Mail ID: contact@vedavarsity.com

Contact: +91 9634998911

Google search engineGoogle search engine
Home Blog Page 21

Srimad Bhagavatam | Canto 6 | Chapter 18 | Verses

0

Diti Vows to Kill King Indra

Text 1

श्रीशुक उवाच
पृश्निस्तु पत्नी सवितु: सावित्रीं व्याहृतिं त्रयीम् ।
अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान् ॥ १ ॥

Text 2

सिद्धिर्भगस्य भार्याङ्ग महिमानं विभुं प्रभुम् ।
आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम् ॥ २ ॥

Texts 3-4

धातु: कुहू: सिनीवाली राका चानुमतिस्तथा ।
सायं दर्शमथ प्रात: पूर्णमासमनुक्रमात् ॥ ३ ॥
अग्नीन् पुरीष्यानाधत्त क्रियायां समनन्तर: ।
चर्षणी वरुणस्यासीद्यस्यां जातो भृगु: पुन: ॥ ४ ॥

Text 5

वाल्मीकिश्च महायोगी वल्मीकादभवत्किल ।
अगस्त्यश्च वसिष्ठश्च मित्रावरुणयोऋर्षी ॥ ५ ॥

Text 6

रेत: सिषिचतु: कुम्भे उर्वश्या: सन्निधौ द्रुतम् ।
रेवत्यां मित्र उत्सर्गमरिष्टं पिप्पलं व्यधात् ॥ ६ ॥

Text 7

पौलोम्यामिन्द्र आधत्त त्रीन् पुत्रानिति न: श्रुतम् ।
जयन्तमृषभं तात तृतीयं मीढुषं प्रभु: ॥ ७ ॥

Text 8

उरुक्रमस्य देवस्य मायावामनरूपिण: ।
कीर्तौ पत्‍न्‍यां बृहच्छ्‌लोकस्तस्यासन् सौभगादय: ॥ ८ ॥

Text 9

तत्कर्मगुणवीर्याणि काश्यपस्य महात्मन: ।
पश्चाद्वक्ष्यामहेऽदित्यां यथैवावततार ह ॥ ९ ॥

Text 10

अथ कश्यपदायादान् दैतेयान् कीर्तयामि ते ।
यत्र भागवत: श्रीमान् प्रह्रादो बलिरेव च ॥ १० ॥

Text 11

दितेर्द्वावेव दायादौ दैत्यदानववन्दितौ ।
हिरण्यकशिपुर्नाम हिरण्याक्षश्च कीर्तितौ ॥ ११ ॥

Texts 12-13

हिरण्यकशिपोर्भार्या कयाधुर्नाम दानवी ।
जम्भस्य तनया सा तु सुषुवे चतुर: सुतान् ॥ १२ ॥
संह्रादं प्रागनुह्रादं ह्रादं प्रह्रादमेव च ।
तत्स्वसा सिंहिका नाम राहुं विप्रचितोऽग्रहीत् ॥ १३ ॥

Text 14

शिरोऽहरद्यस्य हरिश्चक्रेण पिबतोऽमृतम् ।
संह्रादस्य कृतिर्भार्यासूत पञ्चजनं तत: ॥ १४ ॥

Text 15

ह्रादस्य धमनिर्भार्यासूत वातापिमिल्वलम् ।
योऽगस्त्याय त्वतिथये पेचे वातापिमिल्वल: ॥ १५ ॥

Text 16

अनुह्रादस्य सूर्यायां बाष्कलो महिषस्तथा ।
विरोचनस्तु प्राह्रादिर्देव्यां तस्याभवद्ब‍‌लि: ॥ १६ ॥

Text 17

बाणज्येष्ठं पुत्रशतमशनायां ततोऽभवत् ।
तस्यानुभावं
सुश्लोक्यं पश्चादेवाभिधास्यते ॥ १७ ॥

Text 18

बाण आराध्य गिरिशं लेभे तद्गणमुख्यताम् ।
यत्पार्श्वे
भगवानास्ते ह्यद्यापि पुरपालक: ॥ १८ ॥

Text 19

मरुतश्च दिते:
पुत्राश्चत्वारिंशन्नवाधिका: ।
त आसन्नप्रजा: सर्वे नीता इन्द्रेण
सात्मताम् ॥ १९ ॥

Text 20

श्रीराजोवाच
कथं त आसुरं भावमपोह्यौत्पत्तिकं गुरो ।
इन्द्रेण प्रापिता: सात्म्यं किं तत्साधु कृतं हि तै: ॥ २० ॥

Text 21

इमे श्रद्दधते ब्रह्मन्नृषयो हि मया सह ।
परिज्ञानाय भगवंस्तन्नो व्याख्यातुमर्हसि ॥ २१ ॥

Text 22

श्रीसूत उवाच
तद्विष्णुरातस्य स बादरायणि-
र्वचो निशम्याद‍ृतमल्पमर्थवत् ।
सभाजयन् सन्निभृतेन चेतसा
जगाद सत्रायण सर्वदर्शन: ॥ २२ ॥

Text 23

श्रीशुक उवाच
हतपुत्रा दिति: शक्रपार्ष्णिग्राहेण विष्णुना ।
मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत् ॥ २३ ॥

Text 24

कदा नु भ्रातृहन्तारमिन्द्रियाराममुल्बणम् ।
अक्लिन्नहृदयं पापं घातयित्वा शये सुखम् ॥ २४ ॥

Text 25

कृमिविड्भस्मसंज्ञासीद्यस्येशाभिहितस्य च ।
भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यत: ॥ २५ ॥

Text 26

आशासानस्य तस्येदं ध्रुवमुन्नद्धचेतस: ।
मदशोषक इन्द्रस्य भूयाद्येन सुतो हि मे ॥ २६ ॥

Texts 27-28

इति भावेन सा भर्तुराचचारासकृत्प्रियम् ।
शुश्रूषयानुरागेण प्रश्रयेण दमेन च ॥ २७ ॥
भक्त्या परमया राजन् मनोज्ञैर्वल्गुभाषितै: ।
मनो जग्राह भावज्ञा सस्मितापाङ्गवीक्षणै: ॥ २८ ॥

Text 29

एवं स्त्रिया जडीभूतो विद्वानपि मनोज्ञया ।
बाढमित्याह विवशो न तच्चित्रं हि योषिति ॥ २९ ॥

Text 30

विलोक्यैकान्तभूतानि भूतान्यादौ प्रजापति: ।
स्त्रियं चक्रे स्वदेहार्धं यया पुंसां मतिर्हृता ॥ ३० ॥

Text 31

एवं शुश्रूषितस्तात भगवान् कश्यप: स्त्रिया ।
प्रहस्य परमप्रीतो दितिमाहाभिनन्द्य च ॥ ३१ ॥

Text 32

श्रीकश्यप उवाच
वरं वरय वामोरु प्रीतस्तेऽहमनिन्दिते ।
स्त्रिया भर्तरि सुप्रीते क: काम इह चागम: ॥ ३२ ॥

Texts 33-34

पतिरेव हि नारीणां दैवतं परमं स्मृतम् ।
मानस: सर्वभूतानां वासुदेव: श्रिय: पति: ॥ ३३ ॥
स एव देवतालिङ्गैर्नामरूपविकल्पितै: ।
इज्यते भगवान् पुम्भि: स्त्रीभिश्च पतिरूपधृक् ॥ ३४ ॥

Text 35

तस्मात्पतिव्रता नार्य: श्रेयस्कामा: सुमध्यमे ।
यजन्तेऽनन्यभावेन पतिमात्मानमीश्वरम् ॥ ३५ ॥

Text 36

सोऽहं त्वयार्चितो भद्रे ईद‍ृग्भावेन भक्तित: ।
तं ते सम्पादये काममसतीनां सुदुर्लभम् ॥ ३६ ॥

Text 37

दितिरुवाच
वरदो यदि मे ब्रह्मन् पुत्रमिन्द्रहणं वृणे ।
अमृत्युं मृतपुत्राहं येन मे घातितौ सुतौ ॥ ३७ ॥

Text 38

निशम्य तद्वचो विप्रो विमना: पर्यतप्यत ।
अहो अधर्म: सुमहानद्य मे समुपस्थित: ॥ ३८ ॥

Text 39

अहो अर्थेन्द्रियारामो योषिन्मय्येह मायया ।
गृहीतचेता: कृपण: पतिष्ये नरके ध्रुवम् ॥ ३९ ॥

Text 40

कोऽतिक्रमोऽनुवर्तन्त्या: स्वभावमिह योषित: ।
धिङ्‌मां बताबुधं स्वार्थे यदहं त्वजितेन्द्रिय: ॥ ४० ॥

Text 41

शरत्पद्मोत्सवं वक्त्रं वचश्च श्रवणामृतम् ।
हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम् ॥ ४१ ॥

Text 42

न हि कश्चित्प्रिय: स्त्रीणामञ्जसा स्वाशिषात्मनाम् ।
पतिं पुत्रं भ्रातरं वा घ्नन्त्यर्थे घातयन्ति च ॥ ४२ ॥

Text 43

प्रतिश्रुतं ददामीति वचस्तन्न मृषा भवेत् ।
वधं नार्हति चेन्द्रोऽपि तत्रेदमुपकल्पते ॥ ४३ ॥

Text 44

इति सञ्चिन्त्य भगवान्मारीच: कुरुनन्दन ।
उवाच किञ्चित् कुपित आत्मानं च विगर्हयन् ॥ ४४ ॥

Text 45

श्रीकश्यप उवाच
पुत्रस्ते भविता भद्रे इन्द्रहादेवबान्धव: ।
संवत्सरं व्रतमिदं यद्यञ्जो धारयिष्यसि ॥ ४५ ॥

Text 46

दितिरुवाच
धारयिष्ये व्रतं ब्रह्मन्ब्रूहि कार्याणि यानि मे ।
यानि चेह निषिद्धानि न व्रतं घ्नन्ति यान्युत ॥ ४६ ॥

Text 47

श्रीकश्यप उवाच
न हिंस्याद्भ‍ूतजातानि न शपेन्नानृतं वदेत् ।
न छिन्द्यान्नखरोमाणि न स्पृशेद्यदमङ्गलम् ॥ ४७ ॥

Text 48

नाप्सु स्‍नायान्न कुप्येत न सम्भाषेत दुर्जनै: ।
न वसीताधौतवास: स्रजं च विधृतां क्‍वचित् ॥ ४८ ॥

Text 49

नोच्छिष्टं चण्डिकान्नं च सामिषं वृषलाहृतम् ।
भुञ्जीतोदक्यया द‍ृष्टं पिबेन्नाञ्जलिना त्वप: ॥ ४९ ॥

Text 50

नोच्छिष्टास्पृष्टसलिला सन्ध्यायां मुक्तमूर्धजा ।
अनर्चितासंयतवाक्नासंवीता बहिश्चरेत् ॥ ५० ॥

Text 51

नाधौतपादाप्रयता नार्द्रपादा उदक्शिरा: ।
शयीत नापराङ्‌नान्यैर्न नग्ना न च सन्ध्ययो: ॥ ५१ ॥

Text 52

धौतवासा शुचिर्नित्यं सर्वमङ्गलसंयुता ।
पूजयेत्प्रातराशात्प्राग्गोविप्राञ् श्रियमच्युतम् ॥ ५२ ॥

Text 53

स्त्रियो वीरवतीश्चार्चेत्स्रग्गन्धबलिमण्डनै: ।
पतिं चार्च्योपतिष्ठेत ध्यायेत्कोष्ठगतं च तम् ॥ ५३ ॥

Text 54

सांवत्सरं पुंसवनं व्रतमेतदविप्लुतम् ।
धारयिष्यसि चेत्तुभ्यं शक्रहा भविता सुत: ॥ ५४ ॥

Text 55

बाढमित्यभ्युपेत्याथ दिती राजन्महामना: ।
कश्यपाद् गर्भमाधत्त व्रतं चाञ्जो दधार सा ॥ ५५ ॥

Text 56

मातृष्वसुरभिप्रायमिन्द्र आज्ञाय मानद ।
शुश्रूषणेनाश्रमस्थां दितिं पर्यचरत्कवि: ॥ ५६ ॥

Text 57

नित्यं वनात्सुमनस: फलमूलसमित्कुशान् ।
पत्राङ्कुरमृदोऽपश्च काले काल उपाहरत् ॥ ५७ ॥

Text 58

एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नृप ।
प्रेप्सु: पर्यचरज्जिह्मो मृगहेव मृगाकृति: ॥ ५८ ॥

Text 59

नाध्यगच्छद्‌व्रतच्छिद्रं तत्परोऽथ महीपते ।
चिन्तां तीव्रां गत: शक्र: केन मे स्याच्छिवं त्विह ॥ ५९ ॥

Text 60

एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकर्शिता ।
अस्पृष्टवार्यधौताङ्‌घ्रि: सुष्वाप विधिमोहिता ॥ ६० ॥

Text 61

लब्ध्वा तदन्तरं शक्रो निद्रापहृतचेतस: ।
दिते: प्रविष्ट उदरं योगेशो योगमायया ॥ ६१ ॥

Text 62

चकर्त सप्तधा गर्भं वज्रेण कनकप्रभम् ।
रुदन्तं सप्तधैकैकं मा रोदीरिति तान् पुन: ॥ ६२ ॥

Text 63

तमूचु: पाट्यमानास्ते सर्वे प्राञ्जलयो नृप ।
किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव ॥ ६३ ॥

Text 64

मा भैष्ट भ्रातरो मह्यं यूयमित्याह कौशिक: ।
अनन्यभावान् पार्षदानात्मनो मरुतां गणान् ॥ ६४ ॥

Text 65

न ममार दितेर्गर्भ: श्रीनिवासानुकम्पया ।
बहुधा कुलिशक्षुण्णो द्रौण्यस्त्रेण यथा भवान् ॥ ६५ ॥

Texts 66-67

सकृदिष्ट्वादिपुरुषं पुरुषो याति साम्यताम् ।
संवत्सरं किञ्चिदूनं दित्या यद्धरिरर्चित: ॥ ६६ ॥
सजूरिन्द्रेण पञ्चाशद्देवास्ते मरुतोऽभवन् ।
व्यपोह्य मातृदोषं ते हरिणा सोमपा: कृता: ॥ ६७ ॥

Text 68

दितिरुत्थाय दद‍ृशे कुमाराननलप्रभान् ।
इन्द्रेण सहितान् देवी पर्यतुष्यदनिन्दिता ॥ ६८ ॥

Text 69

अथेन्द्रमाह ताताहमादित्यानां भयावहम् ।
अपत्यमिच्छन्त्यचरं व्रतमेतत्सुदुष्करम् ॥ ६९ ॥

Text 70

एक: सङ्कल्पित: पुत्र: सप्त सप्ताभवन् कथम् ।
यदि ते विदितं पुत्र सत्यं कथय मा मृषा ॥ ७० ॥

Text 71

इन्द्र उवाच
अम्ब तेऽहं व्यवसितमुपधार्यागतोऽन्तिकम् ।
लब्धान्तरोऽच्छिदं गर्भमर्थबुद्धिर्न धर्मद‍ृक् ॥ ७१ ॥

Text 72

कृत्तो मे सप्तधा गर्भ आसन् सप्त कुमारका: ।
तेऽपि चैकैकशो वृक्णा: सप्तधा नापि मम्रिरे ॥ ७२ ॥

Text 73

ततस्तत्परमाश्चर्यं वीक्ष्य व्यवसितं मया ।
महापुरुषपूजाया: सिद्धि: काप्यानुषङ्गिणी ॥ ७३ ॥

Text 74

आराधनं भगवत ईहमाना निराशिष: ।
ये तु नेच्छन्त्यपि परं ते स्वार्थकुशला: स्मृता: ॥ ७४ ॥

Text 75

आराध्यात्मप्रदं देवं स्वात्मानं जगदीश्वरम् ।
को वृणीत गुणस्पर्शं बुध: स्यान्नरकेऽपि यत् ॥ ७५ ॥

Text 76

तदिदं मम दौर्जन्यं बालिशस्य महीयसि ।
क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भो मृतोत्थित: ॥ ७६ ॥

Text 77

श्रीशुक उवाच
इन्द्रस्तयाभ्यनुज्ञात: शुद्धभावेन तुष्टया ।
मरुद्भ‍ि: सह तां नत्वा जगाम त्रिदिवं प्रभु: ॥ ७७ ॥

Text 78

एवं ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
मङ्गलं मरुतां जन्म किं भूय: कथयामि ते ॥ ७८ ॥

Srimad Bhagavatam | Canto 6 | Chapter 17 | Verses

0

Mother Pārvatī Curses Citraketu

Text 1

श्रीशुक उवाच
यतश्चान्तर्हितोऽनन्तस्तस्यै कृत्वा दिशे नम: ।
विद्याधरश्चित्रकेतुश्चचार गगने चर: ॥ १ ॥

Texts 2-3

स लक्षं वर्षलक्षाणामव्याहतबलेन्द्रिय: ।
स्तूयमानो महायोगी मुनिभि: सिद्धचारणै: ॥ २ ॥
कुलाचलेन्द्रद्रोणीषु नानासङ्कल्पसिद्धिषु ।
रेमे विद्याधरस्त्रीभिर्गापयन् हरिमीश्वरम् ॥ ३ ॥

Texts 4-5

एकदा स विमानेन विष्णुदत्तेन भास्वता ।
गिरिशं दद‍ृशे गच्छन् परीतं सिद्धचारणै: ॥ ४ ॥
आलिङ्गय‍ाङ्कीकृतां देवीं बाहुना मुनिसंसदि ।
उवाच देव्या: श‍ृण्वन्त्या जहासोच्चैस्तदन्तिके ॥ ५ ॥

Text 6

चित्रकेतुरुवाच
एष लोकगुरु: साक्षाद्धर्मं वक्ता शरीरिणाम् ।
आस्ते मुख्य: सभायां वै मिथुनीभूय भार्यया ॥ ६ ॥

Text 7

जटाधरस्तीव्रतपा ब्रह्मवादिसभापति: ।
अङ्कीकृत्य स्त्रियं चास्ते गतह्री: प्राकृतो यथा ॥ ७ ॥

Text 8

प्रायश: प्राकृताश्चापि स्त्रियं रहसि बिभ्रति ।
अयं महाव्रतधरो बिभर्ति सदसि स्त्रियम् ॥ ८ ॥

Text 9

श्रीशुक उवाच
भगवानपि तच्छ्रुत्वा प्रहस्यागाधधीर्नृप ।
तूष्णीं बभूव सदसि सभ्याश्च तदनुव्रता: ॥ ९ ॥

Text 10

इत्यतद्वीर्यविदुषि ब्रुवाणे बह्वशोभनम् ।
रुषाह देवी धृष्टाय निर्जितात्माभिमानिने ॥ १० ॥

Text 11

श्रीपार्वत्युवाच
अयं किमधुना लोके शास्ता दण्डधर: प्रभु: ।
अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्रकृत् ॥ ११ ॥

Text 12

न वेद धर्मं किल पद्मयोनि-
र्न ब्रह्मपुत्रा भृगुनारदाद्या: ।
न वै कुमार: कपिलो मनुश्च
ये नो निषेधन्त्यतिवर्तिनं हरम् ॥ १२ ॥

Text 13

एषामनुध्येयपदाब्जयुग्मं
जगद्गुरुं मङ्गलमङ्गलं स्वयम् ।
य: क्षत्रबन्धु: परिभूय सूरीन्
प्रशास्ति धृष्टस्तदयं हि दण्ड्य: ॥ १३ ॥

Text 14

नायमर्हति वैकुण्ठपादमूलोपसर्पणम् ।
सम्भावितमति: स्तब्ध: साधुभि: पर्युपासितम् ॥ १४ ॥

Text 15

अत: पापीयसीं योनिमासुरीं याहि दुर्मते ।
यथेह भूयो महतां न कर्ता पुत्र किल्बिषम् ॥ १५ ॥

Text 16

श्रीशुक उवाच
एवं शप्तश्चित्रकेतुर्विमानादवरुह्य स: ।
प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत ॥ १६ ॥

Text 17

चित्रकेतुरुवाच
प्रतिगृह्णामि ते शापमात्मनोऽञ्जलिनाम्बिके ।
देवैर्मर्त्याय यत्प्रोक्तं पूर्वदिष्टं हि तस्य तत् ॥ १७ ॥

Text 18

संसारचक्र एतस्मिञ्जन्तुरज्ञानमोहित: ।
भ्राम्यन् सुखं च दु:खं च भुङ्क्ते सर्वत्र सर्वदा ॥ १८ ॥

Text 19

नैवात्मा न परश्चापि कर्ता स्यात् सुखदु:खयो: ।
कर्तारं मन्यतेऽत्राज्ञ आत्मानं परमेव च ॥ १९ ॥

Text 20

गुणप्रवाह एतस्मिन् क: शाप: को न्वनुग्रह: ।
क: स्वर्गो नरक: को वा किं सुखं दु:खमेव वा ॥ २० ॥

Text 21

एक: सृजति भूतानि भगवानात्ममायया ।
एषां बन्धं च मोक्षं च सुखं दु:खं च निष्कल: ॥ २१ ॥

Text 22

न तस्य कश्चिद्दयित: प्रतीपो
न ज्ञातिबन्धुर्न परो न च स्व: ।
समस्य सर्वत्र निरञ्जनस्य
सुखे न राग: कुत एव रोष: ॥ २२ ॥

Text 23

तथापि तच्छक्तिविसर्ग एषां
सुखाय दु:खाय हिताहिताय ।
बन्धाय मोक्षाय च मृत्युजन्मनो:
शरीरिणां संसृतयेऽवकल्पते ॥ २३ ॥

Text 24

अथ प्रसादये न त्वां शापमोक्षाय भामिनि ।
यन्मन्यसे ह्यसाधूक्तं मम तत्क्षम्यतां सति ॥ २४ ॥

Text 25

श्रीशुक उवाच
इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम ।
जगाम स्वविमानेन पश्यतो: स्मयतोस्तयो: ॥ २५ ॥

Text 26

ततस्तु भगवान् रुद्रो रुद्राणीमिदमब्रवीत् ।
देवर्षिदैत्यसिद्धानां पार्षदानां च श‍ृण्वताम् ॥ २६ ॥

Text 27

श्रीरुद्र उवाच
द‍ृष्टवत्यसि सुश्रोणि हरेरद्भ‍ुतकर्मण: ।
माहात्म्यं भृत्यभृत्यानां नि:स्पृहाणां महात्मनाम् ॥ २७ ॥

Text 28

नारायणपरा: सर्वे न कुतश्चन बिभ्यति ।
स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिन: ॥ २८ ॥

Text 29

देहिनां देहसंयोगाद् द्वन्द्वानीश्वरलीलया ।
सुखं दु:खं मृतिर्जन्म शापोऽनुग्रह एव च ॥ २९ ॥

Text 30

अविवेककृत: पुंसो ह्यर्थभेद इवात्मनि ।
गुणदोषविकल्पश्च भिदेव स्रजिवत्कृत: ॥ ३० ॥

Text 31

वासुदेवे भगवति भक्तिमुद्वहतां नृणाम् ।
ज्ञानवैराग्यवीर्याणां न हि कश्चिद् व्यपाश्रय: ॥ ३१ ॥

Text 32

नाहं विरिञ्चो न कुमारनारदौ
न ब्रह्मपुत्रा मुनय: सुरेशा: ।
विदाम यस्येहितमंशकांशका
न तत्स्वरूपं पृथगीशमानिन: ॥ ३२ ॥

Text 33

न ह्यस्यास्ति प्रिय: कश्चिन्नाप्रिय: स्व: परोऽपि वा ।
आत्मत्वात्सर्वभूतानां सर्वभूतप्रियो हरि: ॥ ३३ ॥

Texts 34-35

तस्य चायं महाभागश्चित्रकेतु: प्रियोऽनुग: ।
सर्वत्र समद‍ृक् शान्तो ह्यहं चैवाच्युतप्रिय: ॥ ३४ ॥
तस्मान्न विस्मय: कार्य: पुरुषेषु महात्मसु ।
महापुरुषभक्तेषु शान्तेषु समदर्शिषु ॥ ३५ ॥

Text 36

श्रीशुक उवाच
इति श्रुत्वा भगवत: शिवस्योमाभिभाषितम् ।
बभूव शान्तधी राजन् देवी विगतविस्मया ॥ ३६ ॥

Text 37

इति भागवतो देव्या: प्रतिशप्तुमलन्तम: ।
मूर्ध्ना स जगृहे शापमेतावत्साधुलक्षणम् ॥ ३७ ॥

Text 38

जज्ञे त्वष्टुर्दक्षिणाग्नौ दानवीं योनिमाश्रित: ।
वृत्र इत्यभिविख्यातो ज्ञानविज्ञानसंयुत: ॥ ३८ ॥

Text 39

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
वृत्रस्यासुरजातेश्च कारणं भगवन्मते: ॥ ३९ ॥

Text 40

इतिहासमिमं पुण्यं चित्रकेतोर्महात्मन: ।
माहात्म्यं विष्णुभक्तानां श्रुत्वा बन्धाद्विमुच्यते ॥ ४० ॥

Text 41

य एतत्प्रातरुत्थाय श्रद्धया वाग्यत: पठेत् ।
इतिहासं हरिं स्मृत्वा स याति परमां गतिम् ॥ ४१ ॥

Srimad Bhagavatam | Canto 6 | Chapter 16 | Verses

0

King Citraketu Meets the Supreme Lord

Text 1

श्रीबादरायणिरुवाच
अथ देवऋषी राजन् सम्परेतं नृपात्मजम् ।
दर्शयित्वेति होवाच ज्ञातीनामनुशोचताम् ॥ १ ॥

Text 2

श्रीनारद उवाच
जीवात्मन् पश्य भद्रं ते मातरं पितरं च ते ।
सुहृदो बान्धवास्तप्ता: शुचा त्वत्कृतया भृशम् ॥ २ ॥

Text 3

कलेवरं स्वमाविश्य शेषमायु: सुहृद्‌वृत: ।
भुङ्‌क्ष्व भोगान् पितृप्रत्तानधितिष्ठ नृपासनम् ॥ ३ ॥

Text 4

जीव उवाच
कस्मिञ्जन्मन्यमी मह्यं पितरो मातरोऽभवन् ।
कर्मभिर्भ्राम्यमाणस्य देवतिर्यङ्‌नृयोनिषु ॥ ४ ॥

Text 5

बन्धुज्ञात्यरिमध्यस्थमित्रोदासीनविद्विष: ।
सर्व एव हि सर्वेषां भवन्ति क्रमशो मिथ: ॥ ५ ॥

Text 6

यथा वस्तूनि पण्यानि हेमादीनि ततस्तत: ।
पर्यटन्ति नरेष्वेवं जीवो योनिषु कर्तृषु ॥ ६ ॥

Text 7

नित्यस्यार्थस्य सम्बन्धो ह्यनित्यो द‍ृश्यते नृषु ।
यावद्यस्य हि सम्बन्धो ममत्वं तावदेव हि ॥ ७ ॥

Text 8

एवं योनिगतो जीव: स नित्यो निरहङ्‌कृत: ।
यावद्यत्रोपलभ्येत तावत्स्वत्वं हि तस्य तत् ॥ ८ ॥

Text 9

एष नित्योऽव्यय: सूक्ष्म एष सर्वाश्रय: स्वद‍ृक् ।
आत्ममायागुणैर्विश्वमात्मानं सृजते प्रभु: ॥ ९ ॥

Text 10

न ह्यस्यास्ति प्रिय: कश्चिन्नाप्रिय: स्व: परोऽपि वा ।
एक: सर्वधियां द्रष्टा कर्तृणां गुणदोषयो: ॥ १० ॥

Text 11

नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम् ।
उदासीनवदासीन: परावरद‍ृगीश्वर: ॥ ११ ॥

Text 12

श्रीबादरायणिरुवाच
इत्युदीर्य गतो जीवो ज्ञातयस्तस्य ते तदा ।
विस्मिता मुमुचु: शोकं छित्त्वात्मस्‍नेहश‍ृङ्खलाम् ॥ १२ ॥

Text 13

निर्हृत्य ज्ञातयो ज्ञातेर्देहं कृत्वोचिता: क्रिया: ।
तत्यजुर्दुस्त्यजं स्‍नेहं शोकमोहभयार्तिदम् ॥ १३ ॥

Text 14

बालघ्‍न्यो व्रीडितास्तत्र बालहत्याहतप्रभा: ।
बालहत्याव्रतं चेरुर्ब्राह्मणैर्यन्निरूपितम् ।
यमुनायां महाराज स्मरन्त्यो द्विजभाषितम् ॥ १४ ॥

Text 15

स इत्थं प्रतिबुद्धात्मा चित्रकेतुर्द्विजोक्तिभि: ।
गृहान्धकूपान्निष्क्रान्त: सर:पङ्कादिव द्विप: ॥ १५ ॥

Text 16

कालिन्द्यां विधिवत् स्‍नात्वा कृतपुण्यजलक्रिय: ।
मौनेन संयतप्राणो ब्रह्मपुत्राववन्दत ॥ १६ ॥

Text 17

अथ तस्मै प्रपन्नाय भक्ताय प्रयतात्मने ।
भगवान्नारद: प्रीतो विद्यामेतामुवाच ह ॥ १७ ॥

Texts 18-19

ॐ नमस्तुभ्यं भगवते वासुदेवाय धीमहि ।
प्रद्युम्नायानिरुद्धाय नम: सङ्कर्षणाय च ॥ १८ ॥
नमो विज्ञानमात्राय परमानन्दमूर्तये ।
आत्मारामाय शान्ताय निवृत्तद्वैतद‍ृष्टये ॥ १९ ॥

Text 20

आत्मानन्दानुभूत्यैव न्यस्तशक्त्यूर्मये नम: ।
हृषीकेशाय महते नमस्तेऽनन्तमूर्तये ॥ २० ॥

Text 21

वचस्युपरतेऽप्राप्य य एको मनसा सह ।
अनामरूपश्चिन्मात्र: सोऽव्यान्न: सदसत्पर: ॥ २१ ॥

Text 22

यस्मिन्निदं यतश्चेदं तिष्ठत्यप्येति जायते ।
मृण्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नम: ॥ २२ ॥

Text 23

यन्न स्पृशन्ति न विदुर्मनोबुद्धीन्द्रियासव: ।
अन्तर्बहिश्च विततं व्योमवत्तन्नतोऽस्म्यहम् ॥ २३ ॥

Text 24

देहेन्द्रियप्राणमनोधियोऽमी
यदंशविद्धा: प्रचरन्ति कर्मसु ।
नैवान्यदा लौहमिवाप्रतप्तं
स्थानेषु तद् द्रष्ट्रपदेशमेति ॥ २४ ॥

Text 25

ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सकलसात्वतपरिवृढनिकर करकमलकुड्‌मलोपलालितचरणारविन्दयुगल परमपरमेष्ठिन्नमस्ते ॥ २५ ॥

Text 26

श्रीशुक उवाच
भक्तायैतां प्रपन्नाय विद्यामादिश्य नारद: ।
ययावङ्गिरसा साकं धाम स्वायम्भुवं प्रभो ॥ २६ ॥

Text 27

चित्रकेतुस्तु तां विद्यां यथा नारदभाषिताम् ।
धारयामास सप्ताहमब्भक्ष: सुसमाहित: ॥ २७ ॥

Text 28

तत: स सप्तरात्रान्ते विद्यया धार्यमाणया ।
विद्याधराधिपत्यं च लेभेऽप्रतिहतं नृप ॥ २८ ॥

Text 29

तत: कतिपयाहोभिर्विद्ययेद्धमनोगति: ।
जगाम देवदेवस्य शेषस्य चरणान्तिकम् ॥ २९ ॥

Text 30

मृणालगौरं शितिवाससं स्फुरत्-
किरीटकेयूरकटित्रकङ्कणम् ।
प्रसन्नवक्त्रारुणलोचनं वृतं
ददर्श सिद्धेश्वरमण्डलै: प्रभुम् ॥ ३० ॥

Text 31

तद्दर्शनध्वस्तसमस्तकिल्बिष:
स्वस्थामलान्त:करणोऽभ्ययान्मुनि: ।
प्रवृद्धभक्त्या प्रणयाश्रुलोचन:
प्रहृष्टरोमानमदादिपुरुषम् ॥ ३१ ॥

Text 32

स उत्तमश्लोकपदाब्जविष्टरं
प्रेमाश्रुलेशैरुपमेहयन्मुहु: ।
प्रेमोपरुद्धाखिलवर्णनिर्गमो
नैवाशकत्तं प्रसमीडितुं चिरम् ॥ ३२ ॥

Text 33

तत: समाधाय मनो मनीषया
बभाष एतत्प्रतिलब्धवागसौ ।
नियम्य सर्वेन्द्रियबाह्यवर्तनं
जगद्गुरुं सात्वतशास्त्रविग्रहम् ॥ ३३ ॥

Text 34

चित्रकेतुरुवाच
अजित जित: सममतिभि:
साधुभिर्भवान् जितात्मभिर्भवता ।
विजितास्तेऽपि च भजता-
मकामात्मनां य आत्मदोऽतिकरुण: ॥ ३४ ॥

Text 35

तव विभव: खलु भगवन्
जगदुदयस्थितिलयादीनि ।
विश्वसृजस्तेꣷशांशा
स्तत्र मृषा स्पर्धन्ति पृथगभिमत्या ॥ ३५ ॥

Text 36

परमाणुपरममहतो-
स्त्वमाद्यन्तान्तरवर्ती त्रयविधुर: ।
आदावन्तेऽपि च सत्त्वानां
यद् ध्रुवं तदेवान्तरालेऽपि ॥ ३६ ॥

Text 37

क्षित्यादिभिरेष किलावृत:
सप्तभिर्दशगुणोत्तरैरण्डकोश: ।
यत्र पतत्यणुकल्प:
सहाण्डकोटिकोटिभिस्तदनन्त: ॥ ३७ ॥

Text 38

विषयतृषो नरपशवो
य उपासते विभूतीर्न परं त्वाम् ।
तेषामाशिष ईश
तदनु विनश्यन्ति यथा राजकुलम् ॥ ३८ ॥

Text 39

कामधियस्त्वयि रचिता
न परम रोहन्ति यथा करम्भबीजानि ।
ज्ञानात्मन्यगुणमये
गुणगणतोऽस्य द्वन्द्वजालानि ॥ ३९ ॥

Text 40

जितमजित तदा भवता
यदाह भागवतं धर्ममनवद्यम् ।
निष्किञ्चना ये मुनय
आत्मारामा यमुपासतेऽपवर्गाय ॥ ४० ॥

Text 41

विषममतिर्न यत्र नृणां
त्वमहमिति मम तवेति च यदन्यत्र ।
विषमधिया रचितो य:
स ह्यविशुद्ध: क्षयिष्णुरधर्मबहुल: ॥ ४१ ॥

Text 42

क: क्षेमो निजपरयो:
कियान्वार्थ: स्वपरद्रुहा धर्मेण ।
स्वद्रोहात्तव कोप:
परसम्पीडया च तथाधर्म: ॥ ४२ ॥

Text 43

न व्यभिचरति तवेक्षा
यया ह्यभिहितो भागवतो धर्म: ।
स्थिरचरसत्त्वकदम्बे-
ष्वपृथग्धियो यमुपासते त्वार्या: ॥ ४३ ॥

Text 44

न हि भगवन्नघटितमिदं
त्वद्दर्शनान्नृणामखिलपापक्षय: ।
यन्नाम सकृच्छ्रवणात्
पुक्कशोऽपि विमुच्यते संसारात् ॥ ४४ ॥

Text 45

अथ भगवन् वयमधुना
त्वदवलोकपरिमृष्टाशयमला: ।
सुरऋषिणा यत्कथितं
तावकेन कथमन्यथा भवति ॥ ४५ ॥

Text 46

विदितमनन्त समस्तं
तव जगदात्मनो जनैरिहाचरितम् ।
विज्ञाप्यं परमगुरो:
कियदिव सवितुरिव खद्योतै: ॥ ४६ ॥

Text 47

नमस्तुभ्यं भगवते
सकलजगत्स्थितिलयोदयेशाय ।
दुरवसितात्मगतये
कुयोगिनां भिदा परमहंसाय ॥ ४७ ॥

Text 48

यं वै श्वसन्तमनु विश्वसृज: श्वसन्ति
यं चेकितानमनु चित्तय उच्चकन्ति ।
भूमण्डलं सर्षपायति यस्य मूर्ध्नि
तस्मै नमो भगवतेऽस्तु सहस्रमूर्ध्ने ॥ ४८ ॥

Text 49

श्रीशुक उवाच
संस्तुतो भगवानेवमनन्तस्तमभाषत ।
विद्याधरपतिं प्रीतश्चित्रकेतुं कुरूद्वह ॥ ४९ ॥

Text 50

श्रीभगवानुवाच
यन्नारदाङ्गिरोभ्यां ते व्याहृतं मेऽनुशासनम् ।
संसिद्धोऽसि तया राजन् विद्यया दर्शनाच्च मे ॥ ५० ॥

Text 51

अहं वै सर्वभूतानि भूतात्मा भूतभावन: ।
शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू ॥ ५१ ॥

Text 52

लोके विततमात्मानं लोकं चात्मनि सन्ततम् ।
उभयं च मया व्याप्तं मयि चैवोभयं कृतम् ॥ ५२ ॥

Texts 53-54

यथा सुषुप्त: पुरुषो विश्वं पश्यति चात्मनि ।
आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थित: ॥ ५३ ॥
एवं जागरणादीनि जीवस्थानानि चात्मन: ।
मायामात्राणि विज्ञाय तद् द्रष्टारं परं स्मरेत् ॥ ५४ ॥

Text 55

येन प्रसुप्त: पुरुष: स्वापं वेदात्मनस्तदा ।
सुखं च निर्गुणं ब्रह्म तमात्मानमवेहि माम् ॥ ५५ ॥

Text 56

उभयं स्मरत: पुंस: प्रस्वापप्रतिबोधयो: ।
अन्वेति व्यतिरिच्येत तज्ज्ञानं ब्रह्म तत्परम् ॥ ५६ ॥

Text 57

यदेतद्विस्मृतं पुंसो मद्भ‍ावं भिन्नमात्मन: ।
तत: संसार एतस्य देहाद्देहो मृतेर्मृति: ॥ ५७ ॥

Text 58

लब्ध्वेह मानुषीं योनिं ज्ञानविज्ञानसम्भवाम् ।
आत्मानं यो न बुद्ध्येत न क्‍वचित्क्षेममाप्नुयात् ॥ ५८ ॥

Text 59

स्मृत्वेहायां परिक्लेशं तत: फलविपर्ययम् ।
अभयं चाप्यनीहायां सङ्कल्पाद्विरमेत्कवि: ॥ ५९ ॥

Text 60

सुखाय दु:खमोक्षाय कुर्वाते दम्पती क्रिया: ।
ततोऽनिवृत्तिरप्राप्तिर्दु:खस्य च सुखस्य च ॥ ६० ॥

Texts 61-62

एवं विपर्ययं बुद्ध्वा नृणां विज्ञाभिमानिनाम् ।
आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम् ॥ ६१ ॥
द‍ृष्टश्रुताभिर्मात्राभिर्निर्मुक्त: स्वेन तेजसा ।
ज्ञानविज्ञानसन्तृप्तो मद्भ‍क्त: पुरुषो भवेत् ॥ ६२ ॥

Text 63

एतावानेव मनुजैर्योगनैपुण्यबुद्धिभि: ।
स्वार्थ: सर्वात्मना ज्ञेयो यत्परात्मैकदर्शनम् ॥ ६३ ॥

Text 64

त्वमेतच्छ्रद्धया राजन्नप्रमत्तो वचो मम ।
ज्ञानविज्ञानसम्पन्नो धारयन्नाशु सिध्यसि ॥ ६४ ॥

Text 65

श्रीशुक उवाच
आश्वास्य भगवानित्थं चित्रकेतुं जगद्गुरु: ।
पश्यतस्तस्य विश्वात्मा ततश्चान्तर्दधे हरि: ॥ ६५ ॥

Srimad Bhagavatam | Canto 6 | Chapter 15 | Verses

0

The Saints Nārada and Aṅgirā Instruct King Citraketu

Text 1

श्रीशुक उवाच
ऊचतुर्मृतकोपान्ते पतितं मृतकोपमम् ।
शोकाभिभूतं राजानं बोधयन्तौ सदुक्तिभि: ॥ १ ॥

Text 2

कोऽयं स्यात्तव राजेन्द्र भवान् यमनुशोचति ।
त्वं चास्य कतम: सृष्टौ पुरेदानीमत: परम् ॥ २ ॥

Text 3

यथा प्रयान्ति संयान्ति स्रोतोवेगेन बालुका: ।
संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिन: ॥ ३ ॥

Text 4

यथा धानासु वै धाना भवन्ति न भवन्ति च ।
एवं भूतानि भूतेषु चोदितानीशमायया ॥ ४ ॥

Text 5

वयं च त्वं च ये चेमे तुल्यकालाश्चराचरा: ।
जन्ममृत्योर्यथा पश्चात् प्राङ्‌नैवमधुनापि भो: ॥ ५ ॥

Text 6

भूतैर्भूतानि भूतेश: सृजत्यवति हन्ति च ।
आत्मसृष्टैरस्वतन्त्रैरनपेक्षोऽपि बालवत् ॥ ६ ॥

Text 7

देहेन देहिनो राजन् देहाद्देहोऽभिजायते ।
बीजादेव यथा बीजं देह्यर्थ इव शाश्वत: ॥ ७ ॥

Text 8

देहदेहिविभागोऽयमविवेककृत: पुरा ।
जातिव्यक्तिविभागोऽयं यथा वस्तुनि कल्पित: ॥ ८ ॥

Text 9

श्रीशुक उवाच
एवमाश्वासितो राजा चित्रकेतुर्द्विजोक्तिभि: ।
विमृज्य पाणिना वक्त्रमाधिम्‍लानमभाषत ॥ ९ ॥

Text 10

श्रीराजोवाच
कौ युवां ज्ञानसम्पन्नौ महिष्ठौ च महीयसाम् ।
अवधूतेन वेषेण गूढाविह समागतौ ॥ १० ॥

Text 11

चरन्ति ह्यवनौ कामं ब्राह्मणा भगवत्प्रिया: ।
माद‍ृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्गिन: ॥ ११ ॥

Texts 12-15

कुमारो नारद ऋभुरङ्गिरा देवलोऽसित: ।
अपान्तरतमा व्यासो मार्कण्डेयोऽथ गौतम: ॥ १२ ॥
वसिष्ठो भगवान् राम: कपिलो बादरायणि: ।
दुर्वासा याज्ञवल्‍क्यश्च जातुकर्णस्तथारुणि: ॥ १३ ॥
रोमशश्‍च्यवनो दत्त आसुरि: सपतञ्जलि: ।
ऋषिर्वेदशिरा धौम्यो मुनि: पञ्चशिखस्तथा ॥ १४ ॥
हिरण्यनाभ: कौशल्य: श्रुतदेव ऋतध्वज: ।
एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतव: ॥ १५ ॥

Text 16

तस्माद्युवां ग्राम्यपशोर्मम मूढधिय: प्रभू ।
अन्धे तमसि मग्नस्य ज्ञानदीप उदीर्यताम् ॥ १६ ॥

Text 17

श्रीअङ्गिरा उवाच
अहं ते पुत्रकामस्य पुत्रदोऽस्म्यङ्गिरा नृप ।
एष ब्रह्मसुत: साक्षान्नारदो भगवानृषि: ॥ १७ ॥

Texts 18-19

इत्थं त्वां पुत्रशोकेन मग्नं तमसि दुस्तरे ।
अतदर्हमनुस्मृत्य महापुरुषगोचरम् ॥ १८ ॥
अनुग्रहाय भवत: प्राप्तावावामिह प्रभो ।
ब्रह्मण्यो भगवद्भ‍क्तो नावासादितुमर्हसि ॥ १९ ॥

Text 20

तदैव ते परं ज्ञानं ददामि गृहमागत: ।
ज्ञात्वान्याभिनिवेशं ते पुत्रमेव ददाम्यहम् ॥ २० ॥

Texts 21-23

अधुना पुत्रिणां तापो भवतैवानुभूयते ।
एवं दारा गृहा रायो विविधैश्वर्यसम्पद: ॥ २१ ॥
शब्दादयश्च विषयाश्चला राज्यविभूतय: ।
मही राज्यं बलं कोषो भृत्यामात्यसुहृज्जना: ॥ २२ ॥
सर्वेऽपि शूरसेनेमे शोकमोहभयार्तिदा: ।
गन्धर्वनगरप्रख्या: स्वप्नमायामनोरथा: ॥ २३ ॥

Text 24

द‍ृश्यमाना विनार्थेन न द‍ृश्यन्ते मनोभवा: ।
कर्मभिर्ध्यायतो नानाकर्माणि मनसोऽभवन् ॥ २४ ॥

Text 25

अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मक: ।
देहिनो विविधक्लेशसन्तापकृदुदाहृत: ॥ २५ ॥

Text 26

तस्मात् स्वस्थेन मनसा विमृश्य गतिमात्मन: ।
द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश ॥ २६ ॥

Text 27

श्रीनारद उवाच
एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम ।
यां धारयन् सप्तरात्राद् द्रष्टा सङ्कर्षणं विभुम् ॥ २७ ॥

Text 28

यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे
शर्वादयो भ्रममिमं द्वितयं विसृज्य ।
सद्यस्तदीयमतुलानधिकं महित्वं
प्रापुर्भवानपि परं न चिरादुपैति ॥ २८ ॥

Srimad Bhagavatam | Canto 6 | Chapter 14 | Verses

0

King Citraketu’s Lamentation

Text 1

श्रीपरीक्षिदुवाच
रजस्तम:स्वभावस्य ब्रह्मन् वृत्रस्य पाप्मन: ।
नारायणे भगवति कथमासीद् दृढा मति: ॥ १ ॥

Text 2

देवानां शुद्धसत्त्वानामृषीणां चामलात्मनाम् ।
भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते ॥ २ ॥

Text 3

रजोभि: समसङ्ख्याता: पार्थिवैरिह जन्तव: ।
तेषां ये केचनेहन्ते श्रेयो वै मनुजादय: ॥ ३ ॥

Text 4

प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम ।
मुमुक्षूणां सहस्रेषु कश्चिन्मुच्येत सिध्यति ॥ ४ ॥

Text 5

मुक्तानामपि सिद्धानां नारायणपरायण: ।
सुदुर्लभ: प्रशान्तात्मा कोटिष्वपि महामुने ॥ ५ ॥

Text 6

वृत्रस्तु स कथं पाप: सर्वलोकोपतापन: ।
इत्थं द‍ृढमति: कृष्ण आसीत्सङ्ग्राम उल्बणे ॥ ६ ॥

Text 7

अत्र न: संशयो भूयाञ्छ्रोतुं कौतूहलं प्रभो ।
य: पौरुषेण समरे सहस्राक्षमतोषयत् ॥ ७ ॥

Text 8

श्रीसूत उवाच
परीक्षितोऽथ सम्प्रश्नं भगवान् बादरायणि: ।
निशम्य श्रद्दधानस्य प्रतिनन्द्य वचोऽब्रवीत् ॥ ८ ॥

Text 9

श्रीशुक उवाच
श‍ृणुष्वावहितो राजन्नितिहासमिमं यथा ।
श्रुतं द्वैपायनमुखान्नारदाद्देवलादपि ॥ ९ ॥

Text 10

आसीद्राजा सार्वभौम: शूरसेनेषु वै नृप ।
चित्रकेतुरिति ख्यातो यस्यासीत्कामधुङ्‍मही ॥ १० ॥

Text 11

तस्य भार्यासहस्राणां सहस्राणि दशाभवन् ।
सान्तानिकश्चापि नृपो न लेभे तासु सन्ततिम् ॥ ११ ॥

Text 12

रूपौदार्यवयोजन्मविद्यैश्वर्यश्रियादिभि: ।
सम्पन्नस्य गुणै: सर्वैश्चिन्ता बन्ध्यापतेरभूत् ॥ १२ ॥

Text 13

न तस्य सम्पद: सर्वा महिष्यो वामलोचना: ।
सार्वभौमस्य भूश्चेयमभवन्प्रीतिहेतव: ॥ १३ ॥

Text 14

तस्यैकदा तु भवनमङ्गिरा भगवानृषि: ।
लोकाननुचरन्नेतानुपागच्छद्यद‍ृच्छया ॥ १४ ॥

Text 15

तं पूजयित्वा विधिवत्प्रत्युत्थानार्हणादिभि: ।
कृतातिथ्यमुपासीदत्सुखासीनं समाहित: ॥ १५ ॥

Text 16

महर्षिस्तमुपासीनं प्रश्रयावनतं क्षितौ ।
प्रतिपूज्य महाराज समाभाष्येदमब्रवीत् ॥ १६ ॥

Text 17

अङ्गिरा उवाच
अपि तेऽनामयं स्वस्ति प्रकृतीनां तथात्मन: ।
यथा प्रकृतिभिर्गुप्त: पुमान् राजा च सप्तभि: ॥ १७ ॥

Text 18

आत्मानं प्रकृतिष्वद्धा निधाय श्रेय आप्नुयात् ।
राज्ञा तथा प्रकृतयो नरदेवाहिताधय: ॥ १८ ॥

Text 19

अपि दारा: प्रजामात्या भृत्या: श्रेण्योऽथ मन्त्रिण: ।
पौरा जानपदा भूपा आत्मजा वशवर्तिन: ॥ १९ ॥

Text 20

यस्यात्मानुवशश्चेत्स्यात्सर्वे तद्वशगा इमे ।
लोका: सपाला यच्छन्ति सर्वे बलिमतन्द्रिता: ॥ २० ॥

Text 21

आत्मन: प्रीयते नात्मा परत: स्वत एव वा ।
लक्षयेऽलब्धकामं त्वां चिन्तया शबलं मुखम् ॥ २१ ॥

Text 22

एवं विकल्पितो राजन् विदुषा मुनिनापि स: ।
प्रश्रयावनतोऽभ्याह प्रजाकामस्ततो मुनिम् ॥ २२ ॥

Text 23

चित्रकेतुरुवाच
भगवन् किं न विदितं तपोज्ञानसमाधिभि: ।
योगिनां ध्वस्तपापानां बहिरन्त: शरीरिषु ॥ २३ ॥

Text 24

तथापि पृच्छतो ब्रूयां ब्रह्मन्नात्मनि चिन्तितम् ।
भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया ॥ २४ ॥

Text 25

लोकपालैरपि प्रार्थ्या: साम्राज्यैश्वर्यसम्पद: ।
न नन्दयन्त्यप्रजं मां क्षुत्तृट्काममिवापरे ॥ २५ ॥

Text 26

तत: पाहि महाभाग पूर्वै: सह गतं तम: ।
यथा तरेम दुष्पारं प्रजया तद्विधेहि न: ॥ २६ ॥

Text 27

श्रीशुक उवाच
इत्यर्थित: स भगवान् कृपालुर्ब्रह्मण: सुत: ।
श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारमयजद्विभु: ॥ २७ ॥

Text 28

ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणां च
भारत ।
नाम्ना कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद् द्विज: ॥ २८ ॥

Text 29

अथाह नृपतिं राजन् भवितैकस्तवात्मज: ।
हर्षशोकप्रदस्तुभ्यमिति
ब्रह्मसुतो ययौ ॥ २९ ॥

Text 30

सापि तत्प्राशनादेव चित्रकेतोरधारयत् ।
गर्भं कृतद्युतिर्देवी कृत्तिकाग्नेरिवात्मजम् ॥ ३० ॥

Text 31

तस्या अनुदिनं गर्भ: शुक्लपक्ष इवोडुप: ।
ववृधे शूरसेनेशतेजसा शनकैर्नृप ॥ ३१ ॥

Text 32

अथ काल उपावृत्ते कुमार: समजायत ।
जनयन् शूरसेनानां श‍ृण्वतां परमां मुदम् ॥ ३२ ॥

Text 33

हृष्टो राजा कुमारस्य स्‍नात: शुचिरलङ्‌कृत: ।
वाचयित्वाशिषो विप्रै: कारयामास जातकम् ॥ ३३ ॥

Text 34

तेभ्यो हिरण्यं रजतं वासांस्याभरणानि च ।
ग्रामान् हयान् गजान् प्रादाद् धेनूनामर्बुदानि षट् ॥ ३४ ॥

Text 35

ववर्ष कामानन्येषां पर्जन्य इव देहिनाम् ।
धन्यं यशस्यमायुष्यं कुमारस्य महामना: ॥ ३५ ॥

Text 36

कृच्छ्रलब्धेऽथ राजर्षेस्तनयेऽनुदिनं पितु: ।
यथा नि:स्वस्य कृच्छ्राप्ते धने स्‍नेहोऽन्ववर्धत ॥ ३६ ॥

Text 37

मातुस्त्वतितरां पुत्रे स्‍नेहो मोहसमुद्भ‍व: ।
कृतद्युते: सपत्नीनां प्रजाकामज्वरोऽभवत् ॥ ३७ ॥

Text 38

चित्रकेतोरतिप्रीतिर्यथा दारे प्रजावति ।
न तथान्येषु सञ्जज्ञे बालं लालयतोऽन्वहम् ॥ ३८ ॥

Text 39

ता: पर्यतप्यन्नात्मानं गर्हयन्त्योऽभ्यसूयया ।
आनपत्येन दु:खेन राज्ञश्चानादरेण च ॥ ३९ ॥

Text 40

धिगप्रजां स्त्रियं पापां पत्युश्चागृहसम्मताम् ।
सुप्रजाभि: सपत्नीभिर्दासीमिव तिरस्कृताम् ॥ ४० ॥

Text 41

दासीनां को नु सन्ताप: स्वामिन: परिचर्यया ।
अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगा: ॥ ४१ ॥

Text 42

एवं सन्दह्यमानानां सपत्‍न्या: पुत्रसम्पदा ।
राज्ञोऽसम्मतवृत्तीनां विद्वेषो बलवानभूत् ॥ ४२ ॥

Text 43

विद्वेषनष्टमतय: स्त्रियो दारुणचेतस: ।
गरं ददु: कुमाराय दुर्मर्षा नृपतिं प्रति ॥ ४३ ॥

Text 44

कृतद्युतिरजानन्ती सपत्नीनामघं महत् ।
सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद्गृहे ॥ ४४ ॥

Text 45

शयानं सुचिरं बालमुपधार्य मनीषिणी ।
पुत्रमानय मे भद्रे इति धात्रीमचोदयत् ॥ ४५ ॥

Text 46

सा शयानमुपव्रज्य द‍ृष्ट्वा चोत्तारलोचनम् ।
प्राणेन्द्रियात्मभिस्त्यक्तं हतास्मीत्यपतद्भ‍ुवि ॥ ४६ ॥

Text 47

तस्यास्तदाकर्ण्य भृशातुरं स्वरं
घ्नन्त्या: कराभ्यामुर उच्चकैरपि ।
प्रविश्य राज्ञी त्वरयात्मजान्तिकं
ददर्श बालं सहसा मृतं सुतम् ॥ ४७ ॥

Text 48

पपात भूमौ परिवृद्धया शुचा
मुमोह विभ्रष्टशिरोरुहाम्बरा ॥ ४८ ॥

Text 49

ततो नृपान्त: पुरवर्तिनो जना
नराश्च नार्यश्च निशम्य रोदनम् ।
आगत्य तुल्यव्यसना: सुदु:खिता-
स्ताश्च व्यलीकं रुरुदु: कृतागस: ॥ ४९ ॥

Texts 50-51

श्रुत्वा मृतं पुत्रमलक्षितान्तकं
विनष्टद‍ृष्टि: प्रपतन् स्खलन् पथि ।
स्‍नेहानुबन्धैधितया शुचा भृशं
विमूर्च्छितोऽनुप्रकृतिर्द्विजैर्वृत: ॥ ५० ॥
पपात बालस्य स पादमूले
मृतस्य विस्रस्तशिरोरुहाम्बर: ।
दीर्घं श्वसन् बाष्पकलोपरोधतो
निरुद्धकण्ठो न शशाक भाषितुम् ॥ ५१ ॥

Text 52

पतिं निरीक्ष्योरुशुचार्पितं तदा
मृतं च बालं सुतमेकसन्ततिम् ।
जनस्य राज्ञी प्रकृतेश्च हृद्रुजं
सती दधाना विललाप चित्रधा ॥ ५२ ॥

Text 53

स्तनद्वयं कुङ्कुमपङ्कमण्डितं
निषिञ्चती साञ्जनबाष्पबिन्दुभि: ।
विकीर्य केशान् विगलत्स्रज: सुतं
शुशोच चित्रं कुररीव सुस्वरम् ॥ ५३ ॥

Text 54

अहो विधातस्त्वमतीव बालिशो
यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे ।
परे नु जीवत्यपरस्य या मृति-
र्विपर्ययश्चेत्त्वमसि ध्रुव: पर: ॥ ५४ ॥

Text 55

न हि क्रमश्चेदिह मृत्युजन्मनो:
शरीरिणामस्तु तदात्मकर्मभि: ।
य: स्‍नेहपाशो निजसर्गवृद्धये
स्वयं कृतस्ते तमिमं विवृश्चसि ॥ ५५ ॥

Text 56

त्वं तात नार्हसि च मां कृपणामनाथां
त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् ।
अञ्जस्तरेम भवताप्रजदुस्तरं यद्
ध्वान्तं न याह्यकरुणेन यमेन दूरम् ॥ ५६ ॥

Text 57

उत्तिष्ठ तात त इमे शिशवो वयस्या-
स्त्वामाह्वयन्ति नृपनन्दन संविहर्तुम् ।
सुप्तश्चिरं ह्यशनया च भवान् परीतो
भुङ्‌क्ष्व स्तनं पिब शुचो हर न: स्वकानाम् ॥ ५७ ॥

Text 58

नाहं तनूज दद‍ृशे हतमङ्गला ते
मुग्धस्मितं मुदितवीक्षणमाननाब्जम् ।
किं वा गतोऽस्यपुनरन्वयमन्यलोकं
नीतोऽघृणेन न श‍ृणोमि कला गिरस्ते ॥ ५८ ॥

Text 59

श्रीशुक उवाच
विलपन्त्या मृतं पुत्रमिति चित्रविलापनै: ।
चित्रकेतुर्भृशं तप्तो मुक्तकण्ठो रुरोद ह ॥ ५९ ॥

Text 60

तयोर्विलपतो: सर्वे दम्पत्योस्तदनुव्रता: ।
रुरुदु: स्म नरा नार्य: सर्वमासीदचेतनम् ॥ ६० ॥

Text 61

एवं कश्मलमापन्नं नष्टसंज्ञमनायकम् ।
ज्ञात्वाङ्गिरा नाम ऋषिराजगाम सनारद: ॥ ६१ ॥

Srimad Bhagavatam | Canto 6 | Chapter 13 | Verses

0

King Indra Afflicted by Sinful Reaction

Text 1

श्रीशुक उवाच
वृत्रे हते त्रयो लोका विना शक्रेण भूरिद ।
सपाला ह्यभवन् सद्यो विज्वरा निर्वृतेन्द्रिया: ॥ १ ॥

Text 2

देवर्षिपितृभूतानि दैत्या देवानुगा: स्वयम् ।
प्रतिजग्मु: स्वधिष्ण्यानि ब्रह्मेशेन्द्रादयस्तत: ॥ २ ॥

Text 3

श्रीराजोवाच
इन्द्रस्यानिर्वृतेर्हेतुं श्रोतुमिच्छामि भो मुने ।
येनासन् सुखिनो देवा हरेर्दु:खं कुतोऽभवत् ॥ ३ ॥

Text 4

श्रीशुक उवाच
वृत्रविक्रमसंविग्ना: सर्वे देवा: सहर्षिभि: ।
तद्वधायार्थयन्निन्द्रं नैच्छद् भीतो बृहद्वधात् ॥ ४ ॥

Text 5

इन्द्र उवाच
स्त्रीभूद्रुमजलैरेनो विश्वरूपवधोद्भ‍वम् ।
विभक्तमनुगृह्णद्भ‍िर्वृत्रहत्यां क्‍व मार्ज्म्यहम् ॥ ५ ॥

Text 6

श्रीशुक उवाच
ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रुवन् ।
याजयिष्याम भद्रं ते हयमेधेन मा स्म भै: ॥ ६ ॥

Text 7

हयमेधेन पुरुषं परमात्मानमीश्वरम् ।
इष्ट्वा नारायणं देवं मोक्ष्यसेऽपि जगद्वधात् ॥ ७ ॥

Texts 8-9

ब्रह्महा पितृहा गोघ्नो मातृहाचार्यहाघवान् ।
श्वाद: पुल्कसको वापि शुद्ध्येरन् यस्य कीर्तनात् ॥ ८ ॥
तमश्वमेधेन महामखेन
श्रद्धान्वितोऽस्माभिरनुष्ठितेन ।
हत्वापि सब्रह्मचराचरं त्वं
न लिप्यसे किं खलनिग्रहेण ॥ ९ ॥

Text 10

श्रीशुक उवाच
एवं सञ्चोदितो विप्रैर्मरुत्वानहनद्रिपुम् ।
ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम् ॥ १० ॥

Text 11

तयेन्द्र: स्मासहत्तापं निर्वृतिर्नामुमाविशत् ।
ह्रीमन्तं वाच्यतां प्राप्तं सुखयन्त्यपि नो गुणा: ॥ ११ ॥

Texts 12-13

तां ददर्शानुधावन्तीं चाण्डालीमिव रूपिणीम् ।
जरया वेपमानाङ्गीं यक्ष्मग्रस्तामसृक्पटाम् ॥ १२ ॥
विकीर्य पलितान् केशांस्तिष्ठ तिष्ठेति भाषिणीम् ।
मीनगन्ध्यसुगन्धेन कुर्वतीं मार्गदूषणम् ॥ १३ ॥

Text 14

नभो गतो दिश: सर्वा: सहस्राक्षो विशाम्पते ।
प्रागुदीचीं दिशं तूर्णं प्रविष्टो नृप मानसम् ॥ १४ ॥

Text 15

स आवसत्पुष्करनालतन्तू-
नलब्धभोगो यदिहाग्निदूत: ।
वर्षाणि साहस्रमलक्षितोऽन्त:
सञ्चिन्तयन् ब्रह्मवधाद्विमोक्षम् ॥ १५ ॥

Text 16

तावत्‍त्रिणाकं नहुष: शशास
विद्यातपोयोगबलानुभाव: ।
स सम्पदैश्वर्यमदान्धबुद्धि-
र्नीतस्तिरश्चां गतिमिन्द्रपत्‍न्या ॥ १६ ॥

Text 17

ततो गतो ब्रह्मगिरोपहूत
ऋतम्भरध्याननिवारिताघ: ।
पापस्तु दिग्देवतया हतौजा-
स्तं नाभ्यभूदवितं विष्णुपत्‍न्या ॥ १७ ॥

Text 18

तं च ब्रह्मर्षयोऽभ्येत्य हयमेधेन भारत ।
यथावद्दीक्षञ्चक्रु: पुरुषाराधनेन ह ॥ १८ ॥

Texts 19-20

अथेज्यमाने पुरुषे सर्वदेवमयात्मनि ।
अश्वमेधे महेन्द्रेण वितते ब्रह्मवादिभि: ॥ १९ ॥
स वै त्वाष्ट्रवधो भूयानपि पापचयो नृप ।
नीतस्तेनैव शून्याय नीहार इव भानुना ॥ २० ॥

Text 21

स वाजिमेधेन यथोदितेन
वितायमानेन मरीचिमिश्रै: ।
इष्ट्वाधियज्ञं पुरुषं पुराण-
मिन्द्रो महानास विधूतपाप: ॥ २१ ॥

Texts 22-23

इदं महाख्यानमशेषपाप्मनांप्रक्षालनं तीर्थपदानुकीर्तनम् । भक्त्युच्छ्रयं भक्तजनानुवर्णनंमहेन्द्रमोक्षं विजयं मरुत्वत: ॥ २२ ॥ पठेयुराख्यानमिदं सदा बुधा:श‍ृण्वन्त्यथो पर्वणि पर्वणीन्द्रियम् । धन्यं यशस्यं निखिलाघमोचनंरिपुञ्जयं स्वस्त्ययनं तथायुषम् ॥ २३ ॥

Srimad Bhagavatam | Canto 6 | Chapter 12 | Verses

0

Vṛtrāsura’s Glorious Death

Text 1

श्रीऋषिरुवाच
एवं जिहासुर्नृप देहमाजौ
मृत्युं वरं विजयान्मन्यमान: ।
शूलं प्रगृह्याभ्यपतत् सुरेन्द्रं
यथा महापुरुषं कैटभोऽप्सु ॥ १ ॥

Text 2

ततो युगान्ताग्निकठोरजिह्व-
माविध्य शूलं तरसासुरेन्द्र: ।
क्षिप्त्वा महेन्द्राय विनद्य वीरो
हतोऽसि पापेति रुषा जगाद ॥ २ ॥

Text 3

ख आपतत्तद्विचलद्ग्रहोल्कव-
न्निरीक्ष्य दुष्प्रेक्ष्यमजातविक्लव: ।
वज्रेण वज्री शतपर्वणाच्छिनद्
भुजं च तस्योरगराजभोगम् ॥ ३ ॥

Text 4

छिन्नैकबाहु: परिघेण वृत्र:
संरब्ध आसाद्य गृहीतवज्रम् ।
हनौ तताडेन्द्रमथामरेभं
वज्रं च हस्तान्न्यपतन्मघोन: ॥ ४ ॥

Text 5

वृत्रस्य कर्मातिमहाद्भ‍ुतं तत्
सुरासुराश्चारणसिद्धसङ्घा: ।
अपूजयंस्तत् पुरुहूतसङ्कटं
निरीक्ष्य हा हेति विचुक्रुशुर्भृशम् ॥ ५ ॥

Text 6

इन्द्रो न वज्रं जगृहे विलज्जित-
श्‍च्युतं स्वहस्तादरिसन्निधौ पुन: ।
तमाह वृत्रो हर आत्तवज्रो
जहि स्वशत्रुं न विषादकाल: ॥ ६ ॥

Text 7

युयुत्सतां कुत्रचिदाततायिनां
जय: सदैकत्र न वै परात्मनाम् ।
विनैकमुत्पत्तिलयस्थितीश्वरं
सर्वज्ञमाद्यं पुरुषं सनातनम् ॥ ७ ॥

Text 8

लोका: सपाला यस्येमे श्वसन्ति विवशा वशे ।
द्विजा इव शिचा बद्धा: स काल इह कारणम् ॥ ८ ॥

Text 9

ओज: सहो बलं प्राणममृतं मृत्युमेव च ।
तमज्ञाय जनो हेतुमात्मानं मन्यते जडम् ॥ ९ ॥

Text 10

यथा दारुमयी नारी यथा पत्रमयो मृग: ।
एवं भूतानि मघवन्नीशतन्त्राणि विद्धि भो: ॥ १० ॥

Text 11

पुरुष: प्रकृतिर्व्यक्तमात्मा भूतेन्द्रियाशया: ।
शक्नुवन्त्यस्य सर्गादौ न विना यदनुग्रहात् ॥ ११ ॥

Text 12

अविद्वानेवमात्मानं मन्यतेऽनीशमीश्वरम् ।
भूतै: सृजति भूतानि ग्रसते तानि तै: स्वयम् ॥ १२ ॥

Text 13

आयु: श्री: कीर्तिरैश्वर्यमाशिष: पुरुषस्य या: ।
भवन्त्येव हि तत्काले यथानिच्छोर्विपर्यया: ॥ १३ ॥

Text 14

तस्मादकीर्तियशसोर्जयापजययोरपि ।
सम: स्यात्सुखदु:खाभ्यां मृत्युजीवितयोस्तथा ॥ १४ ॥

Text 15

सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणा: ।
तत्र साक्षिणमात्मानं यो वेद स न बध्यते ॥ १५ ॥

Text 16

पश्य मां निर्जितं शत्रु वृक्णायुधभुजं मृधे ।
घटमानं यथाशक्ति तव प्राणजिहीर्षया ॥ १६ ॥

Text 17

प्राणग्लहोऽयं समर इष्वक्षो वाहनासन: ।
अत्र न ज्ञायतेऽमुष्य जयोऽमुष्य पराजय: ॥ १७ ॥

Text 18

श्रीशुक उवाच
इन्द्रो वृत्रवच: श्रुत्वा गतालीकमपूजयत् ।
गृहीतवज्र: प्रहसंस्तमाह गतविस्मय: ॥ १८ ॥

Text 19

इन्द्र उवाच
अहो दानव सिद्धोऽसि यस्य ते मतिरीद‍ृशी ।
भक्त: सर्वात्मनात्मानं सुहृदं जगदीश्वरम् ॥ १९ ॥

Text 20

भवानतार्षीन्मायां वै वैष्णवीं जनमोहिनीम् ।
यद् विहायासुरं भावं महापुरुषतां गत: ॥ २० ॥

Text 21

खल्विदं महदाश्चर्यं यद् रज:प्रकृतेस्तव ।
वासुदेवे भगवति सत्त्वात्मनि दृढा मति: ॥ २१ ॥

Text 22

यस्य भक्तिर्भगवति हरौ नि:श्रेयसेश्वरे ।
विक्रीडतोऽमृताम्भोधौ किं क्षुद्रै: खातकोदकै: ॥ २२ ॥

Text 23

श्रीशुक उवाच
इति ब्रुवाणावन्योन्यं धर्मजिज्ञासया नृप ।
युयुधाते महावीर्याविन्द्रवृत्रौ युधाम्पती ॥ २३ ॥

Text 24

आविध्य परिघं वृत्र: कार्ष्णायसमरिन्दम: ।
इन्द्राय प्राहिणोद् घोरं वामहस्तेन मारिष ॥ २४ ॥

Text 25

स तु वृत्रस्य परिघं करं च करभोपमम् ।
चिच्छेद युगपद्देवो वज्रेण शतपर्वणा ॥ २५ ॥

Text 26

दोर्भ्यामुत्कृत्तमूलाभ्यां बभौ रक्तस्रवोऽसुर: ।
छिन्नपक्षो यथा गोत्र: खाद्भ्रष्टो वज्रिणा हत: ॥ २६ ॥

Texts 27-29

महाप्राणो महावीर्यो महासर्प इव द्विपम् ।
कृत्वाधरां हनुं भूमौ दैत्यो दिव्युत्तरां हनुम् ।
नभोगम्भीरवक्त्रेण लेलिहोल्बणजिह्वया ॥ २७ ॥
दंष्ट्राभि: कालकल्पाभिर्ग्रसन्निव जगत्‍त्रयम् ।
अतिमात्रमहाकाय आक्षिपंस्तरसा गिरीन् ॥ २८ ॥
गिरिराट् पादचारीव पद्भ्यां निर्जरयन् महीम् ।
जग्रास स समासाद्य वज्रिणं सहवाहनम् ॥ २९ ॥

Text 30

वृत्रग्रस्तं तमालोक्य सप्रजापतय: सुरा: ।
हा कष्टमिति निर्विण्णाश्चुक्रुशु: समहर्षय: ॥ ३० ॥

Text 31

निगीर्णोऽप्यसुरेन्द्रेण न ममारोदरं गत: ।
महापुरुषसन्नद्धो योगमायाबलेन च ॥ ३१ ॥

Text 32

भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य बलभिद् विभु: ।
उच्चकर्त शिर: शत्रोर्गिरिश‍ृङ्गमिवौजसा ॥ ३२ ॥

Text 33

वज्रस्तु तत्कन्धरमाशुवेग:
कृन्तन् समन्तात् परिवर्तमान: ।
न्यपातयत् तावदहर्गणेन
यो ज्योतिषामयने वार्त्रहत्ये ॥ ३३ ॥

Text 34

तदा च खे दुन्दुभयो विनेदु-
र्गन्धर्वसिद्धा: समहर्षिसङ्घा: ।
वार्त्रघ्नलिङ्गैस्तमभिष्टुवाना
मन्त्रैर्मुदा कुसुमैरभ्यवर्षन् ॥ ३४ ॥

Text 35

वृत्रस्य देहान्निष्क्रान्तमात्मज्योतिररिन्दम ।
पश्यतां सर्वदेवानामलोकं समपद्यत ॥ ३५ ॥

Srimad Bhagavatam | Canto 6 | Chapter 11 | Verses

0

The Transcendental Qualities of Vṛtrāsura

Text 1

श्रीशुक उवाच
त एवं शंसतो धर्मं वच: पत्युरचेतस: ।
नैवागृह्णन्त सम्भ्रान्ता: पलायनपरा नृप ॥ १ ॥

Texts 2-3

विशीर्यमाणां पृतनामासुरीमसुरर्षभ: ।
कालानुकूलैस्त्रिदशै: काल्यमानामनाथवत् ॥ २ ॥
द‍ृष्ट्वातप्यत सङ्‌कुद्ध इन्द्रशत्रुरमर्षित: ।
तान् निवार्यौजसा राजन् निर्भर्त्स्येदमुवाच ह ॥ ३ ॥

Text 4

किं व उच्चरितैर्मातुर्धावद्भ‍ि: पृष्ठतो हतै: ।
न हि भीतवध: श्लाघ्यो न स्वर्ग्य: शूरमानिनाम् ॥ ४ ॥

Text 5

यदि व: प्रधने श्रद्धा सारं वा क्षुल्लका हृदि ।
अग्रे तिष्ठत मात्रं मे न चेद ग्राम्यसुखे स्पृहा ॥ ५ ॥

Text 6

एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून् ।
व्यनदत् सुमहाप्राणो येन लोका विचेतस: ॥ ६ ॥

Text 7

तेन देवगणा: सर्वे वृत्रविस्फोटनेन वै ।
निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हता: ॥ ७ ॥

Text 8

ममर्द पद्‌भ्यां सुरसैन्यमातुरं
निमीलिताक्षं रणरङ्गदुर्मद: ।
गां कम्पयन्नुद्यतशूल ओजसा
नालं वनं यूथपतिर्यथोन्मद: ॥ ८ ॥

Text 9

विलोक्य तं वज्रधरोऽत्यमर्षित:
स्वशत्रवेऽभिद्रवते महागदाम् ।
चिक्षेप तामापततीं सुदु:सहां
जग्राह वामेन करेण लीलया ॥ ९ ॥

Text 10

स इन्द्रशत्रु: कुपितो भृशं तया
महेन्द्रवाहं गदयोरुविक्रम: ।
जघान कुम्भस्थल उन्नदन्मृधे
तत्कर्म सर्वे समपूजयन्नृप ॥ १० ॥

Text 11

ऐरावतो वृत्रगदाभिमृष्टो
विघूर्णितोऽद्रि: कुलिशाहतो यथा ।
अपासरद् भिन्नमुख: सहेन्द्रो
मुञ्चन्नसृक् सप्तधनुर्भृशार्त: ॥ ११ ॥

Text 12

न सन्नवाहाय विषण्णचेतसे
प्रायुङ्क्त भूय: स गदां महात्मा ।
इन्द्रोऽमृतस्यन्दिकराभिमर्श
वीतव्यथक्षतवाहोऽवतस्थे ॥ १२ ॥

Text 13

स तं नृपेन्द्राहवकाम्यया रिपुं
वज्रायुधं भ्रातृहणं विलोक्य ।
स्मरंश्च तत्कर्म नृशंसमंह:
शोकेन मोहेन हसञ्जगाद ॥ १३ ॥

Text 14

श्रीवृत्र उवाच
दिष्ट्या भवान् मे समवस्थितो रिपु-
र्यो ब्रह्महा गुरुहा भ्रातृहा च ।
दिष्ट्यानृणोऽद्याहमसत्तम त्वया
मच्छूलनिर्भिन्नद‍ृषद्‌धृदाचिरात् ॥ १४ ॥

Text 15

यो नोऽग्रजस्यात्मविदो द्विजाते-
र्गुरोरपापस्य च दीक्षितस्य ।
विश्रभ्य खड्‍गेन शिरांस्यवृश्चत्
पशोरिवाकरुण: स्वर्गकाम: ॥ १५ ॥

Text 16

श्रीह्रीदयाकीर्तिभिरुज्झितं त्वां
स्वकर्मणा पुरुषादैश्च गर्ह्यम् ।
कृच्छ्रेण मच्छूलविभिन्नदेह-
मस्पृष्टवह्निं समदन्ति गृध्रा: ॥ १६ ॥

Text 17

अन्येऽनु ये त्वेह नृशंसमज्ञा
यदुद्यतास्त्रा: प्रहरन्ति मह्यम् ।
तैर्भूतनाथान् सगणान् निशात
त्रिशूलनिर्भिन्नगलैर्यजामि ॥ १७ ॥

Text 18

अथो हरे मे कुलिशेन वीर
हर्ता प्रमथ्यैव शिरो यदीह ।
तत्रानृणो भूतबलिं विधाय
मनस्विनां पादरज: प्रपत्स्ये ॥ १८ ॥

Text 19

सुरेश कस्मान्न हिनोषि वज्रं
पुर: स्थिते वैरिणि मय्यमोघम् ।
मा संशयिष्ठा न गदेव वज्र:
स्यान्निष्फल: कृपणार्थेव याच्ञा ॥ १९ ॥

Text 20

नन्वेष वज्रस्तव शक्र तेजसा
हरेर्दधीचेस्तपसा च तेजित: ।
तेनैव शत्रुं जहि विष्णुयन्त्रितो
यतो हरिर्विजय: श्रीर्गुणास्तत: ॥ २० ॥

Text 21

अहं समाधाय मनो यथाह न:
सङ्कर्षणस्तच्चरणारविन्दे ।
त्वद्वज्ररंहोलुलितग्राम्यपाशो
गतिं मुनेर्याम्यपविद्धलोक: ॥ २१ ॥

Text 22

पुंसां किलैकान्तधियां स्वकानां
या: सम्पदो दिवि भूमौ रसायाम् ।
न राति यद्‌द्वेष उद्वेग आधि-
र्मद: कलिर्व्यसनं सम्प्रयास: ॥ २२ ॥

Text 23

त्रैवर्गिकायासविघातमस्मत्-
पतिर्विधत्ते पुरुषस्य शक्र ।
ततोऽनुमेयो भगवत्प्रसादो
यो दुर्लभोऽकिञ्चनगोचरोऽन्यै: ॥ २३ ॥

Text 24

अहं हरे तव पादैकमूल-
दासानुदासो भवितास्मि भूय: ।
मन: स्मरेतासुपतेर्गुणांस्ते
गृणीत वाक् कर्म करोतु काय: ॥ २४ ॥

Text 25

न नाकपृष्ठं न च पारमेष्ठ्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा
समञ्जस त्वा विरहय्य काङ्‌क्षे ॥ २५ ॥

Text 26

अजातपक्षा इव मातरं खगा:
स्तन्यं यथा वत्सतरा: क्षुधार्ता: ।
प्रियं प्रियेव व्युषितं विषण्णा
मनोऽरविन्दाक्ष दिद‍ृक्षते त्वाम् ॥ २६ ॥

Text 27

ममोत्तमश्लोकजनेषु सख्यं
संसारचक्रे भ्रमत: स्वकर्मभि: ।
त्वन्माययात्मात्मजदारगेहे-
ष्वासक्तचित्तस्य न नाथ भूयात् ॥ २७ ॥

Srimad Bhagavatam | Canto 6 | Chapter 19 | Verses

0

Performing the Puṁsavana Ritualistic Ceremony

Text 1

śrī-rājovāca
vrataṁ puṁsavanaṁ brahman
bhavatā yad udīritam
tasya veditum icchāmi
yena viṣṇuḥ prasīdati

Texts 2-3

śrī-śuka uvāca
śukle mārgaśire pakṣe
yoṣid bhartur anujñayā
ārabheta vratam idaṁ
sārva-kāmikam āditaḥ

niśamya marutāṁ janma
brāhmaṇān anumantrya ca
snātvā śukla-datī śukle
vasītālaṅkṛtāmbare
pūjayet prātarāśāt prāg
bhagavantaṁ śriyā saha

Text 4

alaṁ te nirapekṣāya
pūrṇa-kāma namo ’stu te
mahāvibhūti-pataye
namaḥ sakala-siddhaye

Text 5

yathā tvaṁ kṛpayā bhūtyā
tejasā mahimaujasā
juṣṭa īśa guṇaiḥ sarvais
tato ’si bhagavān prabhuḥ

Text 6

viṣṇu-patni mahā-māye
mahāpuruṣa-lakṣaṇe
prīyethā me mahā-bhāge
loka-mātar namo ’stu te

Text 7

oṁ namo bhagavate mahā-puruṣāya mahānubhāvāya mahāvibhūti-pataye saha mahā-vibhūtibhir balim upaharāmīti; anenāhar-ahar mantreṇa viṣṇor āvāhanārghya-pādyopasparśana-snāna-vāsa-upavīta-vibhūṣaṇa-gandha-puṣpa-dhūpa-dīpopahārādy-upacārān susamā-hitopāharet.

Text 8

haviḥ-śeṣaṁ ca juhuyād
anale dvādaśāhutī
oṁ namo bhagavate mahā-puruṣāya
mahāvibhūti-pataye svāheti

Text 9

śriyaṁ viṣṇuṁ ca varadāv
āśiṣāṁ prabhavāv ubhau
bhaktyā sampūjayen nityaṁ
yadīcchet sarva-sampadaḥ

Text 10

praṇamed daṇḍavad bhūmau
bhakti-prahveṇa cetasā
daśa-vāraṁ japen mantraṁ
tataḥ stotram udīrayet

Text 11

yuvāṁ tu viśvasya vibhū
jagataḥ kāraṇaṁ param
iyaṁ hi prakṛtiḥ sūkṣmā
māyā-śaktir duratyayā

Text 12

tasyā adhīśvaraḥ sākṣāt
tvam eva puruṣaḥ paraḥ
tvaṁ sarva-yajña ijyeyaṁ
kriyeyaṁ phala-bhug bhavān

Text 13

guṇa-vyaktir iyaṁ devī
vyañjako guṇa-bhug bhavān
tvaṁ hi sarva-śarīry ātmā
śrīḥ śarīrendriyāśayāḥ
nāma-rūpe bhagavatī
pratyayas tvam apāśrayaḥ

Text 14

yathā yuvāṁ tri-lokasya
varadau parameṣṭhinau
tathā ma uttamaśloka
santu satyā mahāśiṣaḥ

Text 15

ity abhiṣṭūya varadaṁ
śrīnivāsaṁ śriyā saha
tan niḥsāryopaharaṇaṁ
dattvācamanam arcayet

Text 16

tataḥ stuvīta stotreṇa
bhakti-prahveṇa cetasā
yajñocchiṣṭam avaghrāya
punar abhyarcayed dharim

Text 17

patiṁ ca parayā bhaktyā
mahāpuruṣa-cetasā
priyais tais tair upanamet
prema-śīlaḥ svayaṁ patiḥ
bibhṛyāt sarva-karmāṇi
patnyā uccāvacāni ca

Text 18

kṛtam ekatareṇāpi
dam-patyor ubhayor api
patnyāṁ kuryād anarhāyāṁ
patir etat samāhitaḥ

Texts 19-20

viṣṇor vratam idaṁ bibhran
na vihanyāt kathañcana
viprān striyo vīravatīḥ
srag-gandha-bali-maṇḍanaiḥ

arced ahar-ahar bhaktyā
devaṁ niyamam āsthitā
udvāsya devaṁ sve dhāmni
tan-niveditam agrataḥ
adyād ātma-viśuddhy-arthaṁ
sarva-kāma-samṛddhaye

Text 21

etena pūjā-vidhinā
māsān dvādaśa hāyanam
nītvāthoparamet sādhvī
kārtike carame ’hani

Text 22

śvo-bhūte ’pa upaspṛśya
kṛṣṇam abhyarcya pūrvavat
payaḥ-śṛtena juhuyāc
caruṇā saha sarpiṣā
pāka-yajña-vidhānena
dvādaśaivāhutīḥ patiḥ

Text 23

āśiṣaḥ śirasādāya
dvijaiḥ prītaiḥ samīritāḥ
praṇamya śirasā bhaktyā
bhuñjīta tad-anujñayā

Text 24

ācāryam agrataḥ kṛtvā
vāg-yataḥ saha bandhubhiḥ
dadyāt patnyai caroḥ śeṣaṁ
suprajāstvaṁ susaubhagam

Text 25

etac caritvā vidhivad vrataṁ vibhor
abhīpsitārthaṁ labhate pumān iha
strī caitad āsthāya labheta saubhagaṁ
śriyaṁ prajāṁ jīva-patiṁ yaśo gṛham

Texts 26-28

kanyā ca vindeta samagra-lakṣaṇaṁ
patiṁ tv avīrā hata-kilbiṣāṁ gatim
mṛta-prajā jīva-sutā dhaneśvarī
sudurbhagā subhagā rūpam agryam

vinded virūpā virujā vimucyate
ya āmayāvīndriya-kalya-deham
etat paṭhann abhyudaye ca karmaṇy
ananta-tṛptiḥ pitṛ-devatānām

tuṣṭāḥ prayacchanti samasta-kāmān
homāvasāne huta-bhuk śrī-hariś ca
rājan mahan marutāṁ janma puṇyaṁ
diter vrataṁ cābhihitaṁ mahat te

Srimad Bhagavatam | Canto 6 | Chapter 18 | Verses

0

Diti Vows to Kill King Indra

Text 1

śrī-śuka uvāca
pṛśnis tu patnī savituḥ
sāvitrīṁ vyāhṛtiṁ trayīm
agnihotraṁ paśuṁ somaṁ
cāturmāsyaṁ mahā-makhān

Text 2

siddhir bhagasya bhāryāṅga
mahimānaṁ vibhuṁ prabhum
āśiṣaṁ ca varārohāṁ
kanyāṁ prāsūta suvratām

Texts 3-4

dhātuḥ kuhūḥ sinīvālī
rākā cānumatis tathā
sāyaṁ darśam atha prātaḥ
pūrṇamāsam anukramāt

agnīn purīṣyān ādhatta
kriyāyāṁ samanantaraḥ
carṣaṇī varuṇasyāsīd
yasyāṁ jāto bhṛguḥ punaḥ

Text 5

vālmīkiś ca mahā-yogī
valmīkād abhavat kila
agastyaś ca vasiṣṭhaś ca
mitrā-varuṇayor ṛṣī

Text 6

retaḥ siṣicatuḥ kumbhe
urvaśyāḥ sannidhau drutam
revatyāṁ mitra utsargam
ariṣṭaṁ pippalaṁ vyadhāt

Text 7

paulomyām indra ādhatta
trīn putrān iti naḥ śrutam
jayantam ṛṣabhaṁ tāta
tṛtīyaṁ mīḍhuṣaṁ prabhuḥ

Text 8

urukramasya devasya
māyā-vāmana-rūpiṇaḥ
kīrtau patnyāṁ bṛhacchlokas
tasyāsan saubhagādayaḥ

Text 9

tat-karma-guṇa-vīryāṇi
kāśyapasya mahātmanaḥ
paścād vakṣyāmahe ’dityāṁ
yathaivāvatatāra ha

Text 10

atha kaśyapa-dāyādān
daiteyān kīrtayāmi te
yatra bhāgavataḥ śrīmān
prahrādo balir eva ca

Text 11

diter dvāv eva dāyādau
daitya-dānava-vanditau
hiraṇyakaśipur nāma
hiraṇyākṣaś ca kīrtitau

Texts 12-13

hiraṇyakaśipor bhāryā
kayādhur nāma dānavī
jambhasya tanayā sā tu
suṣuve caturaḥ sutān

saṁhrādaṁ prāg anuhrādaṁ
hrādaṁ prahrādam eva ca
tat-svasā siṁhikā nāma
rāhuṁ vipracito ’grahīt

Text 14

śiro ’harad yasya hariś
cakreṇa pibato ’mṛtam
saṁhrādasya kṛtir bhāryā-
sūta pañcajanaṁ tataḥ

Text 15

hrādasya dhamanir bhāryā-
sūta vātāpim ilvalam
yo ’gastyāya tv atithaye
pece vātāpim ilvalaḥ

Text 16

anuhrādasya sūryāyāṁ
bāṣkalo mahiṣas tathā
virocanas tu prāhrādir
devyāṁ tasyābhavad baliḥ

Text 17

bāṇa-jyeṣṭhaṁ putra-śatam
aśanāyāṁ tato ’bhavat
tasyānubhāvaṁ suślokyaṁ
paścād evābhidhāsyate

Text 18

bāṇa ārādhya giriśaṁ
lebhe tad-gaṇa-mukhyatām
yat-pārśve bhagavān āste
hy adyāpi pura-pālakaḥ

Text 19

marutaś ca diteḥ putrāś
catvāriṁśan navādhikāḥ
ta āsann aprajāḥ sarve
nītā indreṇa sātmatām

Text 20

śrī-rājovāca
kathaṁ ta āsuraṁ bhāvam
apohyautpattikaṁ guro
indreṇa prāpitāḥ sātmyaṁ
kiṁ tat sādhu kṛtaṁ hi taiḥ

Text 21

ime śraddadhate brahmann
ṛṣayo hi mayā saha
parijñānāya bhagavaṁs
tan no vyākhyātum arhasi

Text 22

śrī-sūta uvāca
tad viṣṇurātasya sa bādarāyaṇir
vaco niśamyādṛtam alpam arthavat
sabhājayan san nibhṛtena cetasā
jagāda satrāyaṇa sarva-darśanaḥ

Text 23

śrī-śuka uvāca
hata-putrā ditiḥ śakra-
pārṣṇi-grāheṇa viṣṇunā
manyunā śoka-dīptena
jvalantī paryacintayat

Text 24

kadā nu bhrātṛ-hantāram
indriyārāmam ulbaṇam
aklinna-hṛdayaṁ pāpaṁ
ghātayitvā śaye sukham

Text 25

kṛmi-viḍ-bhasma-saṁjñāsīd
yasyeśābhihitasya ca
bhūta-dhruk tat-kṛte svārthaṁ
kiṁ veda nirayo yataḥ

Text 26

āśāsānasya tasyedaṁ
dhruvam unnaddha-cetasaḥ
mada-śoṣaka indrasya
bhūyād yena suto hi me

Texts 27-28

iti bhāvena sā bhartur
ācacārāsakṛt priyam
śuśrūṣayānurāgeṇa
praśrayeṇa damena ca

bhaktyā paramayā rājan
manojñair valgu-bhāṣitaiḥ
mano jagrāha bhāva-jñā
sasmitāpāṅga-vīkṣaṇaiḥ

Text 29

evaṁ striyā jaḍībhūto
vidvān api manojñayā
bāḍham ity āha vivaśo
na tac citraṁ hi yoṣiti

Text 30

vilokyaikānta-bhūtāni
bhūtāny ādau prajāpatiḥ
striyaṁ cakre sva-dehārdhaṁ
yayā puṁsāṁ matir hṛtā

Text 31

evaṁ śuśrūṣitas tāta
bhagavān kaśyapaḥ striyā
prahasya parama-prīto
ditim āhābhinandya ca

Text 32

śrī-kaśyapa uvāca
varaṁ varaya vāmoru
prītas te ’ham anindite
striyā bhartari suprīte
kaḥ kāma iha cāgamaḥ

Texts 33-34

patir eva hi nārīṇāṁ
daivataṁ paramaṁ smṛtam
mānasaḥ sarva-bhūtānāṁ
vāsudevaḥ śriyaḥ patiḥ

sa eva devatā-liṅgair
nāma-rūpa-vikalpitaiḥ
ijyate bhagavān pumbhiḥ
strībhiś ca pati-rūpa-dhṛk

Text 35

tasmāt pati-vratā nāryaḥ
śreyas-kāmāḥ sumadhyame
yajante ’nanya-bhāvena
patim ātmānam īśvaram

Text 36

so ’haṁ tvayārcito bhadre
īdṛg-bhāvena bhaktitaḥ
taṁ te sampādaye kāmam
asatīnāṁ sudurlabham

Text 37

ditir uvāca
varado yadi me brahman
putram indra-haṇaṁ vṛṇe
amṛtyuṁ mṛta-putrāhaṁ
yena me ghātitau sutau

Text 38

niśamya tad-vaco vipro
vimanāḥ paryatapyata
aho adharmaḥ sumahān
adya me samupasthitaḥ

Text 39

aho arthendriyārāmo
yoṣin-mayyeha māyayā
gṛhīta-cetāḥ kṛpaṇaḥ
patiṣye narake dhruvam

Text 40

ko ’tikramo ’nuvartantyāḥ
svabhāvam iha yoṣitaḥ
dhiṅ māṁ batābudhaṁ svārthe
yad ahaṁ tv ajitendriyaḥ

Text 41

śarat-padmotsavaṁ vaktraṁ
vacaś ca śravaṇāmṛtam
hṛdayaṁ kṣura-dhārābhaṁ
strīṇāṁ ko veda ceṣṭitam

Text 42

na hi kaścit priyaḥ strīṇām
añjasā svāśiṣātmanām
patiṁ putraṁ bhrātaraṁ vā
ghnanty arthe ghātayanti ca

Text 43

pratiśrutaṁ dadāmīti
vacas tan na mṛṣā bhavet
vadhaṁ nārhati cendro ’pi
tatredam upakalpate

Text 44

iti sañcintya bhagavān
mārīcaḥ kurunandana
uvāca kiñcit kupita
ātmānaṁ ca vigarhayan

Text 45

śrī-kaśyapa uvāca
putras te bhavitā bhadre
indra-hādeva-bāndhavaḥ
saṁvatsaraṁ vratam idaṁ
yady añjo dhārayiṣyasi

Text 46

ditir uvāca
dhārayiṣye vrataṁ brahman
brūhi kāryāṇi yāni me
yāni ceha niṣiddhāni
na vrataṁ ghnanti yāny uta

Text 47

śrī-kaśyapa uvāca
na hiṁsyād bhūta-jātāni
na śapen nānṛtaṁ vadet
na chindyān nakha-romāṇi
na spṛśed yad amaṅgalam

Text 48

nāpsu snāyān na kupyeta
na sambhāṣeta durjanaiḥ
na vasītādhauta-vāsaḥ
srajaṁ ca vidhṛtāṁ kvacit

Text 49

nocchiṣṭaṁ caṇḍikānnaṁ ca
sāmiṣaṁ vṛṣalāhṛtam
bhuñjītodakyayā dṛṣṭaṁ
piben nāñjalinā tv apaḥ

Text 50

nocchiṣṭāspṛṣṭa-salilā
sandhyāyāṁ mukta-mūrdhajā
anarcitāsaṁyata-vāk
nāsaṁvītā bahiś caret

Text 51

nādhauta-pādāprayatā
nārdra-pādā udak-śirāḥ
śayīta nāparāṅ nānyair
na nagnā na ca sandhyayoḥ

Text 52

dhauta-vāsā śucir nityaṁ
sarva-maṅgala-saṁyutā
pūjayet prātarāśāt prāg
go-viprāñ śriyam acyutam

Text 53

striyo vīravatīś cārcet
srag-gandha-bali-maṇḍanaiḥ
patiṁ cārcyopatiṣṭheta
dhyāyet koṣṭha-gataṁ ca tam

Text 54

sāṁvatsaraṁ puṁsavanaṁ
vratam etad aviplutam
dhārayiṣyasi cet tubhyaṁ
śakra-hā bhavitā sutaḥ

Text 55

bāḍham ity abhyupetyātha
ditī rājan mahā-manāḥ
kaśyapād garbham ādhatta
vrataṁ cāñjo dadhāra sā

Text 56

mātṛ-ṣvasur abhiprāyam
indra ājñāya mānada
śuśrūṣaṇenāśrama-sthāṁ
ditiṁ paryacarat kaviḥ

Text 57

nityaṁ vanāt sumanasaḥ
phala-mūla-samit-kuśān
patrāṅkura-mṛdo ’paś ca
kāle kāla upāharat

Text 58

evaṁ tasyā vrata-sthāyā
vrata-cchidraṁ harir nṛpa
prepsuḥ paryacaraj jihmo
mṛga-heva mṛgākṛtiḥ

Text 59

nādhyagacchad vrata-cchidraṁ
tat-paro ’tha mahī-pate
cintāṁ tīvrāṁ gataḥ śakraḥ
kena me syāc chivaṁ tv iha

Text 60

ekadā sā tu sandhyāyām
ucchiṣṭā vrata-karśitā
aspṛṣṭa-vāry-adhautāṅghriḥ
suṣvāpa vidhi-mohitā

Text 61

labdhvā tad-antaraṁ śakro
nidrāpahṛta-cetasaḥ
diteḥ praviṣṭa udaraṁ
yogeśo yoga-māyayā

Text 62

cakarta saptadhā garbhaṁ
vajreṇa kanaka-prabham
rudantaṁ saptadhaikaikaṁ
mā rodīr iti tān punaḥ

Text 63

tam ūcuḥ pāṭyamānās te
sarve prāñjalayo nṛpa
kiṁ na indra jighāṁsasi
bhrātaro marutas tava

Text 64

mā bhaiṣṭa bhrātaro mahyaṁ
yūyam ity āha kauśikaḥ
ananya-bhāvān pārṣadān
ātmano marutāṁ gaṇān

Text 65

na mamāra diter garbhaḥ
śrīnivāsānukampayā
bahudhā kuliśa-kṣuṇṇo
drauṇy-astreṇa yathā bhavān

Texts 66-67

sakṛd iṣṭvādi-puruṣaṁ
puruṣo yāti sāmyatām
saṁvatsaraṁ kiñcid ūnaṁ
dityā yad dharir arcitaḥ

sajūr indreṇa pañcāśad
devās te maruto ’bhavan
vyapohya mātṛ-doṣaṁ te
hariṇā soma-pāḥ kṛtāḥ

Text 68

ditir utthāya dadṛśe
kumārān anala-prabhān
indreṇa sahitān devī
paryatuṣyad aninditā

Text 69

athendram āha tātāham
ādityānāṁ bhayāvaham
apatyam icchanty acaraṁ
vratam etat suduṣkaram

Text 70

ekaḥ saṅkalpitaḥ putraḥ
sapta saptābhavan katham
yadi te viditaṁ putra
satyaṁ kathaya mā mṛṣā

Text 71

indra uvāca
amba te ’haṁ vyavasitam
upadhāryāgato ’ntikam
labdhāntaro ’cchidaṁ garbham
artha-buddhir na dharma-dṛk

Text 72

kṛtto me saptadhā garbha
āsan sapta kumārakāḥ
te ’pi caikaikaśo vṛkṇāḥ
saptadhā nāpi mamrire

Text 73

tatas tat paramāścaryaṁ
vīkṣya vyavasitaṁ mayā
mahāpuruṣa-pūjāyāḥ
siddhiḥ kāpy ānuṣaṅgiṇī

Text 74

ārādhanaṁ bhagavata
īhamānā nirāśiṣaḥ
ye tu necchanty api paraṁ
te svārtha-kuśalāḥ smṛtāḥ

Text 75

ārādhyātma-pradaṁ devaṁ
svātmānaṁ jagad-īśvaram
ko vṛṇīta guṇa-sparśaṁ
budhaḥ syān narake ’pi yat

Text 76

tad idaṁ mama daurjanyaṁ
bāliśasya mahīyasi
kṣantum arhasi mātas tvaṁ
diṣṭyā garbho mṛtotthitaḥ

Text 77

śrī-śuka uvāca
indras tayābhyanujñātaḥ
śuddha-bhāvena tuṣṭayā
marudbhiḥ saha tāṁ natvā
jagāma tri-divaṁ prabhuḥ

Text 78

evaṁ te sarvam ākhyātaṁ
yan māṁ tvaṁ paripṛcchasi
maṅgalaṁ marutāṁ janma
kiṁ bhūyaḥ kathayāmi te

Stay Connected

16,985FansLike
12,500FollowersFollow
61,453SubscribersSubscribe