Srimad Bhagavatam | Canto 9 | Chapter 12 | Verses

0
2

The Dynasty of Kuśa, the Son of Lord Rāmacandra

Text 1

श्रीशुक उवाच
कुशस्य चातिथिस्तस्मान्निषधस्तत्सुतो नभ: ।
पुण्डरीकोऽथ तत्पुत्र: क्षेमधन्वाभवत्तत: ॥ १ ॥

Text 2

देवानीकस्ततोऽनीह: पारियात्रोऽथ तत्सुत: ।
ततो बलस्थलस्तस्माद् वज्रनाभोऽर्कसम्भव: ॥ २ ॥

Texts 3-4

सगणस्तत्सुतस्तस्माद् विधृतिश्चाभवत् सुत: ।
ततो हिरण्यनाभोऽभूद् योगाचार्यस्तु जैमिने: ॥ ३ ॥
शिष्य: कौशल्य आध्यात्मं याज्ञवल्‍क्योऽध्यगाद् यत: ।
योगं महोदयम् ऋषिर्हृदयग्रन्थिभेदकम् ॥ ४ ॥

Text 5

पुष्पो हिरण्यनाभस्य ध्रुवसन्धिस्ततोऽभवत् ।
सुदर्शनोऽथाग्निवर्ण: शीघ्रस्तस्य मरु: सुत: ॥ ५ ॥

Text 6

सोऽसावास्ते योगसिद्ध: कलापग्राममास्थित: ।
कलेरन्ते सूर्यवंशं नष्टं भावयिता पुन: ॥ ६ ॥

Text 7

तस्मात् प्रसुश्रुतस्तस्य सन्धिस्तस्याप्यमर्षण: ।
महस्वांस्तत्सुतस्तस्माद् विश्वबाहुरजायत ॥ ७ ॥

Text 8

तत: प्रसेनजित् तस्मात् तक्षको भविता पुन: ।
ततो बृहद्ब‍लो यस्तु पित्रा ते समरे हत: ॥ ८ ॥

Text 9

एते हीक्ष्वाकुभूपाला अतीता: श‍ृण्वनागतान् ।
बृहद्ब‍लस्य भविता पुत्रो नाम्ना बृहद्रण: ॥ ९ ॥

Text 10

ऊरुक्रिय: सुतस्तस्य वत्सवृद्धो भविष्यति ।
प्रतिव्योमस्ततो भानुर्दिवाको वाहिनीपति: ॥ १० ॥

Text 11

सहदेवस्ततो वीरो बृहदश्वोऽथ भानुमान् ।
प्रतीकाश्वो भानुमत: सुप्रतीकोऽथ तत्सुत: ॥ ११ ॥

Text 12

भविता मरुदेवोऽथ सुनक्षत्रोऽथ पुष्कर: ।
तस्यान्तरिक्षस्तत्पुत्र: सुतपास्तदमित्रजित् ॥ १२ ॥

Text 13

बृहद्राजस्तु तस्यापि बर्हिस्तस्मात् कृतञ्जय: ।
रणञ्जयस्तस्य सुत: सञ्जयो भविता तत: ॥ १३ ॥

Text 14

तस्माच्छाक्योऽथ शुद्धोदो लाङ्गलस्तत्सुत: स्मृत: ।
तत: प्रसेनजित् तस्मात् क्षुद्रको भविता तत: ॥ १४ ॥

Text 15

रणको भविता तस्मात् सुरथस्तनयस्तत: ।
सुमित्रो नाम निष्ठान्त एते बार्हद्ब‍लान्वया: ॥ १५ ॥

Text 16

इक्ष्वाकूणामयं वंश: सुमित्रान्तो भविष्यति ।
यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥ १६ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here