Srimad Bhagavatam | Canto 8 | Chapter 21 | Verses

0
1

Bali Mahārāja Arrested by the Lord

Text 1

श्रीशुक उवाच
सत्यं समीक्ष्याब्जभवो नखेन्दुभि-
र्हतस्वधामद्युतिरावृतोऽभ्यगात् ।
मरीचिमिश्रा ऋषयो बृहद्‌व्रता:
सनन्दनाद्या नरदेव योगिन: ॥ १ ॥

Texts 2-3

वेदोपवेदा नियमा यमान्विता-
स्तर्केतिहासाङ्गपुराणसंहिता: ।
ये चापरे योगसमीरदीपित-
ज्ञानाग्निना रन्धितकर्मकल्मषा: ॥ २ ॥
ववन्दिरे यत्स्मरणानुभावत:
स्वायम्भुवं धाम गता अकर्मकम् ।
अथाङ्‍‍घ्रये प्रोन्नमिताय विष्णो-
रुपाहरत् पद्मभवोऽर्हणोदकम् ।
समर्च्य भक्त्याभ्यगृणाच्छुचिश्रवा
यन्नाभिपङ्केरुहसम्भव: स्वयम् ॥ ३ ॥

Text 4

धातु: कमण्डलुजलं तदुरुक्रमस्य
पादावनेजनपवित्रतया नरेन्द्र ।
स्वर्धुन्यभून्नभसि सा पतती निमार्ष्टि
लोकत्रयं भगवतो विशदेव कीर्ति: ॥ ४ ॥

Text 5

ब्रह्मादयो लोकनाथा: स्वनाथाय समाद‍ृता: ।
सानुगा बलिमाजह्रु: सङ्‌क्षिप्तात्मविभूतये ॥ ५ ॥

Texts 6-7

तोयै: समर्हणै: स्रग्भिर्दिव्यगन्धानुलेपनै: ।
धूपैर्दीपै: सुरभिभिर्लाजाक्षतफलाङ्कुरै: ॥ ६ ॥
स्तवनैर्जयशब्दैश्च तद्वीर्यमहिमाङ्कितै: ।
नृत्यवादित्रगीतैश्च शङ्खदुन्दुभिनि:स्वनै: ॥ ७ ॥

Text 8

जाम्बवानृक्षराजस्तु भेरीशब्दैर्मनोजव: ।
विजयं दिक्षु सर्वासु महोत्सवमघोषयत् ॥ ८ ॥

Text 9

महीं सर्वां हृतां द‍ृष्ट्वा त्रिपदव्याजयाच्ञया ।
ऊचु: स्वभर्तुरसुरा दीक्षितस्यात्यमर्षिता: ॥ ९ ॥

Text 10

न वायं ब्रह्मबन्धुर्विष्णुर्मायाविनां वर: ।
द्विजरूपप्रतिच्छन्नो देवकार्यं चिकीर्षति ॥ १० ॥

Text 11

अनेन याचमानेन शत्रुणा वटुरूपिणा ।
सर्वस्वं नो हृतं भर्तुर्न्यस्तदण्डस्य बर्हिषि ॥ ११ ॥

Text 12

सत्यव्रतस्य सततं दीक्षितस्य विशेषत: ।
नानृतं भाषितुं शक्यं ब्रह्मण्यस्य दयावत: ॥ १२ ॥

Text 13

तस्मादस्य वधो धर्मो भर्तु: शुश्रूषणं च न: ।
इत्यायुधानि जगृहुर्बलेरनुचरासुरा: ॥ १३ ॥

Text 14

ते सर्वे वामनं हन्तुं शूलपट्टिशपाणय: ।
अनिच्छन्तो बले राजन् प्राद्रवञ्जातमन्यव: ॥ १४ ॥

Text 15

तानभिद्रवतो द‍ृष्ट्वा दितिजानीकपान् नृप ।
प्रहस्यानुचरा विष्णो: प्रत्यषेधन्नुदायुधा: ॥ १५ ॥

Texts 16-17

नन्द: सुनन्दोऽथ जयो विजय: प्रबलो बल: ।
कुमुद: कुमुदाक्षश्च विष्वक्सेन: पतत्‍त्रिराट् ॥ १६ ॥
जयन्त: श्रुतदेवश्च पुष्पदन्तोऽथ सात्वत: ।
सर्वे नागायुतप्राणाश्चमूं ते जघ्नुरासुरीम् ॥ १७ ॥

Text 18

हन्यमानान् स्वकान् द‍ृष्ट्वा पुरुषानुचरैर्बलि: ।
वारयामास संरब्धान् काव्यशापमनुस्मरन् ॥ १८ ॥

Text 19

हे विप्रचित्ते हे राहो हे नेमे श्रूयतां वच: ।
मा युध्यत निवर्तध्वं न न: कालोऽयमर्थकृत् ॥ १९ ॥

Text 20

य: प्रभु: सर्वभूतानां सुखदु:खोपपत्तये ।
तं नातिवर्तितुं दैत्या: पौरुषैरीश्वर: पुमान् ॥ २० ॥

Text 21

यो नो भवाय प्रागासीदभवाय दिवौकसाम् ।
स एव भगवानद्य वर्तते तद्विपर्ययम् ॥ २१ ॥

Text 22

बलेन सचिवैर्बुद्ध्या दुर्गैर्मन्त्रौषधादिभि: ।
सामादिभिरुपायैश्च कालं नात्येति वै जन: ॥ २२ ॥

Text 23

भवद्भ‍िर्निर्जिता ह्येते बहुशोऽनुचरा हरे: ।
दैवेनर्द्धैस्त एवाद्य युधि जित्वा नदन्ति न: ॥ २३ ॥

Text 24

एतान् वयं विजेष्यामो यदि दैवं प्रसीदति ।
तस्मात् कालं प्रतीक्षध्वं यो नोऽर्थत्वाय कल्पते ॥ २४ ॥

Text 25

श्रीशुक उवाच
पत्युर्निगदितं श्रुत्वा दैत्यदानवयूथपा: ।
रसां निर्विविशू राजन् विष्णुपार्षदताडिता: ॥ २५ ॥

Text 26

अथ तार्क्ष्यसुतो ज्ञात्वा विराट्‌प्रभुचिकीर्षितम् ।
बबन्ध वारुणै: पाशैर्बलिं सूत्येऽहनि क्रतौ ॥ २६ ॥

Text 27

हाहाकारो महानासीद् रोदस्यो: सर्वतोदिशम् ।
निगृह्यमाणेऽसुरपतौ विष्णुना प्रभविष्णुना ॥ २७ ॥

Text 28

तं बद्धं वारुणै: पाशैर्भगवानाह वामन: ।
नष्टश्रियं स्थिरप्रज्ञमुदारयशसं नृप ॥ २८ ॥

Text 29

पदानि त्रीणि दत्तानि भूमेर्मह्यं त्वयासुर ।
द्वाभ्यां क्रान्ता मही सर्वा तृतीयमुपकल्पय ॥ २९ ॥

Text 30

यावत् तपत्यसौ गोभिर्यावदिन्दु: सहोडुभि: ।
यावद् वर्षति पर्जन्यस्तावती भूरियं तव ॥ ३० ॥

Text 31

पदैकेन मयाक्रान्तो भूर्लोक: खं दिशस्तनो: ।
स्वर्लोकस्ते द्वितीयेन पश्यतस्ते स्वमात्मना ॥ ३१ ॥

Text 32

प्रतिश्रुतमदातुस्ते निरये वास इष्यते ।
विश त्वं निरयं तस्माद् गुरुणा चानुमोदित: ॥ ३२ ॥

Text 33

वृथा मनोरथस्तस्य दूर: स्वर्ग: पतत्यध: ।
प्रतिश्रुतस्यादानेन योऽर्थिनं विप्रलम्भते ॥ ३३ ॥

Text 34

विप्रलब्धो ददामीति त्वयाहं चाढ्यमानिना ।
तद् व्यलीकफलं भुङ्‌क्ष्व निरयं कतिचित् समा: ॥ ३४ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here