्तर्भूम्यां प्रविष्ट: ॥ ७ ॥

Text 8

उत्तरोत्तरेणेलावृतं नील: श्‍वेत: श‍ृङ्गवानिति त्रयो रम्यकहिरण्मयकुरूणां वर्षाणां मर्यादागिरय: प्रागायता उभयत: क्षारोदावधयो द्विसहस्रपृथव एकैकश: पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति ॥ ८ ॥

Text 9

एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति प्रागायता यथा
नीलादयोऽयुतयोजनोत्सेधा हरिवर्षकिम्पुरुषभारतानां यथासङ्ख्यम् ॥ ९ ॥

Text 10

तथैवेलावृतमपरेण पूर्वेण च माल्यवद्गन्धमादनावानीलनिषधायतौ द्विसहस्रं पप्रथतु: केतुमालभद्राश्वयो: सीमानं विदधाते ॥ १० ॥

Text 11

मन्दरो मेरुमन्दर: सुपार्श्व: कुमुद इत्ययुतयोजनविस्तारोन्नाहा मेरोश्चतुर्दिशमवष्टम्भगिरय उपक्‍ल‍ृप्ता: ॥ ११ ॥

Text 12

चतुर्ष्वेतेषु चूतजम्बूकदम्बन्यग्रोधाश्चत्वार: पादप प्रवरा: पर्वतकेतव इवाधिसहस्रयोजनोन्नाहास्तावद् विटपविततय: शतयोजनपरिणाहा: ॥ १२ ॥

Texts 13-14

ह्रदाश्चत्वार: पयोमध्विक्षुरसमृष्टजला यदुपस्पर्शिन उपदेवगणा योगैश्वर्याणि स्वाभाविकानि भरतर्षभ धारयन्ति ॥ १३ ॥ देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वैभ्राजकं सर्वतोभद्रमिति ॥ १४ ॥

Text 15

येष्वमर परिवृढा: सह सुरललनाललामयूथपतय उपदेवगणैरुपगीयमानमहिमान: किल विहरन्ति ॥ १५ ॥

Text 16

मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेवचूतशिरसो गिरिशिखरस्थूलानि फलान्यमृतकल्पानि पतन्ति ॥ १६ ॥

Text 17

तेषां विशीर्यमाणानामतिमधुरसुरभिसुगन्धि बहुलारुणरसोदेनारुणोदा नाम नदी मन्दरगिरिशिखरान्निपतन्ती पूर्वेणेलावृतमुपप्लावयति ॥ १७ ॥

Text 18

यदुपजोषणाद्भ‍वान्या अनुचरीणां पुण्यजनवधूनामवयवस्पर्शसुगन्धवातो दशयोजनं समन्तादनुवासयति ॥ १८ ॥

Text 19

एवं जम्बूफलानामत्युच्चनिपातविशीर्णानामनस्थिप्रायाणामिभकायनिभानां रसेन जम्बू नाम नदी मेरुमन्दरशिखरादयुतयोजनादवनितले निपतन्ती दक्षिणेनात्मानं यावदिलावृतमुपस्यन्दयति ॥ १९ ॥

Texts 20-21

तावदुभयोरपि रोधसोर्या मृत्तिका तद्रसेनानुविध्यमाना वाय्वर्कसंयोगविपाकेन सदामरलोकाभरणं जाम्बूनदं नाम सुवर्णं भवति ॥ २० ॥
यदु ह वाव विबुधादय: सह युवतिभिर्मुकुटकटककटिसूत्राद्याभरणरूपेण खलु धारयन्ति ॥ २१ ॥

Text 22

यस्तु महाकदम्ब: सुपार्श्वनिरूढो यास्तस्य कोटरेभ्यो विनि:सृता: पञ्चायामपरिणाहा: पञ्च मधुधारा: सुपार्श्वशिखरात्पतन्त्योऽपरेणात्मानमिलावृतमनुमोदयन्ति ॥ २२ ॥

Text 23

या ह्युपयुञ्जानानां मुखनिर्वासितो वायु: समन्ताच्छतयोजनमनुवासयति ॥ २३ ॥

Text 24

एवं कुमुदनिरूढो य: शतवल्शो नाम वटस्तस्य स्कन्धेभ्यो नीचीना: पयोदधिमधुघृतगुडान्नाद्यम्बरशय्यासनाभरणादय: सर्व एव कामदुघा नदा: कुमुदाग्रात्पतन्तस्तमुत्तरेणेलावृतमुपयोजयन्ति ॥ २४ ॥

Text 25

यानुपजुषाणानां न कदाचिदपि प्रजानां वलीपलितक्लमस्वेददौर्गन्ध्यजरामयमृत्युशीतोष्णवैवर्ण्योपसर्गादयस्तापविशेषा भवन्ति यावज्जीवं सुखं निरतिशयमेव ॥ २५ ॥

Text 26

कुरङ्गकुररकुसुम्भवैकङ्कत्रिकूटशिशिरपतङ्गरुचकनिषधशिनीवासकपिलशङ्खवैदूर्यजारुधिहंसऋषभनागकालञ्जरनारदादयो विंशतिगिरयो मेरो: कर्णिकाया इव केसरभूता मूलदेशे परित उपक्‍ल‍ृप्ता: ॥ २६ ॥

Text 27

जठरदेवकूटौ मेरुं पूर्वेणाष्टादशयोजनसहस्रमुदगायतौ द्विसहस्रं पृथुतुङ्गौ भवत: । एवमपरेण पवनपारियात्रौ दक्षिणेन कैलासकरवीरौ प्रागायतावेवमुत्तरतस्त्रिश‍ृङ्गमकरावष्टभिरेतै: परिसृतोऽग्निरिव परितश्चकास्ति काञ्चनगिरि: ॥ २७ ॥

Text 28

मेरोर्मूर्धनि भगवत आत्मयोनेर्मध्यत उपक्‍ल‍ृप्तां पुरीमयुतयोजनसाहस्रीं समचतुरस्रां शातकौम्भीं वदन्ति ॥ २८ ॥

Text 29

तामनुपरितो लोकपालानामष्टानां यथादिशं यथारूपं तुरीयमानेन पुरोऽष्टावुपक्‍ल‍ृप्ता: ॥ २९ ॥

Srimad Bhagavatam | Canto 5 | Chapter 15 | Verses

0

The Glories of the Descendants of King Priyavrata

Text 1

श्रीशुक उवाच
भरतस्यात्मज: सुमतिर्नामाभिहितो यमु ह वाव केचित्पाखण्डिन ऋषभपदवीमनुवर्तमानं चानार्या अवेदसमाम्नातां देवतां स्वमनीषया पापीयस्या कलौ कल्पयिष्यन्ति ॥ १ ॥

Text 2

तस्माद्‍वृद्धसेनायां देवताजिन्नाम पुत्रोऽभवत् ॥ २ ॥

Text 3

अथासुर्यां तत्तनयो देवद्युम्नस्ततो धेनुमत्यां सुत: परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजात: ॥ ३ ॥

Text 4

य आत्मविद्यामाख्याय स्वयं संशुद्धो महापुरुषमनुसस्मार ॥ ४ ॥

Text 5

प्रतीहात्सुवर्चलायां प्रतिहर्त्रादयस्त्रय आसन्निज्याकोविदा: सूनव: प्रतिहर्तु: स्तुत्यामजभूमानावजनिषाताम् ॥ ५ ॥

Text 6

भूम्न ऋषिकुल्यायामुद्गीथस्तत: प्रस्तावो देवकुल्यायां प्रस्तावान्नियुत्सायां हृदयज आसीद्विभुर्विभो रत्यां च पृथुषेणस्तस्मान्नक्त आकूत्यां जज्ञे नक्ताद्‍द्रुतिपुत्रो गयो राजर्षिप्रवर उदारश्रवा अजायत साक्षाद्भ‍गवतो विष्णोर्जगद्रिरक्षिषया गृहीतसत्त्वस्य कलाऽऽत्मवत्त्वादिलक्षणेन महापुरुषतां प्राप्त: ॥ ६ ॥

Text 7

स वै स्वधर्मेण प्रजापालन पोषणप्रीणनोपलालनानुशासनलक्षणेनेज्यादिना च भगवति महापुरुषे परावरे ब्रह्मणि सर्वात्मनार्पितपरमार्थलक्षणेन ब्रह्मविच्चरणानुसेवयाऽऽपादितभगवद्‍भक्तियोगेन चाभीक्ष्णश: परिभावितातिशुद्ध मतिरुपरतानात्म्य आत्मनि स्वयमुपलभ्यमानब्रह्मात्मानुभवोऽपि निरभिमान एवावनिमजूगुपत् ॥ ७ ॥

Text 8

तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति ॥ ८ ॥

Text 9

गयं नृप: क: प्रतियाति कर्मभि-र्यज्वाभिमानी बहुविद्धर्मगोप्ता । समागतश्री: सदसस्पति: सतांसत्सेवकोऽन्यो भगवत्कलामृते ॥ ९ ॥

Text 10

यमभ्यषिञ्चन् परया मुदा सती:सत्याशिषो दक्षकन्या: सरिद्भ‍ि: । यस्य प्रजानां दुदुहे धराऽऽशिषोनिराशिषो गुणवत्सस्‍नुतोधा: ॥ १० ॥

Text 11

छन्दांस्यकामस्य च यस्य कामान्दुदूहुराजह्रुरथो बलिं नृपा: । प्रत्यञ्चिता युधि धर्मेण विप्रायदाशिषां षष्ठमंशं परेत्य ॥ ११ ॥

Text 12

यस्याध्वरे भगवानध्वरात्मामघोनि माद्यत्युरुसोमपीथे । श्रद्धाविशुद्धाचलभक्तियोग-समर्पितेज्याफलमाजहार ॥ १२ ॥

Text 13

यत्प्रीणनाद्ब‍‌र्हिषि देवतिर्यङ्-मनुष्यवीरुत्तृणमाविरिञ्चात् । प्रीयेत सद्य: स ह विश्वजीव:प्रीत: स्वयं प्रीतिमगाद्गयस्य ॥ १३ ॥

Texts 14-15

गयाद्गयन्त्यां चित्ररथ: सुगतिरवरोधन इति त्रय: पुत्रा बभूवुश्चित्ररथादूर्णायां सम्राडजनिष्ट तत उत्कलायां मरीचिर्मरीचे ॥ १४ ॥
र्बिन्दुमत्यां बिन्दुमानुदपद्यत तस्मात्सरघायां मधुर्नामाभवन्मधो: सुमनसि वीरव्रतस्ततो भोजायां मन्थुप्रमन्थू जज्ञाते मन्थो: सत्यायां भौवनस्ततो दूषणायां त्वष्टाजनिष्ट त्वष्टुर्विरोचनायां विरजो विरजस्य शतजित्प्रवरं पुत्रशतं कन्या च विषूच्यां किल जातम् ॥ १५ ॥

Text 16

तत्रायं श्लोक:—
प्रैयव्रतं वंशमिमं विरजश्चरमोद्भ‍व: । अकरोदत्यलं कीर्त्या विष्णु: सुरगणं यथा ॥ १६ ॥

Srimad Bhagavatam | Canto 5 | Chapter 14 | Verses

0

The Material World as the Great Forest of Enjoyment

Text 1

स होवाच
स एष देहात्ममानिनां सत्त्वादिगुणविशेषविकल्पितकुशलाकुशलसमवहारविनिर्मितविविधदेहावलिभिर्वियोगसंयोगाद्यनादिसंसारानुभवस्य द्वारभूतेनषडिन्द्रियवर्गेण तस्मिन्दुर्गाध्ववदसुगमेऽध्वन्यापतित ईश्वरस्य भगवतो विष्णोर्वशवर्तिन्या मायया जीवलोकोऽयं यथा वणिक्सार्थोऽर्थपर: स्वदेहनिष्पादितकर्मानुभव: श्मशानवदशिवतमायां संसाराटव्यां गतो नाद्यापि विफलबहुप्रतियोगेहस्तत्तापोपशमनीं हरिगुरुचरणारविन्दमधुकरानुपदवीमवरुन्धे ॥ १ ॥

Text 2

यस्यामु ह वा एते षडिन्द्रियनामान: कर्मणा दस्यव एव ते । तद्यथा पुरुषस्य धनं यत्किञ्चिद्धर्मौपयिकं बहुकृच्छ्राधिगतं साक्षात्परमपुरुषाराधनलक्षणो योऽसौ धर्मस्तं तु साम्पराय उदाहरन्ति । तद्धर्म्यं धनं दर्शनस्पर्शनश्रवणास्वादनावघ्राणसङ्कल्पव्यवसायगृहग्राम्योपभोगेन कुनाथस्याजितात्मनो यथा सार्थस्य विलुम्पन्ति ॥ २ ॥

Text 3

अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्ना कर्मणा वृकसृगाला एवानिच्छतोऽपि कदर्यस्य कुटुम्बिन उरणकवत्संरक्ष्यमाणं मिषतोऽपि हरन्ति ॥ ३ ॥

Text 4

यथा ह्यनुवत्सरं कृष्यमाणमप्यदग्धबीजं क्षेत्रं पुनरेवावपनकाले गुल्मतृणवीरुद्भ‍िर्गह्वरमिव भवत्येवमेव गृहाश्रम: कर्मक्षेत्रं यस्मिन्न हि कर्माण्युत्सीदन्ति यदयं कामकरण्ड एष आवसथ: ॥ ४ ॥

Text 5

तत्रगतो दंशमशकसमापसदैर्मनुजै: शलभशकुन्ततस्करमूषकादिभिरुपरुध्यमानबहि:प्राण: क्‍वचित् परिवर्तमानोऽस्मिन्नध्वन्यविद्याकामकर्मभिरुपरक्तमनसानुपपन्नार्थं नरलोकं गन्धर्वनगरमु पपन्नमिति मिथ्याद‍ृष्टिरनुपश्यति ॥ ५ ॥

Text 6

तत्र च क्‍वचिदातपोदकनिभान् विषयानुपधावति पानभोजनव्यवायादिव्यसनलोलुप: ॥ ६ ॥

Text 7

क्‍वचिच्चाशेषदोषनिषदनं पुरीषविशेषं तद्वर्णगुणनिर्मितमति: सुवर्णमुपादित्सत्यग्निकामकातर इवोल्मुकपिशाचम् ॥ ७ ॥

Text 8

अथ कदाचिन्निवासपानीयद्रविणाद्यनेकात्मोपजीवनाभिनिवेश एतस्यां संसाराटव्यामितस्तत: परिधावति ॥ ८ ॥

Text 9

क्‍वचिच्च वात्यौपम्यया प्रमदयाऽऽरोहमारोपितस्तत्कालरजसा रजनीभूत इवासाधुमर्यादो रजस्वलाक्षोऽपि दिग्देवता अतिरजस्वलमतिर्न विजानाति ॥ ९ ॥

Text 10

क्‍वचित्सकृदवगतविषयवैतथ्य: स्वयं पराभिध्यानेन विभ्रंशितस्मृतिस्तयैव मरीचितोयप्रायांस्तानेवाभिधावति ॥ १० ॥

Text 11

क्‍वचिदुलूकझिल्लीस्वनवदतिपरुषरभसाटोपं प्रत्यक्षं परोक्षं वा रिपुराजकुलनिर्भर्त्सितेनातिव्यथितकर्णमूलहृदय: ॥ ११ ॥

Text 12

स यदा दुग्धपूर्वसुकृतस्तदा कारस्करकाकतुण्डाद्यपुण्यद्रुमलताविषोदपानवदुभयार्थशून्यद्रविणान्जीवन्मृतान् स्वयं जीवन्म्रियमाण उपधावति ॥ १२ ॥

Text 13

एकदासत्प्रसङ्गान्निकृतमतिर्व्युदकस्रोत:स्खलनवद् उभयतोऽपि दु:खदं पाखण्डमभियाति ॥ १३ ॥

Text 14

यदा तु परबाधयान्ध आत्मने नोपनमति तदा हि पितृपुत्रबर्हिष्मत: पितृपुत्रान् वा स खलु भक्षयति ॥ १४ ॥

Text 15

क्‍वचिदासाद्य गृहं दाववत्प्रियार्थविधुरमसुखोदर्कं शोकाग्निना दह्यमानो भृशं निर्वेदमुपगच्छति ॥ १५ ॥

Text 16

क्‍वचित्कालविषमितराजकुलरक्षसापहृतप्रियतमधनासु: प्रमृतक इव विगतजीवलक्षण आस्ते ॥ १६ ॥

Text 17

कदाचिन्मनोरथोपगतपितृपितामहाद्यसत्सदिति स्वप्ननिर्वृतिलक्षणमनुभवति ॥ १७ ॥

Text 18

क्‍वचिद् गृहाश्रमकर्मचोदनातिभरगिरिमारुरुक्षमाणो लोकव्यसनकर्षितमना: कण्टकशर्कराक्षेत्रं प्रविशन्निव सीदति ॥ १८ ॥

Text 19

क्‍वचिच्च दु:सहेन कायाभ्यन्तरवह्निना गृहीतसार: स्वकुटुम्बाय क्रुध्यति ॥ १९ ॥

Text 20

स एव पुनर्निद्राजगरगृहीतोऽन्धे तमसि मग्न: शून्यारण्य इव शेते नान्यत्किञ्चन वेद शव इवापविद्ध: ॥ २० ॥

Text 21

कदाचिद्भग्नमानदंष्ट्रो दुर्जनदन्दशूकैरलब्धनिद्राक्षणो व्यथितहृदयेनानुक्षीयमाणविज्ञानोऽन्धकूपेऽन्धवत्पतति ॥ २१ ॥

Text 22

कर्हि स्म चित्काममधुलवान् विचिन्वन् यदा परदारपरद्रव्याण्यवरुन्धानो राज्ञा स्वामिभिर्वा निहत: पतत्यपारे निरये ॥ २२ ॥

Text 23

अथ च तस्मादुभयथापि हि कर्मास्मिन्नात्मन: संसारावपनमुदाहरन्ति ॥ २३ ॥

Text 24

मुक्तस्ततो यदि बन्धाद्देवदत्त उपाच्छिनत्ति तस्मादपि विष्णुमित्र इत्यनवस्थिति: ॥ २४ ॥

Text 25

क्‍वचिच्च शीतवाताद्यनेकाधिदैविकभौतिकात्मीयानां दशानां प्रतिनिवारणेऽकल्पो दुरन्तचिन्तया विषण्ण आस्ते ॥ २५ ॥

Text 26

क्‍वचिन्मिथो व्यवहरन् यत्किञ्चिद्धनमन्येभ्यो वा काकिणिकामात्रमप्यपहरन् यत्किञ्चिद्वा विद्वेषमेति वित्तशाठ्यात् ॥ २६ ॥

Text 27

अध्वन्यमुष्मिन्निम उपसर्गास्तथा सुखदु:खरागद्वेषभयाभिमानप्रमादोन्मादशोकमोहलोभमात्सर्येर्ष्यावमानक्षुत्पिपासाधिव्याधिजन्मजरामरणादय: ॥ २७ ॥

Text 28

क्‍वापि देवमायया स्त्रिया भुजलतोपगूढ: प्रस्कन्नविवेकविज्ञानो यद्विहारगृहारम्भाकुलहृदयस्तदाश्रयावसक्तसुतदुहितृकलत्रभाषितावलोकविचेष्टितापहृतहृदय आत्मानमजितात्मापारेऽन्धे तमसि प्रहिणोति ॥ २८ ॥

Text 29

कदाचिदीश्वरस्य भगवतो विष्णोश्चक्रात्परमाण्वादिद्विपरार्धापवर्गकालोपलक्षणात्परिवर्तितेन वयसा रंहसा हरत आब्रह्मतृणस्तम्बादीनां भूतानामनिमिषतो मिषतां वित्रस्तहृदयस्तमेवेश्वरं कालचक्रनिजायुधं साक्षाद्भगवन्तं यज्ञपुरुषमनाद‍ृत्य पाखण्डदेवता: कङ्कगृध्रबकवटप्राया आर्यसमयपरिहृता: साङ्केत्येनाभिधत्ते ॥ २९ ॥

Text 30

यदा पाखण्डिभिरात्मवञ्चितैस्तैरुरु वञ्चितो ब्रह्मकुलं समावसंस्तेषां शीलमुपनयनादिश्रौतस्मार्तकर्मानुष्ठानेन भगवतो यज्ञपुरुषस्याराधनमेव तदरोचयन् शूद्रकुलं भजते निगमाचारेऽशुद्धितो यस्य मिथुनीभाव: कुटुम्बभरणं यथा वानरजाते: ॥ ३० ॥

Text 31

तत्रापि निरवरोध: स्वैरेण विहरन्नतिकृपणबुद्धिरन्योन्यमुखनिरीक्षणादिना ग्राम्यकर्मणैव विस्मृतकालावधि: ॥ ३१ ॥

Text 32

क्‍वचिद् द्रुमवदैहिकार्थेषु गृहेषु रंस्यन् यथा वानर: सुतदारवत्सलो व्यवायक्षण: ॥ ३२ ॥

Text 33

एवमध्वन्यवरुन्धानो मृत्युगजभयात्तमसि गिरिकन्दरप्राये ॥ ३३ ॥

Text 34

क्‍वचिच्छीतवाताद्यनेकदैविकभौतिकात्मीयानां दु:खानां प्रतिनिवारणेऽकल्पो दुरन्तविषयविषण्ण आस्ते ॥ ३४ ॥

Text 35

क्‍वचिन्मिथो व्यवहरन् यत्किञ्चिद्धनमुपयाति वित्तशाठ्येन ॥ ३५ ॥

Text 36

क्‍वचित्क्षीणधन: शय्यासनाशनाद्युपभोगविहीनो यावदप्रतिलब्धमनोरथोपगतादानेऽवसितमतिस्ततस्ततोऽवमानादीनि जनादभिलभते ॥ ३६ ॥

Text 37

एवं वित्तव्यतिषङ्गविवृद्धवैरानुबन्धोऽपि पूर्ववासनया मिथ
उद्वहत्यथापवहति ॥ ३७ ॥

Text 38

एतस्मिन् संसाराध्वनि नानाक्लेशोपसर्गबाधित आपन्नविपन्नो यत्र यस्तमु ह वावेतरस्तत्र विसृज्य जातं जातमुपादाय शोचन्मुह्यन् बिभ्यद्विवदन् क्रदन् संहृष्यन्गायन्नह्यमान: साधुवर्जितो नैवावर्ततेऽद्यापि यत आरब्ध एष नरलोकसार्थो यमध्वन: पारमुपदिशन्ति ॥ ३८ ॥

Text 39

यदिदं योगानुशासनं न वा एतदवरुन्धते यन्न्यस्तदण्डा मुनय उपशमशीला उपरतात्मान: समवगच्छन्ति ॥ ३९ ॥

Text 40

यदपि दिगिभजयिनो यज्विनो ये वै राजर्षय: किं तु परं मृधे शयीरन्नस्यामेव ममेयमिति कृतवैरानुबन्धायां विसृज्य स्वयमुपसंहृता: ॥ ४० ॥

Text 41

कर्मवल्लीमवलम्ब्य तत आपद: कथञ्चिन्नरकाद्विमुक्त: पुनरप्येवं संसाराध्वनि वर्तमानो नरलोकसार्थमुपयाति एवमुपरि गतोऽपि ॥ ४१ ॥

Text 42

तस्येदमुपगायन्ति—
आर्षभस्येह राजर्षेर्मनसापि महात्मन: । नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मत: ॥ ४२ ॥

Text 43

यो दुस्त्यजान्दारसुतान् सुहृद्राज्यं हृदिस्पृश: । जहौ युवैव मलवदुत्तमश्लोकलालस: ॥ ४३ ॥

Text 44

यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान्प्रार्थ्यां श्रियं सुरवरै: सदयावलोकाम् । नैच्छन्नृपस्तदुचितं महतां मधुद्विट-सेवानुरक्तमनसामभवोऽपि फल्गु: ॥ ४४ ॥

Text 45

यज्ञाय धर्मपतये विधिनैपुणाययोगाय साङ्ख्यशिरसे प्रकृतीश्वराय । नारायणाय हरये नम इत्युदारंहास्यन्मृगत्वमपि य: समुदाजहार ॥ ४५ ॥

Text 46

य इदं भागवतसभाजितावदातगुणकर्मणो राजर्षेर्भरतस्यानुचरितं स्वस्त्ययनमायुष्यं धन्यं यशस्यं स्वर्ग्यापवर्ग्यं वानुश‍ृणोत्याख्यास्यत्यभिनन्दति च सर्वा एवाशिष आत्मन आशास्ते न काञ्चन परत इति ॥ ४६ ॥

Srimad Bhagavatam | Canto 5 | Chapter 13 | Verses

0

Further Talks Between King Rahūgaṇa and Jaḍa Bharata

Text 1

ब्राह्मण उवाच
दुरत्ययेऽध्वन्यजया निवेशितो
रजस्तम:सत्त्वविभक्तकर्मद‍ृक् ।
स एष सार्थोऽर्थपर: परिभ्रमन्
भवाटवीं याति न शर्म विन्दति ॥ १ ॥

Text 2

यस्यामिमे षण्नरदेव दस्यव:
सार्थं विलुम्पन्ति कुनायकं बलात् ।
गोमायवो यत्र हरन्ति सार्थिकं
प्रमत्तमाविश्य यथोरणं वृका: ॥ २ ॥

Text 3

प्रभूतवीरुत्तृणगुल्मगह्वरे
कठोरदंशैर्मशकैरुपद्रुत: ।
क्‍वचित्तु गन्धर्वपुरं प्रपश्यति
क्‍वचित्‍क्‍वचिच्चाशुरयोल्मुकग्रहम् ॥ ३ ॥

Text 4

निवासतोयद्रविणात्मबुद्धि-
स्ततस्ततो धावति भो अटव्याम् ।
क्‍वचिच्च वात्योत्थितपांसुधूम्रा
दिशो न जानाति रजस्वलाक्ष: ॥ ४ ॥

Text 5

अद‍ृश्यझिल्लीस्वनकर्णशूल
उलूकवाग्भिर्व्यथितान्तरात्मा ।
अपुण्यवृक्षान् श्रयते क्षुधार्दितो
मरीचितोयान्यभिधावति क्‍वचित् ॥ ५ ॥

Text 6

क्‍वचिद्वितोया: सरितोऽभियाति
परस्परं चालषते निरन्ध: ।
आसाद्य दावं क्‍वचिदग्नितप्तो
निर्विद्यते क्‍व च यक्षैर्हृतासु: ॥ ६ ॥

Text 7

शूरैर्हृतस्व: क्‍व च निर्विण्णचेता:
शोचन् विमुह्यन्नुपयाति कश्मलम् ।
क्‍वचिच्च गन्धर्वपुरं प्रविष्ट:
प्रमोदते निर्वृतवन्मुहूर्तम् ॥ ७ ॥

Text 8

चलन् क्‍वचित्कण्टकशर्कराङ्‌घ्रि-
र्नगारुरुक्षुर्विमना इवास्ते ।
पदे पदेऽभ्यन्तरवह्निनार्दित:
कौटुम्बिक: क्रुध्यति वै जनाय ॥ ८ ॥

Text 9

क्‍वचिन्निगीर्णोऽजगराहिना जनो
नावैति किञ्चिद्विपिनेऽपविद्ध: ।
दष्ट: स्म शेते क्‍व च दन्दशूकै-
रन्धोऽन्धकूपे पतितस्तमिस्रे ॥ ९ ॥

Text 10

कर्हि स्म चित्क्षुद्ररसान् विचिन्वं-
स्तन्मक्षिकाभिर्व्यथितो विमान: ।
तत्रातिकृच्छ्रात्प्रतिलब्धमानो
बलाद्विलुम्पन्त्यथ तं ततोऽन्ये ॥ १० ॥

Text 11

क्‍वचिच्च शीतातपवातवर्ष-
प्रतिक्रियां कर्तुमनीश आस्ते ।
क्‍वचिन्मिथो विपणन् यच्च किञ्चिद्
विद्वेषमृच्छत्युत वित्तशाठ्यात् ॥ ११ ॥

Text 12

क्‍वचित्‍क्‍वचित्क्षीणधनस्तु तस्मिन्
शय्यासनस्थानविहारहीन: ।
याचन् परादप्रतिलब्धकाम:
पारक्यद‍ृष्टिर्लभतेऽवमानम् ॥ १२ ॥

Text 13

अन्योन्यवित्तव्यतिषङ्गवृद्ध-
वैरानुबन्धो विवहन्मिथश्च ।
अध्वन्यमुष्मिन्नुरुकृच्छ्रवित्त-
बाधोपसर्गैर्विहरन् विपन्न: ॥ १३ ॥

Text 14

तांस्तान् विपन्नान् स हि तत्र तत्र
विहाय जातं परिगृह्य सार्थ: ।
आवर्ततेऽद्यापि न कश्चिदत्र
वीराध्वन: पारमुपैति योगम् ॥ १४ ॥

Text 15

मनस्विनो निर्जितदिग्गजेन्द्रा
ममेति सर्वे भुवि बद्धवैरा: ।
मृधे शयीरन्न तु तद्‌व्रजन्ति
यन्न्यस्तदण्डो गतवैरोऽभियाति ॥ १५ ॥

Text 16

प्रसज्जति क्‍वापि लताभुजाश्रय-
स्तदाश्रयाव्यक्तपदद्विजस्पृह: ।
क्‍वचित्कदाचिद्धरिचक्रतस्त्रसन्
सख्यं विधत्ते बककङ्कगृध्रै: ॥ १६ ॥

Text 17

तैर्वञ्चितो हंसकुलं समाविश-
न्नरोचयन् शीलमुपैति वानरान् ।
तज्जातिरासेन सुनिर्वृतेन्द्रिय:
परस्परोद्वीक्षणविस्मृतावधि: ॥ १७ ॥

Text 18

द्रुमेषु रंस्यन् सुतदारवत्सलो
व्यवायदीनो विवश: स्वबन्धने ।
क्‍वचित्प्रमादाद् गिरिकन्दरे पतन्
वल्लीं गृहीत्वा गजभीत आस्थित: ॥ १८ ॥

Text 19

अत: कथञ्चित्स विमुक्त आपद:
पुनश्च सार्थं प्रविशत्यरिन्दम ।
अध्वन्यमुष्मिन्नजया निवेशितो
भ्रमञ्जनोऽद्यापि न वेद कश्चन ॥ १९ ॥

Text 20

रहूगण त्वमपि ह्यध्वनोऽस्य
सन्न्यस्तदण्ड: कृतभूतमैत्र: ।
असज्जितात्मा हरिसेवया शितं
ज्ञानासिमादाय तरातिपारम् ॥ २० ॥

Text 21

राजोवाच
अहो नृजन्माखिलजन्मशोभनं
किं जन्मभिस्त्वपरैरप्यमुष्मिन् ।
न यद्‌धृषीकेशयश:कृतात्मनां
महात्मनां व: प्रचुर: समागम: ॥ २१ ॥

Text 22

न ह्यद्भ‍ुतं त्वच्चरणाब्जरेणुभि-
र्हतांहसो भक्तिरधोक्षजेऽमला ।
मौहूर्तिकाद्यस्य समागमाच्च मे
दुस्तर्कमूलोऽपहतोऽविवेक: ॥ २२ ॥

Text 23

नमो महद्‍भ्योऽस्तु नम: शिशुभ्यो
नमो युवभ्यो नम आवटुभ्य: ।
ये ब्राह्मणा गामवधूतलिङ्गा-
श्चरन्ति तेभ्य: शिवमस्तु राज्ञाम् ॥ २३ ॥

Text 24

श्रीशुक उवाच
इत्येवमुत्तरामात: स वै ब्रह्मर्षिसुत: सिन्धुपतय आत्मसतत्त्वं विगणयत: परानुभाव: परमकारुणिकतयोपदिश्य रहूगणेन सकरुणमभिवन्दित चरण आपूर्णार्णव इव निभृतकरणोर्म्याशयो धरणिमिमां विचचार ॥ २४ ॥

Text 25

सौवीरपतिरपि सुजनसमवगतपरमात्मसतत्त्व आत्मन्यविद्याध्यारोपितां च देहात्ममतिं विससर्ज । एवं हि नृप भगवदाश्रिताश्रितानुभाव: ॥ २५ ॥

Text 26

राजोवाच
यो ह वा इह बहुविदा महाभागवत त्वयाभिहित: परोक्षेण वचसा जीवलोकभवाध्वा स ह्यार्यमनीषया कल्पितविषयो नाञ्जसाव्युत्पन्नलोकसमधिगम: । अथ तदेवैतद्दुरवगमं समवेतानुकल्पेन निर्दिश्यतामिति ॥ २६ ॥

Srimad Bhagavatam | Canto 5 | Chapter 12 | Verses

0

Conversation Between Mahārāja Rahūgaṇa and Jaḍa Bharata

Text 1

रहूगण उवाच
नमो नम: कारणविग्रहाय
स्वरूपतुच्छीकृतविग्रहाय ।
नमोऽवधूत द्विजबन्धुलिङ्ग-
निगूढनित्यानुभवाय तुभ्यम् ॥ १ ॥

Text 2

ज्वरामयार्तस्य यथागदं सत्
निदाघदग्धस्य यथा हिमाम्भ: ।
कुदेहमानाहिविदष्टद‍ृष्टे:
ब्रह्मन् वचस्तेऽमृतमौषधं मे ॥ २ ॥

Text 3

तस्माद्भ‍वन्तं मम संशयार्थं
प्रक्ष्यामि पश्चादधुना सुबोधम् ।
अध्यात्मयोगग्रथितं तवोक्त-
माख्याहि कौतूहलचेतसो मे ॥ ३ ॥

Text 4

यदाह योगेश्वर द‍ृश्यमानं
क्रियाफलं सद्‌व्यहारमूलम् ।
न ह्यञ्जसा तत्त्वविमर्शनाय
भवानमुष्मिन् भ्रमते मनो मे ॥ ४ ॥

Texts 5-6

ब्राह्मण उवाच
अयं जनो नाम चलन् पृथिव्यां
य: पार्थिव: पार्थिव कस्य हेतो: ।
तस्यापि चाङ्‌घ्र्योयोरधि गुल्फजङ्घा-
जानूरुमध्योरशिरोधरांसा: ॥ ५ ॥
अंसेऽधि दार्वी शिबिका च यस्यां
सौवीरराजेत्यपदेश आस्ते ।
यस्मिन् भवान् रूढनिजाभिमानो
राजास्मि सिन्धुष्विति दुर्मदान्ध: ॥ ६ ॥

Text 7

शोच्यानिमांस्त्वमधिकष्टदीनान्
विष्ट्या निगृह्णन्निरनुग्रहोऽसि ।
जनस्य गोप्तास्मि विकत्थमानो
न शोभसे वृद्धसभासु धृष्ट: ॥ ७ ॥

Text 8

यदा क्षितावेव चराचरस्य
विदाम निष्ठां प्रभवं च नित्यम् ।
तन्नामतोऽन्यद् व्यवहारमूलं
निरूप्यतां सत् क्रिययानुमेयम् ॥ ८ ॥

Text 9

एवं निरुक्तं क्षितिशब्दवृत्त-
मसन्निधानात्परमाणवो ये ।
अविद्यया मनसा कल्पितास्ते
येषां समूहेन कृतो विशेष: ॥ ९ ॥

Text 10

एवं कृशं स्थूलमणुर्बृहद्यद्
असच्च सज्जीवमजीवमन्यत् ।
द्रव्यस्वभावाशयकालकर्म-
नाम्नाजयावेहि कृतं द्वितीयम् ॥ १० ॥

Text 11

ज्ञानं विशुद्धं परमार्थमेक-
मनन्तरं त्वबहिर्ब्रह्म सत्यम् ।
प्रत्यक् प्रशान्तं भगवच्छब्दसंज्ञं
यद्वासुदेवं कवयो वदन्ति ॥ ११ ॥

Text 12

रहूगणैतत्तपसा न याति
न चेज्यया निर्वपणाद् गृहाद्वा ।
नच्छन्दसा नैव जलाग्निसूर्यै-
र्विना महत्पादरजोऽभिषेकम् ॥ १२ ॥

Text 13

यत्रोत्तमश्लोकगुणानुवाद:
प्रस्तूयते ग्राम्यकथाविघात: ।
निषेव्यमाणोऽनुदिनं मुमुक्षो-
र्मतिं सतीं यच्छति वासुदेवे ॥ १३ ॥

Text 14

अहं पुरा भरतो नाम राजा
विमुक्तद‍ृष्टश्रुतसङ्गबन्ध: ।
आराधनं भगवत ईहमानो
मृगोऽभवं मृगसङ्गाद्धतार्थ: ॥ १४ ॥

Text 15

सा मां स्मृतिर्मृगदेहेऽपि वीर
कृष्णार्चनप्रभवा नो जहाति ।
अथो अहं जनसङ्गादसङ्गो
विशङ्कमानोऽविवृतश्चरामि ॥ १५ ॥

Text 16

तस्मान्नरोऽसङ्गसुसङ्गजात-
ज्ञानासिनेहैव विवृक्णमोह: ।
हरिं तदीहाकथनश्रुताभ्यां
लब्धस्मृतिर्यात्यतिपारमध्वन: ॥ १६ ॥

Srimad Bhagavatam | Canto 5 | Chapter 11 | Verses

0

Jaḍa Bharata Instructs King Rahūgaṇa

Text 1

ब्राह्मण उवाच
अकोविद: कोविदवादवादान्वदस्यथो नातिविदां वरिष्ठ: । न सूरयो हि व्यवहारमेनंतत्त्वावमर्शेन सहामनन्ति ॥ १ ॥

Text 2

तथैव राजन्नुरुगार्हमेध-वितानविद्योरुविजृम्भितेषु । न वेदवादेषु हि तत्त्ववाद:प्रायेण शुद्धो नु चकास्ति साधु: ॥ २ ॥

Text 3

न तस्य तत्त्वग्रहणाय साक्षाद्वरीयसीरपि वाच: समासन् । स्वप्ने निरुक्त्या गृहमेधिसौख्यंन यस्य हेयानुमितं स्वयं स्यात् ॥ ३ ॥

Text 4

यावन्मनो रजसा पूरुषस्यसत्त्वेन वा तमसा वानुरुद्धम् । चेतोभिराकूतिभिरातनोतिनिरङ्कुशं कुशलं चेतरं वा ॥ ४ ॥

Text 5

स वासनात्मा विषयोपरक्तोगुणप्रवाहो विकृत: षोडशात्मा । बिभ्रत्पृथङ्‌नामभि रूपभेद-मन्तर्बहिष्ट्वं च पुरैस्तनोति ॥ ५ ॥

Text 6

दु:खं सुखं व्यतिरिक्तं च तीव्रंकालोपपन्नं फलमाव्यनक्ति । आलिङ्‌ग्य मायारचितान्तरात्मास्वदेहिनं संसृतिचक्रकूट: ॥ ६ ॥

Text 7

तावानयं व्यवहार: सदावि:क्षेत्रज्ञसाक्ष्यो भवति स्थूलसूक्ष्म: । तस्मान्मनो लिङ्गमदो वदन्तिगुणागुणत्वस्य परावरस्य ॥ ७ ॥

Text 8

गुणानुरक्तं व्यसनाय जन्तो:
क्षेमाय नैर्गुण्यमथो मन: स्यात् ।
यथा प्रदीपो घृतवर्तिमश्नन्
शिखा: सधूमा भजति ह्यन्यदा स्वम् ।
पदं तथा गुणकर्मानुबद्धं
वृत्तीर्मन: श्रयतेऽन्यत्र तत्त्वम् ॥ ८ ॥

Text 9

एकादशासन्मनसो हि वृत्तय
आकूतय: पञ्च धियोऽभिमान: ।
मात्राणि कर्माणि पुरं च तासां
वदन्ति हैकादश वीर भूमी: ॥ ९ ॥

Text 10

गन्धाकृतिस्पर्शरसश्रवांसि
विसर्गरत्यर्त्यभिजल्पशिल्पा: ।
एकादशं स्वीकरणं ममेति
शय्यामहं द्वादशमेक आहु: ॥ १० ॥

Text 11

द्रव्यस्वभावाशयकर्मकालै-
रेकादशामी मनसो विकारा: ।
सहस्रश: शतश: कोटिशश्च
क्षेत्रज्ञतो न मिथो न स्वत: स्यु: ॥ ११ ॥

Text 12

क्षेत्रज्ञ एता मनसो विभूती-
र्जीवस्य मायारचितस्य नित्या: ।
आविर्हिता: क्‍वापि तिरोहिताश्च
शुद्धो विचष्टे ह्यविशुद्धकर्तु: ॥ १२ ॥

Texts 13-14

क्षेत्रज्ञ आत्मा पुरुष: पुराण:
साक्षात्स्वयंज्योतिरज: परेश: ।
नारायणो भगवान् वासुदेव:
स्वमाययाऽऽत्मन्यवधीयमान: ॥ १३ ॥
यथानिल: स्थावरजङ्गमाना-
मात्मस्वरूपेण निविष्ट ईशेत् ।
एवं परो भगवान् वासुदेव:
क्षेत्रज्ञ आत्मेदमनुप्रविष्ट: ॥ १४ ॥

Text 15

न यावदेतां तनुभृन्नरेन्द्र
विधूय मायां वयुनोदयेन ।
विमुक्तसङ्गो जितषट्‌सपत्नो
वेदात्मतत्त्वं भ्रमतीह तावत् ॥ १५ ॥

Text 16

न यावदेतन्मन आत्मलिङ्गं
संसारतापावपनं जनस्य ।
यच्छोकमोहामयरागलोभ-
वैरानुबन्धं ममतां विधत्ते ॥ १६ ॥

Text 17

भ्रातृव्यमेनं तददभ्रवीर्य-
मुपेक्षयाध्येधितमप्रमत्त: ।
गुरोर्हरेश्चरणोपासनास्त्रो
जहि व्यलीकं स्वयमात्ममोषम् ॥ १७ ॥

Srimad Bhagavatam | Canto 5 | Chapter 20 | Verses

0

Studying the Structure of the Universe

Text 1

śrī-śuka uvāca
ataḥ paraṁ plakṣādīnāṁ pramāṇa-lakṣaṇa-saṁsthānato varṣa-vibhāga upavarṇyate.

Text 2

jambūdvīpo ’yaṁ yāvat-pramāṇa-vistāras tāvatā kṣārodadhinā pariveṣṭito yathā merur jambv-ākhyena lavaṇodadhir api tato dvi-guṇa-viśālena plakṣākhyena parikṣipto yathā parikhā bāhyopavanena; plakṣo jambū-pramāṇo dvīpākhyākaro hiraṇmaya utthito yatrāgnir upāste sapta-jihvas tasyādhipatiḥ priyavratātmaja idhmajihvaḥ svaṁ dvīpaṁ sapta-varṣāṇi vibhajya sapta-varṣa-nāmabhya ātmajebhya ākalayya svayam ātma-yogenopararāma.

Texts 3-4

śivaṁ yavasaṁ subhadraṁ śāntaṁ kṣemam amṛtam abhayam iti varṣāṇi teṣu girayo nadyaś ca saptaivābhijñātāḥ; maṇikūṭo vajrakūṭa indraseno jyotiṣmān suparṇo hiraṇyaṣṭhīvo meghamāla iti setu-śailāḥ aruṇā nṛmṇāṅgirasī sāvitrī suptabhātā ṛtambharā satyambharā iti mahā-nadyaḥ; yāsāṁ jalopasparśana-vidhūta-rajas-tamaso haṁsa-pataṅgordhvāyana-satyāṅga-saṁjñāś catvāro varṇāḥ sahasrāyuṣo vibudhopama-sandarśana-prajananāḥ svarga-dvāraṁ trayyā vidyayā bhagavantaṁ trayīmayaṁ sūryam ātmānaṁ yajante.

Text 5

pratnasya viṣṇo rūpaṁ yat
satyasyartasya brahmaṇaḥ
amṛtasya ca mṛtyoś ca
sūryam ātmānam īmahīti

Text 6

plakṣādiṣu pañcasu puruṣāṇām āyur indriyam ojaḥ saho balaṁ buddhir vikrama iti ca sarveṣām autpattikī siddhir aviśeṣeṇa vartate.

Text 7

plakṣaḥ sva-samānenekṣu-rasodenāvṛto yathā tathā dvīpo ’pi śālmalo dvi-guṇa-viśālaḥ samānena surodenāvṛtaḥ parivṛṅkte.

Text 8

yatra ha vai śālmalī plakṣāyāmā yasyāṁ vāva kila nilayam āhur bhagavataś chandaḥ-stutaḥ patattri-rājasya sā dvīpa-hūtaye upalakṣyate.

Text 9

tad-dvīpādhipatiḥ priyavratātmajo yajñabāhuḥ sva-sutebhyaḥ saptabhyas tan-nāmāni sapta-varṣāṇi vyabhajat surocanaṁ saumanasyaṁ ramaṇakaṁ deva-varṣaṁ pāribhadram āpyāyanam avijñātam iti.

Text 10

teṣu varṣādrayo nadyaś ca saptaivābhijñātāḥ svarasaḥ śataśṛṅgo vāmadevaḥ kundo mukundaḥ puṣpa-varṣaḥ sahasra-śrutir iti; anumatiḥ sinīvālī sarasvatī kuhū rajanī nandā rāketi.

Text 11

tad-varṣa-puruṣāḥ śrutadhara-vīryadhara-vasundhareṣandhara-saṁjñā bhagavantaṁ vedamayaṁ somam ātmānaṁ vedena yajante.

Text 12

sva-gobhiḥ pitṛ-devebhyo
vibhajan kṛṣṇa-śuklayoḥ
prajānāṁ sarvāsāṁ rājā-
ndhaḥ somo na āstv iti

Text 13

evaṁ surodād bahis tad-dvi-guṇaḥ samānenāvṛto ghṛtodena yathā-pūrvaḥ kuśa-dvīpo yasmin kuśa-stambo deva-kṛtas tad-dvīpākhyākaro jvalana ivāparaḥ sva-śaṣpa-rociṣā diśo virājayati.

Text 14

tad-dvīpa-patiḥ praiyavrato rājan hiraṇyaretā nāma svaṁ dvīpaṁ saptabhyaḥ sva-putrebhyo yathā-bhāgaṁ vibhajya svayaṁ tapa ātiṣṭhata vasu-vasudāna-dṛḍharuci-nābhigupta-stutyavrata-vivikta-vāmadeva-nāmabhyaḥ.

Text 15

teṣāṁ varṣeṣu sīmā-girayo nadyaś cābhijñātāḥ sapta saptaiva cakraś catuḥśṛṅgaḥ kapilaś citrakūṭo devānīka ūrdhvaromā draviṇa iti rasakulyā madhukulyā mitravindā śrutavindā devagarbhā ghṛtacyutā mantramāleti.

Text 16

yāsāṁ payobhiḥ kuśadvīpaukasaḥ kuśala-kovidābhiyukta-kulaka-saṁjñā bhagavantaṁ jātaveda-sarūpiṇaṁ karma-kauśalena yajante.

Text 17

parasya brahmaṇaḥ sākṣāj
jāta-vedo ’si havyavāṭ
devānāṁ puruṣāṅgānāṁ
yajñena puruṣaṁ yajeti

Text 18

tathā ghṛtodād bahiḥ krauñcadvīpo dvi-guṇaḥ sva-mānena kṣīrodena parita upakḷpto vṛto yathā kuśadvīpo ghṛtodena yasmin krauñco nāma parvata-rājo dvīpa-nāma-nirvartaka āste.

Text 19

yo ’sau guha-praharaṇonmathita-nitamba-kuñjo ’pi kṣīrodenā-sicyamāno bhagavatā varuṇenābhigupto vibhayo babhūva.

Text 20

tasminn api praiyavrato ghṛtapṛṣṭho nāmādhipatiḥ sve dvīpe varṣāṇi sapta vibhajya teṣu putra-nāmasu sapta rikthādān varṣapān niveśya svayaṁ bhagavān bhagavataḥ parama-kalyāṇa-yaśasa ātma-bhūtasya hareś caraṇāravindam upajagāma.

Text 21

āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṁ varṣa-girayaḥ sapta saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā āryakā tīrthavatī rūpavatī pavitravatī śukleti.

Text 22

yāsām ambhaḥ pavitram amalam upayuñjānāḥ puruṣa-ṛṣabha-draviṇa-devaka-saṁjñā varṣa-puruṣā āpomayaṁ devam apāṁ pūrṇenāñjalinā yajante.

Text 23

āpaḥ puruṣa-vīryāḥ stha
punantīr bhūr-bhuvaḥ-suvaḥ
tā naḥ punītāmīva-ghnīḥ
spṛśatām ātmanā bhuva iti

Text 24

evaṁ purastāt kṣīrodāt parita upaveśitaḥ śākadvīpo dvātriṁśal-lakṣa-yojanāyāmaḥ samānena ca dadhi-maṇḍodena parīto yasmin śāko nāma mahīruhaḥ sva-kṣetra-vyapadeśako yasya ha mahā-surabhi-gandhas taṁ dvīpam anuvāsayati.

Text 25

tasyāpi praiyavrata evādhipatir nāmnā medhātithiḥ so ’pi vibhajya sapta varṣāṇi putra-nāmāni teṣu svātmajān purojava-manojava-pavamāna-dhūmrānīka-citrarepha-bahurūpa-viśvadhāra-saṁjñān nidhāpyādhipatīn svayaṁ bhagavaty ananta ā-veśita-matis tapovanaṁ praviveśa.

Text 26

eteṣāṁ varṣa-maryādā-girayo nadyaś ca sapta saptaiva īśāna uruśṛṅgo balabhadraḥ śatakesaraḥ sahasrasroto devapālo mahānasa iti anaghāyurdā ubhayaspṛṣṭir aparājitā pañcapadī sahasrasrutir nijadhṛtir iti.

Text 27

tad-varṣa-puruṣā ṛtavrata-satyavrata-dānavratānuvrata-nāmāno bhagavantaṁ vāyv-ātmakaṁ prāṇāyāma-vidhūta-rajas-tamasaḥ parama-samādhinā yajante.

Text 28

antaḥ-praviśya bhūtāni
yo bibharty ātma-ketubhiḥ
antaryāmīśvaraḥ sākṣāt
pātu no yad-vaśe sphuṭam

Text 29

evam eva dadhi-maṇḍodāt parataḥ puṣkaradvīpas tato dvi-guṇāyāmaḥ samantata upakalpitaḥ samānena svādūdakena samudreṇa bahir āvṛto yasmin bṛhat-puṣkaraṁ jvalana-śikhāmala-kanaka-patrāyutāyutaṁ bhagavataḥ kamalāsanasyādhyāsanaṁ parikalpitam.

Text 30

tad-dvīpa-madhye mānasottara-nāmaika evārvācīna-parācīna-varṣayor maryādācalo ’yuta-yojanocchrāyāyāmo yatra tu catasṛṣu dikṣu catvāri purāṇi loka-pālānām indrādīnāṁ yad-upariṣṭāt sūrya-rathasya meruṁ paribhramataḥ saṁvatsarātmakaṁ cakraṁ devānām aho-rātrābhyāṁ paribhramati.

Text 31

tad-dvīpasyāpy adhipatiḥ praiyavrato vītihotro nāmaitasyātmajau ramaṇaka-dhātaki-nāmānau varṣa-patī niyujya sa svayaṁ pūrvajavad-bhagavat-karma-śīla evāste.

Text 32

tad-varṣa-puruṣā bhagavantaṁ brahma-rūpiṇaṁ sakarmakeṇa karmaṇārādhayantīdaṁ codāharanti.

Text 33

yat tat karmamayaṁ liṅgaṁ
brahma-liṅgaṁ jano ’rcayet
ekāntam advayaṁ śāntaṁ
tasmai bhagavate nama iti

Text 34

tataḥ parastāl lokāloka-nāmācalo lokālokayor antarāle parita upakṣiptaḥ.

Text 35

yāvan mānasottara-mervor antaraṁ tāvatī bhūmiḥ kāñcany anyādarśa-talopamā yasyāṁ prahitaḥ padārtho na kathañcit punaḥ pratyupalabhyate tasmāt sarva-sattva-parihṛtāsīt.

Text 36

lokāloka iti samākhyā yad anenācalena lokālokasyāntarvar-tināvasthāpyate.

Text 37

sa loka-trayānte parita īśvareṇa vihito yasmāt sūryādīnāṁ dhruvāpavargāṇāṁ jyotir-gaṇānāṁ gabhastayo ’rvācīnāṁs trīḻ lokān āvitanvānā na kadācit parācīnā bhavitum utsahante tāvad unnahanāyāmaḥ.

Text 38

etāvāḻ loka-vinyāso māna-lakṣaṇa-saṁsthābhir vicintitaḥ kavibhiḥ sa tu pañcāśat-koṭi-gaṇitasya bhū-golasya turīya-bhāgo ’yaṁ lokālokācalaḥ.

Text 39

tad-upariṣṭāc catasṛṣv āśāsvātma-yoninākhila-jagad-guruṇādhiniveśitā ye dvirada-pataya ṛṣabhaḥ puṣkaracūḍo vāmano ’parājita iti sakala-loka-sthiti-hetavaḥ.

Text 40

teṣāṁ sva-vibhūtīnāṁ loka-pālānāṁ ca vividha-vīryopabṛṁhaṇāya bhagavān parama-mahā-puruṣo mahā-vibhūti-patir antaryāmy ātmano viśuddha-sattvaṁ dharma-jñāna-vairāgyaiśvaryādy-aṣṭa-mahā-siddhy-upalakṣaṇaṁ viṣvaksenādibhiḥ sva-pārṣada-pravaraiḥ parivārito nija-varāyudhopaśobhitair nija-bhuja-daṇḍaiḥ sandhārayamāṇas tasmin giri-vare samantāt sakala-loka-svastaya āste.

Text 41

ākalpam evaṁ veṣaṁ gata eṣa bhagavān ātma-yogamāyayā viracita-vividha-loka-yātrā-gopīyāyety arthaḥ.

Text 42

yo ’ntar-vistāra etena hy aloka-parimāṇaṁ ca vyākhyātaṁ yad bahir lokālokācalāt; tataḥ parastād yogeśvara-gatiṁ viśuddhām udāharanti.

Text 43

aṇḍa-madhya-gataḥ sūryo
dyāv-ābhūmyor yad antaram
sūryāṇḍa-golayor madhye
koṭyaḥ syuḥ pañca-viṁśatiḥ

Text 44

mṛte ’ṇḍa eṣa etasmin yad abhūt tato mārtaṇḍa iti vyapadeśaḥ; hiraṇyagarbha iti yad dhiraṇyāṇḍa-samudbhavaḥ.

Text 45

sūryeṇa hi vibhajyante
diśaḥ khaṁ dyaur mahī bhidā
svargāpavargau narakā
rasaukāṁsi ca sarvaśaḥ

Text 46

deva-tiryaṅ-manuṣyāṇāṁ
sarīsṛpa-savīrudhām
sarva-jīva-nikāyānāṁ
sūrya ātmā dṛg-īśvaraḥ

Srimad Bhagavatam | Canto 5 | Chapter 19 | Verses

0

A Description of the Island of Jambūdvīpa

Text 1

śrī-śuka uvāca
kimpuruṣe varṣe bhagavantam ādi-puruṣaṁ lakṣmaṇāgrajaṁ sītābhirāmaṁ rāmaṁ tac-caraṇa-sannikarṣābhirataḥ parama-bhāgavato hanumān saha kimpuruṣair avirata-bhaktir upāste.

Text 2

ārṣṭiṣeṇena saha gandharvair anugīyamānāṁ parama-kalyāṇīṁ bhartṛ-bhagavat-kathāṁ samupaśṛṇoti svayaṁ cedaṁ gāyati.

Text 3

oṁ namo bhagavate uttamaślokāya nama ārya-lakṣaṇa-śīla-vratāya nama upaśikṣitātmana upāsita-lokāya namaḥ sādhu-vāda-nikaṣaṇāya namo brahmaṇya-devāya mahā-puruṣāya mahā-rājāya nama iti.

Text 4

yat tad viśuddhānubhava-mātram ekaṁ
sva-tejasā dhvasta-guṇa-vyavastham
pratyak praśāntaṁ sudhiyopalambhanaṁ
hy anāma-rūpaṁ nirahaṁ prapadye

Text 5

martyāvatāras tv iha martya-śikṣaṇaṁ
rakṣo-vadhāyaiva na kevalaṁ vibhoḥ
kuto ’nyathā syād ramataḥ sva ātmanaḥ
sītā-kṛtāni vyasanānīśvarasya

Text 6

na vai sa ātmātmavatāṁ suhṛttamaḥ
saktas tri-lokyāṁ bhagavān vāsudevaḥ
na strī-kṛtaṁ kaśmalam aśnuvīta
na lakṣmaṇaṁ cāpi vihātum arhati

Text 7

na janma nūnaṁ mahato na saubhagaṁ
na vāṅ na buddhir nākṛtis toṣa-hetuḥ
tair yad visṛṣṭān api no vanaukasaś
cakāra sakhye bata lakṣmaṇāgrajaḥ

Text 8

suro ’suro vāpy atha vānaro naraḥ
sarvātmanā yaḥ sukṛtajñam uttamam
bhajeta rāmaṁ manujākṛtiṁ hariṁ
ya uttarān anayat kosalān divam iti

Text 9

bhārate ’pi varṣe bhagavān nara-nārāyaṇākhya ākalpāntam upacita-dharma-jñāna-vairāgyaiśvaryopaśamoparamātmopalambhanam anugrahāyātmavatām anukampayā tapo ’vyakta-gatiś carati.

Text 10

taṁ bhagavān nārado varṇāśramavatībhir bhāratībhiḥ prajābhir bhagavat-proktābhyāṁ sāṅkhya-yogābhyāṁ bhagavad-anubhāvopavarṇanaṁ sāvarṇer upadekṣyamāṇaḥ parama-bhakti-bhāvenopasarati idaṁ cābhigṛṇāti.

Text 11

oṁ namo bhagavate upaśama-śīlāyoparatānātmyāya namo ’kiñcana-vittāya ṛṣi-ṛṣabhāya nara-nārāyaṇāya paramahaṁsa-parama-gurave ātmārāmādhipataye namo nama iti.

Text 12

gāyati cedam —
kartāsya sargādiṣu yo na badhyate
na hanyate deha-gato ’pi daihikaiḥ
draṣṭur na dṛg yasya guṇair vidūṣyate
tasmai namo ’sakta-vivikta-sākṣiṇe

Text 13

idaṁ hi yogeśvara yoga-naipuṇaṁ
hiraṇyagarbho bhagavāñ jagāda yat
yad anta-kāle tvayi nirguṇe mano
bhaktyā dadhītojjhita-duṣkalevaraḥ

Text 14

yathaihikāmuṣmika-kāma-lampaṭaḥ
suteṣu dāreṣu dhaneṣu cintayan
śaṅketa vidvān kukalevarātyayād
yas tasya yatnaḥ śrama eva kevalam

Text 15

tan naḥ prabho tvaṁ kukalevarārpitāṁ
tvan-māyayāhaṁ-mamatām adhokṣaja
bhindyāma yenāśu vayaṁ sudurbhidāṁ
vidhehi yogaṁ tvayi naḥ svabhāvam iti

Text 16

bhārate ’py asmin varṣe saric-chailāḥ santi bahavo malayo maṅgala-prastho mainākas trikūṭa ṛṣabhaḥ kūṭakaḥ kollakaḥ sahyo devagirir ṛṣyamūkaḥ śrī-śailo veṅkaṭo mahendro vāridhāro vindhyaḥ śuktimān ṛkṣagiriḥ pāriyātro droṇaś citrakūṭo govardhano raivatakaḥ kakubho nīlo gokāmukha indrakīlaḥ kāmagirir iti cānye ca śata-sahasraśaḥ śailās teṣāṁ nitamba-prabhavā nadā nadyaś ca santy asaṅkhyātāḥ.

Texts 17-18

etāsām apo bhāratyaḥ prajā nāmabhir eva punantīnām ātmanā copaspṛśanti; candravasā tāmraparṇī avaṭodā kṛtamālā vaihāyasī kāverī veṇī payasvinī śarkarāvartā tuṅgabhadrā kṛṣṇāveṇyā bhīmarathī godāvarī nirvindhyā payoṣṇī tāpī revā surasā narmadā carmaṇvatī sindhur andhaḥ śoṇaś ca nadau mahānadī vedasmṛtir ṛṣikulyā trisāmā kauśikī mandākinī yamunā sarasvatī dṛṣadvatī gomatī sarayū rodhasvatī saptavatī suṣomā śatadrūś candrabhāgā marudvṛdhā vitastā asiknī viśveti mahā-nadyaḥ.

Text 19

asminn eva varṣe puruṣair labdha-janmabhiḥ śukla-lohita-kṛṣṇa-varṇena svārabdhena karmaṇā divya-mānuṣa-nāraka-gatayo bahvya ātmana ānupūrvyeṇa sarvā hy eva sarveṣāṁ vidhīyante yathā-varṇa-vidhānam apavargaś cāpi bhavati.

Text 20

yo ’sau bhagavati sarva-bhūtātmany anātmye ’nirukte ’nilayane paramātmani vāsudeve ’nanya-nimitta-bhakti-yoga-lakṣaṇo nānā-gati-nimittāvidyā-granthi-randhana-dvāreṇa yadā hi mahā-puruṣa-puruṣa-prasaṅgaḥ.

Text 21

etad eva hi devā gāyanti —
aho amīṣāṁ kim akāri śobhanaṁ
prasanna eṣāṁ svid uta svayaṁ hariḥ
yair janma labdhaṁ nṛṣu bhāratājire
mukunda-sevaupayikaṁ spṛhā hi naḥ

Text 22

kiṁ duṣkarair naḥ kratubhis tapo-vratair
dānādibhir vā dyujayena phalgunā
na yatra nārāyaṇa-pāda-paṅkaja-
smṛtiḥ pramuṣṭātiśayendriyotsavāt

Text 23

kalpāyuṣāṁ sthānajayāt punar-bhavāt
kṣaṇāyuṣāṁ bhārata-bhūjayo varam
kṣaṇena martyena kṛtaṁ manasvinaḥ
sannyasya saṁyānty abhayaṁ padaṁ hareḥ

Text 24

na yatra vaikuṇṭha-kathā-sudhāpagā
na sādhavo bhāgavatās tadāśrayāḥ
na yatra yajñeśa-makhā mahotsavāḥ
sureśa-loko ’pi na vai sa sevyatām

Text 25

prāptā nṛ-jātiṁ tv iha ye ca jantavo
jñāna-kriyā-dravya-kalāpa-sambhṛtām
na vai yaterann apunar-bhavāya te
bhūyo vanaukā iva yānti bandhanam

Text 26

yaiḥ śraddhayā barhiṣi bhāgaśo havir
niruptam iṣṭaṁ vidhi-mantra-vastutaḥ
ekaḥ pṛthaṅ-nāmabhir āhuto mudā
gṛhṇāti pūrṇaḥ svayam āśiṣāṁ prabhuḥ

Text 27

satyaṁ diśaty arthitam arthito nṛṇāṁ
naivārthado yat punar arthitā yataḥ
svayaṁ vidhatte bhajatām anicchatām
icchāpidhānaṁ nija-pāda-pallavam

Text 28

yady atra naḥ svarga-sukhāvaśeṣitaṁ
sviṣṭasya sūktasya kṛtasya śobhanam
tenājanābhe smṛtimaj janma naḥ syād
varṣe harir yad-bhajatāṁ śaṁ tanoti

Texts 29-30

śrī-śuka uvāca
jambūdvīpasya ca rājann upadvīpān aṣṭau haika upadiśanti sagarātmajair aśvānveṣaṇa imāṁ mahīṁ parito nikhanadbhir upakalpitān; tad yathā svarṇaprasthaś candraśukla āvartano ramaṇako mandarahariṇaḥ pāñcajanyaḥ siṁhalo laṅketi.

Text 31

evaṁ tava bhāratottama jambūdvīpa-varṣa-vibhāgo yathopadeśam upavarṇita iti.

Srimad Bhagavatam | Canto 5 | Chapter 18 | Verses

0

The Prayers Offered to the Lord by the Residents of Jambūdvīpa

Text 1

śrī-śuka uvāca
tathā ca bhadraśravā nāma dharma-sutas tat-kula-patayaḥ puruṣā bhadrāśva-varṣe sākṣād bhagavato vāsudevasya priyāṁ tanuṁ dharmamayīṁ hayaśīrṣābhidhānāṁ parameṇa samādhinā sannidhāpyedam abhigṛṇanta upadhāvanti.

Text 2

bhadraśravasa ūcuḥ
oṁ namo bhagavate dharmāyātma-viśodhanāya nama iti.

Text 3

aho vicitraṁ bhagavad-viceṣṭitaṁ
ghnantaṁ jano ’yaṁ hi miṣan na paśyati
dhyāyann asad yarhi vikarma sevituṁ
nirhṛtya putraṁ pitaraṁ jijīviṣati

Text 4

vadanti viśvaṁ kavayaḥ sma naśvaraṁ
paśyanti cādhyātmavido vipaścitaḥ
tathāpi muhyanti tavāja māyayā
suvismitaṁ kṛtyam ajaṁ nato ’smi tam

Text 5

viśvodbhava-sthāna-nirodha-karma te
hy akartur aṅgīkṛtam apy apāvṛtaḥ
yuktaṁ na citraṁ tvayi kārya-kāraṇe
sarvātmani vyatirikte ca vastutaḥ

Text 6

vedān yugānte tamasā tiraskṛtān
rasātalād yo nṛ-turaṅga-vigrahaḥ
pratyādade vai kavaye ’bhiyācate
tasmai namas te ’vitathehitāya iti

Text 7

hari-varṣe cāpi bhagavān nara-hari-rūpeṇāste; tad-rūpa-grahaṇa-nimittam uttaratrābhidhāsye; tad dayitaṁ rūpaṁ mahā-puruṣa-guṇa-bhājano mahā-bhāgavato daitya-dānava-kula-tīrthīkaraṇa-śīlā-caritaḥ prahlādo ’vyavadhānānanya-bhakti-yogena saha tad-varṣa-puruṣair upāste idaṁ codāharati.

Text 8

oṁ namo bhagavate narasiṁhāya namas tejas-tejase āvir-āvirbhava vajra-nakha vajra-daṁṣṭra karmāśayān randhaya randhaya tamo grasa grasa om svāhā; abhayam abhayam ātmani bhūyiṣṭhā oṁ kṣraum.

Text 9

svasty astu viśvasya khalaḥ prasīdatāṁ
dhyāyantu bhūtāni śivaṁ mitho dhiyā
manaś ca bhadraṁ bhajatād adhokṣaje
āveśyatāṁ no matir apy ahaitukī

Text 10

māgāra-dārātmaja-vitta-bandhuṣu
saṅgo yadi syād bhagavat-priyeṣu naḥ
yaḥ prāṇa-vṛttyā parituṣṭa ātmavān
siddhyaty adūrān na tathendriya-priyaḥ

Text 11

yat-saṅga-labdhaṁ nija-vīrya-vaibhavaṁ
tīrthaṁ muhuḥ saṁspṛśatāṁ hi mānasam
haraty ajo ’ntaḥ śrutibhir gato ’ṅgajaṁ
ko vai na seveta mukunda-vikramam

Text 12

yasyāsti bhaktir bhagavaty akiñcanā
sarvair guṇais tatra samāsate surāḥ
harāv abhaktasya kuto mahad-guṇā
manorathenāsati dhāvato bahiḥ

Text 13

harir hi sākṣād bhagavān śarīriṇām
ātmā jhaṣāṇām iva toyam īpsitam
hitvā mahāṁs taṁ yadi sajjate gṛhe
tadā mahattvaṁ vayasā dampatīnām

Text 14

tasmād rajo-rāga-viṣāda-manyu-
māna-spṛhā-bhayadainyādhimūlam
hitvā gṛhaṁ saṁsṛti-cakravālaṁ
nṛsiṁha-pādaṁ bhajatākutobhayam iti

Text 15

ketumāle ’pi bhagavān kāmadeva-svarūpeṇa lakṣmyāḥ priya-cikīrṣayā prajāpater duhitṝṇāṁ putrāṇāṁ tad-varṣa-patīnāṁ puruṣāyuṣāho-rātra-parisaṅkhyānānāṁ yāsāṁ garbhā mahā-puruṣa-mahāstra-tejasodvejita-manasāṁ vidhvastā vyasavaḥ saṁvatsarānte vinipatanti.

Text 16

atīva sulalita-gati-vilāsa-vilasita-rucira-hāsa-leśāvaloka-līlayā kiñcid-uttambhita-sundara-bhrū-maṇḍala-subhaga-vadanāravinda-śriyā ramāṁ ramayann indriyāṇi ramayate.

Text 17

tad bhagavato māyāmayaṁ rūpaṁ parama-samādhi-yogena ramā devī saṁvatsarasya rātriṣu prajāpater duhitṛbhir upetāhaḥsu ca tad-bhartṛbhir upāste idaṁ codāharati.

Text 18

om hrāṁ hrīṁ hrūṁ oṁ namo bhagavate hṛṣīkeśāya sarva-guṇa-viśeṣair vilakṣitātmane ākūtīnāṁ cittīnāṁ cetasāṁ viśeṣāṇāṁ cādhipataye ṣoḍaśa-kalāya cchando-mayāyānna-mayāyāmṛta-mayāya sarva-mayāya sahase ojase balāya kāntāya kāmāya namas te ubhayatra bhūyāt.

Text 19

striyo vratais tvā hṛṣīkeśvaraṁ svato
hy ārādhya loke patim āśāsate ’nyam
tāsāṁ na te vai paripānty apatyaṁ
priyaṁ dhanāyūṁṣi yato ’sva-tantrāḥ

Text 20

sa vai patiḥ syād akutobhayaḥ svayaṁ
samantataḥ pāti bhayāturaṁ janam
sa eka evetarathā mitho bhayaṁ
naivātmalābhād adhi manyate param

Text 21

yā tasya te pāda-saroruhārhaṇaṁ
nikāmayet sākhila-kāma-lampaṭā
tad eva rāsīpsitam īpsito ’rcito
yad-bhagna-yācñā bhagavan pratapyate

Text 22

mat-prāptaye ’jeśa-surāsurādayas
tapyanta ugraṁ tapa aindriye dhiyaḥ
ṛte bhavat-pāda-parāyaṇān na māṁ
vindanty ahaṁ tvad-dhṛdayā yato ’jita

Text 23

sa tvaṁ mamāpy acyuta śīrṣṇi vanditaṁ
karāmbujaṁ yat tvad-adhāyi sātvatām
bibharṣi māṁ lakṣma vareṇya māyayā
ka īśvarasyehitam ūhituṁ vibhur iti

Text 24

ramyake ca bhagavataḥ priyatamaṁ mātsyam avatāra-rūpaṁ tad-varṣa-puruṣasya manoḥ prāk-pradarśitaṁ sa idānīm api mahatā bhakti-yogenārādhayatīdaṁ codāharati.

Text 25

oṁ namo bhagavate mukhyatamāya namaḥ sattvāya prāṇāyaujase sahase balāya mahā-matsyāya nama iti.

Text 26

antar bahiś cākhila-loka-pālakair
adṛṣṭa-rūpo vicarasy uru-svanaḥ
sa īśvaras tvaṁ ya idaṁ vaśe ’nayan
nāmnā yathā dārumayīṁ naraḥ striyam

Text 27

yaṁ loka-pālāḥ kila matsara-jvarā
hitvā yatanto ’pi pṛthak sametya ca
pātuṁ na śekur dvi-padaś catuṣ-padaḥ
sarīsṛpaṁ sthāṇu yad atra dṛśyate

Text 28

bhavān yugāntārṇava ūrmi-mālini
kṣoṇīm imām oṣadhi-vīrudhāṁ nidhim
mayā sahoru kramate ’ja ojasā
tasmai jagat-prāṇa-gaṇātmane nama iti

Text 29

hiraṇmaye ’pi bhagavān nivasati kūrma-tanuṁ bibhrāṇas tasya tat priyatamāṁ tanum aryamā saha varṣa-puruṣaiḥ pitṛ-gaṇādhipatir upadhāvati mantram imaṁ cānujapati.

Text 30

oṁ namo bhagavate akūpārāya sarva-sattva-guṇa-viśeṣaṇāyānu-palakṣita-sthānāya namo varṣmaṇe namo bhūmne namo namo ’vasthānāya namas te.

Text 31

yad-rūpam etan nija-māyayārpitam
artha-svarūpaṁ bahu-rūpa-rūpitam
saṅkhyā na yasyāsty ayathopalambhanāt
tasmai namas te ’vyapadeśa-rūpiṇe

Text 32

jarāyujaṁ svedajam aṇḍajodbhidaṁ
carācaraṁ devarṣi-pitṛ-bhūtam aindriyam
dyauḥ khaṁ kṣitiḥ śaila-sarit-samudra-
dvīpa-graharkṣety abhidheya ekaḥ

Text 33

yasminn asaṅkhyeya-viśeṣa-nāma-
rūpākṛtau kavibhiḥ kalpiteyam
saṅkhyā yayā tattva-dṛśāpanīyate
tasmai namaḥ sāṅkhya-nidarśanāya te iti

Text 34

uttareṣu ca kuruṣu bhagavān yajña-puruṣaḥ kṛta-varāha-rūpa āste taṁ tu devī haiṣā bhūḥ saha kurubhir askhalita-bhakti-yogenopadhāvati imāṁ ca paramām upaniṣadam āvartayati.

Text 35

oṁ namo bhagavate mantra-tattva-liṅgāya yajña-kratave mahā-dhvarāvayavāya mahā-puruṣāya namaḥ karma-śuklāya tri-yugāya namas te.

Text 36

yasya svarūpaṁ kavayo vipaścito
guṇeṣu dāruṣv iva jāta-vedasam
mathnanti mathnā manasā didṛkṣavo
gūḍhaṁ kriyārthair nama īritātmane

Text 37

dravya-kriyā-hetv-ayaneśa-kartṛbhir
māyā-guṇair vastu-nirīkṣitātmane
anvīkṣayāṅgātiśayātma-buddhibhir
nirasta-māyākṛtaye namo namaḥ

Text 38

karoti viśva-sthiti-saṁyamodayaṁ
yasyepsitaṁ nepsitam īkṣitur guṇaiḥ
māyā yathāyo bhramate tad-āśrayaṁ
grāvṇo namas te guṇa-karma-sākṣiṇe

Text 39

pramathya daityaṁ prativāraṇaṁ mṛdhe
yo māṁ rasāyā jagad-ādi-sūkaraḥ
kṛtvāgra-daṁṣṭre niragād udanvataḥ
krīḍann ivebhaḥ praṇatāsmi taṁ vibhum iti

Srimad Bhagavatam | Canto 5 | Chapter 17 | Verses

0

The Descent of the River Ganges

Text 1

śrī-śuka uvāca
tatra bhagavataḥ sākṣād yajña-liṅgasya viṣṇor vikramato vāma-pādāṅguṣṭha-nakha-nirbhinnordhvāṇḍa-kaṭāha-vivareṇāntaḥ-praviṣṭā yā bāhya-jala-dhārā tac-caraṇa-paṅkajāvanejanāruṇa-kiñjalkoparañjitākhila-jagad-agha-malāpahopasparśanāmalā sākṣād bhagavat-padīty anupalakṣita-vaco ’bhidhīyamānāti-mahatā kālena yuga-sahasropalakṣaṇena divo mūrdhany avatatāra yat tad viṣṇu-padam āhuḥ.

Text 2

yatra ha vāva vīra-vrata auttānapādiḥ parama-bhāgavato ’smat-kula-devatā-caraṇāravindodakam iti yām anusavanam utkṛṣyamāṇa-bhagavad-bhakti-yogena dṛḍhaṁ klidyamānāntar-hṛdaya autkaṇṭhya-vivaśāmīlita-locana-yugala-kuḍmala-vigalitāmala-bāṣpa-kalayābhivyajyamāna-roma-pulaka-kulako ’dhunāpi paramādareṇa śirasā bibharti.

Text 3

tataḥ sapta ṛṣayas tat prabhāvābhijñā yāṁ nanu tapasa ātyantikī siddhir etāvatī bhagavati sarvātmani vāsudeve ’nuparata-bhakti-yoga-lābhenaivopekṣitānyārthātma-gatayo muktim ivāgatāṁ mumukṣava iva sabahu-mānam adyāpi jaṭā-jūṭair udvahanti.

Text 4

tato ’neka-sahasra-koṭi-vimānānīka-saṅkula-deva-yānenāvatar-antīndu maṇḍalam āvārya brahma-sadane nipatati.

Text 5

tatra caturdhā bhidyamānā caturbhir nāmabhiś catur-diśam abhispandantī nada-nadī-patim evābhiniviśati sītālakanandā cakṣur bhadreti.

Text 6

sītā tu brahma-sadanāt kesarācalādi-giri-śikharebhyo ’dho ’dhaḥ prasravantī gandhamādana-mūrdhasu patitvāntareṇa bhadrāśva-varṣaṁ prācyāṁ diśi kṣāra-samudram abhipraviśati.

Text 7

evaṁ mālyavac-chikharān niṣpatantī tato ’nuparata-vegā ketumālam abhi cakṣuḥ pratīcyāṁ diśi sarit-patiṁ praviśati.

Text 8

bhadrā cottarato meru-śiraso nipatitā giri-śikharād giri-śikharam atihāya śṛṅgavataḥ śṛṅgād avasyandamānā uttarāṁs tu kurūn abhita udīcyāṁ diśi jaladhim abhipraviśati.

Text 9

tathaivālakanandā dakṣiṇena brahma-sadanād bahūni giri-kūṭāny atikramya hemakūṭād dhaimakūṭāny ati-rabhasatara-raṁhasā luṭhayantī bhāratam abhivarṣaṁ dakṣiṇasyāṁ diśi jaladhim abhipraviśati yasyāṁ snānārthaṁ cāgacchataḥ puṁsaḥ pade pade ’śvamedha-rājasūyādīnāṁ phalaṁ na durlabham iti.

Text 10

anye ca nadā nadyaś ca varṣe varṣe santi bahuśo merv-ādi-giri-duhitaraḥ śataśaḥ.

Text 11

tatrāpi bhāratam eva varṣaṁ karma-kṣetram anyāny aṣṭa varṣāṇi svargiṇāṁ puṇya-śeṣopabhoga-sthānāni bhaumāni svarga-padāni vyapadiśanti.

Text 12

eṣu puruṣāṇām ayuta-puruṣāyur-varṣāṇāṁ deva-kalpānāṁ nāgāyuta-prāṇānāṁ vajra-saṁhanana-bala-vayo-moda-pramudita-mahā-saurata-mithuna-vyavāyāpavarga-varṣa-dhṛtaika-garbha-kalatrāṇāṁ tatra tu tretā-yuga-samaḥ kālo vartate.

Text 13

yatra ha deva-patayaḥ svaiḥ svair gaṇa-nāyakair vihita-mahārhaṇāḥ sarvartu-kusuma-stabaka-phala-kisalaya-śriyānamyamāna-viṭapa-latā-viṭapibhir upaśumbhamāna-rucira-kānanāśramāyatana-varṣa-giri-droṇīṣu tathā cāmala-jalāśayeṣu vikaca-vividha-nava-vanaruhāmoda-mudita-rāja-haṁsa-jala-kukkuṭa-kāraṇḍava-sārasa-cakravākādibhir madhukara-nikarākṛtibhir upakūjiteṣu jala-krīḍādibhir vicitra-vinodaiḥ sulalita-sura-sundarīṇāṁ kāma-kalila-vilāsa-hāsa-līlāvalokākṛṣṭa-mano-dṛṣṭayaḥ svairaṁ viharanti.

Text 14

navasv api varṣeṣu bhagavān nārāyaṇo mahā-puruṣaḥ puruṣāṇāṁ tad-anugrahāyātma-tattva-vyūhenātmanādyāpi sannidhīyate.

Text 15

ilāvṛte tu bhagavān bhava eka eva pumān na hy anyas tatrāparo nirviśati bhavānyāḥ śāpa-nimitta-jño yat-pravekṣyataḥ strī-bhāvas tat paścād vakṣyāmi.

Text 16

bhavānī-nāthaiḥ strī-gaṇārbuda-sahasrair avarudhyamāno bhagavataś catur-mūrter mahā-puruṣasya turīyāṁ tāmasīṁ mūrtiṁ prakṛtim ātmanaḥ saṅkarṣaṇa-saṁjñām ātma-samādhi-rūpeṇa sannidhāpyaitad abhigṛṇan bhava upadhāvati.

Text 17

śrī-bhagavān uvāca
oṁ namo bhagavate mahā-puruṣāya sarva-guṇa-saṅkhyānāyānantāyāvyaktāya nama iti.

Text 18

bhaje bhajanyāraṇa-pāda-paṅkajaṁ
bhagasya kṛtsnasya paraṁ parāyaṇam
bhakteṣv alaṁ bhāvita-bhūta-bhāvanaṁ
bhavāpahaṁ tvā bhava-bhāvam īśvaram

Text 19

na yasya māyā-guṇa-citta-vṛttibhir
nirīkṣato hy aṇv api dṛṣṭir ajyate
īśe yathā no ’jita-manyu-raṁhasāṁ
kas taṁ na manyeta jigīṣur ātmanaḥ

Text 20

asad-dṛśo yaḥ pratibhāti māyayā
kṣībeva madhv-āsava-tāmra-locanaḥ
na nāga-vadhvo ’rhaṇa īśire hriyā
yat-pādayoḥ sparśana-dharṣitendriyāḥ

Text 21

yam āhur asya sthiti-janma-saṁyamaṁ
tribhir vihīnaṁ yam anantam ṛṣayaḥ
na veda siddhārtham iva kvacit sthitaṁ
bhū-maṇḍalaṁ mūrdha-sahasra-dhāmasu

Texts 22-23

yasyādya āsīd guṇa-vigraho mahān
vijñāna-dhiṣṇyo bhagavān ajaḥ kila
yat-sambhavo ’haṁ tri-vṛtā sva-tejasā
vaikārikaṁ tāmasam aindriyaṁ sṛje

ete vayaṁ yasya vaśe mahātmanaḥ
sthitāḥ śakuntā iva sūtra-yantritāḥ
mahān ahaṁ vaikṛta-tāmasendriyāḥ
sṛjāma sarve yad-anugrahād idam

Text 24

yan-nirmitāṁ karhy api karma-parvaṇīṁ
māyāṁ jano ’yaṁ guṇa-sarga-mohitaḥ
na veda nistāraṇa-yogam añjasā
tasmai namas te vilayodayātmane

Stay Connected

16,985FansLike
12,500FollowersFollow
61,453SubscribersSubscribe